अथ द्वितीय: संदर्भ: तिङन्तप्रकरणम्
सर्वकर्मविनिर्मुक्तं मुक्तिलक्ष्याश्च वल्लभम् ।
चन्द्रप्रभजिनं त्वा तिङन्तः कथ्यते मया ॥ १ ॥
अथ त्यादयो विभक्तयः प्रदर्श्यन्ते ॥ १ ॥
ताश्च दशविधा भवन्ति । कास्ताः ? वर्तमाना । सप्तमी । पचमी । ह्यस्तनी । अद्यतनी । परोक्षा । अस्तनी । आशी: । भविष्यन्ती । क्रियातिपत्तिरिति ।
वर्त्तमाना ॥ २ ॥
ति तस् अन्ति । सि थस् थ। मि वस् मस् । ते आते अन्ते । से आथे ध्वे । ए वहे महे इमानि अष्टादश वचनानि वर्तमानसंज्ञानि भवन्ति ।
सप्तमी ॥ ३ ॥
यात् यातां युस्, यास् यातं यात, यां याव याम। ईत ईयातां ईरन् । ईथास् ईयाथां ईध्वं, ईय ईवहि ईमहि- इमानि अष्टादश वचनानि सप्तमीसंज्ञानि भवन्ति ॥
पञ्चमी ॥ ४ ॥
तु तां अन्तु, हि तं त, आनि आव आम, तां आतां अन्तां, स्व आथां ध्वं; ऐ आवहै, आमहै -इमानि वचनानि पञ्चमीसंज्ञानि भवन्ति ॥
ह्यस्तनी ॥ ५ ॥
दि तां अन, सि तं त, अम् व म, व आतां अन्त, थास आथा ध्वं इट वहि महि—इमानि वचनानि ह्यस्तनीसंज्ञानि भवन्ति ॥
एवमेवाद्यतनी ॥ ६ ॥
एतान्येवाद्यतनेऽर्थेऽभिधेयेऽद्यतनीसंज्ञानि भवन्ति ॥
परोक्षा ॥ ७ ॥
अट् अतुस् उस् थल अधुस् अ अट् व म, ए आते इरे से आथे ध्वे, ए वहे महे- इमानि वचनानि परोक्षसंज्ञानि भवन्ति ॥
श्वस्तनी ॥ ८ ॥
ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्, ता तारौ तारस्, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे इमानि वचनानि श्वस्तनीसंज्ञानि भवन्ति ॥
आशीः ॥ ९ ॥
यात् यास्तां यासुस्, यास् यास्तं यास्त, यासं यास्व यास्म, सीष्ट सीयास्तां सीरन्, सीष्ठास् सीयास्थां सीध्वं, सीय सीवहि सीमहि — इमानि वचनानि आशी:संज्ञानि भवन्ति ॥
स्यसहितानि त्यादीनि भविष्यन्ती ॥ १० ॥
स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस् स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्ये स्वावहे स्यामहे- स्वेन सहितानि त्यादीनि वचनानि भविष्यन्तीसंज्ञानि भवन्ति ॥
द्यादीनि क्रियातिपत्तिः ॥ ११ ॥
स्यत् स्यतां स्यन्, स्वस् स्वतं स्वत, स्यं स्याव स्याम, स्थत स्येतां वन्त, स्थथास् स्येथां स्यध्वं, स्ये स्यावहि स्यामहि-स्येन सहितानि द्यादीनि क्रियातिपत्तिसंज्ञानि भवन्ति ॥
षडाद्याः सार्वधातुकम् ॥
षण्णां विभक्तीनां आद्याश्चतस्त्रो विभक्तयः सार्वधातुकसंज्ञा भवन्ति ॥
अथ परस्मैपदानि ।। १३ ॥
सर्वविभक्तीनां आदौ नववचनानि परस्मैपदसंज्ञानि भवन्ति । उत्तरत्र नवग्रहणात्परग्रहणाच्चेह पूर्वा नवेति अवगन्तव्यं । ति तस् अन्ति । सिथस् थ । मि वस् मस् । एवं सर्वविभक्तिषु ।
नव पराण्यात्मने ॥ १४ ॥
सर्वविभक्तीनां पराणि नववचनानि आत्मनेपदसंज्ञानि भवन्ति । ते आते अन्ते । से आधे ध्वे । ए वहे महे । एवं सर्वविभक्तिषु ।
त्रीणि त्रीणि प्रथममध्यमोत्तमाः ।। १५ ।।
परस्मैपदानामात्मनेपदानां च त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमपुरुषसंज्ञानि भवन्ति । ति तस् अन्ति इति प्रथमपुरुषः । सि वस् थ इति मध्यमपुरुषः । मि वस् मस् इत्युत्तमपुरुषः । ते आते अन्ते इति प्रथमपुरुषः । से आधे ध्वे इति मध्यमपुरुषः । ए वहे महे इत्युत्तमपुरुषः । एवं सर्वविभक्तिषु । एता विभक्तयो धातोर्योज्यन्ते । को धातु: ?
क्रियाभावो धातुः । १६ ॥
यः शब्दः क्रियां भावयति संपादयति स धातुसंज्ञो भवति । इति ध्वादीनां धातुसंज्ञायां । भू सत्तायां । भू इति स्थिते ।
प्रत्ययः परः ॥ १७ ॥
प्रतीयते अनेनार्थः स प्रत्ययः । विकसितार्थः इत्यर्थः । प्रकृतेः परः प्रत्ययो भवति । इति सर्वत्यादिप्रसङ्गः ।
काले ॥ १८ ॥
वर्तमानातीत भविष्यल्लक्षणः कालः । काल इत्यधिकृतं भवति ।
सम्प्रति वर्तमाना ॥ १९ ॥
प्रारब्धापरिसमाप्तक्रियालक्षणः सम्प्रतीत्युच्यते । सम्प्रतिकाले वर्तमाना विभक्तिर्भवति । तत्रापि युगपदष्टादशंवचनप्राप्ती–
शेषात्कर्त्तरि परस्मैपदम् ॥ २० ॥
शेषाद्वक्ष्यमाणकारणरहिताद्धातोः कर्तरि परस्मैपदं भवति । तत्रापि
नाम्नि प्रयुज्यमानेऽपि प्रथमः ॥ २१ ॥
नाम्नि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि प्रथमपुरुषो भवति । तत्राप्येकत्वविवक्षायां प्रथमैकवचनं ति ।
अन् विकरणः कर्त्तरि ॥ २२ ॥
धातोर्विकरणसंज्ञकोऽन् भवति कर्त्तरि विहिते सार्वधातुके परे ।
अनि च विकरणे ॥ २३ ॥
नाम्यन्तस्य लघुनाम्युपधायाश्च गुणो भवत्यन्विकरणे परे । को गुणः ?
अर् पूर्वे द्वे च सन्ध्यक्षरे गुणः ॥ २४ ॥
र्यूणां (ऋवर्णवर्णवर्णानां) अर् पूर्वे द्वे च सन्ध्यक्षरे गुणो भवति । इत्युवर्णस्य ओकारो गुणः । सन्धिः । स भवति । तथैव द्वित्वविवक्षायां प्रथमपुरुषद्विवचनं तस् । भू तस् इति स्थिते-
रसकारयोर्विसृष्टः ॥ २५ ॥
पदान्ते रेफसकारयोर्विसृष्टो भवति । तौ भवतः । तथैव बहुत्व- विवक्षायां प्रथमपुरुषबहुवचनं अन्ति । भू अन्ति इति स्थिते-
असन्ध्यक्षरयोरस्य तौ तल्लोप ॥ २६ ॥
इह धातुप्रस्तावे अकारसन्ध्यक्षरयोः परतोऽकारस्य अकारसन्ध्यक्षरौ भवतस्तत्परयोर्लोपो भवति । ते भवन्ति ।
युष्मदि मध्यमः ॥ २७ ॥
युष्मदि प्रयुज्यमानेऽप्रयुज्यमानेऽपि मध्यमः पुरुषो भवति । त्वं भवसि । युवां भवथः यूयं भवथ ।
अस्मद्युत्तमः ॥ २८ ॥
अस्मदि प्रयुज्यमानेऽप्रयुज्यमानेऽपि उत्तमः पुरुषो भवति ।
अस्य वमोदीर्घः ॥ २९ ॥
अस्य दीर्घो भवति वमोः परतः । अहं भवामि । आवां भवावः । वयं भवामः । अप्रयुज्यमानेऽपि । भवति, भवतः भवन्ति । भवसि भवथः भवथ । भवामि, भवावः भवामः । भावकर्मविवक्षायां
आत्मनेपदानि भावकर्मणोः ॥ ३० ॥
धातोरात्मनेपदानि भवन्ति भावकर्मणोरर्थयोः । अकर्मकाद्धातोर्भावे, सकर्मकात्कर्मणि च ।
लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । स्वप्नक्रीडारुचिदीप्त्यर्था धातव एते कर्मविमुक्ताः ॥ १ ॥ क्रियापदं कर्तृपदेन युक्तं व्यपेक्षते यत्र किमित्यपेक्षां ।
सकर्मकं तं सुधियो वदन्ति शेषस्ततो धातुरकर्मकः स्यात् ॥ २ ॥
को भावः ?
सन्मात्रं भावलिङ्गं स्यादसंपृक्तं तु कारकैः ।
धात्वर्थ: केवलः शुद्धो: भाव इत्यभिधीयते ॥ १ ॥
तत्र प्रथमैकवचनमेव । किं कर्म ? क्रियाविषयं कर्म । मध्यमोत्तमपुरुषावपि ।
सार्वधातुके यण् ॥ ३१ ॥
धातोर्यण् भवति भावकर्मणोर्विहिते सार्वधातुके परे ।
नाम्यन्तयोर्धातुविकरणयोर्गुणः ॥ ३२ ॥
नाम्यन्तयोर्धातुविकरणयोर्गुणो भवति । इति गुणे प्राप्ते-
न णकारानुबन्धचेक्रीयतयोः ॥ ३३ ॥
नाम्यन्तानां नाम्युपधानां च गुणो न भवति णकारानुबन्धचेक्रीयतयोः परतः । भावे- भूयते ।
कर्मणि–
प्रादय उपसर्गाः क्रियायोगे || ३४ ॥
प्रादयः क्रियायोगे उपसर्गा भवन्ति । के ते प्रादयः ?
प्रपराऽपसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः ।
उपआङितिविंशतिरेष सखे उपसर्गगणः कथितः कविभिः ।। १ ।।
अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति । अनुभूयते ।
आते आथे इति च ॥ ३५ ॥
अकारात्परयोराते आथे इत्येतयोरादिरिर्भवति । अनुभूयेते । अनुभूयन्ते । अनुभूयसे अनुभूयेथे अनुभूयध्वे । अनुभूये अनुभूयावहे अनुभूयामहे । एवं सर्वधातूनां । एधङ् वृद्धौ ।
कर्त्तरि रुचादिङानुबन्धेभ्यः ॥ ३६ ॥
रुचादिभ्यो ङानुबन्धेभ्यश्च कर्त्तर्यात्मनेपदानि भवन्ति । एधते एधेते एधन्ते । एधसे एधेथे एधध्बे । एधे एधावहे एधामहे । भावे – एध्यते । डुपचषुञ् पाके । अकारः समाहारानुबन्धे ।
इन्ञ्यजादेरुभयम् ॥ ३७ ॥
इन्नन्तात् ञानुबन्धाद्यजादेश्च कर्तर्युभयपदानि भवन्ति । पचति पचतः पचन्ति । पचसि पचथः पचथ । पचामि पचाव: पचामः । पचते पचेते पचन्ते । पचसे पचेथे पचध्वे । पचे पचावहे पचामहे । भावे- पच्यते । अविवक्षितकर्मकोऽकर्मको भवति । कर्मणि- पच्यते पच्येते पच्यन्ते । पच्यसे । पच्येथे पच्यध्वे । पच्ये पच्यावहे पच्यामहे ।
स्मेनातीते ॥ ३८ ॥
स्मेन संयोगेऽतीते काले वर्तमाना विभक्तिर्भवति । भवति स्म । एधते स्म । पचति स्म । पचते स्म इत्यादि ।
विध्यादिषु सप्तमी च ॥ ३९ ॥
विध्यादिषु वर्त्तमानाद्धातोः सप्तमी पञ्चमी च भवति । के विध्यादयः ? विधिनिमन्त्रणामन्त्रणाध्येषणसम्प्रश्नको विधिः । विधिः कर्त्तव्योपदेशः । अथवा अज्ञातज्ञापको विधिः । देवान् यजेत । यजतु यजतां । होमं जुहुयात् । जुहोतु । यत्र क्रियमाणे प्रत्यवायोऽस्ति तन्निमन्त्रणं । इह श्राद्धे न भुञ्जीत । न भुङ्क्तां भवान् । यत्र क्रियमाणे प्रत्यवायो नास्ति तदामन्त्रणं । इहासीत । आस्तां भवान् । सत्कारपूर्वको व्यापारोऽध्येषणं । यूयं माणवकमध्यापयेध्वम् । कर्तव्यालोचना सम्प्रश्नः । अहो किं व्याकरणमधियीय उत वेदमधियीय । अहो कि नाटकमध्ययै आहोस्विदलङ्कारमध्ययै । याच्ञा प्रार्थना । भिक्षा मे दध्याः । क्षेत्र मे दधीथाः । कन्यां मे देहि । मम सुवर्णं दत्स्व । आदिशब्दात्प्रेषणविज्ञापनाज्ञापनादयः । क्षीणं प्रति कर्मप्रतिपादनं प्रेषणं । गृहीतवेतनस्त्वं । कर्माणि कुर्याः । कुर्वीथाः । कुरु। कुरुष्व। अधिकं प्रति स्वकार्यसूचनं विज्ञापनं । अहो देव इदं कार्यमवधारयेः । अवधारय । सर्वेषां स्वस्वकार्यनियम- प्रतिपादनमाज्ञापनं । विप्रा एवं प्रवर्तेरन् प्रवर्तन्ताम् । यतय एवं चरेयुः ।
याशब्दस्य च सप्तम्याः ॥ ४० ॥
अकारात्परस्य सप्तमीयाशब्दस्य इर्भवति । भवेत् भवेताम् ।
याम्युसोरियमियुसौ ॥ ४१ ॥
अकारात्परयोर्याम्युसोरियमियुसौ भवतः । भवेयुः । भवे भवेतं भवेत । भवेयं भवेव भवेम । भावे- भूयेत। कर्मणि । अनुभूयेत अनुभूयेयातां अनुभूयेरन् । एथेत ऐधेयातां एधेरन् । एधेथाः एधेयाथां एधेध्वं । एधेय एधेवहि एधेमहि । भावे – एध्येत । पचेत् पचेतां पचेयुः । पचेः पचेतं पचेत । पचेयं पचेव पचेम । पचेत पचेयातां पचेरन् । भावे – पच्येत । कर्मणि — पच्येत । पच्येयातां पच्येरन् ।
पञ्चम्यनुमतौ ।। ४२ ।।
अनुज्ञानमनुमतिः । तदुपाधिकेर्थे पञ्चमी भवति ।
समर्थनाशिषोश्च ॥ ४३ ॥
क्रियासु प्रोत्साहः समर्थना । इष्टस्यार्थस्य आशंसनं आशीः । समर्थनाशिषोरर्थयोश्च पञ्चमी भवति । भवतु । आशिषि । आशिषि । तुह्योस्तातण् वा वक्तव्यः । भवतात् भवतां भवन्तु ।
हेरकारादहन्तेः ॥ ४४ ॥
अकारात्परस्य हेर्लोपो भवति अहन्तेः । भव, भवतात् भवताद् भवतं भवत । भवानि भवाव भवाम भावे – भूयतां । कर्मणि अनुभूयतां ।
आदातामाथामादेरिः ॥ ४५ ॥
अकारात्परयोः आतां आथाम् । इत्येतयोरादिरिर्भवति । अनुभूयेतां । अनुभूयन्तां । अनुभूयस्व, अनुभूयेथां, अनुभूयध्वं । अनुभूयै, अनुभूयावह, अनुभूयामहै। एथतां एधेता एधन्तां । एधस्व एधेथां एथध्वं । एधै एधावहै एधामहै। भावे- एध्यतां । कर्मणि– एध्यतां एध्येतां एध्यन्तां । पचतु पचतात् पचताद् पचतां पचन्तु | पचतां पचेतां पचन्तां । भावे- पच्यतां । कर्मणि- पच्यतां पच्येतां पच्यन्तां ।
भूतकरणवत्यश्च ॥ ४६ ॥
भूतमतीतं करणं क्रिया यस्य तद्भूतकरणं साधनं तद्विद्यते यासां ता भूतकरणवत्यः । भूतकरणवत्यो ह्यस्तन्यद्यतनीक्रियातिपत्तयोऽतीते काले भवन्ति । ह्यो भवः कालो ह्यस्तनः तत्र ह्यस्तनी भवति ।
अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु ।। ४७ ।
धातोरादावडागमो भवति ह्यस्तन्यद्यतनीक्रियातिपत्तिषु परतः ।
पदान्ते धुटां प्रथमः ॥ २५ ॥
पदान्ते वर्तमानानां धुटो अन्तरतमः प्रथमो भवति । अभवत् अभवतां अभवन् । अभवः अभवतं अभवत | अभवं अभवाव अभवाम। भावे- अभूयत । कर्मणि- अन्वभूयत अन्वभूयेतां अन्वभूयन्त । अड् धात्वादिसूत्रबाधनार्थमुत्तरयोगः ।
स्वरादीनां वृद्धिरादेः ||४८ ॥
स्वरादीनां धातूनां आदिस्वरस्य वृद्धिर्भवति ह्यस्तन्यादिषु परतः । ऐधत ऐधेतां ऐधन्त । ऐधथा ऐधेथां ऐधध्वं । ऐधे ऐधावहि ऐधामहि । भावे ऐध्यत । कर्मणि ऐध्यत ऐध्येतां । ऐध्यन्त । अपचत् अपचतां अपचन् । अपचत अपचेतां अपचन्त । भावे – अपच्यत । कर्मणि अपच्यत अपच्येता अपच्यन्त ।
मास्मयोगे ह्यस्तनी च ॥ ४९ ॥
मास्मयोगे ह्यस्तन्यद्यतनी च भवति ।
न मामास्मयोगे ॥ ५० ॥
मायोगे मास्मयोगे च धातोरादावडागमो न भवति । मास्म भवत् मास्म भवतां मास्मभवन् ॥ मास्म एधत मास्म एधेतां मास्म एधन्त । मास्म पचत् मास्म पचतां मास्म पचन् ॥ मास्म पचत मास्म पचेतां मास्म पचन्त । भावे -मास्म भूयत । कर्मणि मास्मानुभूयत मास्मानुभूयतां मास्मानुभूयन्त । श्रु श्रवणे ।
श्रुवः शृ च ॥ ५१ ॥
श्रवो धातोर्नुप्रत्ययो भवति सार्वधातुके परे शृ आदेशश्च । शृणोति शृणुतः शृण्वन्ति । अन्विकरणः कर्त्तरीति निर्देशात् द्वित्वबहुत्वयोश्च परस्मै सप्तम्यां च हि वचने च गुणो न भवति । उत्तरत्र प्रदर्श्यते । शृणुयात् शृणुयातां शृणुयुः । शृणोतु । न णकारानुबन्धचेक्रीयितयेति श्रुवस्तातण्प्रत्यये गुणनिषेधः । शृणुतात् शृणुतां शृण्वन्तु ।
नोश्च विकरणादसंयोगात् ॥ ५२ ॥
असंयोगात् पूर्वानुविकरणात् परस्य हेर्लोपो भवति । शृणु शृणुतात् शृणुतं शृणुत। शृणवानि शृणवाव शृणवाम अशृणोत् अशृणुतां अशृण्वन् । कर्मणि—
नाम्यन्तानां यणायियिन्नाशीश्चिव्वेक्रीयितेषु ये दीर्घः ॥ ५३ ॥ नाम्यन्तानां धातूनां दीर्घो भवति यणादिषु ये च्वौ च परे । श्रूयेत श्रूयते । श्रूयतां । अश्रूयत । इत्यादि । षिधु गत्यां । षिधू शास्त्रे माङ्गल्ये व ।
धात्वादेः षः सः ॥ ५४ ॥
धात्वादेः षस्य सो भवति । सेधति । स्थासेनयसेधतिसिचसञ्ष्विञ्जजां अडभ्यासान्तरश्चेति सस्य षत्वं । प्रतिषेधति । तत्र सेधतेर्गताविति वचनाद्गतौ न षत्वं । परिसेधति । सेधतः । सेधन्ति । सेधेत् । सेतु | असेधत् । णीङ् प्रापणे ।
णो नः ॥ ५५ ॥
धात्वादेर्णस्य नो भवति । नयति नयतः नयन्ति नयते नयेते नयन्ते । नयेत् । नयेत । नयतु । नयतां । अनयत् । अनयत । भावे- नीयते । कर्मण्येवं । स्रंस् भ्रंस् अवस्रंसने । ध्वंस् गतौ च । मनोरनुस्वारो धुटि इति नकारस्यानुस्वारः । स्रंसते स्रंसेते स्रंसन्ते । श्रंसते । ध्वंसते ।
अनिदनुबन्धानामगुणेऽनुषङ्गलोपः ॥ ५६ ॥
इदनुबन्धवर्जितानां धातूनां अनुषङ्गलोपो भवति अगुणे प्रत्यये परे कर्मणि । स्रस्यते त्रस्येते स्त्रस्यन्ते । एवं भ्रस्यते । ध्वस्यते । अत एव वर्जनादिदनुबन्धानां धातूनां नुरागमोस्ति गुणागुणे प्रत्यये परे । ग्रथि वकि कौटिल्ये । शकि शङ्कायां । ग्रन्थते । बङ्कते । शङ्कते । ग्रन्थयते ग्रन्थ्येते । शङ्कयते । शङ्कयेते शङ्कयन्ते । वयते । वङ्क्येते । वयन्ते । दुनदि समृद्धौ । नन्दति नन्दतः नन्दन्ति । नन्द्यते । वदि अभिवादनस्तुत्योः । वन्दते वन्देते वन्दन्ते । कर्मणि- वन्द्यते । दंश दंशने । षञ्ज स्वङ्गे । ष्वञ्ज परिष्वङ्गे । रञ्ज रागे ।
दंशिषञ्जिष्वञ्जिरञ्जीनामनि ॥ ५७ ॥
एतेषामनि विकरणे परेऽनुषङ्गलोपो भवति । दशति । दशेत् । दशतु । अदशत् । भावे – दश्यते । सजति । सजेत् । सजतु । असजत् । सज्यते । परिष्वजते । रजति। रजेदित्यादि ।
रञ्जेरिनि मृगरमणार्थे वा ।। ५८ ।।
मृगरमणार्थे रञ्जेरनुषङ्गलोपो वा भवति इनि परे । रजति कचित्तमन्यः प्रयुङ्क्ते । धातोश्च हेतौ इति इन् भवति । रजयति । पक्षे रञ्जयति । ष्ठिवु चिवु निरसने। क्लमु ग्लानौ । चमु छमु जमु जिमु अदने ।
ष्ठिवुक्लमाचामामनि ॥ ५९ ॥
ष्ठिवु क्लम आवम् इत्येतेषामुपधाया दीर्घो भवति । परस्मैपदेऽनि परे । क्रियायोगे प्रादय उपसर्गसंज्ञा भवन्ति । निष्ठीवति निष्ठीवतः निष्ठीवन्ति । क्लामति । भावे- क्लम्यते । आचामति । आचम्यते । आङिति किं ? चमति । विचमति । क्रमु पादविक्षेपे ।
क्रमः परस्मै ॥ ६० ॥
क्रमो दीर्घो भवति परस्मैपदे अनि परे । क्रामति । परस्मै इति किम् ?
