चान्द्रव्याकरणम् (प्रथमखण्डम्)

  • All Post
  • Blog
  • कातन्त्रव्याकरणम्
  • चान्द्रव्याकरणम् (द्वितीयखण्डम्)
  • चान्द्रव्याकरणम् (प्रथमखण्डम्)
  • शाकटायनव्याकरणम्

July 18, 2025/

प्राग यतष्ठक् ॥१॥  प्राग् यत्सशब्दनाद् [ ७६ ] येऽर्थास्तत्र ठग् वेदितव्यम् ।  तेन जितं जयति दीव्यति खनति ॥२॥  तृतीयान्ताज्जितादिष्वर्येषु ठग् भवति । अक्षैर्जितम् आक्षिकम् । शालाकिकम्। अक्षैर्जयति दीव्यति वा आक्षिकः | शालाकिकः । खनित्रेण खनति खानित्रिकः | कौद्दालिकः |  देवदत्तेन जितम्, अङ्गुल्या खनतीति न भवति तदर्थाप्रतीते ।  संस्कृते ॥ ३ ॥  ततीयान्तात् संस्कृतेऽर्थे...

July 18, 2025/

तत्र जाते प्रावृषष्ठम् ॥ १॥  प्रावृट्शब्दात् सप्तम्यन्ताज्जाते ठञ् भवति । प्रावृषि जातः  प्रावृषिकः । कथ स्रुघ्ने जात स्रौघ्नः, राष्ट्रियः, पारावारीणः इत्यादि । शेषे [ ३1२1१] इत्येव सिद्धम् । यद्येवमनियमात् ‘तत्रास्ते तत्र शेते’ इत्यपि सर्वत्राणादयो घादयश्च प्राप्नुवन्ति । न तेभ्यस्तदर्थाप्रतीते । बाधकबाधनार्थं तु जाताद्यनुक्रमणम् । कथं शारदका दर्भाः, गारदका मुद्गा इति...

July 18, 2025/

शेषे ।। १ ।। उक्तादन्यस्मिन्नर्थे यथाविहितमणादयो भवन्ति । चक्षुषा गृह्यते रूपं चाक्षुपम् । श्रावणः शब्दः । रासनो रस । स्पार्शनः स्पर्शः । दृषदि पिष्टाः सक्तवः दार्षदाः । चतुर्दश्यां दृश्यते रक्ष चातुर्दशम् । उदूखलेषु क्षुण्णा यवाः औदूखलाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् ।  राष्ट्राद घः ॥ २ ॥ राष्ट्राच्छेषे घो भवति । राष्ट्रियः । ...

July 18, 2025/

तेन रक्तं रागात् ॥ १॥ तेनेति तृतीयान्ताद् रक्तमित्येतस्मिन्नर्थेऽण् भवति यत्तत् तृतीयान्तं रागवाचि चेत् तद्भवति । कषायेण रक्तं वस्त्र काषायम् । कौङ्कुमम् । रागादिति किम् ? देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति ? तद्गुणाध्यारोपात् ।  लाक्षारोचनाट् ठक् ॥२॥ एताभ्यां तेन रक्तमित्यर्थे ठग् वा भवति । लाक्षिकम्...

July 18, 2025/

प्राग्जितादण् ॥१॥ प्राग् जितसशब्दनाद् [ ३०४१ २] येऽर्थास्तेष्वर्थेष्वण् भवति ।  औपगवः । वेत्यनुवृत्तेः । उपग्वपत्यम् ।  दित्यदित्यादित्ययमाणयः ॥२॥ दित्यादिभ्यः प्राग् जिताण् ण्यो भवति । दैत्यः, आदित्यः, आदित्यः, याम्यः । कथं दैतेयः ? ण्यन्ताड् ढग् भविष्यति ।  पत्युरश्वाद्यादेः ||३||  अश्वादिभ्यो योऽन्यः शब्दस्तदादेः पतिशब्दात् प्राग् जिताण्, ण्यो भवति । बार्हस्पत्यः । अनश्वाद्यादेरिति किम्...