प्रोपाभ्यामारम्भे ॥ ६१ ॥
लक्षणसूत्रे लक्षणं व्यभिचरन्त्याचार्याः । प्रोषाभ्यां परः क्रम् आरम्भेऽर्थे आत्मनेपदी भवति । प्रक्रमते । उपक्रमते । प्रक्रम्यते उपक्रम्यते । षुस्रुद्रुऋच्छगगम्लृसृपृ गतौ । इषु इच्छायां । यमु उपरमे ।
गमिष्यमां छः ॥ ६२ ॥
गम इषु यम् एषामन्त्यस्य छो भवत्यनि परे । गच्छति । इच्छति । यच्छति । गम्यते । इष्यते । यम्यते । पा पाने ।
पः पिबः ॥ ६३ ॥
पाधातोः पिबादेशो भवत्यनि परे । पिबति । दामागायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादौ चैत्याकारस्य ईकारः । पीयते । घ्रा गन्धोपादाने ।
घो जिघ्रः ॥ ६४ ॥
घ्रा-धातोर्जिघ्रादेशो भवत्यनि परे । जिघ्रति । घ्रायते । ध्मा शब्दाग्निसंयोगयोः ।
ध्मो धमः ॥६५ ।।
ध्माधातोर्धमादेशो भवत्यनि परे । धमति । घ्यामते । स्था गतिनिवृत्तौ ।
स्थस्तिष्ठः ||६६ ।।
स्थाधातोस्तिष्ठादेशो भवत्यनि परे । तिष्ठति । स्थीयते । म्ना अभ्यासे ।
म्नो मनः ॥ ६७ ॥
म्नाधातोर्मनादेशो भवत्यनि परे । मनति । म्नायते । दाण् दाने ।
दाणो यच्छः ||६८ ॥
दाण्धातोर्यच्छादेशो भवत्यनि परे । प्रयच्छति । प्रदीयते । दृशिर् प्रेक्षणे ।
दृशेः पश्यः ।। ६९ ।।
दृशेर्धातोः पश्यादेशो भवत्यनि परे । पश्यति । दृश्यते। ऋ प्रापणे। ऋ सृ गतौ ।
अर्तेः ऋच्छः ॥७० ॥
अर्ते: ऋच्छादेशो भवत्यनि परे । ऋच्छति ।
गुणोर्तिसंयोगाद्योः ॥ ७१ ॥
अर्तेः संयोगादेश्च धातोर्गुणो भवति । यकारादौ प्रत्यये परे । अर्य्यते ।
सर्त्तेर्धावः ॥७२ ||
सर्त्तेर्धावादेशो भवत्यनि परे । धावति । यणाशिषोर्य इति इकारागमः । स्त्रियते । ननु धावुगतावित्ययमपि धातुरस्ति । जवाभिधाने यथा स्यात् । तेन प्रियामनुसरति । शद्ऌ शातने ।
शदेः शीयः ॥ ७३ ॥
शदेः शीयादेशो भवत्यनि परे।
शदेरनि ॥७४॥
शदेरनि परे आत्मनेपदं भवति । यदि धातुः रुचादिर्भवत्यनि परे । शीयते शीयेते शीयन्ते । कर्मणि-शद्यते । पक्षे कश्चित्तमन्यः प्रयुङ्क्ते शादयति । षद् विशरणगत्यवसादनेषु ।
सदेः सीदः ॥७५ ॥
सदेः सीदादेशो भवत्यनि परे । सीदति सीदतः सीदन्ति । इति भ्वादयः ॥
अथ अदादिगणः
अद् प्सा भक्षणे। पूर्ववत् वर्तमानादीनां ।
अदादेर्लुग्विकरणस्य ||७६ ॥
अदादेर्गणाद्विकरणस्य लुग्भवति ।
अघोषेष्वशिटां प्रथमः ॥ ७७ ॥
अघोषेषु प्रत्ययेषु परे अशिटां धुटां प्रथमो भवति । अत्ति अत्तः अदन्ति । असि अत्थः अथ । अधि अद्वः अद्मः । शीङ् स्वप्ने ।
शीङः सार्वधातुके ॥ ७८ ॥
शीङो गुणो भवति सार्वधातुके परे । शेते शयाते ।
आत्मने चानकारात् ॥७९॥
अनकाराच्चात्मनेपदे अन्तेर्नकारस्य लोपो भवति ।
शेतेरिरन्तेरादिः ॥ ८० ॥
शेतेः परस्य अन्तेरादिरिर्भवति । शेरते । शेषे शयाथे शेध्वे । शये शेवहे शेमहे । ब्रूञ् व्यक्तायां वाचि ।
ब्रुव ईड्वचनादिः ||८१ ॥
ब्रुव ईड् भवति वचनादिर्भूत्वा व्यञ्जनादौ गुणिनि सार्वधातुके परे । नाम्यन्तयोरिति गुणः । ब्रवीति ।
द्वित्वबहुत्वयोश्च परस्मै ॥ ८२ ॥
सर्वेषां धातूनां विकरणानां च सार्वधातुके परस्मैपदे पञ्चम्युत्तमवर्जिते द्वित्वबहुत्वयोश्च गुणो न भवति । ब्रूतः ।
स्वरादाविवर्णोवर्णान्तस्य धातोरियुवा ॥ ८३ ॥
इवर्ण-उवर्णान्तस्य धातोरियुवौ भवतः स्वरादावगुणे । ब्रुवन्ति । ब्रवीषि बूथः बूथ । ब्रवीमि ब्रूवः ब्रूमः ।
ब्रुवस्त्यादीनामडादयः पञ्च ॥ ८४ ॥
बूधातोः परेषां त्यादिपञ्चकानामडादयः पञ्च भवन्ति । अट् अतुस् उस् थल् अथुस् इत्येते वक्तव्याः ।
तत्सन्निधौ ब्रुव आहः ॥ ८५ ॥
तेषामडादीनां सन्निधौ धातोराहादेशश्च भवति । आह आहतुः आहुः ।
थल्याहेः ||८६ ॥
थलि परे आहेरित्येतस्य हकारस्य धकारो भवति । आत्थ आहतुः ।
सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः ॥८७ ॥
सर्वेषां धातूनां विकरणानां च सार्वधातुके आत्मनेपदे परे पञ्चम्युत्तमवर्जिते गुणो न भवति । ब्रूते बुवाते बुवते । बूषे ब्रुवाथे बूध्वे । बु वे बू वहे ब्रू महे। अद्यात् अद्यातां अधुः । अद्याः अद्यातं अद्यात । अद्यां अद्याव अद्याम। शयीत शयीयातां शयीरन् । शयीथाः शयीयाथां शयीध्वं । शयीय शयीवहि शयीमहि ।
सप्तम्यां च ||८८ ॥
सर्वेषां धातुविकरणानां गुणो न भवति सप्तम्यां च परस्मैपदे परे । ब्रूयात् ब्रूयातां ब्रूयुः । ब्रूयाः ब्रू यातं बूयात । ब्रूयां ब्रूयाद बूयाम बुवीत बुवीयातां बुवीरन् । बुवीथाः बुवीयाथां बुवोध्वं । बुवीय
ब्रूवीवहि बुवीमहि | अतु अत्तात् अत्तां अदन्तु ।
हुधुड्भ्यां हेर्धिः ॥ ८९ ॥
हुधुड्भ्यां परस्य हेर्धिर्भवति । अद्धि अत्तात् अतं अत । अदानि अदाव अदाम शेतां शयातां शेरतां । शेष्व शयाथां शेध्वं । शयै शयावहै शयामहै । ब्रवीतु बूतात् बूतां बुवन्तु ।
हौ च ॥९० ॥
सर्वेषां धातूनां गुणो न भवति हौ च परे। ब्रूहि ब्रूतात् ब्रूतं ब्रूत । ब्रवाणि बवाव बवाम। ब्रूतां ब्रूवातां बुवतां । बूष्व बुवाथां बूध्वं । बवै ब्रवावहै ब्रवामहे ।
अदोट् ॥ ९१ ॥
अदः परयोर्दिस्योरादेरड् भवति ।
अवर्णस्याकारः ॥ ९२ ॥
धातोरादेरवर्णस्याकारो भवति ह्यस्तन्यादिपरतः । आदत् आत्ता आदन् । आद: आतं आत्त । आदं आद्व आद्म । अशेत अशयातां अशेरत । अशेथा: अशयाथां अशेध्वं । अशयि अशेवहि अशेमहि ।
अब्रवीत् अब्रूतां अब्रुवन् । अब्रवी: अब्रूतं अब्रूत । अब्रूवं अब्रूव अबूम । अब्रूत अब्रुवतां अब्रुवत । अब्रूथा अनुवाथां अब्रूध्वं । अब्रूव अब्रूवहि अब्रूमहि । भावकर्मणोः । अद्यते अद्येते अद्यन्ते ।
अयीर्ये ॥ ९३ ॥
शेते: ईकारोऽय् भवति ये परे । शय्यते शय्येते । ञिष्वय् शये । धात्वादेः षः सः ।
बुवो वचिः ॥९४ ॥
ब्रुवो वचिर्भवति अगुणे सार्वधातुके परे ।
स्वपिवचियजादीनां यणपरोक्षाशीःषु ॥ ९५ ॥
स्वपिवचियजादीनामन्तस्थायाः सम्प्रसारणं भवति यणपरोक्षाशीःषु परतः । किं सम्प्रसारणं ?
सम्प्रसारणं य्वृतोन्तस्थानिमित्ताः ॥ ९६ ॥
अन्तस्थानिमित्ता इउऋतः सम्प्रसारणसंज्ञा भवन्ति । सुप्यते सुप्येते सुप्यन्ते । यज देवपूजा-संगतिकरणदानेषु । इज्यते इज्येते इज्यन्ते । असु भुवि । अस्ति । उच्यते उच्येते उच्यन्ते ।
अस्तेरादेः ॥ ९७ ॥
अस्तेरादेर्लोपो भवति अगुणे सार्वधातुके परे । स्तः सन्ति ।
अस्तेः सौ ॥९८ ॥
अस्तेरन्त्यस्य लोपो भवति सौ परे असि स्थः स्थ। अस्मि स्वः स्मः । स्यात् स्यातां । स्युः । स्याः स्वातं स्यात । स्याम् स्याव स्याम । अस्तु स्तात् स्तां सन्तु । एकदेशविकृतमनन्यवत् ।
दास्त्योरेभ्यासलोपश्च ॥९९ ॥
दासंज्ञकस्य अस्तेरन्त्यस्य ए भवति अभ्यासलोपश्च हौ परे ।
अस्तेः ॥१०० ॥
अस्तेः परस्य हेर्धिर्भवति ।
स्थानिवदादेश: ॥ १०१ ॥
यस्य स्थाने यो विधीयते स स्थानी इतर आदेशः । एधि स्तात् स्तं स्त । असानि असाव असाम ।
अस्तेर्दिस्योः ॥ १०२ ॥
अस्तेर्परयोर्दिस्योरादिरीद्भवति।
अस्तेः ॥ १०३ ॥
अस्तेरवर्णस्याकारो भवति ह्यस्तन्यादिषु परतः । आसीत् आस्तां आसन् । आसीः आस्तं आस्त । आसम् आस्व आस्म ।
अस्तेर्भूरसार्वधातुके ॥ १०४ ॥
अस्तेर्भूरादेशो भवति असार्वधातुके परे । भूयते । रुदिर् अश्रुविमोचने ।
रुदादेः सार्वधातुके ||१०५ ॥
रूदादेः परस्य सार्वधातुकस्य व्यञ्जनादेरयकारादेरादाविडागमो भवति ।
नामिनोश्चोपधाया लघोः ॥१०६ ॥
सर्वेषां धातूनां उपधाभूतस्य पूर्वस्य लघोर्नामिनो गुणो भवति । रोदिति रुदित: रुदन्ति । रोदिषि रुदिथः हृदिथ । रोदिमि रुदिवः रुदिमः ।
रोदितिः स्वपितिचैव श्वसितिः प्राणितिस्तथा ।
जक्षितिश्चेति विज्ञेयो रुदादिः पञ्चको गणः ॥३१ ॥
रुद्यात् रुद्यातां रुद्युः । रोदितु रुदितात् रुदितां रुदन्तु। हौ चेति गुणनिषेधः । रुदिहि रुदितात् रुदितं रुदित । रोदानि ऐदाव रोदाम ।
रुदादिभ्यश्च ॥ १०७ ॥
रुदादिभ्यश्च परयोर्दिस्योरादिरीद्भवति । अरोदीत् ।
रुदादेश्च ॥ १०८ ॥
रुदादेश्च परयोर्दिस्योरादिद्भवति । अरोदत् अरुदितां अरुदन् । अरोदी: अरोद: अरुदितं अरुदित । अरोद अरुदिव अरुदिम । एवं पञ्चानाम् । ञिप्वप् शये । स्वपिति स्वपितः स्वपन्ति । स्वपिषि । स्वप्यात् स्वप्यातां स्वप्युः । स्वपितु स्वपितात् स्वपिता स्वपन्तु । अस्वपीत् । अस्वपत् अस्वपतां अस्वपन् । श्वस प्राणने । श्वसिति । श्वस्यात् । श्वसितु । अश्वसीत् । अश्वसत् । अनपि च । प्राणिति । प्राण्यात् । प्राणितु । अप्राणीत् । अप्राणत् । जक्ष भक्षहसनयोः ।
जक्षादिश्च ।। १०९ ।।
जक्षादीनामभ्यस्तसंज्ञा भवति । जक्षिति जक्षितः ।
लोपोऽभ्यस्तादन्तिनः ॥ ११० ॥
अभ्यस्तात्परस्य अन्तेर्नकारस्य लोपो भवति । जक्षति । जक्ष्यात् जक्ष्यातां जक्ष्युः । जक्षितु जक्षितात् जक्षितां जक्षतु । अजक्षीत् । अजक्षत् अजक्षतां । अनउस्सिजभ्यस्तविदादिभ्योऽभुवः । इत्यनेन उस् भवति । अजक्षुः । भावकर्मणोः । रुद्यते । सुप्यते । इत्यादि । सूङ् प्राणिगर्भविमोचने । सूते सुवाते सुवते । सुवीत सुवयात्तां सुवीरन् । सूतां सुवात्तां सुवतां । सूष्व सुवायां। सूध्वम् ॥
सूतेः पञ्चम्याम् ।।१११ ॥
सूतेः पञ्चम्युत्तमे च गुणो न भवति । सुवै सुवावहै सुवामहै। असूत असुवातां । सूयते । हन् हिंसागत्योः । हन्ति ।
धुटि हन्तेः सार्वधातुके ॥ ११२ ॥
हन्तेरन्तस्य लोपो भवति धुडादावगुणे सार्वधातुके परे । हतः ।
गमहनजनखनघसामुपधायाः स्वरादावनन्यगुणे ॥ ११३ ॥
गमादीनामुपधाया लोपो भवत्यनण्वर्जिते स्वरादावगुणे परे ।
लुप्तोपधस्य च ॥ ११४ ॥
लुप्तोपधस्य च हन्तेर्हस्य धिर्भवति । घ्नन्ति । हंसि हथः हथ । हन्मि हन्वः हन्मः । हन्यात् हन्यातां हन्युः । हन्तु हतात् हतां घ्नन्तु । पूर्वोक्तपरोक्तयोः परोक्तो विधिर्बलवान् इति न्यायात्-
हन्तेर्जो हौ ।।११५ ।।
हन्तेर्जकारादेशो भवति हौ परे । जहि हतात् हतं हत। हनानि हनाव हनाम |
व्यञ्जनाद्दिस्योः ॥ ११६ ॥
व्यञ्जनात्परयोर्दिस्योर्लोपो भवति । अहम् अहतां अघ्नन् । अहन् अहतं अहत । अहनं अहन्व अहन्म । चक्षङ् व्यक्तायां वाचि ।
स्को: संयोगाद्योरन्ते च ॥ ११७ ॥
संयोगाद्योः सकारककारयोर्लोपो भवति धुट्यन्ते च ।
तवर्गस्य षटवर्गाट्टवर्ग: ॥ ११८ ॥
तवर्गस्य षकारटवर्गाभ्यां परस्य टवर्गो भवत्यान्तरतम्यात् । आचष्टे आचक्षाते आचक्षते ।
षढोः कः से ।। ११९ ॥
षढो: को भवति सकारे परे । आचक्षे आचक्षाथे ।
धुटां तृतीयश्चतुर्थेषु ॥ १२० ॥
धुटां तृतीयो भवति चतुर्थेषु परतः । ऋवर्णटवर्गरषा मूर्द्धन्या इति न्यायात् षकारस्य डकारः । आचडढ्वे । आचक्षे आचक्ष्वहे। आचक्ष्महे । आचक्षीत आचक्षीयातां आचक्षीरन् । आचष्टां आचक्षातां आचक्षतां । आचक्ष्व आचक्षाथां आचड्ढवं । आचक्षै आचक्षावहै आचक्षामहै। आचष्ट आचक्षात आचक्षत । आचष्ठाः आचक्षाथां आचड्ढवं । आचक्षि आचक्ष्वहि आचक्ष्महि ।
चक्षङ् ख्याञ् ॥१२१ ॥
चक्षङ् इत्येतस्य ख्याञादेशो भवति असार्वधातुके परे । आख्यायते । ईश् ऐश्वर्ये 1
छशोश्च ॥ १२२ ॥
छशोश्च षो भवति धुट्यन्ते । ईष्टे ईशाते ईशते ।
ईशः से ।। १२३ ।।
ईशः परस्य सादेः सार्वधातुकस्यादाविद् भवति धुटि परे । ईशिषे ईशाथे ईड्ढवे। ईशे ईश्वहे ईश्महे । ईशीत ईशीयातां ईशीरन् । ईष्टा ईशाता ईशतां । ईशिष्य ईशाथा ईडवं । ऐशि ऐश्वहि ऐश्महि । ईश्यते । शासु अनुशिष्टौ । शास्ति ।
शासेरिदुपधाया अण्व्यञ्जनयोः ॥ १२४ ॥
शासेरुपधायाः इद्भवति अण्व्यञ्जनयोः परतः ।
शासिवासिघसीनां च ।। १२५ ।।
निमित्तात्परः शासिवसिघसीनां सः षत्वमापद्यते । शिष्टः शासति । शास्सि | शिष्यात् शिष्यातां शिष्यु: । शास्तु शिष्टात् शिष्टां शासतु ।
शा शास्तेश्च ॥ १२६ ॥
शास्तेर्हौ परे शादेशो भवति चकारात् हेर्धिर्भवति । शाधि, शिष्टात् शिष्टं शिष्ट । शासानि शासाव शासाम ।
सस्य ह्यस्तन्यां दौ तः ॥ १२७ ॥
ह्यस्तन्यां दौ परे सस्य तो भवति । अशात् अशिष्टां अशासुः ।
सौ वा ॥ १२८ ॥
सस्य तो भवति वा ह्स्तन्यां सौ परे । अशात् अशा: अशिष्ट अशिष्ट अशासं । अशिष्व । अशिष्म । शिष्यते । दीधीङ् दीप्तिदेवनयोः वेवीङ् वेतनातुल्ये । आदीधीते । य इवर्णस्यासंयोग- पूर्वस्यानेकाक्षरस्य इति यः । आदीध्याते आदीध्यते ।
दीधीवेव्योरिवर्णयकारयोः ॥ १२९ ॥
दीधीवेव्योरन्तस्य लोपो भवति इवर्णयकारयोः परतः । आदीधीत आदीध्यातां आदीधीरन् । आदीधीतां आदीध्यातां आदीध्यतां । आदीधीष्व आदीध्याथा आदीधीध्वं ।
दीधीवेव्योश्च ॥ १३० ॥
अनयोः पञ्चम्युत्तमे च गुणो न भवति । आदीध्यै आदीध्यावहै आदीध्यामहै । आदीधीत आदीध्यातां आदीध्यत । आदीध्यते । वेवीते वेव्याते वेव्यते । वेवीत देवीयातां वेवीरन्। वेवीतां वेव्यातां वेव्यतां । वेवीष्व वेव्याथां वेवीध्वं । वेव्यै वेव्यावहै वेव्यामहै । अवेवीत अवेव्यातां अवेव्यत । अवेवीथा: अवेव्याथां अवीव । अवेवि अवेवीवहि अवेवीमहि । वेव्यते । ईड् स्तुतौ । ईट्टे ईडाते। ईडते !.
ईड्जनोः स्ध्वे च ॥ १३९ ॥
ईड्जनो: स्ध्वे च सार्वधातु के परे इड् भवति । ईडिषे ईडाथे ईडिये। ईडे ईड्वहे ईमहे । ईडीत ईडीयातां ईडीरन् । ईट्टां ईडातां ईडतां । ऐट्ट ऐडातां ऐडत। ईड्यते । इत्यादि । णु स्तुतौ ।
उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके ॥ १३२ ॥
धातोरुतो वृद्धिर्भवति व्यञ्जनादौ गुणिनि सार्वधातुके परे । वृद्धिग्रहणाधिक्यादभ्यस्तस्य वृद्धिर्न भवतीत्यर्थः । नौति नुतः नुवन्ति । नौषि नुथः नुथ। नौमि नुवः नुमः । नुयात् नुयातां नुयुः । नौतु नुतात् नुतां नुवन्तु । अनौत् अनुतां अनुवन् । नूयते । एवं षुञ् स्तुतौ । स्तौति स्ववीति स्तुतः स्तुवन्ति । स्तुते स्तुवाते स्तुवते । स्तूयते । ऊर्णुञ् आच्छादने ।
ऊर्णोतेर्गुणः ॥ १३३ ॥
ऊर्णोतिर्गुणो भवति व्यञ्जनादौ गुणिनि सार्वधातुके परे । प्रोर्णोति । वृद्धिग्रहणाधिक्यात् अभ्यस्तस्य पृथक्करणाद्वा प्रोर्णौति प्रोर्णुतः प्रोर्णुवन्ति। प्रोर्णषि प्रोणोषि प्रोर्णुथः प्रोर्णुथ । प्रोर्णोमि प्रोर्णोमि प्रोर्णुवः प्रोर्गुमः । प्रोर्णुते प्रोर्णुवाते प्रोर्णुवते । प्रोर्णुयात् प्रोर्णुयातां प्रोर्गुयुः । प्रर्णुवीत । प्रोर्णोतु प्रोर्णौतु प्रोर्णुतां प्रोर्णुवन्तु । प्रोर्णुता प्रोर्जुवातां प्रोर्णुवतां ।
ह्यस्तन्यां च ॥ १३४ ॥
ऊर्णुञ् इत्येतस्य ह्यस्तन्यां गुणो भवति व्यञ्जनादौ वचने परे । प्रौर्णोत् प्रौर्णुतां प्रौर्णुवन् । प्रोर्णुत प्रौर्णुवातां प्रौर्णुवत। प्रौर्णूयत इत्यादि । विद् ज्ञाने । वेति वित्तः विदन्ति । विद्यात् विद्यातां विद्युः । वेत्तु वित्तात् वित्तां विदन्तु ।
विद आम् कृञ् पञ्चम्यां वा ॥ १३५ ॥
विदः पर आम् भवति ततः कृञ् प्रयुज्यते पञ्चम्याम् । आमि विधेरेवेति गुणो न भवति । विदांकरोतु विदांकुरुतात् विदांकुरुतां विदांकुर्वन्तु । विदांकुरु । अवेत् अवित्तां अविदन् ।
विदादेर्वा ॥१३६ ॥
विद आदन्ताद् द्विषश्चान् उस् वा भवति ह्यस्तन्यां । अविदुः । विद्यते । एवं ह्यस्तन्यां । आदन्तात् । प्सा भक्षणे । अप्सात् अप्सार्ता । अप्सन् ।
आकारस्योसि ॥१३७ ॥
आकारस्य लोपो भवति उसि परे । अप्सुः । रा ला आदाने । अलात् अलावा अलान् अलुः । अरात् अरातां अरान् अरुः । द्विष् अप्रीतौ । अद्वेद् अद्विष्टां अद्विषन् अद्विषुः । भावकर्मणोः रायते । लायते । प्सायते । द्विष्यते ।
समो गमृच्छप्रच्छिश्रुवेत्त्यर्त्तिदृशाम् ॥१३८ ॥
समः परेषामात्मनेपदं भवति। संविते । संविदाते संविदते ।
वेत्तेर्वा ॥ १३९ ॥
वेत्तेः परस्यातेरिर्वा भवति। संविद्रते । संविदीत संविदीयातां संविदीरन् । संवित्तां संविदातां संविदतां संविद्रतां । समवित्त समविदातां समविद्रत समविदत ॥ इण् गतौ । एति इतः ।
इणश्च ।। १४० ॥
इणश्च यो भवति स्वरादावगुणे । यन्ति । एषि इथः इथ । एमि इव: इमः । इयात् इयातां इयुः । एतु इतात् इतां यन्तु । इहि इतात् इत इत । अयानि । अयाव अयाम । ऐत् ऐतां । परापि वृद्धिरिण्मात्राश्रितेन यत्वेन बाध्यते । सावकाशानवकाशयोरनवकाशो विधिर्बलवान् । इति न वृद्धिः । इणचेति यत्वं ।
एतेर्ये ह्यस्तन्याम् ॥ १४१ ॥
एतेर्ये परे अटोऽवर्णस्य दीर्घो भवति ह्यस्तन्यां । आयन् । ऐः ऐत ऐत । आयं ऐव ऐम | दुह् प्रपूरणे ।
दादेर्घः ॥ १४२ ॥
दादेर्हस्य धो भवति धुट्यन्ते च ।
घढधभेभ्यस्तथोर्थोऽधः ॥ १४३ ॥
एभ्यः धाञ्वर्जितेभ्यः परयोस्तथोर्धो भवति । दोग्धि दुग्धः दुहन्ति ।
तृतीयादेर्घधभान्तस्य धातोरादिचतुर्थत्वं स्ध्वोः ॥ १४४ ॥
घढधभान्तस्य धातोरादेस्तृतीयस्य चतुर्थत्वं भवति स्ध्वोः परतः । धोक्षि दुग्धः दुग्ध । दोह्मि दुह्व दुह्मः । दुग्धे दुहाते दुहते । दुह्यात् दुह्यातां दुह्युः। दुहीत दुहीयातां दुहीरन् । दोग्धु दुग्धात् । दुग्धां दुहन्तु । धुड्भ्यां हेर्धिः । दुग्धि दुग्धात् दुग्धं दुग्ध । दोहानि दोहाव दोहाम। दुग्धां दुहातां दुहतां ।
लोपे च दिस्योः ।। १४५ ॥
घढधभान्तस्य धातोरादेस्तृतीयस्य चतुर्थत्वं भवति दिस्योर्लोपेऽपि । अधोक् अदुग्धां अदुहन् । अधोक् अदुग्धं अदुग्ध । अदोहं अदुह्व अदुह्म । अदुग्ध अदुहातां अदुहत। लिह् आस्वादने ।
हो ढः ॥ १४६ ॥
धातोर्हस्य ढो भवति धुट्यन्ते च ।
ढे ढलोपो दीर्घश्चोपधायाः ॥ १४७ ॥
ढे परे ढलोपो भवति उपधाया दीर्घश्च । लेढि लीढः लिहन्ति । लेक्षि लीड: लीढ । लेह्म लिह्व लिह्मः । लीढे लिहाते लिहते । लिक्षे । लिहाथे लीढ्वे । लिहे लिह्वहे लिह्महे । लिह्यात् । लिहीत । लेढु लोढात् लीढां लिहन्तु । लेढि लीढात् लीढ़ं लीढ । लेहानि लेहाव लेहाम ॥ लीढां लिहातां लिहतां । लिक्षव लिहाथां लीढ्वं । लेहै लेहावहै लेहामहै । अलेट् अलीढाम्, अलिहन्- अलीढ । लिह्यते ॥
इत्यदादिः समाप्तः ।
हु दानादनयोः ।
अथ जुहोत्यादिगणः
जुहोत्यादेश्च ॥ १४८ ॥
जुहोत्यादेश्च परस्य विकरणस्य लुग्भवति ।
द्विर्वचनमनभ्यासस्यैकस्वरस्याद्यस्य ।।१४९ ।।
धातोरवयवस्यानभ्यासस्य एकस्वरस्याद्यस्य वर्णस्य द्विर्वचनं भवति । इति वर्तते ।
जुहोत्यादीनां सार्वधातुके ॥ १५० ॥
जुहोत्यादीनां द्विर्वचनं भवति सार्वधातुके परे ।
पूर्वोऽभ्यासः ।।१५१ ।।
द्विरुक्तस्य धातोः पूर्वोऽवयवोऽभ्याससंज्ञो भवति ।
हो जः ॥ १५२ ॥
अभ्यासहकारस्य जकारो भवति । जुहोति जुहुतः ।
द्वयमभ्यस्तम् ।।१५३ ॥
धातोरभ्यास इतरश्चेति द्वयमभ्यस्तसंज्ञं भवति ।
लोपोऽभ्यस्तादन्तिनः ॥ १५४ ॥
अभ्यस्तात्परस्यान्तेर्नकारस्य लोपो भवति ।
जुहोतेः सार्वधातुके ॥ १५५ ॥
जुहोते: उकारस्य वकारो भवति स्वरादावगुणे सार्वधातुके परे । जुह्वति । जुहोषि जुहुथ: जुहुथ। जुहोमि जुहुवः जुहुमः ॥ इत्यादि । ओहाङ् गतौ ।
भृञ्हाङ्माङामित् ॥ १५६ ॥
भृञ् हाङ् माङ् इत्येतेषामभ्यासस्य इद्भवति सार्वधातुके परे ।
उभयेषामीकारो व्यञ्जनादावदः ||१५७ ।। उभयेषामभ्यस्तक्रयादिविकरणानां दावर्जितानामाकारस्य ईकारो भवति व्यञ्जनादावगुणे सार्वधातुके परे । जिहीते ।
अभ्यस्तानामाकारस्य ।।१५८ ।।
अभ्यस्तानामाकारस्य लोपो भवत्यगुणे सार्वधातुके परे । जिहाते जिहते। जिहीषे जिहाथे जिहीध्वे । जिहे जिहीवहे जिहीमहे ।। जिहीत जिहीयातां जिहीरन् । जिहीतां जिहातां जिहतां । जिहीष्व जिहाथां जिहीध्वं । जिहै जिहावहै जिहामहै । अजिहीत अजिहातां अजिहत || एवं माङ् माने शब्दे च । मिमीते मिमाते मिमते । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । डुधाञ् डुभृञ् धारणपोषणयोः ।
द्वितीयचतुर्थयोः प्रथमतृतीयौ ॥ १५९ ॥
अभ्यासस्य द्वितीयचतुर्थयोः प्रथमतृतीयौ भवतः । बिभर्ति विभृतः बिभ्रति । बिभर्षि विभृथः विभृथः । विभर्मि बिभृव: बिभृमः । बिभृते विभ्राते बिभ्रते । बिभृषे विभ्राथे बिभृध्वे । बिभ्रे विभृवहे बिभृमहे ।
डुधाञ्हस्वः || १६० ॥
अभ्यासस्य ह्रस्वो भवति । दधाति ।
तथोश्च दधातेः || १६१ ॥
दधातेर्धातो: आदेस्तृतीयचतुर्थत्वं भवति तथोः सेध्वोश्चागुणे परतः । धत्तः दधति । दधासि धत्थः धत्थ । दधामि दध्वः दध्मः । धत्ते दधाते दधते । धत्से दधाथे धद्धवे । दधे दध्वहे दध्महे । भावकर्मणोश्च ।
नाम्यन्तानां यणायियन्नाशीश्च्विचेक्रीयितेषु दीर्घः ॥ १६२ ॥ नाम्यन्तानां धातूनां दीर्घो भवति यणादीनां ये च्वौ च परे । हूयते ।
अदाब् दाधौ दा॥ १६३ ॥
डुदाञ् दाने । दाण् दाने। दो अवखण्डने । देङ् रक्षणे । एते चत्वारो दारूपा: । डुधाञ् धारणपोषणयोः । धेट् पा पाने इत्येतौ धारूपौ। दाप् लवने, दैप् शोधने इत्येतौ वर्जयित्वा दाधा इत्येतौ दासंज्ञौ भवतः ।
दामागायति पिबति स्थास्यति जहातीनामीकारो व्यञ्जनादौ ।।१६४ ||
दासंज्ञकमारूपकगायतिपिबतिस्थास्यतिजहातीनामन्तस्य ईकारो भवति व्यञ्जनादावगुणे सार्वधातुके परे । दीयते । धीयते । माङ् माने शब्दे च । मीयते मीयेते मीयन्ते । कै गै रै शब्दे । गीयते । पीयते । ष्ठा गतिनिवृत्तौ । निमित्ताभावे नैमित्तिकस्याप्यभावः । स्थीयते । यो अन्तकर्मणि । अवसीयते । ओहाक् त्यागे। हीयते। जुहुयात् जुहुयातां जुहुयुः । धेट् पा पाने । दध्यात् दध्यातां दध्युः । दधीत दधीयातां दधीरन् । जुहोतु जुहतात् जुहुतां जुह्वतु । जुहुधि जुहुतात् जुहुतं जुहुत। जुहवानि जुहवाव जुहवाम। मिमीत मिमीयाताम् मिमीरन् । मिमीता मिमाता मिमतां । मिमष्व मिमाथां मिमध्वं । मिमै मिमाव मिमामहे । बिभर्तु विभृतां विभ्रतु । विभृतां विभ्रातां बिभ्रतां । दधातु धत्तात् धत्तां दधतु । अभ्यस्तानामकारस्य इति लोपे प्राप्ते । “लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान्” इति स्वरादेशो भवति ।
दास्त्योरभ्यासलोपश्च ॥ १६५ ।।
दासंज्ञकस्यास्तेश्च हौ परेन्तस्य एत्वं भवति अभ्यासलोपश्च । यथासंख्यं । धेहि धत्तात् धत्तं धत । दधानि दधाव दधाम । धत्तां दधातां दधतां । अजुहोत् अजुहुतां ।
अन उस्सिजभ्यस्तविदादिभ्योऽभुवः ॥ १६६ ॥
सिजभ्यस्तविदादिभ्यः परस्य अन उस् भवति । अभुवः ।
अभ्यस्तानामुसि || १६७ ॥
अभ्यस्तानां गुणो भवति उसि परे । अजुहवुः । अजुहो: अजुहुतं अजुहुत । अजुहवं अजुहुव अजुहुम । अजिहीत अजिहातां अजित । अबिभः अबिभृतां अबिभरुः । अबिभः अबिभृतं अबिभृत । अबिभर अबिभृव अविभ्रम। अविभृत अबिभ्रातां अबिभ्रत। अभिमत अमिमातां अभिमत । अमिमीथा: अमिमाथां अमिमीध्वं । अमिमि अमिमीवहि अमिमीमहि । अदधात् अधतां ।
आकारस्योसि ॥ १६८ ॥
आकारस्य लोपो भवति उस परे । अदधुः । अधत्त अदधातां अदधत । जिभी भये । बिभेति विभितः विभीतः ।
भियो वा ॥ १६९ ॥
भयो वा इकारो भवति व्यञ्जनादावगुणे सार्वधातुके परे ।
य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य ॥ १७० ॥
असंयोगपूर्वस्यानेकाक्षरस्य इवर्णस्य यो भवति स्वरादावगुणे परे । बिभ्यति इत्यादि । ह्री लज्जायां ।
अभ्यासस्यादिव्यञ्जनमवशेष्यम् ॥ १७९ ॥
अभ्यासस्यादिव्यञ्जनमवशेष्यं भवति । अनादेर्लोप इत्यर्थः । जिह्रेति जिह्रीतः । स्वरादाविवर्णोवर्णान्तस्य धातोरयुवाविति इयादेशः। जिह्वियति। ओहाक् त्यागे । जहाति जहीतः ।
जहातेर्वा ॥ १७२ ॥
जहातेः सार्वधातुके व्यञ्जनादावगुणे परे आकार इकारादेशो भवति वा । जहितः जहीत: जहति । जहासि । उभयेषामीकारो व्यञ्जनादावदः । जहीथ: जहिथः जहीथ जहिथ । जहामि जहीवः जहिव: जहीम: जहिमः ।
लोपः सप्तम्यां जहातेः ॥ १७३ ॥
जहातेरन्तस्य लोपो भवति सप्तम्यां व्यञ्जनादावगुणे सार्वधातुके परे । जह्यात् जह्यातां जह्यः । जहातु जहीतात् जहितात् जहीतां जहितां जहतु ।
आत्वं वा हौ ।।१७४ ॥
जहातेरन्तस्य आत्वम् ईत्वमित्वं च भवति वा हौ परे । जहाहि जहिहि जहीहि जहीतात् जहितात् जहीतं जहितं जहीत जहित। जहानि जहाव जहाम । अजहात् अजहीतां अजहितां अजहुः । अजहा: अजहीतं अजहितं अजहीत अजहित । अजहां अजहिव अजहीव अजहिम अजहीम । इत्यादि । ऋ सृ गतौ । पॄ पालनपूरणयोः ।
अर्तिपिपर्त्योश्च ।। १७५ ।।
अनयोरभ्यासस्य इद्भवति सार्वधातुके परे ।
अभ्यासस्यासवर्णे ||
अभ्यासस्य इवर्णोवर्णयोरियुवौ भवतोऽसवर्णे परे । इयर्ति इयृतः इय्रति । इयर्षि इयृथः इयूथ | इयर्मि इयृव: इयूमः । इयृयात् इयृयातां इयृयुः । इयर्तु इयृतात् इयृतां इय्रतु । इयृहि इयृतात् इयृतं इयृत । इयराणि इयराव इयराम । ऐयः ऐयृतां ऐयरुः । ऐयः ऐयृतं ऐयृत । ऐयरं ऐयृव ऐयृम । गुणोर्तिसंयोगाद्योरिति गुणः । भावे- अर्यते ।
ऋवर्णस्याकारः || १७७ ॥
अभ्यासस्य ऋवर्णस्याकारो भवति । ससर्ति ससृतः सस्रति । ससृयात् ससृयातां ससृयुः । ससर्तु संसृतात् ससृतां सस्रतु । अससः अससृतां अससरुः ।
यणाशिषोर्ये ॥ १७८ ॥
ऋदन्तादिकारागमो भवति यणाशिषोर्ये परे । स्त्रियते । पिपर्ति पिवृतः । पिप्रति । पिपृयात् पिपृयातां पिपृयुः । पिपर्तु पिप्तात् पिपृतां पिप्रतु । अपिपः अपिपृतां अपिपरुः । णिजिर् शौचपोषणयोः । विजिर् पृथग्भावे । विष्लृ व्याप्तौ । विष् शब्दे ।
निजिविजिविषां गुणः सार्वधातुके ॥ १७९ ॥
निजादीनामभ्यासस्य गुणो भवति सार्वधातुके परे ।
चवर्गस्य किरसवर्णे ॥ १८० ॥
चवर्गस्य किर्भवति असवर्णे घुटि परे अन्ते च । नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्म नेनिज्व: नेनिज्म: । नेनिज्यात् नेनिज्यातां नेनिज्युः । नेनेक्तु नेनिक्तात् नेनिक्त नेनिजतु । नेनेग्धि नैनिक्तात् नेनिक्तं नेनिक्त ।
अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्वधातुके ॥ १८१ ॥
अभ्यस्तस्य चोपधाया नामिनो गुणो न भवति स्वरादौ गुणिनि सार्वधातुके परे । नेनिजानि नेनिजाव नेनिजाम । अनेनेक् अनेनिक्तां अनेनिजुः । अनेनेक् अनेनिक्तं अनेनिक्त । अनेनिजं अनेनिज्व अनेनिज्म । वेवेक्ति वेविक्तः वेविजति । वेविज्यात् वेविज्यातां वेविज्युः । वेवेक्तु वेविक्तात् वेविक्ता वेविजतु । वेविग्धि । अवेवेक् अवेविक्तां अवेविजुः । वेवेष्टि वेविष्ट: वेविषति । वेवेक्षि वेवेष्ठि: वेविष्ठ । वेवेष्मि वेविष्वः वेवेष्मिः । वेविष्यात् वेविष्यातां वेविष्णुः । वेवेष्टु वेविष्टात् वेविष्टां वेविषतु । धुटां तृतीयश्चतुर्थेषु इति तृतीय: । ऋवर्णटवर्गरषा मूर्धन्या इति न्यायात् षकारस्य डकारः । वेविड्ढिवेविष्टात् वेविष्टं वेविष्ट । वेविषाणि वेविषाव वेविषाम अवेवेट् अवेविष्टां अवेविषुः । अवेवे: अवेविष्टं अवेविष्ट । अवेविषं अवेविष्व अवेविष्म | भावकर्मणोः- निज्यते । विज्यते। विष्यते ।
इति जुहोत्यादिः ।
अथ दिवादिगणः
दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ।
दिवादेर्यन् ॥१८२ ॥
दिवादेर्गणाद्विकरणसंज्ञको यन् भवति कर्तरि विहिते सार्वधातुके परे ।
नामिनोर्वोरकुर्छुरोर्व्यञ्जने ॥ १८३ ॥
अकुर्छुरोर्वोरुपधाभूतस्य नामिनो दीर्घो भवति व्यञ्जने परे । दीव्यति दीव्यतः दीव्यन्ति । दीव्येत् दीव्येतां दीव्येयुः । दीव्यतु दीव्यतात् दीव्यतां दीव्यन्तु । अदीव्यत् अदीव्यतां अदीव्यन् । षूङ् प्राणिप्रसवे । सूयते सूयेते सूयन्ते । सूयेत सूयेयातां सूयेरन् । सूयतां सूयेतां सूयन्तां । असूयत असूयेतां असूयन्त । असूयथा: असूयेथां असूयध्वं । असूये असूयावहि असूयामहि । णहञ् बन्धने । संनह्यति संनह्यतः संनह्यन्ति । संनह्यते संनह्येते संनह्यन्ते । संनह्येत् संनह्येतां संनह्येयुः । संनह्ये: संनह्येतं संनह्येत । संनह्येयं संनह्येव संनह्येम । संनह्येत संनह्येयातां संनह्येरन् । संनह्यतु संनह्यतात् संनह्यतां संनह्यन्तु । संनह्य संनह्यतात् संनातं संनह्यत । संनह्यानि संनह्याव संनह्याम संनह्यतां संनह्येतां संनह्यन्तां । संनह्यस्व संनह्येथां संनह्यध्वं । संनह्यौ
संनह्यावहै संनह्यामहै । समनह्यत् समनह्यतां समनह्यन् । समनह्यत समनह्येतां समनह्यन्त । इत्यादि । भावकर्मणोश्च । दीव्यते । सूयते । संनह्यते । ञिमिदा स्नेहने ।
मिदेः ॥ १८४ ॥