July 18, 2025/

स्त्रियाम् ॥ १ ॥ अयमधिकारः |  ऋनो ङीप् ॥ २ ॥ ऋकारान्तान् नकारान्ताच्च स्त्रियां ङीब् भवति । कर्त्री । दण्डिनी । ङकारो ड्यो ह्रस्व [५१२१४२ ] इति चिह्नार्थः । पकारः स्वरार्थः । स्त्रियामित्येव । कर्ता, दण्डी । पञ्च सप्तेति स्त्रीत्वाभावान न भवति । स्वसेति विनापि ङीपा स्त्रीत्वाभिधानान् न भविष्यति ।...

July 18, 2025/

सुप् सुपैकार्थम् ॥१॥  सुबन्त सुबन्तेन सहैकार्थं भवतीत्येतदधिकृतं वेदितव्यम् । स च पृथगर्थानामेकार्थीभावः समास इत्युच्यते ।  असंख्यं विभक्तिसमीपाभावख्यातिपश्चाद्यथायुगपत्सम्प त्साकल्यार्थे ||२||  असख्यं सुबन्तं विभक्त्यादीनामर्थे वर्तमानं सुबन्तेन सहैकार्थं भवति । तत्र विभक्त्यर्थे तावत्, स्त्रीषु कथा प्रवृत्ता अधिस्त्रि । समीपे कुम्भस्य समीपम्, उपकुम्भम् । अभावः सम्बन्धिभेदाद् बहुविधः । तत्र ऋद्धाभावे, विगता ऋद्धिर्यवनानाम्, दुर्यवनम् ।...

July 18, 2025/

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भस्ङसिभ्याम्भस्ङसोसाम्–  ङ्यस्सुप् ||१|| एषां त्रयं त्रयमेकद्विबहुषु भवति । एते च सामर्थ्यादेकत्वादिमदर्थवाचिनः शब्दात् परे भवन्ति । अत एव च क्रियार्थान् न भवन्ति, क्रियायां असत्त्वभूतायाम् एकत्वादिभिः सह सम्बन्धाभावात् तव्यादिभिश्च बाधितत्वात् । तिङन्तान्न भवन्ति, तिङ्भिरेवैकत्वादीनामुक्तत्वात् । शेषेभ्यो भवन्ति । दृषत् दृषदौ दृषदः, दृषदम् दृषदी, दृषदः, दृषदा, दृषद्भ्याम्, दृषद्भिः, दृषदे, दृषद्भ्याम्, दृषद्भ्यः, दृषदः, दुषद्भ्याम्...

July 18, 2025/

लस्तिप्तस्झिसिप्थस्थ मिप्वस्मस्तातांझथासाथांध्वमिद वहिमहिङ् ॥ १ ॥ लडादीनां लकारस्य स्थाने तिबादय आदेशा भवन्ति । पकारः पित्कार्यार्थः । । टकार इटोत् [ ११४१३८] ति चिह्नार्थः । डकारस्तिडिति प्रत्याहारार्थः। पचति, पचतः, पचन्ति, पचसि, पचथ,पचथ, पचामि, पचावः, पचामः । पचते, पचेते, पचन्ते, पचसे, पचेथे, पचध्वे, पचे, पचावहे, पचामहे ।  अत आत इत् || २...

July 18, 2025/

उणादयः ॥ १ ॥  क्रियार्थात् परे बहुलमुणादयो भवन्ति । केचिद्वर्तमाने । कारुः, वायुः । केचिद् भूते वृत्तं तदिति वर्त्म । भसितं तदिति भस्म । केचिद्भविष्यति । ग्रामगमी, ग्रामागामी ।  भविष्यति लट् ॥२॥  भविष्यदर्थे वर्तमानात् क्रियार्थालुट् परो भवति । करिष्यति । अनद्यतने लुट ||३|| अविद्यमानाद्यतने भविष्यदर्थे वर्तमानात् क्रियार्थालुट् परो भवति ।...

About Us

Luckily friends do ashamed to do suppose. Tried meant mr smile so. Exquisite behaviour as to middleton perfectly. Chicken no wishing waiting am. Say concerns dwelling graceful.

Services

Most Recent Posts

  • All Post
  • Blog
  • कातन्त्रव्याकरणम्
  • चान्द्रव्याकरणम् (द्वितीयखण्डम्)
  • चान्द्रव्याकरणम् (प्रथमखण्डम्)
  • शाकटायनव्याकरणम्

Company Info

She wholly fat who window extent either formal. Removing welcomed.

© 2025 All rights reserved.