मिदेरित्येतस्य नाम्युपधस्य धातोर्यन्स्वविकरणे परे गुणो भवति । प्रमेद्यति प्रमेद्यतः प्रमेद्यन्ति । प्रमेद्येत् । प्रमेद्यतु । प्रामेद्यत् । शो तनूकरणे । छो छेदने । षो अन्तकर्मणि । दो अवखण्डने ।
न्योकारस्य ||१८५ ||
धातोरोकारस्य लोपो भवति यनि परे । श्यति श्यतः श्यन्ति । श्यसि श्यथः श्यथ । श्यामि श्याव: श्यामः । छ्यति छ्यत: छ्यन्ति । स्यति स्वतः स्यन्ति । द्यति द्यतः द्यन्ति । शम् दम् उपशमे । तमु काक्षांयां । श्रम् तपसि खेदे च । भ्रमु अनवस्थाने । क्षमूष् सहने । क्लमु ग्लानौ । मदी हर्षे ।
शमादीनां दीर्घो यनि ॥१८६ ॥
शमादीनां दीर्घो भवति यनि परे । शाम्यति । दाम्यति । ताम्यति । श्राम्यति । भ्राम्यति क्षाम्यति । क्लाम्यति । माद्यति । जनी प्रादुर्भावे ।
जा जनेर्विकरणे ॥ १८७ ॥
जनेः स्वविकरणे परे जा भवति । जायते । जायेत । जायतां । अजायत ।
यणि वा ।।१८८ ॥
यणि परे जनेर्जादेशो वा भवति जायते जन्यते ।
इति दिवादिः ।
षुञ् अभिषवे।
अथ स्वादिगण:
नुः स्वादेः ||१८९ ॥
स्वादेर्गणाद्विकरणसंज्ञको नुर्भवति कर्तरि विहिते सार्वधातुके परे । सुनोति सुनुतः ।
नोर्वकारो विकरणस्य ॥ १९० ॥
नोर्विकरणस्यासंयोगपूर्वस्योकारस्य वकारो भवति स्वरादावगुणे सार्वधातुके परे । सुन्वन्ति । सुनोषि सुनुध: सुनुध । सुनोमि ।
उकारलोपो वमोर्वा ॥ १९९ ॥
असंयोगपूर्वस्य विकरणस्योकारस्य लोपो वा भवति वमोः परतः । सुन्वः सुनुवः सुन्मः सुनुमः । सुनुते सुन्वाते सुन्वते । सुनुषे सुन्वाधे सुनुध्वे । सुन्ने सुन्वहे सुनुवहे सुन्महे सुनुमहे ।
नाम्यन्तानां यणायिनाशीश्व्विचेक्रीयितेषु दीर्घः ॥१९२ ॥
नाम्यन्तानां धातूनां दीर्घो भवति यण् आय् इन् आशी: चेक्रीयितेषु ये च्वौ च परे । सूयते सूयेते । अशूङ् व्याप्तौ । अश्नुते ।
नोर्विकरणस्य ॥१९३ ॥
नुविकरणस्योकारस्य संयोगपूर्वस्य उवादेशो भवति स्वरादावगुणे सार्वधातुके परे । अश्नुवाते अश्नुवते । चिञ् चयने । चिनोति चिनुतः चिन्वन्ति । चिनुते चिन्वाते चिन्वते । सुनुयात् सुनुयातां सुनुयः । अश्नुवीत अश्नुवीयातां अश्नुवीरन् । अश्नुवीथा: अश्नुवीयाथां अश्नुवीध्वं । अश्नुवीय अश्नुवीवहि अश्नुवीमहि । चिनुयात् । चिन्वीत। सुनोतु सुनुतात् सुनुतां सुन्वन्तु ।
नोश्च विकरणादसंयोगात् ॥ १९४ ॥
असंयोगपूर्वानुविकरणाच्च परस्य हेर्लोपो भवति । सुनु सुनुतात् सुनुतं सुनुत । सुनवानि सुनुवाव सुनुवाम । अश्नुतां अश्नुवातां अश्नुवतां । अनुष्व अनुवाथां अनुध्वं । अश्वै अश्नवावहै अश्नवामहै । चिनोतु चिनुतात् चिनुतां चिन्वन्तु । चिनुतां चिन्वतां । चिनुष्व चिन्वाथां चिनुध्वं । चिनवै चिनवावहै चिनवामहै । असुनोत् असुनुतां असुन्वन् । आश्नुत आश्नुवातां आश्नुवत । अचिनोत् । अचिनुत । इत्यादि ।
इति स्वादिः ।
अथ तुदादिगण: ।
तुद् व्यथने ||
तुदादेरनि ॥ १९५ ॥
तुदादेर्गुणो न भवति अनि परे । तुदति तुदतः तुदन्ति । मृङ् प्राणत्यागे |
इरन्यगुणे ॥ १९६ ॥
ऋदन्तादिकारागमो भवति अगुणे अन्धिकरणे परे । स्वरादाविवर्णोवर्णान्तस्य धातोरियुवौ । म्रियते म्रियेते म्रियन्ते । मुच्ऌ मोक्षणे ।
मुचादेरागमो नकारः स्वरादनि विकरणे ॥ १९७ ॥
मुचादेः स्वरात्रकारागमो भवत्यनि विकरणे परे । मुञ्चति मुञ्चतः मुञ्चन्ति । लुप्ऌञ् छेदने । विद्ऌञ् लाभे ! लिए उपदेहे । षिचिर् क्षरणे । लुम्पति लुम्पते। विन्दति विन्दते । लिम्पति लिम्पते । सिञ्चति । सिञ्चते । इति मुचादिः । तुदेत् । म्रियेत । मुञ्जेत् । मुचेत । तुदेत् । प्रियतां । मुञ्चन्तु । मुञ्चतां | अतुदत् । अम्रियत। अमुञ्चत् । अमुञ्चत अमुञ्चेतां अमुञ्चन्त । अमुञ्चथाः अमुञ्चेथां अमुञ्चध्वं । अमुञ्चे अमुञ्चावहि अमुचामहि । भावकर्मणोः- तुद्यते ।
यणाशिषोर्ये ॥ १९८ ॥
ऋदन्तादिकारागमो भवति यणाशिषोर्ये परे । म्रियते । मुच्यते । लुप्यते । विद्यते । लिप्यते । सिच्यते इत्यादि । कॄ विक्षेपे । गृ निगरणे ।
ऋदन्तस्येरगुणे ॥ १९९ ॥
ऋदन्तस्य इर् भवत्यगुणे परे । किरति । गिरति ।
वा स्वरे ॥ २०० ॥
गिरतेरश्रुतेर्लश्रुतिर्भवति वा स्वरे परे । गिलति गिलत: गिलन्ति । इरुरोरीरूरौ । कीर्यते गीर्यते इत्यादि ।
तुदादिः समाप्तः ।
अथ रुधादिगणः।
रुधिर् आवरणे ।
स्वराद्रुधादेः परो नशब्दः ॥ २०१ ॥
रुधादेर्गणस्य स्वरात्पये विकरणसंज्ञको नकारागमी भवति कर्तरि विहिते सार्वधातुके परे । णत्वं घढधभेभ्यस्तथोर्धोधः । धुटां तृतीयश्चतुर्थेषु । रुणद्धि ।
रुधादेर्विकरणान्तस्य लोपः ॥ २०२ ॥
रुधादेर्विकरणान्तस्य लोपो भवति अगुणे सार्वधातुके परे । रुन्द्धः रुन्धन्ति । रुद्धे, रुन्द्धाते, रुन्द्धते । रुन्त्से । रुन्थाथे रुन्थ्ये । रुन्धे रुन्थ्वहे रुन्थ्महे । भुज पालनाभ्यवहारयोः ।
अशनार्थे भुजा || २०३ ॥
अशनार्थे भुज रुचादिर्भवति । इति रुचादिः । भुङ्क्ते भुञ्जाते भुञ्जते । भुङ्क्षे भुञ्जाथे। भुङ्गध्वे । भुञ्जे भुञ्ज्वहे भुञ्ज्महे । युजिर् योगे । युनक्ति युङ्क्तः युञ्जन्ति ॥ युञ्जते । युङ्क्षे । युञ्जाथे युङ्ध्वे । युञ्जे युञ्ज्वहे युञ्ज्महे । रुन्थ्यात् । रुन्धीत । भुञ्जीत । युञ्ज्यात् युञ्जीत । रुणद्धु रुन्द्धात् रुद्धां रुन्धन्तु । रुन्द्धि । रुन्द्धात् रुन्द्धं रुन्द्ध रुणधानि रुणधाव रुणधाम । भुङ्क्तां भुञ्जातां भुञ्जतां । भुङ्क्ष्व भुञ्जाथां भुङ्ग्ध्वं । भुनजै भुनजावहै भुनजामहै । युनक्तु युङ्क्तात् युङ्क्तां युञ्जन्तु । युङ्ग्घि युङ्क्तात् युङ्क्तं युङ्क्त । युनजानि युनजाव युनजाम । युङ्क्तां । अरुणत् अरुणद् अरुन्द्धाम्, अरुन्धन् ।
सोऽपदान्ते वा ॥ २०४ ॥
दधोरत्वं वा स्यात् तत्रापि शब्दबहुलभावात् ।
सोऽपदान्तेऽरेफप्रकृत्योरपि ।।२०५ ।।
पदान्ते वर्तमानयोर्दधोरत्वं वा स्यात् ह्यस्तन्यां मध्यमपुरुषैकवचने । अरुणत्वं अरुणस्त्वं । अरुन्द्धं । अरुन्द्ध । अरुणधं अरुन्ध्व अरुन्ध्म । अभुङ्क्त अभुञ्जातां अभुञ्जत । अभुङ्क्थाः अभुञ्जाथां अभुङ्ग्ध्वं । अभुञ्जि । अभुञ्ज्वहि अभुञ्ज्महि । अयुनक् अयुनम् अयुङ्क्तां अयुञ्जन् । अयुनक् अयुनग् अयुङ्क्तं अयुङ्क्त । अयुनजं अयुञ्ज्व अयुञ्ज्म । अयुक्त अयुञ्जातां अयुञ्जत । अयुङ्क्थाः अयुञ्जाथां अयुङ्ध्वं । अयुञ्जि अयुञ्ज्वहि अयुञ्ज्महि । भावकर्मणोः । रुध्यते रुध्येते रुध्यन्ते । भुज्यते भुज्येते भुज्यन्ते । भिदिर् विदारणे । छिदिर् द्विधाकरणे । भिनत्ति । छिनति । भिन्द्यात् । छिन्द्यात् । भिनत्तु । छिनत्तु। अभिनत् अभितां अभिन्दन् । अभिनत्त्वं अभिनस्त्वं अभिन्तं अभिन्त । अभिनद अभिन्द्व अभिन्द्म । अच्छिनत् अच्छिन्ताम् अच्छिन्दन् । अच्छिनत्त्वं अच्छिनस्त्वं अच्छिन्तं अच्छिन्नत । अच्छिनत । अच्छिन्दम् अच्छिन्द्व अच्छिन्द्म ।
इति रुधादिः ।
अथ तनादिगणः।
तनु विस्तारे।
तनादेरुः ||२०६ ||
तनादेर्गणाद्विकरणसंज्ञक उर्भवति कर्तरि विहिते सार्वधातुके परे । तनोति तनुतः तन्वन्ति । मनुङ् अवबोधने । मनुते मन्वाते मन्वते । मनुषे मन्वाधे मनुध्वे । मन्वे मनुवहे मन्वहे मनुमहे मन्महे । डुकृञ् करणे । करोति ।
करोतेः ॥ २०७ ॥
करोतेरकारस्य उकारो भवति अगुणे सार्वधातुके परे । कुरुतः कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि ।
अस्याकारः सार्वधातुकेऽगुणे ॥
करोतेर्नित्यम् ॥२०८ ॥
करोतेः परस्य उकारस्य नित्यं लोपो भवति वमोः परतः कुर्व: कुर्मः । कुरुते कुर्वाते कुर्वते । भावकर्मणोश्च | तन्यते मन्यते ।
ये च ॥ २०९ ॥
करोते परस्य उकारस्य नित्यं लोपो भवति ये च परे । कुर्यात् कुर्वीत । तनोतु तनुतात् तनुतां तन्वन्तु ।
उकाराच्च ।।२१० ॥
उकाराच्च विकरणात्परस्य हेर्लोपो भवति । तनु तनुतात् तनुतं तनुत । तनवानि तनवाव तनवाम | मनुतां मन्वातां मन्वतां । करोतु कुरुतात् कुरुतां कुर्वन्तु । कुरुताम् । अतनोत् अतनुतां अतन्वन् । अतनोः । अमनुत अमन्वातां अमन्वत । अमनुथाः अमन्वाथाम् अमनुध्वम् । अमन्वि अमनुवहि अमन्वहि अमनुमहि अमन्महि । अकरोत् अकुरुता अकुर्वन् । अकुरुत । भावकर्मणोः । तन्यते । मन्यते । “भावकर्मणोश्च । यणाशिषोर्ये” इतीकारागमः । क्रियते ।
इति तनादिः ।
अथ क्रयादिगणः
डुक्रीञ् द्रव्यविनिमये ।
ना क्यादेः ।। २९९ ।।
क्रयादेर्विकरणसंज्ञको ना भवति कर्तरि विहिते सार्वधातुके परे । क्रीणाति । उभयेषामिति ईकारः । क्रीणीत: ।
क्र्यादीनां विकरणस्य ॥ २१२ ॥
क्र्यादीनां विकरणाकारस्य लोपो भवति स्वरादावगुणे सार्वधातुके परे । क्रीणन्ति । वृञ् संभक्तौ । वृणीते वृणाते वृणते । ग्रह उपादाने ।
सपरस्वरायाः सम्प्रसारणमन्तस्थायाः ॥ २१३ ॥
परेण धातुस्वरेण सह अन्तस्थायाः सम्प्रसारणं भवति । इत्यधिकृत्य ।
ग्रहिज्यावयिव्याधिवष्टिव्यचिप्रच्छिव्रश्चिभ्रस्जीनामगुणे ॥ २१४ ॥
ग्रहादीनामन्तस्थायाः परेण स्वरेण सह सम्प्रसारणं भवत्यगुणे परे । किं सम्प्रसारणं ।
सम्प्रसारणं य्वृतोऽन्तस्था निमित्ताः || २१५ ।।
अन्तस्था निमित्ता इ उ ऋतः संप्रसारणसंज्ञा भवन्ति । गृह्णाति गृहणीतः गृह्णन्ति । गृह्णीते गृह्णाते गृह्णते । ज्या वयोहानौ । जीनाति । भावकर्मणोश्च । जीयते । वेञ् तन्तुसन्ताने । वयति वयतः वयन्ति । वयते । ऊयते । व्यध् ताडने । विध्यति विध्यते । वश कान्तौ ।
छशोश्च ॥ २१६ ॥
छशोश्च षो भवति धुट्यन्ते च । वष्टि उष्टः उशन्ति । वक्षि उष्ठ: उष्ट। वश्मि उश्व: उश्मः । उश्यते । व्यच् व्याजीकरणे । विचति विचतः विचन्ति । विच्यते । प्रच्छ ज्ञीप्यासाम् । पृच्छति पृच्छतः पृच्छन्ति । पृच्छते । वश्च छेदने । वृक्षति । वृञ्चते । भ्रस्ज पाके । लुवर्णतवर्गलसा इति न्यायात् भृज्जति । भृज्जते । त्रिषु व्यञ्जनेषु संयुज्यमानेषु सजातीयानामेकव्यञ्जनलोपः । क्रीणीयात् । वृणीत । गृह्णीयात् गृह्णीत | क्रीणातु क्रीणीतात् क्रीणीताम् । क्रोणन्तु। क्रीणीहि क्रीणीतात् क्रीणीतं क्रीणीत । क्रीणानि क्रीणीव क्रीणीम। वृणीत | गृह्णातु गृह्णीतात् गृह्णीतां गृह्णन्तु ।
आन व्यञ्जनान्ताद्धौ ॥ २१७ ॥
व्यञ्जनान्तात् क्र्यादेर्विकरणसंज्ञक आनो भवति हौ परे । गृहाण गृह्णीतात् गृह्णीतं गृह्णीत । गृह्णानि गृह्णाव गृह्णाम। गृह्णीतां । अक्रीणात् अक्रीणीताम् अक्रीणन् । अक्रीणाः अक्रीणीतम् अक्रीणीत | अक्रीणां अक्रीणीव अक्रीणीम। अवृणीत अवृणातां अवृणत । अवृणीथाः अवृणाथां अवृणीध्वं । अवृणि अवृणीवहि अवृणीमहि । अगृह्णात् अगृह्णीत । भावकर्मणोः – विक्रीयते । व्रियते । गृह्यते । पूञ् पवने ।
प्वादीनां ह्रस्वः ॥ २९८ ॥
प्वादीनां ह्रस्वो भवति स्वविकरणे परे । पुनाति पुनीतः पुनन्ति । पुनीयात् पुनीयातां पुनीयुः । पुनातु पुनीतात् पुनीतां पुनन्तु । पुनीहि पुनीतात् पुनीतं पुनीत । पुनानि चुनाव पुनाम । अपुनात् अपुनीतां अपुनन् । अपुनाः अपुनीतम् अपुनीत। अपुनाम् अपुनीव अपुनीम एवं लूञ् छेदने । लुनाति । लुनीत लुनन्ति । अलुनात् । ज्ञा अवबोधने ।
ज्ञश्च ।। २९९ ।।
ज्ञश्च स्वविकरणे जा भवति । जानाति जानीतः जानन्ति । जानीयात् । जानातु जानीतात् जानीतां जानन्तु । अजानात् अजानीतां अजानन्
इति क्रयादिः ।
अथ चुरादिगणः
चुर् स्तेये ।
चुरादेश्च ॥ २२० ॥
चुरादेः कारितसंज्ञक इन् भवति स्वार्थे । उपधाया गुणः ।
ते धातवः ॥ २२९ ॥
ते सनादिप्रत्ययान्ता धातुसंज्ञा भवन्ति । अन् विकरणः कर्त्तरि । अनि च विकरणे इति गुणः । चोरयति चोरयतः चोरयन्ति । मत्रिँ गुप्तभाषणे । ‘अनिदनुबन्धानामगुणे’ अत एव इदनुबन्धानां धातूनां नुरागमोऽस्ति गुणागुणे प्रत्यये परे । मन्त्रयते मन्त्रयेते मन्त्रयन्ते । वृञ् आवरणे ।
अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचद्सु ॥ २२२ ॥
अस्योपधाया दीर्घो भवति नाम्यन्तानां वृद्धिर्भवति इन् इच् अट् एषु परतः । वारयति वारयतः वारयन्ति । वारयते । भावकर्मणोक्ष
कारितस्यानामिविकरणे ॥ २२३ ॥
कारितस्य लोपो भवति आम्इड्विकरणवर्जिते प्रत्यये परे ।
स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत् ॥ २२४ ॥
स्वरादेश: परनिमित्तक: पूर्ववर्णस्य विधिं प्रति स्थानिवद्भवति । चोर्यते । वार्यते। गुडि सजि पल रक्षणे । गुण्डयति । सञ्जयति । पालयति । उपधाभूतस्येति किं ? अर्च पूजायां । अर्चयति । चोरयेत् । मन्त्रयेत् । वारयेत् । चोरयतु । मन्त्रयतां । वारयतु वारयतां । अचोरयत् । अमन्त्रयत । अवारयत ! गुण्डयेत् । गुण्डयतु । अगुण्डयत् । संजयेत। संजयतु | असंजयत् । पालयेत् । पालयतु। अपालयत् । अर्चयेत् । अर्चयतु | आर्चयत्। भावकर्मणोश्च । गुण्ड्यते। संज्यते । पाल्यत । अर्च्छत इत्यादि । एवं सर्वमुन्नेयं ।
इति चुरादिः ।
सार्वं तीर्थकराख्यानं धातोस्तत्प्रकृतेरभूत् ।
शास्त्रमेतत् तत्र मुख्यं सार्वधातुकमुच्यते ॥१ ॥
इत्याख्याते सार्वधातुकम्।
अथाऽसार्वधातुकमुच्यते।
भूतकरणवत्यश्च ॥ २२५ ॥
इति अतीतमात्रे अद्यतनी भवति अद्यभवोऽद्यतनः । तत्रातीतेऽद्यतनी भवति । भू सत्तायां ।
सिजद्यतन्याम् || २२६ ॥
धातो: सिज्भवति अद्यतन्यां परतः ।
इडागमोऽसार्वधातुकस्यादिव्यञ्जनादेरयकारादेः ॥ २२७ ॥
धातोः परस्य व्यञ्जनादेरयकारादेरसार्वधातुकस्यादाविडागमो भवति ।
इणिक्स्थादापिबतिभूभ्यः सिचः परस्मै ॥ २२८ ॥
इणादिभ्यः परस्य सिचो लुग्भवति परस्मैपदे परे ।
भवतेः सिज्लुकि ॥ २२९ ॥
भुव इडागमो न भवति सिज्लुकि ।
भुवः सिज्लुकि ॥२३० ॥
भुवो गुणो न भवति सिज्लुकि । अभूत् अभूताम् ।
भुवो वोन्तः परोक्षाद्यतन्योः ॥ २३१ ॥
भूधातोरन्ते वकारागमो भवति परोक्षाद्यतन्योः स्वरे परे । अभूवन् । अभूः अभूतम् अभूत। अभूवम् अभूव अभूम । इण् गतौ ।
इणो गाः ॥ २३२ ॥
इणो गा भवत्यद्यतन्यां परतः।
अनिडेकस्वरादातः ॥ २३३ ॥
एकस्वरादाकारात्परमसार्वधातुकमनिड् भवति । अगात् अगाताम् ।
आलोपोऽसार्वधातुके ॥ २३४ ॥
धातोराकारस्य लोपो भवत्यसार्वधातुके स्वरादावगुणे परे । अगुः । अगा: अगात्म अगात । अगाम् अगाव अगाम । इक् स्मरणे ।
इकोऽपि ॥ २३५ ॥
इकोऽपि गा भवत्यद्यतन्यां परतः । इङिकावध्युपसर्गं न व्यभिचरतः । अध्यगात् अध्यगाताम् अध्यगुः । अस्थात् अस्थातां अस्थुः । अधात् । अदात् । इत्यादि ।
इङ् अध्ययने ।
अद्यतनीक्रियातिपत्त्योर्गी वा ॥ २३६ ॥
अद्यतनीक्रियातिपत्त्योरात्मनेपदे परे इङो वा गी आदेश इष्यते ।
इवर्णादश्विश्रिङीशीडः ॥ २३७ ॥
शिवश्रीङीङ्शीवर्जितादेकस्वरादिवर्णात्परमसार्वधातुकमनिङ् भवति । आदेशबलादगुणित्वे । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्यगीष्ठाः अद्यगीषाधां ।
सिचो धकारे ||२३८ ॥
सिचो लोपो भवति धकारे परे ।
नाम्यन्ताद्धातोराशीरद्यतनीपरोक्षासु धो ढः ॥ २३९ ॥
नाम्यन्ताद्धातोराशीरद्यतनी परोक्षासु धो दो भवति । अध्यगीढ्वं । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । पक्षे स्वरादीनां वृद्धिरादेः । अध्यैष्ट अध्यैषाताम् अध्यैषत। अध्यैष्ठाः अध्यैषाथाम् अध्यैवम् । अध्यैषि अध्यैष्वहि अध्यैष्महि । परस्मै इति किम् ?
भूप्राप्तौ ॥ २४० ॥
भूधातो: भूप्राप्तावात्मनेपदी भवति । अभविष्ट अभविषातां अभविषत । अभविष्ठा: अभविषाथां अभविढ्वं । अभविषि अभविष्वहि । अभविष्महि । समवप्रविभ्यश्चेति स्था रुचादिः ।
स्थादोरिरह्यतन्यामात्मने ॥२४१ ॥
स्थादासंज्ञकयोरन्तस्य इर्भवति अद्यतन्यामात्मनेपदे परे ।
स्थादोश्च ॥ २४२ ॥
स्थादासंज्ञकयोर्गुणो न भवति अनिटि सिजाशिषोश्चात्मनेपदे परे ।
ह्रस्वाच्चानिटः || २४३ ||
हस्वात्परस्य अनिटः सिचो लुग्भवति धुटि परे । समस्थित समस्थिषातां समस्थिषत । समस्थिथा: समस्थिषाथां समस्थिध्वं । समस्थिति समस्थिष्वहि समस्थिष्महि ।। अदित अदिषाताम् अदिषत । अदिथा: अदिषाथाम् अदिध्वम् । अदिषि अदिष्वति । अदिष्महि । ऐधिष्ट ऐधिषाताम् ऐधिषत । ऐधिष्ठा: ऐधिषाथाम् ऐधिध्ववम् । ऐधिषि ऐधिष्वहि ऐधिष्महि ।
पचिवचिसिचिरुचिमुचेश्चात् ॥ २४४ ॥
एभ्यः पञ्चभ्यः परमसार्वधातुकमनिड् भवति ।
अस्य च दीर्घः ॥ २४५ ॥
व्यञ्जनान्तानामनिटामुपधाभूतस्यास्य दीर्घो भवति परस्मैपदे सिचि परे ।
सिचः ॥ २४६ ॥
सिचः परयोर्दिस्योरादिरीद्भवति । अपाक्षीत् ।
धुटश्च धुटि ।। २४७ ॥
धुटः परस्य सिचो लोगो भवति धुटि परे । अपक्ताम् अपाक्षुः । अपाक्षी: अपाक्तम् अपाक्त । अपाक्षम् अपाक्ष्व अपाक्ष्म । अपक्त अपक्षाताम् अपक्षत। अपक्था: अपक्षाथाम् अपग्ध्वम् । अपक्षि अपक्ष्वहि अपक्ष्महि । वद व्यक्तायां वाचि ।
वदव्रजरलन्तानां च ॥ २४८ ॥
वदव्रजरलन्तानामुपधाभूतस्यास्य दीर्घो भवति परस्मैपदे सिचि परे ।
इटश्चेटि ॥ २४९ ॥
इटः परस्य सिचो लोपो भवति ईटि परे । अवादीत् अवादिष्टाम् अवादिषुः । धज ध्वज वज वज गतौ । प्रावाजीत् प्रावाजिष्टां प्रावाजिषुः । वर ईप्सायाम् । अवारीत् अवारिष्टाम् अवारिषुः । चर गतिभक्षणयोः । अचारीत् अचारिष्टाम् अचारिषुः । फल निष्पत्तौ । अफालीत् अफालिष्टाम् अफालिषुः । शल श्वल्ल आशुगतौ । अशालीत् । अशालिष्टाम् अशालिषुः । अशाली: अशालिष्टम् अशालिष्ट । अशालिषम् अशालिष्व अशालिष्म ।
व्यञ्जनादीनां सेटामनेदनुबन्धह्म्यन्तकणक्षणश्वसवधां वा ॥ २५० ॥
एदनुबन्धह्म्यन्तकणक्षणश्वसवर्जितानां सेटां व्यञ्जनादीनां धातूनाम् उपधाभूतस्यास्य दीर्घो भवति वा परस्मैपदे सिचि परे । रद विलेखने। अरादीत् अरादिष्टाम् अरादिषुः । अरदीत् अरदिष्टाम् अरदिषुः । गद् व्यक्तायां वाचि । अगादीत् अगादिष्टाम् अगादिषुः । अगदीत् अगदिष्टाम् अगदिषुः । व्यञ्जनादीनामिति किं ? मायोगेऽद्यतनी ॥ २५१ ॥
माशब्दयोगे धातोरद्यतनी भवति । अट पट इट किट कट गतौ। मा भवानटीत् मा भवन्तावटिष्टाम् । मा भवन्तोऽटिषुः । मा त्वमटीः मा युवामटिष्टं मा यूयमटिष्ट। माहमटिषं मा वामटिष्व मा वयमटिष्म । सेटामिति किं ? अपाक्षीत् अपाक्तां अपाक्षुः । अपाक्षी: अपाक्तम् अपाक्त। अपाक्षम् अपाक्ष्व अपाक्ष्म । नित्यमुपधाभूतस्येति किं ? अव रक्ष पालने । अरक्षीत् अरक्षिष्टाम् अरक्षिषुः । अरक्षी: अरक्षिष्टम् अरक्षिष्ट । अरक्षिषम् अरक्षिष्व अरक्षिष्म् । तक्षू त्वक्षू तनूकरणे । अतक्षीत् । अत्वक्षीत् । अस्येति किं ? मुष स्तेये । अमोषीत् अमोषिष्टाम् अमोषिषुः । कुष निष्कर्षे । अकोषीत् अकोषिष्टाम् अकोषिषुः । वर्जनं किम् ? खगे हसने अखगीत् अखगिष्टाम् अखगिषुः । रंगे शङ्कायां । अरगीत् । कगे नोचिते। अकगीत् अकगिष्टाम् अकगिषुः । ग्रहञ् उपादाने || अग्रहीत् अग्रहीष्टाम् अग्रहीषुः । इटो दीर्घो ग्रहेरपरोक्षायामिति दीर्घः । वह परिकल्कने । रह त्यागे । अरहीत् अरहिष्टाम् अरहिषुः । टुवमु उद्गिरणे । अवमीत् । क्रमु पादविक्षेपे । अक्रमीत् अक्रमिष्टाम् अक्रमिषुः । चमु छमु जमु झमु जिमु अदने । अचमीत् । अच्छमीत् । अजमीत् । अझमीत् । अजिमीत् । अजिमिष्टाम् अजिमिषुः । व्यय क्षये । अव्ययीत् अव्ययिष्टाम् अव्ययिषुः । अय वय मय पय तय चय रय णय गतौ । आयीत्। अवयीत् । अमयीत् । अपयोत् । अतयीत् । अचयीत् । अस्योत् । अनयत् अनयिष्टां अनयिषुः । कण निमीलने । अकणीत् । क्षण क्षुण हिंसायां । अक्षणीत् । श्वस प्राणने। अश्वसीत् अश्वसिष्टाम् अश्वसिषुः । हनु हिंसागत्योः । अद्यतन्यां च वधादेशः । अवधीत् अवधिष्टाम् अवधिषुः । इत्यादि । टुणदि समृद्धौ । अनन्दीत् अनन्दिष्टाम् अनन्दिषुः । श्रंसु भ्रंसु अवस्त्रंसने। ध्वंस गतौ च । अश्रंसिष्ट असिषातां अश्रंसिषत । अश्रंसिष्ठाः अश्रंसिषाथाम् अश्रंसिध्वम् । अश्रंसिषि अश्रिंसिष्वहि अश्रंसिष्महि । अभ्रंसिष्ट अभ्रंसिषाताम् अभ्रंषित। अध्वंसिष्ट । व्येञ् संवरणे ।
सन्ध्यक्षरान्तानामाकारोऽविकरणे ॥ २५२ ॥
सन्ध्यक्षरान्तानां धातूनाम् आकारो भवति अविकरणे परे ।
यमिरमिनस्यादन्तानां सिरन्तश्च ॥ २५३ ॥
एषामिडागमः सकारपूर्वो भवति परस्मैपदे सिचि परे । यमु उपरमे । अयंसीत् अयंसिष्टाम् अयंसिषुः । रमु क्रीडायां । अरंसीत् अरसिष्टाम् अरसिषुः ।
व्याङ्परिभ्यो रमः ॥ २५४ ॥
विआङ्परिभ्यः परस्य रमुधातोः परं परस्मैपदं भवति ॥ व्यरंसीत् । णमु प्रहृत्वे शब्दे । अनंसीत् । अव्यासीत् अव्यासिष्टाम् अव्यासिषुः । अव्यास्त अव्यासाताम् अव्यासत ।
सानिटः शिडन्तान्नाम्युपधाददृशः ।। २५५ ।।
दृशवर्जितात् नाम्युपधादनिटः शिडन्ताद्धातोः सन् भवति अद्यतन्यां परत: । सिचोपवादः । रिश रुश हिंसायाम् । क्रुश आह्वाने गाने रोदने च । लिश विच्छ गतौ । क्रुश ह्वरणदीप्त्योः ।
रिशिरुशिकुशिलिशिविशिदिशिदृशिस्पृशिमृशिदंशेः शात् ।। २५६ । ।
एभ्यः परमसार्वधातुकमनिड् भवति । अरिक्षत् अरिक्षताम् अरिक्षन् । अरिक्षः अरिक्षतम् अरिक्षत | अरिक्षम् अरिक्षाव अरिक्षाम अक्रुक्षत् अक्रुक्षताम् अक्रुक्षन् । अक्रुक्षः अक्रुक्षतम् अक्रुक्षत।
सणो लोपः स्वरे बहुत्वे ॥ २५७ ॥
सणोऽस्य लोपो भवत्यबहुत्वे स्वरे परे । अक्रुक्षम् अक्रुक्षाव अकुक्षाम् । विश प्रवेशने । अविक्षत् । त्विष दीप्तौ ।
त्विषिपुष्यतिकृषिश्लिष्यतिद्विषिपिषिविषिशिषिशुषितुषिदुषेः षात् ॥ २५८ ॥
एभ्यः परमसार्वधातुकमनिड् भवति । अत्विक्षत् अत्विक्षताम् अत्विक्षन् । कृष विलेखने। अकृक्षत् अकृक्षताम् अकृक्षन् । श्लिष आलिङ्गने । अश्लिक्षत् । द्विष अप्रीतौ । अद्विक्षत् । पिप्ऌ संचूर्णने। अपिक्षत् । विष्ऌ व्याप्तौ | अविक्षत् । शिष्ऌ विशेषणे । तुष तुष्टौ | अतुक्षत् । दुष वैकृत्ये । अदुक्षत् अदुक्षताम् अदुक्षन् । दुह प्रपूरणे।
दहिदिहिदुहिमिहिरहिरुहिलिहिलुहिनहिवहेत् ॥ २५९ ॥
एभ्यः परमसार्वधातुकमनिड् भवति । अधुक्षत् अधुक्षताम् अधुक्षन् । दिह उपचये । अधिक्षत् । अनिटामिति किम् ? कुष निष्कर्षे । अकोषीत् अकोषिष्टाम् अकोषिषुः । शिडन्तादिति कि ? अभुक्त अभुक्षाताम् अक्षत । अभुक्थाः अभुक्षाथाम् अभुग्ध्वम् । अभुक्षि अभुवहि अभुक्ष्महि । नाम्युपधादिति किम् ? दह भस्मीकरणे । अधाक्षीत् । प्रकृत्याश्रितमन्तरङ्गं प्रत्यायाश्रितं बहिरङ्ग । अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान् । इति धत्वं चतुर्थत्वं च । अदाग्धाम् अधाक्षुः । अधाक्षी: अदाग्धम् अदाग्ध। अधाक्षम् अधाक्ष्व अधाक्ष्म । अदृश इति किं ? दृशिर् प्रेक्षणे ।
सृजिदृशोरागमोऽकारः स्वरात्परो धुटि गुणवृद्धिस्थाने || २६० ॥
सृजिदृशो: स्वरात्परोऽकारागमो भवति गुणवृद्धिस्थाने धुटि परे । अद्राक्षीत् अद्राष्टां अद्राक्षुः ।
भृजादीनां षः ।। २६१ ॥
भृजादीनां षो भवति धुट्यन्ते च । सृज विसर्गे। अस्राक्षीत् अस्राष्टाम् अस्राक्षुः ।
इति भ्वादि: ॥
अथ अदादिगणः
अदेर्घस्लृ सनद्यतन्योः ॥ २६२ ॥
अदेर्घस्लृ आदेशो भवति सनद्यतन्योः परतः ।
पुषादिद्युतादिऌकारानुबन्धार्तिसर्त्तिशास्तिभ्यश्च परस्मै ॥ २६३ ॥
एभ्योऽण् भवति अद्यतन्यां परस्मैपदे । सिचोऽपवादः । अघसत् अघसताम् अघसन् । पुष पुष्टौ ॥ अपुषत् अपुषताम् अपुषन् । शुष शोषणे । अशुषत् अशुषताम् अशुषन् । द्युत शुभ रुच दीप्तौ । अद्युतत् अद्युतताम् अद्युतन् । अद्युतः अद्युततम् अद्युतत। अद्युतम् अद्युताव अद्युताम। अशुभत् । अरुचत् । श्वित आवर्णे । अश्वितत् । षु श्रु, टु, दु. ऋछ, गम्लु, सप्ल गतौ
अर्त्तिसर्त्योरणि ॥ २६४ ॥
अर्तिसर्त्योर्गुणो भवति अणि परे । आरत् असरत् । शासु अनुशिष्टौ ।
शासेरिदुपधाया अण्व्यञ्जनयोः ॥ २६५ ॥
शासेरुपधाया इद्भवति अण्व्यञ्जनयोः परतः ।
शासिवसिघसीनां च ॥ २६६ ॥
निमित्तात् परः शासिवसिघसीनां सकारः षत्वमापद्यते । अशिषत् । परस्मा इति किं ? व्यद्योतिष्ट व्यद्योतिषातां व्यद्योतिषत । शीङ् स्वप्ने । अशयिष्ट । ब्रुवो वचिरिति वचिरादेशः ।
अणऽसुवचिख्यातिलिपिसिचिह्नः ॥ २६७ ॥
एभ्योऽण् भवति अद्यतन्यां परतः । असु क्षेपणे ।
अस्यतेस्थोन्तः || २६८ ॥
अस्यतेरन्ते थकारागमो भवत्यणि परे । अपास्थत् अपास्थताम् अपास्थन् ।
अणि वचेरोदुपधायाः || २६९ ।।
वचेरुपधाया ओद्धवति कर्तरि विहितायामद्यतन्यामणि परे । अवोचत् । अवोचत । ख्या प्रकथने ।
आलोपोऽसार्वधातुके ॥ २७० ॥
धातोराकारस्य लोपो भवति स्वरादावगुणेऽसार्वधातुके परे । आख्यत् आख्यताम् आख्यन् । लिप् उपदेहे । अलिपत् । व्यवस्थितवाधिकाराल्लिम्पादीनामात्मनेपदे वा अण पक्षे सिच् । अलिपत अलिप्त । धुटश्च धुटि सिचो लोपः । अलिपेताम् अलिप्सातामन् अलिपन्त अलिप्सत । अलिपथाः अलिप्या: । अलिपेथाम् अलिप्साथाम् अलिपध्वम् अलिब्ध्वम् । अलिपे अलिप्सि अलिपावहि अलिप्स्वहि अलिपामहि अलिप्स्महि । षिचिर् क्षरणे । असिचत् । ह्वेञ् स्पर्धायां शब्दे च । आहृत् आह्वताम् आह्वन् । आह्वत आहेताम् आह्वन्त । हन् हिंसागत्योः ।
अद्यतन्यां च ॥ २७१ ॥
हन्तेर्वधिरादेशो भवति अद्यतन्यां परतः । अवधीत् अवधिष्टाम् अवधिषुः । ‘आत्मनेपदे वा’ हन्तेर्वधिरादेशो वा भवति । आङो यमहनौ स्वाङ्गकर्मकौ चेत्यात्मनेपदं भवति ।
हनः ।।२७२ ।।
हन्तेरन्तस्य लोपो भवत्यद्यतन्यां सिच्यात्मनेपदे तथयोः परतः । आहत आहसाताम् आहसत । अवधिष्ट अवधियाताम् अवधिषत ॥ इत्यादिः ॥ हु दानादनयोः ।
सिचि परस्मै स्वरान्तानाम् ॥ २७३ ॥
स्वरान्तानां वृद्धिर्भवति परस्मैपदे सिचि परे । नामिन एव ।
उतोऽयुरुणुस्नुहुवः ॥ २७४ ॥
युरुणुस्नुक्षुहुवर्जितादेकस्वरादुदन्तात्परमसार्वधातुकमनिड् भवति । अहौषीत् अहौष्टाम् अहौषुः । अधात् अधाताम् अधु: । स्थादोरिरद्यतन्यामात्मने । इति इकारादेशः ।
स्थादोश्च ॥ २७५ ॥
स्थादासंज्ञकयोर्गुणो न भवति अनिटि सिजाशिषीश्चात्मनेपदे परे । इति गुणनिषेधः । ह्रस्वाच्चानिट इति सिचो लोपः । अधित अधिषाताम् अधिषत । अधिथा: अधिषाधाम् अधिढ्वम् । अधिषि अधिष्वहि अधिष्महि । समस्थित समस्थिषातां समस्थिषत । इति जुहोत्यादिः ॥ दिवु क्रीडाविजिगीषादीति । अदेवीत् अदेविष्टाम् अदेविषुः ।
स्वरतिसूतिसूयत्यूदनुबन्धाच्च ॥ २७६ ॥
एभ्यः परमसार्वधातुकमनिड् भवति वा । षूङ प्राणिप्रसवे । असोष्ट असोषाताम् असोषत। असोष्ठा: आसोषाथाम् ।
नाम्यन्ताद्धातोराशीरह्यतनपरोक्षासु धो ढः॥ २३९ ॥
नाम्यन्ताद्धातोराशीरातनीपरोक्षासु धो ढो भवति । असोदवम् । असोषि असोध्वहि असोष्महि । असविष्ट असविषाताम् । असविषत। दहि दिहि दुहि इत्यादिनानिट् ॥
सेट्सु वा ॥ २७७ ॥
नाम्यन्ताद्धातोः परस्य सेटामाशीरद्यतनीपरोक्षाणां धकारस्य ढो भवति वा । असविढ्वम् असविध्वम् ।
नहेर्द्धः ॥ २७८ ॥
नहेर्हकारस्य धो भवति धुट्यन्ते च । अनात्सीत् अनाद्धाम् अनात्सुः । अनात्सीः अनाद्धम् अनाद्ध । अनात्सम् अनात्स्व अनात्स्म। अनद्ध अनत्साताम् अनत्सत । अनद्धाः अनत्साथाम् अनद्भुवम् । अनत्सि अस्वहि अस्महि । इति दिवादिः ।
स्तुसुधूभ्यः परस्मै ॥ २७९ ॥
स्तुसुधूञ्भ्य इडागमो भवति परस्मैपदे सिचि परे । अस्तावीत् अस्ताविष्टां अस्ताविषुः । धूञ् कम्पने । अधावीत् । उदनुबन्धत्वाद्विकल्पेनेट् । आशिष्ट आशिषातां आशिषत। आष्ट आक्षातां आक्षत । अचैषीत् अचैष्टां अचैषुः । अचेष्ट अचेषातां अचेषत । इति स्वादिः ।
अदितुदिनुदिक्षुदिस्विद्य-
तिविद्यतिविन्दतिविनत्तिछिदिभिदिहदिशदिसदिपदिस्कन्दिखिदेर्दात् ॥ २८० ॥
एभ्य: षोडशभ्यः परमसार्वधातुकमनिड् भवति ।
व्यञ्जनान्तानामनिटाम् ॥२८१ ॥
व्यञ्जनान्तानामनिटां धातूनां वृद्धिर्भवति परस्मैपदे सिचि परे । तुद व्यथने । अतौत्सीत् अतौत्तां अतौत्सुः । अतुत्त अतुत्सातां अनुत्सत । मृङ् प्राणत्यागे ।
ऋतोऽवृवृञः ॥ २८२ ॥
वृङ्वृञ्वर्जितादेकस्वरादृतः परमसार्वधातुकमनिड् भवति ।
ऋदन्तानां च ॥ २८३ ॥
ऋदन्तानां च गुणो न भवति अनिटि सिजाशिषोश्चात्मनेपदे परे । अमृत अमृषातां अमृषतां अमुचत् अमुचतां अमुचन् ।
सिजाशिषोचात्मने ॥ २८४ ॥
नामिन उपधायाः सिच्यानात्मनेपदे परे आशिषि चानिटि गुणो न भवति कर्तरि विहितायामद्यतन्यां परस्मैपदे | अमुक्त अमुक्षातां अमुक्षत।
स्पृशमृशकृशतृपिदृपिसृपिभ्यो वा ॥ २८५ ॥
एभ्यः सिज्वा भवति अद्यतन्यां ।
स्पृशादीनां वा ॥ २८६ ॥
स्पृशादीनां स्वरात्परः अकारागमो भवति वा गुणवृद्धिस्थाने धुटि परे ॥ स्पृश संस्पर्शने ॥ अस्प्रार्क्षीत् अस्प्राष्टां अस्प्राक्षुः । अस्पार्क्षीत् अस्पार्ष्टां अस्पार्क्षुः । सण इति सण् । अस्पृक्षत् । मृश आमर्शने || अम्राक्षीत् अम्राष्टां अम्राक्षुः । अमार्क्षीत् अमार्ष्टां अमार्क्षुः । अमृक्षत् । कृश विलेखने। अकाक्षीत् अक्राष्टां अक्राक्षुः । अकाक्षत् अकार्ष्टां अकार्क्षुः । अकृक्षत् ॥ तृपिदृप्योर्वा ॥ तृप मीणने ॥ अत्राप्सीत् अत्राप्तां अत्राप्सुः । अतार्प्सीत् । पुषादित्वादण् भवति । अत्रपत् । दृप हर्षमोहनयोः । अद्राप्सीत् अद्राप्ताम् अद्राप्सुः अदार्प्सीत् । अदृपत् एतौ पुत्रादी। सृप्ऌ वि गतौ । अस्राप्सीत् । अस्रार्प्सीत । असृपत् । इति तुदादिः ।
इरनुबन्धाद्वा ॥ २८७ ॥
इरनुबन्धाद्धातोर्वा अण् भवति । कर्तर्यद्यतभ्यां परस्मैपदे परे । अरुथत् अरुथतां अरुधन् । अरौत्सीत् अरौद्धां अरौत्सुः । अरौत्सीः अरौद्धं अरौद्ध । अरौप्सं अरौत्स्व अरौत्स्म । अणभावपक्षे सिच् ।
राधिरुधिकुधिक्षुधिबन्धिशुधिसिध्यतिबुध्यतियुधिव्यधिसाधेर्धात् ॥ २८८ ॥
एभ्यः परमसार्वधातुकमनिड् भवति । इत्यनेन पूर्वोदाहरणेषु नेट् । युजिरुजिरञ्जिमुजिभजिभञ्जिसञ्जित्यजिभ्रस्जियजिमस्जिसृजिनिजिविजिष्वञ्जेर्जात्
।।२८९ ॥
एभ्यः परमसार्वधातुकमनिड् भवति । अभुक्त अभुक्षातां अधुक्षत। इरनुबन्धाद्वेत्यण् । अयुजत् अयुजतां अयुजन् । अणभावे अयौक्षीत् अयौक्तां अयोक्षुः । अयुक्त अयुक्षातां अयुक्षत । इति रुधादिः । तनु विस्तारे। अतनीत् अनिष्टां अतनिषुः । अतनिष्ट अतनिषातां अतनिषत । अमनिष्ट अमनिषातां अमनिषत । अकार्षीत् अका अकार्षुः । अकृत अकृषातां अकृषत इत्यादि । इति तनादिः । अक्रैषीत् अक्रैष्टा अक्रैषुः । अक्रेष्ट अक्रेातां अक्रेषत । नञा निर्दिष्टमनित्यत्वात् ।
ऋद्वृङ्वृञां सनीड् वा स्यादात्मने च सिजाशिषोः ।
संयोगादेर्ऋतो वाच्यः सुडसिद्धो बहिर्भवः ॥१ ॥
संयोगादेः ऋत:- स्मृ आध्याने इत्यस्य यथा । तर्हि ‘सुड् भूषणे संपर्युपात्’ इत्यनेन कृञो धातोः सुटि प्रत्यये समागते सति संस्कृ उपस्कृ इत्यत्र संयोगो वर्तते, तत्रापि इट् प्रत्ययो भविष्यति विकल्पेन; नैवं यतः कारणात् सुडसिद्धो बहिर्भवः । सुट् प्रत्यय आगतोऽपि अनागत इव वर्तते । तत्कारणगर्भितं विशेषणमाह- कथंभूतः सुट् ? बहिर्भवो बहिरङ्गः । असिद्धं बहिरङ्गमन्तरङ्गे इति न्यायादित्यर्थः ।
इति इड्विकल्पेन । पुनरपि,
ऋद्वृड्वृञोपि वा दीर्घो न परोक्षाशिषोरिटः ।
न परस्मै सिचि प्रोक्त इति योगविभञ्जनात् ॥ २ ॥
इति इटो दीर्घो विकल्पेन । वृड् सभक्तौ । अवृत अवृषातां अवृषत। अवरिष्ट अवरिषातां अवरिषत । अवरीष्ट अवरीषातां अवरीषत । ग्रहीङ् उपादाने ।
इटो दीर्घो ग्रहेरपरोक्षायाम् ॥ २९० ॥
ग्रहेः परस्य इटो दीर्घो भवति अपरोक्षायाम् । अग्रहीत् अग्रहीष्टां अग्रहीषुः । अग्रहीष्ट अग्रहीषातां अग्रहीषत । इति क्यादिः ।
श्रिद्रुस्नुकमिकारितान्तेभ्यश्चण् कर्त्तरि ॥ २९९ ॥
एभ्यश्चण् भवति कर्तर्यद्यतन्यां परत: ।
चण् परोक्षाचेक्रीयितसनन्तेषु ॥ २९२ ॥
चणादिषु धातोर्द्विर्वचनं भवति । अभ्यासस्यादिव्यञ्जनमवशेष्यमिति अनादेर्लोपः । भज श्रिञ् सेवायां । अशिश्रियत् । अदुद्रुवत् अदुद्रुवतां । असुस्रुवत् । कमु कान्तौ ।
कवर्गस्य चवर्गः ॥ २९३ ॥
अभ्यासकवर्गस्य चवर्गों भवति आन्तरतम्यात् । अचकमत् । इति अभ्यासो धातुवत् । पक्षे अचीकमत् ।
इन्यसमानलोपोपधाया हस्वश्चणि ॥ २९४ ॥
समानलोपवर्जितस्य लघ्वन्तस्योपधाया ह्रस्वो भवति लघुनि धात्वक्षरे इनि चण्परे ।
दीर्घो लघोरस्वरादीनाम् ॥ २९५ ॥
समानलोपवर्जितस्य लघ्वन्तस्य दीर्घो भवति लघुनि धात्वक्षरे इनि चण्परे । कारितस्य लोपः । अचूचुरत् अचूचुरतां अचूचुरन् । असमानलोपोपधाया इति किम् ? क्षिप क्षान्तौ । अचिक्षिपत् । क्षल शौचे । अचिक्षलत् ।
अलोपे समानस्य सन्वल्लघुनीनि चप्परे ॥ २९६ ॥
समानस्यालोपे सति लघुनि धात्वक्षरे अभ्यासस्य सन्वत्कार्यं भवति इनि चण्परे । किं सन्वत्कार्य ?
सन्यवर्णस्य ॥२१७ ॥
अभ्यासावर्णस्य इत्वं भवति सनि परे । अपीपलत् अपीपलतां अपीपलन् । अलोपे समानस्येति किं ? अदन्ताः कथं वाक्यप्रबन्धे इत्यादयः ।
धातोश्च ॥ २९८ ॥
अनेकाक्षरस्य धातोरन्ते स्वरादेर्लोपो भवति इनि परे । अचकथत् अचकथतां अचकथन् । एवं रच प्रयले । व्यररचत् व्यररवतां व्यररचन् । इत्यादि । समानस्येति किम् ? पटुमाचष्टे पटुं करोति तत्करोति तदाचष्टे इति इन् । अपीपटत् । वृद्धौ सन्ध्यक्षरलोपः । रूप रूपक्रियायां । व्यरुरूपत् व्यरुरूपतां व्यरुरूपन् । लघुनि धात्वक्षरे इति किम् ? तर्ज भर्ल्स सन्तर्जने । अततर्जत अततजेतां अततर्जन्त । संयोगविसर्गानुस्वारपरोऽपि गुरुः स्याद् ह्रस्वः । अवभर्त्सत अबभत्सेताम् अवभर्त्सन्त । वृङ् वरणे । अवीवरत् अवीवरतां अवीवरन् । अततन्त्रत् ।
स्वरादेर्द्वितीयस्य || २९९ ॥
स्वरादेर्धातोर्द्वितीयावयवस्य द्विर्वचनं भवति । तत्र च ।
न नबदराः संयोगादयोऽये ||३०० ||
स्वरादेर्धातोर्द्विययावयवस्य संयोगादयो नबदरा न द्विरुच्यन्ते न तु ये परे । अर्च पूजायां । आर्चिचत् आर्चिचतां आर्चिचन्। एवं अर्ह पूजायां । आर्जिहत् ।
न शासृनुबन्धानाम् ॥३०१ ॥
शास ऋदनुबन्धानां चोपधाया ह्रस्वो न भवति इनि चण्परे । अशशासत् अशशासताम् अशशासन् । ढोकृ तौकृ गतौ । अडुढौकत अडुढौकेतां अडुढौकन्त । अतुतौकत। शासेरिति किं ? आङ शासूङ् इच्छायाम् । आशीशसत् भ्राज् आष् दीप्तौ ।
भाषदीपजीवमीलपीडकणवणभणश्रणमणहेठलुपां वा ॥ ३०२ ॥
एषामुपधाया ह्रस्वो भवति वा इनि चापरे । भाष् व्यक्तायां वाचि । दोप दीप्तौ । जीव प्राणधारणे । मील निमेषणे । पीड गहने । कण वण भण श्रण मण शब्दे । हेठ गतौ । लुप्लु छेदने अविभ्रजत् अबिभ्रजतां अबिभ्रजन् । अविभ्रजत | अविभ्राजत् अवभ्राजत । अबिभ्रशत् । अविभ्रशत। अबभ्राशत् । अबभ्राशत | अबिभषत । अबभाषत । अदीदिपत् । अदिदीपत् । अजीजिवत् । अजिजीवत् । अमीमिलत् । अमिमीलत् । अपिपीडत् । अपीपिडत् । अचीकणत् । अचकाणत् । अवीवणत् । अववाणत् । अबोभणत् । अवधाणत् । अमीमणत् । अममाणत् । अशीश्रणम् । अशश्राणत् । अजीहेठत् । अजिहेठत् । अलूलुपत् अलुलूपत् । चिति स्मृत्यां । अचिचिन्तत् । स्फुट परिहासे ।
शिट्परो घोषः ॥ ३०३ ॥
शिटः परो घोषोऽवशेप्यो भवति । शिटो लोष इत्यर्थः । अपुस्फुटत् । लक्ष दर्शनाङ्कनयोः । अललक्षत् । भक्ष अदने । अवभक्षत् । कुट्ट अनृतभाषणे । अचुकुट्टत् । लड उपसेवायां । अलीलडत् । मिदि तिल स्नेहने । अमिमिन्दत् । अतितिलत् । ओलडि उत्क्षेपे । अललण्डत् । पीड अवगाहने । अपीपिडत् । नट अवस्यन्दने । अनीनटत् । बध संयमने । अबीबधत्। चुट छुट कुट छेदने। अचूचुटत् । अचूछुटत् | अचूकुटत् । पुट चुट अल्पीभावे । अपूपुटत् । अचूचुटत् । मुट चूर्णने। अमूमुटत् । घट चलने । अजीघटत् । छद षद संवरणे। अचीछदत् । असीषदत् । क्षिप क्षान्तौ । अचिक्षिपत् । नक्क धक्क पिशि नाशने । अननक्कत्। अदधक्कत् अपिपिंशत् । चक्क चुक्क व्यथने । अचचक्कत् अचुचुक्कत् । क्षल शौचे | अविक्षलत् चुद संचोदने। अचूचुदत् । गुडि सुजि जैसि पल रक्षणे । अजुगुण्डत् । असुसुञ्जत । अजजंसत् अजजंसतां अजजंसन् । अपीपलत् । तिल प्रतिष्ठायां । अतीतिलत् । तुल उन्माने । अतूतुलत् मूल रोहणे । अमूमुलत्। मान पूजायां । अमीमनत् । श्लिष श्लेषणे । अशिश्लिषत् । जप मानसे । अजीजपत् । ज्ञप मानुबन्धे । अजिज्ञपत् । व्यय क्षये । अविव्ययत् । चूर्ण संकोचने । अचुचूर्णत् । पूज पूजायां । अपुपूजत् । अर्क्कईड स्तवने। आर्चिक्कत्। ऐडिडत् । शुठ आलस्ये । अशूशुठत् । शुठि शोषणे । अशुशुण्ठत् । पचि विस्तारवचने । अपपचत् । तिज निशामने। अतीतिजत् । वर्ष छेदनपूरणयोः । अववर्धत् । कुबि आच्छादने । अचुकुंबत् । लुबि तुबि अर्दने । अलुलुम्बत् । अतुतुम्बत् । म्रक्ष म्लक्ष रक्षणे । अमम्रक्षत् । अभम्लक्षत् । इल प्रेरणे । ऐलिलत् । लुण्ट स्तेये। अलुलुण्टत् । छर्द वमने । अचछर्दत् । गुडि वेष्टने । अजुगुण्डत् गर्द अभिकाङ्क्षायां । अजगर्दत् । रुष रोषणे । अरूरुषत् । मडि भूषायां हर्षे च । अपमण्डत् । श्रण दाने । अशिश्रणत् । भडि कल्याणे । अबभण्डत् । तत्रि कुटुम्बधारणे । अततन्त्रत् । मत्रि गुप्तभाषणे । अममन्त्रत् । विद संवेदने । अवीविदत् । दंश दंशने । अददंशत् । रूप रूपये । अरुरूपत् । भ्रूण आशायां । अबुभ्रूणत् । शठ श्लाघायां । अशीशठत् । स्यम वितर्के। असिस्यमत् । गूरी उद्यमे अजूगुरत् । कुत्स अवक्षेपणे । अनुकुत्सत् । कूट प्रमादे। अचूकुटत् । वञ्च प्रलंभने । अववञ्चत् । मद तृप्तियोगे । अमीमदत् । दिव परिकूजने । अदीदिवत् । कुस्म कुस्मयने । अचुकुस्मत् । चर्च अध्ययने । अचचर्चत् । कण निमीलने । अचीकणत्। जसु ताडने । अजीजसत् । पप बन्धने । अपीपयत् । अम रोगे। आमिमत् । चट स्फुट भेदने । अचीचटत् अपुस्फुटत् । घुषिर् शब्दे | अजूघुषत् । लस शिल्पयोगे । अलीलसत् । भूष अलङ्कारे । अबूभूषत । रक लक आस्वादने । अरीरकत् । अलीलकत् । लिगि विचित्रीकरणे अलिलिङ्गत् । मुद संसर्गे । अमूमुदत् । मुच प्रमोचने । अमूमुचत् । ग्रस कवलग्रहणे । अजिग्रसत् । पूरी आप्यायने । अपूपुरत् ।
इतः परमदन्ताः कथ्यन्ते । कथं वाक्यप्रबन्धने । अचकथत् । गण संख्याने अजगणत् । पठ वट ग्रन्थे । अपपठत् । अववटत्। रह त्यागे । अररहत् । पद गतौ। अपपदत् । कल गतौ संख्याने च । अचकलत् । मह पूजाणां । अममहत् । स्पृह ईप्सायां । अपस्पृहत् । शूच पैशुन्ये । अशुशूवत् । कुमार क्रीडायां । अचुकुमारत् । गोम् उपदेहे। अजुगोमत् । गवेष मार्गणे । अजगवेषत् | भाज पृथक्कर्मणि । अबभाजत् । स्तेन चौर्ये। अतिस्तेनत् । परस्मैभाषा | आगर्वादात्मनेपदी । पद गतौ। अपपदत अपपदेतां अपपदन्त । अपपदथा: अपपदेथां अपपदध्वं । अपपदे अपपदावहि अपपदामहि । मृग अन्वेषणे । अममृगत । कुह विस्मापने । अचुकुहत शूर वीर विक्रान्तौ । अशुशूरत। अविवरत । स्थूल परिवृंहणे । अतुस्थूलत | अर्थ उपयाञ्चायां । आर्तिथत । संग्राम संयुद्धे । अससंग्रामत् । गर्व माने। अजगर्वत् । आत्मने भाषा ॥ मूत्र प्रस्नवणे । अमुमूत्रत् । पार तीर कर्मसमाप्तौ । अपपारत् । अतितीरत् । चित्र विचित्रीकरणे । अचिचित्रत। छिद्र कर्णभेदे । अविद्रित । अन्ध दृष्ट्युपसंहारे । आन्दधत् । दण्ड दण्डनिपातने । अददण्डत् । सुख दुःख तत्क्रिययोः । असुसुखत् । अदुदुःखत् । रस आस्वादनस्नेहनयोः । अररसत् । व्यय वित्तसमुत्सर्गे । अवव्ययत् । वर्ण वर्णक्रयाविस्तारगुणवचने । अववर्णत् । पर्ण हरितभावे | अपपर्णत् । अघ पापकरणे आजिघत् । इति चुरादयः ।
मास्म भूत् । मास्मैधिष्ट । मास्म पाक्षीत् मास्म पाक्तां मास्म पाक्षुः मास्म पाक्षी: मास्म पाक्तं मास्म पाक्त मास्म पाक्ष मास्म पाव मास्म पाक्ष्म । मास्म पक्त मास्म पक्षातां मास्म पक्षत। मास्म पक्थाः मास्म पक्षायां मास्म पग्ध्वं । मास्म पक्षि मास्म पश्वहि मास्म पक्ष्महि । मा भूत् । मैथिष्ट मा पाक्षीत् । मा पक्त ।
इति अद्यतनी समाप्ता ।
परोक्षा ॥ ३०४ ॥
चिरातीते काले परीक्षा विभक्तिर्भवति । अक्ष्णां परः परोक्षम् । सम्प्रति इन्द्रियाणामविषय इत्यर्थः । चण परोक्षाचेक्रीयितसन्नन्तेषु द्विर्वचने सति ।
भवतेरः ||३०५ ||
भवतेरभ्यासस्य अकारो भवति परोक्षायां । आगमादेशयोरागमो विधिर्बलवान् । इति गुणो न भवति । बभूव बभूवतुः बभूवुः । इडागमो सार्वधातुकस्यादिव्यञ्जनादेरिति व्यञ्जनादाविडागमः । बभूविभ बभूवथुः बभूव । बभूव बभूविव बभूविम ।
नाम्यादेर्गुरुमतोऽनृच्छः ||३०६ ॥
ऋच्छ इति वर्जितान्नाम्यादेर्गुरुमतो धातोरेकस्वरादाम् भवति परोक्षायां ।
आमः कृञनुप्रयुज्यते ॥ ३०७ ॥
आमन्तस्य कृञनुप्रयुज्यते परोक्षायाम् । द्विर्वचनंम्।
ऋवर्णस्याकारः ||३०८ ॥
अभ्यास ऋवर्णस्याकारो भवति ।
सर्वत्रात्मने ॥३०९ ||
सर्वेषां धातूनां गुणो न भवति परोक्षायामात्मनेपदे सर्वत्र । अधाञ्चक्रे एधाञ्चक्राते एधाञ्चक्रिरे ।
कृञोऽसुटः ||३१० ||
असुटः कृञः परोक्षायां थलि चानिड् भवति । एधाञ्चकृषे एधाञ्चक्राथे एधाञ्चकृदवे । एधाञ्चक्रे एधाञ्चकृवहे एधाञ्चकृमहे ।
असु भुवौ च परस्मै ॥ ३११ ॥
आमन्तस्यासु भुवावप्यनुप्रयुज्यते परस्मैपदे परे परस्मैपदं चातिदिश्यते । एधामास एधामासतुः एधामासुः । एधामासिथ एधामासथुः एधामास । एथामास एधामासिव एधामासिम एधांबभूव एघांबभूवतुः एधांबभूवुः । अस्योपधायामित्यादिना दीर्घः । पपाच ।
परोक्षायां च ॥ ३१२ ॥
सर्वेषां धातूनां गुणो न भवति परोक्षायां परस्मैपदे द्वित्वबहुत्वयोः परतः ।
अस्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् ||३१३ |
अनादेशादेर्धातोरेकव्यञ्जनमध्यगतस्यास्य एत्वं भवत्यभ्यासलोपश्च परोक्षायामगुणे । पेचतुः पेचु ।
नित्यात्वतां स्वरान्तानां सृजिदृशोच वेट् थलि।
ऋचि नित्यानिटः स्युश्चेद् वृव्येडां नित्यमिद् थलि ॥
इत्येषामिड वा भवति थलि परे ।
थलि च सेटि ।। ३१४ ॥
अनादेशादेर्धातोरेकव्यञ्जनमध्यगतस्य अस्य एत्वं भवत्यभ्यासलोपश्च सेटि थलि परे । पेचिथ पपक्थ पेचधुः पेच !
अट्युत्तमे वा ॥३१५ ।।
उपधाया अस्य दीर्घो भवति अन्त्यानां नामिनां च वृद्धिर्भवति वा परोक्षायामुत्तमपुरुषेऽटि परे । पपाच पपच ।
सृवृभृस्रद्रुस्तुश्रुव एव परोक्षायाम् ॥ ३९६ ॥
एषामेव न इट् भवति परोक्षायामन्येषां भवत्येव । इति स्त्रादिनियमादिट् । पेचिव । पेचिम । पेचे पेचाते पेचिरे । पेचिषे पेचाथे पेचिध्वे । पेचे पेचिवहे पेचिमहे । अस्यैकव्यञ्जनमित्युपलक्षणम् । उपलक्षणं किं ? स्वस्य स्वसदृशस्य च ग्राहकमुपलक्षणम् । इत्याकारस्यानेकव्यञ्जनस्यापि क्वचित् । राधू साध् संसिद्धौ ।
राधो हिंसायाम् || ३१७ ॥
हिंसार्थस्य राध एत्वं भवति अभ्यासलोपश्च परोक्षायामगुणे । अपरराध अपरेधतुः अपरेधुः । इत्यादि । हिंसायामिति किं ? आरराध आरराधतुः । इत्यादि ॥
राजिभ्राजिभ्रासिभ्लासीनां वा ॥ ३१८ ॥
एषां वा एत्वं भवति अभ्यासलोपश्च परोक्षायामगुणे | राजृ दीप्तौ । रराज रेजतुः रराजतुः रेजुः रराजु: । रेजिथ रराजिथ । थलि च सेटि वा एत्वमभ्यासलोपश्च । रेजथुः रराजथुः रेज रराज । रराज रेजिव रराजिव रेजिम रराजिम रेजे रजाजे रेजाते रराजाते रेजिरे रराजिरे । रेजिषे रराजिषे रेजाथे रराजाथे रेजिदवे रराजिवे । रेजे रराजे रेजिवहे रराजिवहे रेजिमहे रराजिमहे । भ्रासृट् भ्राट भ्लास्ट् दीप्तौ । भेजे बभ्राजे । प्रेसे बधासे । श्लेसे बभ्लासे। कासू भासृ दीप्तौ । चकासे चकासाते चकासिरे । चकासिषे चकासाथे चकासिध्ये । चकासे चकासिवहे । चकासिमहे । एवं बभासे बभासाते बभासिरे । एकव्यञ्जनमध्यगतस्येति किं ? ननन्द ननन्दतुः ननन्दुः ननन्दिथ ननन्दथुः ननन्द ननन्दिव ननन्दिम ।
परोक्षायामिन्धिश्रन्थिग्रन्थिदम्भीनामगुणे ॥ ३१९ ॥
इन्धिश्रन्थिग्रन्थिदम्भीनामनुषङ्गलोपो भवति परोक्षायामगुणे । इत्यनेनानुषङ्गलोपः । जिइन्धि दीप्तौ । समीधे समीधाते समीधिरे ।
तृफलभजत्रपश्रन्थिदम्भीनां च ॥ ३२० ॥
एषामुपधाया अस्य एत्वं भवति अभ्यासलोपश्च परोक्षायामगुणे सेटि थलि च । तू प्लवनतरणयोः । ततार ।
ऋदन्तानां च ॥३२१ ॥
ऋदन्तानां गुणो भवति परोक्षायामगुणे : तेरतुः तेरुः । तेरिथ तेरथुः तेर । ततार ततर तेरिव तेरिम । फल निष्पत्तौ । पफाल फेलतुः फेलुः । भज श्रीङ् सेवायां । बभाज भेजतुः भेजुः । त्रपूष् लज्जायां । त्रेपे त्रेपाते पिरे । श्रन्थ ग्रन्थ संदर्भे । शश्रन्थ श्रेथतुः श्रेधुः । निरनुषङ्गैः तृप्रभृतिभिः साहच्यादभ्यासलोपः अकारस्य एत्वं च न स्यात् । शत्रुन्थिथ । जयन्थ । येथतुः येथुः । जग्रन्थि । दम्भू दम्भे । ददम्भ देभतुः देभुः । ददम्भिथ । अन्यत्र नानुषङ्गलोप इति किं ? ननन्द ननन्दतुः ननन्दुः । ननन्दिथ । सांसे । बभ्रंसे । दध्वंसे ।
परोक्षायामभ्यासस्योभयेषाम् ॥ ३२२ ॥
उभयेषां ग्रहादिस्वप्यादीनामभ्यासस्यान्तस्थायाः सम्प्रसारणं भवति परोक्षायां । गुण्यर्थोऽयं योगः । ग्रहीङ् उपादाने । जग्राह । ग्रहिज्यावधीत्यादिना संप्रसारणं । जगृहतुः जगृहु: ।
आकारादट औ ॥ ३२३ ॥
आकारात्परस्याट् और्भवति ।
सन्ध्यक्षरे च ॥ ३२४ ॥
धातोराकारस्य लोपो भवति सन्ध्यक्षरे च परे । ज्या वयोहानौ । जिज्यौ ||
य इवर्णस्य || ३२५ ||
असंयोगात् पूर्वस्यानेकाक्षरस्य इवर्णस्य यो भवति । इति इवर्णस्य यकारः । जिज्यतुः जिज्युः ।
इटि च ।। ३२६ ।।
धातोराकारस्य लोपो भवति इटि परे । जिज्यिथ जिज्यथुः जिज्य । जिज्यौ जिज्यिव जिज्यिम । वेञ् तन्तुसन्ताने ।
वेञश्च वयिः || ३२७ ॥
वेञो वा वयिर्भवति परोक्षायाम् । तत्र च संप्रसारणं भवति । उवाय ऊयतुः ऊयुः । उवयिथ ऊयथुः ऊय । उवाय उवय ऊचिव ऊयिम । पक्षे सन्ध्यक्षरान्तानामाकारो विकरणे इत्याकारादेश: ।
न वाश्व्योरगुणे च ॥ ३२८ ॥
वाश्व्योरगुणे च गुणिनि संप्रसारणं न भवति परोक्षायां । ववौ ववतुः वदुः । वविध ववाथ ववथुः वव वव ववव ववम । व्यध ताडने । विव्याध विविधतुः विविधुः । विव्यधिथ विव्यद्ध । वश कान्तौ । उवाश ऊशतुः ऊशुः । उवशिथ उवष्ठ । व्यच व्याजीकरणे । विव्याच विविचतुः विविचुः । विव्यचिथ । प्रच्छ ज्ञीप्सायां ।
प्रच्छदीनां परोक्षायाम् ॥ ३२९ ।।
प्रच्छादीनां संप्रसारणं न भवति परोक्षायां । पप्रच्छ पप्रच्छतुः पप्रच्छुः । पप्रच्छिथ पप्रष्ठ । ओवश्चू छेदने । ववश्च ववश्चतुः ववश्च । वश्चिथ । इवर्णतवर्गलसा दन्त्यः इति न्यायात् सकारस्य दकारः । भ्रस्ज पाके । बभ्रज्ज बभ्रुज्जतुः बभ्रज्जुः । बभ्रज्जिथ । स्को: संयोगाद्योरन्ते च इति सकारलोपः । भृज्जादीनां ष इति षत्वं । बभ्रस्त । स्वपि वचि यजादीनां यण् परोक्षाशीष्णु । इति संप्रसारणं भवति । ञिष्वप् शये । सुष्वाप सुषुपतुः सुषुपुः सुष्वपिथ सुष्वप्थ सुषुपथुः सुषुपुः । सुष्वाप सुष्वप सुषुपिव सुषुपिम। वच परिभाषणे । उवाच ऊचतुः ऊचुः । उवक्थ ।
यजो वयो वहेश्चैव वेञ्येञौ ह्वयतिस्तथा ।
वद्वसौ श्वयतिक्षैव स्मृता नव यजादयः ॥ १ ॥
यज देवपूजासंगतिकरणदानेषु । इयाज ईजतुः ईजुः । इयजिथ । भ्रज्जादीनां ष: इति षत्वं । इयष्ठ । ईजथुः ईज । इयाज इयज ईजिव ईजिम। ईजे ईजाते ईजिरे । ईजिषे ईजाथे ईजिध्वे । ईजे ईजिवहे ईजिमहे । टुवप् बीजसन्ताने । उवाप ऊपतुः ऊषुः । उवपिथ उपप्थ ऊपथुः ऊप। ऊपे ऊपाते ऊपिरे । वहि प्रापणे । उवाह ऊहतुः ऊहुः । उवहिथ । सहिवहोरोदवर्णस्येति ओत्वं । उवोढ । ऊहे ऊहाते ऊहिरे ।
न व्ययतेः परोक्षायाम् ॥३३० ॥
व्ययतेराकारो न भवति परोक्षायां गुणिनि । विवाय विव्यतुः विव्युः । विव्यिथ विव्यथ विव्यथुः विव्य। विव्याय विव्यय विव्यिव विव्यिम । विव्ये विव्याते विव्यिरे । ह्वेञ्-स्पर्धायां वाचि ।
अभ्यस्तस्य च ॥३३१ ॥
ह्वयतेरभ्यस्तमात्रस्य च संप्रसारणं भवति । जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ । जुहुवे जुहुवाते जुहुविरे । वद व्यक्तायां वाचि । उवाद ऊदतुः ऊदुः । उवदिथ । ऊदे उदाते ऊदिरे। वस निवासे । उवास ऊषतुः ऊषुः । उवसिध उवस्थ । ऊषे ऊषाते ऊषिरे । दुओश्वि गतिवृद्धयोः ।
श्वयतेर्वा ||३३२ ॥
श्वयतेर्वा सम्प्रसारणं भवति परोक्षायां चेक्रयते च । शुशाव शुशुवतुः शुशुवुः । शुशविध शुशोथ शुशुवथुः शुशुव । शुशाव शुशव शुशुविव शुशुविम। शुशुवे शुशुवाते शुशुविरे शिवाय शिश्वियतुः शिश्वियुः । शिश्वयिथ शिवेथ शिश्वियथुः शिश्विय । शिश्वाय शिश्वय । शिश्विये शिश्वियाते शिश्चियिरे । इति भ्वादि: ॥
वा परोक्षायाम् ॥ ३३३ ॥
अदेर्घस्ऌ आदेशो भवति वा परोक्षायां । जघास । गमहनेत्यादिना उपधालोपो भवत्यगुणे । जक्षतुः जक्षुः । जघसिथ जवस्थ जक्षथुः जक्ष । जघास जघस जक्षिव जक्षिम । घस्ऌभावे ।
अस्यादेः सर्वत्र ||३३४ ॥
अभ्यासस्यादेरस्य दीर्घो भवति परोक्षायां सर्वत्र । आद आदतुः आदुः । आदिथ आत्थ आदथुः आद। आद आद्व आद्म। शीङ् स्वप्ने । शिश्ये शिश्याते शिश्यिरे । उवाच ऊचतुः ऊचुः । ऊचे ऊचाते ऊचिरे । उष दाहे । विद ज्ञाने। जागृ निद्राक्षये ।
उषविदजागृभ्यो वा ॥ ३३५ ॥
उषादिभ्यो वा आम् भवति परोक्षायां । ओषाञ्चकार ओषाञ्चक्रतुः ओषाञ्चक्रुः ।
आमि विदेरेव ||३३६ ॥
आमि परे विदेरेव गुणो न भवति । विदाञ्चकार विदाञ्चक्रतुः विदाञ्चक्रुः । जागराञ्चकार जागराञ्चक्रतुः जागराञ्चक्रुः | आमभावे अभ्यासस्यासवर्णे इत्युवादेशः । उवोष ऊषतुः ऊषुः । विवेद विविदतुः विविदुः । जजागार ।
परोक्षायामगुणे ॥ ३३७ ॥
जागतेर्गुणो भवति परोक्षायामगुणे परे । जजागरतुः जजागुरुः । इत्यदादिः । ।
भीह्रीभृहुवां तिवच्च ॥ ३३८ ॥
एषां वा आम् भवति परोक्षायां स च विद्भवति । इति तिवद्भावाद् द्विर्वचनं । जुहुवाञ्चकार जुहुवाञ्चक्रतुः जुहुवाञ्चकुः । जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ जुहुवथुः जुहुव । जुहाव जुहव जुहुविव जुहुविम । जिभी भये । बिभयाञ्चकार विभयाञ्चक्रतुः बिभयाञ्चक्रुः । बिभाय बिभ्यतुः बिभ्युः । बिभयिथ बिभेथ ही लज्जायां। जियाञ्चकार जिह्रयाञ्चक्रतुः जियाञ्चक्रुः । जिह्वाय जिह्रियतु: जिहियुः । विभराञ्चकार बिभराञ्चक्रतुः बिभराचकुः । इत्यादि । जहे जहाते जहिरे । दधौ दधतुः दधुः । दधिव दधाथ । दधे दधाते दधिरे । दधिषे दधाथे दधिध्वे । दधे दधिवहे दधिमहे । इति जुहोत्यादिः । दिदेव दिदिवतुः दिदिवुः । सुषुवे सुषुवाते सुषुविरे । ननाह नेहतुः नेहुः । नेहिथ ननद्ध नेहथुः नेह । ननाह नेहिव नेहिम । नेहे नेहाते नेहिरे । इति दिवादिः । सुषाव सुषुवतुः सुषुवुः । सुषविथ सुषोथ ।
अस्यादेः सर्वत्र ||३३९ ॥
अभ्यासस्य अकारस्य दीर्घो भवति परोक्षायां सर्वत्र ।
अश्नोतेश्च ॥ ३४० ॥
अश्नोतेस्तस्माद्दीर्घीभूतादभ्यासाकारात्परः परादौ नकारागमो भवति परोक्षायां । आनशे आनशाते आनशिरे । व्यानशे व्यानशाते व्यानशिरे । ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु ।
ऋच्छ ऋतः ।। ३४१ ।।
ऋच्छधातोर्गुणो भवति परोक्षायां ।
तस्मान्नागमः परादिरन्तश्चेत्संयोगः ॥३४२ ॥
तस्माद्दीर्घीभूतादभ्यासस्याकारात्परः परादौ नकारागमो भवति धातोरन्तः संयोगश्चेत्परोक्षायां । आनर्छ आनर्छतुः । आनर्छुः । अञ्जू व्यक्तिमर्षणकान्तिगतिषु । आनञ्ज आनञ्जतुः आनञ्जुः । आनजिथ आनङ्क्थ आनञ्जथुः आनञ्ज । आनञ्ज आनञ्जिव आनजिम । तस्मादिति किं । आछि आयामे | आञ्छ आञ्छतुः आच्छुः । अयमस्यादेः सर्वत्र इति न क्लृप्तो दीर्घः । अन्तक्षेत्संयोग इति कि ? आट आटतुः ! ऋध वृद्धौ ।
ऋकारे च ।। ३४३ ॥
तस्माद्दीर्घीभूतादभ्यासाकारात्परः परादौ नकारागमो भवति ऋकारे च परोक्षायां । आनृधे आनृधाते आनृधिरे ।
चेः किर्या ।। ३४४ ।।
चे: किर्वा भवति परोक्षायां । चिकाय चिक्यतुः चिक्युः । चिक्ये । चिचाय चिच्यतुः चिच्युः । चिच्ये चिच्याते चिव्यिरे । इति स्वादिः । तुतोद तुतुदतुः तुतुदुः । मृञ् प्राणत्यागे ।
आशीरद्यतन्योश्च ॥ ३४५ ।।
मृज् आत्मनेपदी भवति चकारादनि च परे नान्यत्र । ममार मम्रतुः मनुः ।
थल्यृकारात् ||३४६ ॥
ऋकारान्तात् थलि नेड् भवति । ममर्थ मम्रथुः मुम्र । मुमोच मुमुचतुः मुमुचुः । मुमुचे मुमुचाते मुमुचिरे । इति तुदादिः ॥ रुरोध रुरुधतुः । बुभुजे बुभुजाते । युयोज । युयुजे । इति रुधादिः । ततान तेनतुः तेनुः । तेने तेनाते तेनिरे । मेने मेनाते मेनिरे । चकार चक्रतुः । चक्रे चक्राते ।
सुट् भूषणे सम्पर्युयात् ॥ ३४७ ॥
सम्पर्युपात्परस्य कृञ आदौ सुद् भवति भूवर्णेऽर्थे द्विर्वचने ।
शिट्परोऽघोषः || ३४८ ॥
अभ्यासस्य शिटः परोऽघोषोऽवशेष्यो भवति । शिटो लोप इत्यर्थः । संचस्कार ।
ऋतश्च संयोगादेः ||३४९ ॥
संयोगादेर्धातोः ऋतो गुणो भवति परोक्षायामगुणे । संचस्करतुः संचस्करुः । संचस्करिथ संचस्करथुः संचस्कर । परिचस्कार परिचस्करतुः । उपचस्कार उपचस्करतुः उपचस्करुः । उपचस्करे उपचस्कराते उपचरकरिरे । उपचस्करिवे उपचस्कराये. उपचस्करिध्वे । उपचस्करे उपचस्करिवहे उपवस्करिमहे । इति तनादिः । चिक्राय चिक्रियतुः चिक्रियुः । चिक्रियिथ चिक्रियथुः । चिक्रिये चिक्रियाते चिक्रियिरे । वत्रे ववाते वविरे ।
सृवृस्तुद्रुस्रुश्रुव एव परोक्षायाम् ॥३५० ॥
एभ्यो धातुभ्यः परो नेड् भवति एवं परोक्षायां । जग्राह जगृहतुः जगृहः । जगृहे । इति क्रयादिः ।
चकास्कास्प्रत्ययान्तेभ्य आम् परोक्षायाम् ॥ ३५१ ॥
एभ्य आम् भवति परोक्षायां । चकासृ दीप्तौ । चकासाञ्चकार चकासाञ्चक्रतुः । चकासाञ्चक्रे चकासाञ्चक्रांते चकासाञ्चक्रिरे। कासृ भासृ दीप्तौ । कासाञ्चक्रे । चोरयाञ्चकार । चोरयाञ्चक्रे । पालयामास पालयामासतुः । पालयाञ्चकार पालयाञ्चक्रतुः पालयाञ्चक्रुः । एवं पालयाञ्चक्रे पालयांञ्चक्राते पालयाञ्चक्रिरे । तत्रयाचक्रे । वारयानुकार । वारयाञ्चक्रे ।
दयायासचश्च || ३५२ ।।
एभ्य आम् भवति परोक्षायां । दय दानगतिहिंसादानेषु । दयाञ्चक्रे । अयाचक्रे । आसाञ्चक्रे । इति परोक्षा समाप्ता ॥
भविष्यति भविष्यन्त्याशी:श्वस्तन्यः ॥ ३५३ ॥
भविष्यति काले भविष्यन्त्याशी:श्वस्तन्यो भवन्ति ।
तासां स्वसंज्ञाभिः कालविशेषः || ३५४ |
तासां विभक्तीनां स्वसंज्ञाभिः कालस्य विशेषो भवति । श्वो भवः कालः श्वस्तनस्तत्र श्वस्तनी भवति । भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । एधिता एधितारौ एधितार: । एधितासे एधितासाथे एधिताध्वे । एधिताहे एधितास्वहे एधितास्महे । पक्ता । नन्दिता । स्रंसिता । श्रंसिता । ध्वंसिता । शकि वकि कौटिल्ये । शङ्किता । वङ्किता । वदिङ् अभिवादनस्तुत्योः । वन्दिता वन्दितारौ वन्दिवारः । वन्दितासे । वेञ् तन्तुसन्ताने । व्याता व्यातारौ व्यातारः । व्यातासे । इति भ्वादि: । अत्ता | शयिता । वक्ता । इत्यदादिः । होता । धाता । भर्ता । इति जुहोत्यादिः । देविता । सेविता । नद्धा । इति दिवादिः । सोता। अशिता । चेता। इति स्वादि: । तोता । मर्त्ता । मोक्ता । इति तुदादिः । रोद्धा । भोक्ता । योक्ता । इति रुधादिः । तनिता । मनिता । कर्त्ता । इति तनादिः । क्रेता । वरिता । ग्रहीता । इति क्रयादिः । चोरयिता । तन्त्रयिता । वारयिता । इति चुरादिः । इति श्वस्तनी समाप्ता ॥
भविष्यति भविष्यन्तीत्यादिना भविष्यति काले आशी: । इष्टस्याशंसनमाशी: ।
आशिषि च परस्मै ॥ ३५५ ॥
सर्वेषां धातूनां गुणो न भवति आशिषि च सर्वत्र परस्मैपदे परे । भूयात् भूयास्तां भूयासुः । भूयाः भूयास्तं भूयास्त । भूयासं भूयास्व भूयास्म । विनिमये वागतिहिंसाशब्दार्थहस इति चुरादित्वादात्मनेपदं । व्यतिभविषीष्ट । एधिषीष्ट एधिषीयास्तां एधिवीरन् । एधिषीष्ठाः एधिषीयास्थां एधिषीध्वं । एधिषीय एधिषीवहि । पच्यात् । पक्षीष्ट नद्यात् । संसिषीष्ट । भ्रंसिषीष्ट । ध्वंसिषीष्ट । स्वपिवचियजादीनामिति संप्रसारणम् । नाम्यन्तानामिति दीर्घश्च सुप्यात् । इज्यात् । व्येञ् संवरणे । उभयपदी वीयात् वीयास्तां वीयासुः । व्यासीष्ट व्यासीयास्तां व्यासीरन् । चिञ् चयने । चीयात् । चेषीष्ट । वेञ् तन्तुसन्ताने । उभयपदी । ऊयात् ऊयास्तां ऊयासुः । वासीष्ट वासीयास्तां वासीरन् । ज्या वयोहानौ । पराजीयात् । व्यध ताडने । विध्यात् । अद्यात् । अशूञ् व्याप्तौ । अशिषीष्ट अशिषीयास्तां अशिषीरन् । बुङ व्यक्तायां वाचि ।
ब्रुवो वचिः ॥३५६ ॥
ब्रूवो वचिर्भवत्यसार्वधातुकविषये । उच्यात् । वक्षीष्ट । इत्यादि । अध्यात् । शयिषीष्ट । हूयात् । हासीष्ट ।
आशिष्येकारः || ३५७ ॥
दामादीनामेकारो भवत्याशिष्यगुणे । विधेयात् । विधासीष्ट विधासीयास्तां विधासीरन् । उभयपदी । देयात् । मेयात् । गेयात् । पेयात् । स्थेयास्तां । अवसेयास्तां । हेयात् । अगुण इति किं ? धासीष्ट धासीयास्तां || दासीष्ट । दीव्यात् । सविषीष्ट । विकल्पेन सोषीष्ट सोषीयास्तां । नह्यात् । नत्सीष्ट । षुञ् अभिषवे सूयात् । अभिषूयात् । अभिषोषीष्ट । वा । “वा संयोगादेस्त इति वक्तव्यम्” ॥ ज्या वयोहानौ । ज्येयात् । ज्यायात् । म्लै गात्रविनामे । म्लेयात् । ग्लै हर्षक्षये । ग्लेयात् । टोश्वि गतिवृद्ध्योः । निश्श्रीयात् । निश्वेषीष्ट । इत्यादि । तुद्यात् । शल शातने । शत्सीष्ट । भृषीष्ट । मुच्यात् । मुक्षीष्ट । रुध्यात् रुत्सीष्ट । भुज्यात् भुक्षीष्ट । युज्यात् युक्षीष्ट । तन्यात् । तनिषीष्ट । मनिषीष्ट विक्रीयात् । विक्रीषीष्ट । गृह्यात् । ग्रहीशीष्ट । चोर्यात् । चोरयिषीष्ट । चोरयिषीयास्तां । पाल्यात् । पल शल पतलु पथे च गतौ । पाल रक्षणे च । उभयपदी । पालयिषीष्ट । अर्च पूजायां । अर्ध्यात् अर्च्यास्तां अर्च्यासुः । अर्चयिषीष्ट अर्चयिषीयास्तां । तन्त्रयिषीष्ट । वार्यात वारयिषीष्ट । इत्याशीः समाप्ता ॥ भविष्यति भविष्यन्तीत्यादिना भविष्यत्काले भविष्यन्ती | विभक्तिर्भवति । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः । एधिष्यते एधिष्येते एधिष्यन्ते । एधिष्यसे एधिष्येथे । एविष्यध्वे । एधिष्ये एधिष्यावहे । एधिष्यामहे । पक्ष्यति पक्ष्यते । नन्दिष्यते । संसिष्यते । असिष्यते । ध्वंसिष्यते । एवं शङ्किष्यते । वङ्किष्यते । वन्दिष्यते । वेञ् संवरणे। वास्यति। वास्यते । अत्स्यति । वक्ष्यति वक्ष्यते । होष्यते । होष्यति । धास्यति । धास्यते । दास्यति । दास्यते । देविष्यति । सेविष्यति । नत्स्यति । नत्स्यते । सोष्यति । अशिष्यते । अक्ष्यते । चेष्यति । चेष्यते । तोत्स्यति ।
हरदन्तात्स्ये ॥ ३५८ ॥
हनः ऋदन्ताच्च इडागमो भवति स्वकारे परे । हनिष्यति । मोक्ष्यति । रोत्स्यति । रोत्स्यते । भोक्ष्यते । योक्ष्यते । तनिष्यते । मनिष्यति । मनिष्यते । करिष्यति । करिष्यते । क्रैष्यति । वरिष्यति वरिष्यते। ग्रहीष्यति ग्रहीष्यते । चोरयिष्यति चोरयिष्यते । तन्त्रयिष्यते । वारयिष्यते । एवं ज्ञातव्यं । इति भविष्यन्ती समाप्ता ॥ भूतकरणवत्यश्चेत्यतीते काले क्रियातिपत्तिः । क्रियाया अतिपतनं क्रियातिपत्तिः । अभविष्यत् अभविष्यतां अभविष्यन् । अभविष्यः अभविष्यतं अभविष्यत । अभविष्यं अभविष्याव अभविष्याम । ऐधिष्यत ऐधिष्येतां ऐधिष्यन्त । ऐधिष्यथा : ऐधिष्येथां ऐधिष्यध्वं । ऐधिष्ये ऐधिष्यामहि । अपक्ष्यत् अपक्ष्यतां अपक्ष्यन् । अनन्दिष्यत् । अस्रंसिष्यत् । अभ्रंसिष्यत: अध्वसिष्यत अव्यास्यत । आत्स्यत् । अशयिष्यत । अवक्ष्यत् । अवक्ष्यत । अहोस्यत् । अहास्यत् । अधास्यत् । अधास्यत । अदेविष्यत् । असविष्यत । विकल्पेन । असोष्यत असोष्येतां असोष्यन्त । अनत्स्यत् अनत्स्यत। असोष्यत् । अशिष्यत् । विकल्पेन । आक्ष्यत आक्ष्येतां आक्ष्यन्त । अचेष्यत । अचेष्यत । अतोत्स्यत् । अमरिष्यत । अमोक्ष्यत् । अमोक्ष्यत । अरोत्स्यत् । अभोक्ष्यत । अयोक्ष्यत् । अयोक्ष्यत । अतनिष्यत् । अमविष्यत् अकरिष्यत् । अवरिष्यत् अवरीष्यत । अग्रहीष्यत् । अग्रहीष्यत । अचोरयिष्यत् । अचोरयिष्यत अचोरयिष्येता । अतन्त्रयिष्यत । अवारयिष्यत् । अवारयिष्यत । पल रक्षणे उभ० अपालयिष्यत् अपालयिष्यत । अर्च पूजायां । उभ० आर्चयिष्यत् आर्चयिष्यत आर्चयिष्येतां आर्थयिष्यन्त । एवं सर्वमवगन्तव्यम् ।
इति क्रियातिपत्तिः ।
अथाद्यतन्याः क्वचिद्विशेषः उच्यते
इजात्मनेपदे प्रथमैकवचने ॥ ३५९ ॥
पद्धातोरिज्भवति कर्तर्यद्यतन्यामात्मनेपदे प्रथमैकवचने परे ।
इचस्तलोपः ॥ ३६० ॥
इच: परस्तलोपो भवति । उदपादि उदपत्सातां उदपत्सत । उदपत्या: उदपत्साथां उदपदवं । उदपत्सि उदपत्स्वहि उदपत्स्महि । समपादि ।
दीपजनबुधपूरितायिष्यायिभ्यो वा ॥ ३६९ ॥
एभ्यो वा इज् भवति कर्त्तर्यद्यतन्यामात्मनेपदे प्रथमैकवचने परे । दीपी दीप्तौ । अदीपि अदीपिष्ट ।
जनिवध्योश्च ॥ ३६२ ॥
जनिवध्योरुपधाभूतस्य दीर्घस्य ह्रस्वो भवति इचि परे । जनी प्रादुर्भावे । अजनि अजनिष्ट | अवधि अवधिष्ट । बुध अवबोधने । अबोधि । अबुद्ध । हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् । अभुत्सत् अभुत्साताम् अभुत्सत। पूरी आप्यायने । अपूरि । तायृ सन्तानपालनयोः । स्फायी ओप्यायी वृद्धौं । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट । इति विशेषः ।
भावकर्मणोरद्यतन्यादयः प्रदर्श्यन्ते ।
भावकर्मणोश्च ॥ ३६३ ॥
सर्वस्माद्धातोरिज्भवति भावकर्मणोर्विहिते अद्यतन्यामात्मनेपदे प्रथमैकवचने परे । अभावि । कर्मणि अन्वभावि । ऐधि । अपाचि । अनन्दि । अस्तम्भि । अभ्रंसि । अध्वंसि ।
आयिरिच्यादन्तानाम् || ३६४ ॥
आदन्तानां धातूनामायिर्भवतीचि परे || अवायि । अव्यायि । अपायि । अधायि अदायि । ग्लै हर्षक्षये । अग्लायि । म्लै गात्रविनामे । अम्लायि । अगाथि। अमायि । अस्थायि । अवासायि । अरायि । अशायि । अवाचि । अहावि। अद्यायि । अद्रायि । अभारि । अदेवि । असावि । अजायि ।
उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतीनामडन्तरोपि ॥ ३६५ ॥
उपसर्गस्थनिमित्तात्परेषामडन्तरोपि षत्वमापद्यते । अपिशब्दादनन्तरोपि ॥ अभ्यषावि । आशायि । अचायि । अतोदि । अमारि । अमोचि । अरोधि । अभोजि। अयोजि । अतानि । अमानि । अकारि । अक्रायि । अवारि । अग्रायि । अबोरि । अपालि । अतन्त्रि । अवारि । आर्चि । अद्यतनी समाप्ता ॥ बभूवे देवदत्तेन । एधाञ्चक्रे || पेचे । इत्यादि ॥ इति परोक्षा | भविता देवदत्तेन । एधिता। पक्ता । इति श्वस्तनी समाप्ता ॥ आशीः । भविषीष्ट देवदत्तेन । एधिषीष्ट । पक्षीष्ट । भविष्यन्ती । भविष्यते देवदत्तेन । एधिष्यते । पक्ष्यते । इत्यादि ॥ क्रियातिपत्तिः । अभविष्यत देवदत्तेन । एधिष्यत । अपक्ष्यत इत्यादि ||
स्यसिजाशीःश्वस्तनीषु भावकर्मार्थासु स्वरहनग्रहदृशामिडिज्वद्वा ॥ ३६६ ॥
भावकर्मार्थासु स्यसिजाशी:श्वस्तनीषु परतः स्वरहनग्रहदृशामिड् इज्वद्भवति वा । अन्वभावि अन्वभाविषातां अन्वभाविषत । अन्वभाविष्ठाः अन्वभाविषाथां अन्वभाविदवं ॥ अन्वभाविषि अन्वभाविष्वहि अन्वभाविष्महि । अन्वभवि अन्वभविषातां अन्वभविषत। असाविषातां । असाविषत । असोषातां असोषत । असविषातां । असविषत ।
हस्य हन्तेर्घिरिनिचोः ॥ ३६७ ॥
हन्तेर्हस्य घिर्भवति इनिचोः परतः । अघानि अघानिषातां अघानिषत ॥
हनिमन्यतेर्नात् ॥ ३६८ ॥
आभ्यां परमसार्वधातुकमनिड् भवति । अहसातां अहसत ।
हने: सिच्यात्मने दृष्टः सूचनेर्थे यसेरपि ।
विवाहे तु विभाषै सिजाशिवोर्गमस्तथा ।।
आत्मनेपदे वा ॥ ३६९ ॥
अद्यतन्यामात्मनेपदे परे हन्तेर्वधिरादेशो वा भवति । अवधि अवधिषातां अवधिषत ।
नेज्वदिटः ||३७० ||
इज्वदिटो दीर्घो न भवति । अग्राहिषातां अग्राहिषत । अग्रहीषातां अग्रहीषत । अदर्शि अदर्शिषातां अदर्शिषत | अदक्षातां अदृक्षत् । अदृष्ठाः अदृक्षाथां अदृड्ढ्वं ॥ श्वस्तनी । भाविता भविता | साविता सविता । सोता । घानिता। हन्ता । ग्राहिता । ग्रहीता । दर्शिता । दृष्टा ॥ आशीः । भविषीष्ट । भविषीष्ट । साविषीष्ट सविषीष्ट । सोषीष्ट ॥
हन्तेर्वधिराशिषि ॥ ३७१ ॥
हन्तेर्वधिरादेशो भवति आशिषि च परे । वाधिषीष्ट वधिषीष्ट । ग्राहिषीष्ट । ग्रहीषीष्ट । दर्शिषीष्ट । दृक्षीष्ट ॥ भविष्यन्ती । भाविष्यते भविष्यते । साविष्यते सविष्यते । चायिष्यते चेष्यते । घानिष्यते हनिष्यते । ग्राहिष्यते । ग्रहीष्यते । दर्शिष्यते दृक्ष्यते । क्रियातिपत्त्यां । अभाविष्यत अभविष्यत । असाविष्यत असविष्यत असोष्यत । अचायिष्यत अचेष्यत । अघानिष्यत । अहनिष्यत । अग्राहिष्यत
अग्रहीष्यत । अदर्शिष्यत अदृश्यत । इत्यादि । एवं सर्वमुन्नेयम् ।
अथ सनादिप्रत्ययान्ता धातवः प्रदर्श्यन्ते
गुप्तिज्किद्भ्यः सन् ॥ ३७२ ॥
गुप् तिज् कित् एभ्यः परः सन् भवति स्वार्थे ।
गुपादेश्च ॥ ३७३ ॥
गुपादेः सनि परे नेड् भवति ।
स्मिङ्पूङ्रञ्ज्वश्कृगृदृधृप्रच्छां सनि ॥ ३७४ ॥
एषां धातूनां सनि परे इडागमो भवति । इति स्मिङादिनियमाभावात् ।
सनि चानिटि ||३७५ ॥
नामिन उपधाया गुणो न भवति अनिटि सनि परे । द्विर्वचनमभ्यासकार्यं च कार्यं ।
ते धावतः || ३७६ ॥
ते सनादिप्रत्ययान्ताः शब्दाः धातुसंज्ञा भवन्ति ।
पूर्ववत्सनन्तात् ||३७७ ॥
सनन्ताद्धातोः पूर्ववत्पदं भवति ।। गुप् गोपनकुत्सनयोः । जुगुप्सते मां जुगुप्सेते । जुगुप्सन्ते । जुगुप्सेत । जुगुप्सतां अजुगुप्सत ।
अस्य च लोपः ||३७८ ॥
धातोरस्य लोपो भवत्यननि प्रत्यये परे । अजुगुप्सिष्ट । जुगुप्साञ्चक्रे । जुगुप्सिता । जुगुप्सिषीष्ट । जुगुप्सिष्यते । अजुगुप्सिष्यत । तिज निशाने क्षमाया । तितिक्षते । कित निवासे रोगापनयने च । विचिकित्सति । अकारोच्चारणं किं ? स्वरादेर्द्वितीयस्येति सन एवं द्विर्वचनार्थं । तेन अर्थान् प्रतीषिषति ।
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ ३७९ ॥
मानादिभ्यो धातुभ्यः परः सन् भवति तेषां धातूनामभ्यासस्य दीर्घो भवति स्वार्थे ॥ मानपूजायां । मीमांसते । बध बन्धने । बीभत्सते । दान अवखण्डने । दीदांसते । शान तेजने। शीशांसति । शीशांसते ।
गुपो बधेश्च निन्दायां क्षमायां च तथा तिजः ॥
संशये च प्रतीकारे कितः सन्नभिधीयते ॥१ ॥
जिज्ञासावज्ञयोरेव मानदानोर्विधीयते ॥
निशानेऽर्थे तथा शानो नायमर्थान्तरे क्वचित् ॥२ ॥
धातोर्वा तुमन्तादिच्छतिनेककर्तृकात् ॥ ३८० ॥
तुमन्तादिच्छतिना सह एककर्तृकाद्धातोः परः सन् वा भवति ।
उवर्णान्ताच्च ॥ ३८१ ॥
उवर्णान्ताद्धातोर्नेड् भवति सनि परे । भवितुमिच्छति बुभूषति । एदिधिषते । पिपक्षति । पिपक्षते । निन्दिषति । सिसिषते । विभ्रंषिते । दिश्वसिषते । विवासति । विवासते । विव्यासति । विव्यासते । जेर्गि: सन्परोक्षयोः ॥ ३८२ ॥
जयतेर्गिर्भवति सन्परोक्षयोः परतः ।
स्वरान्तानां सनि ॥ ३८३ ॥
स्वरान्तानां धातूनां दीर्घो भवति सनि परे ।
नाम्यन्तानामनिटाम् ॥ ३८४ ॥
नाम्यन्तानां धातूनामनिटां सनि गुणो न भवति । विजिगीषते । परोक्षायां । जिगाय जिग्यतुः जिग्युः । विजिग्ये विजिग्याते विजिग्यिरे ॥ चिचीषति । निनीषति । तुष्टूषति । अदेर्घस्लृ सनद्यतन्योः ।
वसतिघसेः सात् ॥ ३८५ ॥
आभ्यां परमसार्वधातुकमनिड् भवति ।
सस्य सेऽसार्वधातुके तः ॥ ३८६ ॥
सस्य तकारी भवति असार्वधातुके सकारे परे । जिघत्सति । वस निवासे । विवत्सति । शिशयिषते । विवक्षति । विवक्षते जुहूषति । जिहासते ।
सनि मिमीमादारभलभशकपतपदामिस् स्वरस्य ॥ ३८७ ॥
मिञादीनां स्वरस्य इसादेशो भवति अभ्यासलोपश्च सनि परे । डुमिञ् प्रक्षेपणे । मातुमिच्छति मित्सति मित्सते । मीङ् श्लेषणे । मातुमिच्छति मित्सते । मा इति मेङ्माङोरपि ग्रहणं । मातुमिच्छति मित्सते । धित्सति धित्सते । दित्सति । दित्सते । रभ राभस्ये । आरिप्सते । डुलभष् प्राप्तौ । आलिप्सते । शक्लृ शक्तौ । शक्तुमिच्छति शिक्षति । पल शल पत्लृ गतौ। पित्सति । पद गतौ । पित्सते ।
इबन्तर्धभ्रस्जदम्भुश्रियूर्णभरज्ञपिसनितनिपतिदरिद्रां वा ॥ ३८८ ॥
एषां वा इड् भवति सनि परे । देवितुमिच्छति सन् दिदेविषति । ऋध वृद्धौ । अर्द्धितुमिच्छति सन् अर्दिधिषति । भ्रस्ज पाके || बिभ्रज्जिषति । विभ्रक्षति अत्र भ्रस्जेर्भुजादेशो वा इति भ्रस्जेस्थामे भृजादेशः । दम्भु दम्भे । दिदम्भिषति । भज श्रिङ् सेवायां । शिश्रयिषति शिश्रीषति । यु मिश्रणे ।
उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे ॥ ३८९ ॥
जान्तस्यापवर्गपरस्याभ्यासोवर्णस्य इत्वं भवत्यवर्णे परे सनि। यियविषति । युयूषति । जु इति सौत्रोऽयं धातुः । जिजावयिषति ॥ टु क्षु रु कु शब्दे । रिरावयिषति । लिलावयिषति । लुनाति कश्चित्तमन्यः प्रयुङ्क्ते । धातोश्च हेताविन । पियावयिषति । पिपिविषति । विभावयिषति । विभविषति । ऊर्णुञ् आच्छादने । प्रोर्णवितुमिच्छति सन् प्रोर्जुनविषति । बिभरिषति । ज्ञपि । जिज्ञपयिषति ज्ञीप्सति । षणु दाने । सिषनिषति ।
स्तौतीनन्तयोरेव षणि ॥ ३९० ॥
निमित्तात् परः स्तौतीनन्तयोरेव सः षमापद्यते षणि षत्वभूते सनि परे । इति नियमान्न षत्वम् । सिसासति || दरिद्रा दुर्गतौ ।
दरिद्रातेरसार्वधातुके ॥ ३९१ ॥
दरिद्रातेरन्तस्य लोपो भवत्यसार्वधातुके स्वरे परे ।। दिदरिद्रिषति । अत्र इटि च आकारलोपः ।
छ्वोः शूठौ पञ्चमे च ॥ ३९२ ॥
छकारवकारयोर्यथासंख्यं शु ऊठ् इत्येतौ भवतः क्वौ धुट्यगुणे प्रत्यये पञ्चमे परे । दिद्यूषति ।
ऋधिज्ञपोरीरीतौ ॥ ३९३ ॥
ऋधिज्ञपोरीरीतौ भवतोऽभ्यासलोपश्च सनि परे । ज्ञीप्सति । ईर्त्सति ।
भृजादीनां षः || ३९४ ॥
भृजादीनां धातूनामन्तः षो भवति धुट्यन्ते च । इति जकारस्य षकारः । विभृक्षति ।
दम्भेस्सनि ।। ३९५ ।।
दंभेरनुषङ्गो लोप्यो भवत्यनिटि सनि परे । तृतीयादेर्धभान्तस्येत्यादिना धत्वं ।
दम्भेरिच्च ॥ ३९६ ॥
दम्भः स्वरस्य इत् ईच्च भवति अभ्यासलोपश्च सनि परे । धिप्सति । धीप्सति । शिश्रीषति । युयूषति ।
उरोष्ठ्योपधस्य च ॥ ३९७ ॥
ओष्ठ्योपधस्य ऋदन्तस्य उर् भवति अगुणे प्रत्यये परे । नामिनो र्वोरकुर्च्छर्व्यञ्जने इत्युपधाया दीर्घो भवति । बुभूर्षति ।
पञ्चमोपधाया धुटि चागुणे ॥ ३९८ ॥
पञ्चमस्योपधाया दीर्घो भवति क्वौ धुट्यगुणे प्रत्यये परे ।
वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः ॥ ३९९ ॥
वनतेस्तनोत्यादेः प्रतिषिद्धेटां च धातूनां पञ्चमी लोप्यो भवति आतश्च अद्भवति यथासंभवं कौ धुट्यगुणे पञ्चमे प्रत्यये परतः अनद्यतने धुटि परे । धुटि खनिसनिजनां पञ्चमस्याकार इति नकारस्थाने आकारादेशः । षणु दाने । सिषासति पिपतिषति । पिपित्सति । पतितुमिच्छति ।
तनोतेरनिटि वा ||४०० ॥
तनोतेरुपधाया दीर्घो भवति अनिटि सनि परे । तितांसति । तितंसति । तितनिषति । दरिद्रातेरसार्वधातुक इत्यन्तलोपे प्राप्ते-
अनिटि सनि ।।४०१ ॥
अनिटि सनि परे दरिद्रातेरन्त्यस्य लोपो न । दरिद्रासति । दरिद्रिषति ।
स्तौतीनन्तयोरेव षणि ॥ ४०२ ॥
निमित्तात्परः प्रत्ययविकारागमस्थः स्तौतीनन्तयोरेव सः षमापद्यते षत्वभूते सनि परे । तुष्टूषति । सिषेवयिषति । इति नियमात् । सूसूषति । निनत्सति । निनत्सते । “स्मिङ्पुरञ्ज्वश्कृगृदृधृप्रच्छां सनि” । स्मिङ्ग ईषद्धसने । सिस्मयिषते । पूङ्ग पिपविषते ।
पूञस्तु न स्यात् ॥४०३ ॥
पूञ् धातोः पर इड् न स्यात् । पूञ् पवने । पवितुमिच्छति पुपूषति । ऋ अरिरिषति । अंज अञ्जिजिषति । अश् अशिशिषति । चिकरिषति । गृ निगरणे । जिगरिषति | जिग लिषति । दृञ् अनादरे । दिदरिषति । वृञ् अनवस्थाने दिधरिषति ।
ग्रहिस्वपिप्रच्छां सनि ॥ ४०४ ॥
एषां सम्प्रसारणं भवति सनि परे । पिपृच्छिषति । सुषुप्सति ।
चे: किर्वा ॥४०५ ||
चे: किर्भवति वा परोक्षायां सनि च परे । चिकीषति । चिकीषते । तुतुत्सति । मुमूर्षति मुमूर्षते । मुमुक्षति । मुमुक्षते । रुरुत्सति । बुभुक्षते । युयुक्षति युयुक्षते ।
ऋदन्तस्येरगुणे ||४०६ ||
ऋदन्तस्य इर भवति अगुणे परे । चिकीर्षति । चिकीर्षते । चिक्रीषति । चिक्रीषते ।
वृङ्वृञोश्च ॥४०७ ॥
वृङ्वृञोश्च ऋकारस्य उर् भवत्यगुणे परे । वुवूषते । विवरिषते ।
ग्रहिगुहोः सनि ॥ ४०८ ॥
ग्रहिगुहः सनि नेड् भवति । जिघृक्षति । जिघृक्षते। गुहू संवरणे । जुघुक्षति । चोरयितुमिच्छति सन् । चुचोरयिषति । तन्त्रयितुमिच्छति । सन् । तितन्त्रयिषति । विवारयिषति । विवारयिषते । इत्यादि । एवं सर्वमुत्रेयं ।
इति सनन्तः समाप्तः ।
धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे ||४०९ ॥
क्रियासमभिहारे वर्तमानाद्धातोर्व्यञ्जनादेर्यशब्दग्रहणाधिक्याच्चेक्रीयितसंज्ञको यो भवति क्रियासमभिहारे । शुभरुचादिवर्जितादेकस्वरत्परो यशब्दो भवति । क्रियासमभिहार: पौनःपुन्यं भृशार्थो वा । भृशं भवति पुनः पुनर्वा भवति ।
गुणश्चेकीयिते ॥ ४१० ॥
अभ्यासस्य गुणो भवति चेक्रीयिते प्रत्यये परे ।
चेक्रीयितान्तात् ||४११ ॥
चेक्रीयितान्ताद्धातोः कर्तर्यात्मनेपदं भवति । बोभूयते । बोभूयेत । बोभूयतां । अबोभूयत । अस्य च इति लोप: । अबोभूयिष्ट । बोभूयाञ्चक्रे । बोभूयिता । बोभूयिषीष्ट । अबोभूयिष्ट । अबोभूयिष्यत ।
दीर्घोऽनागमस्य ॥४१२ ॥
अनागमस्याभ्यासस्य दीर्घो भवति चेक्रीयिते प्रत्यये परे । पापच्यते । पापच्येत । पापच्यतां । अपापच्यत ।
यस्याननि ॥४१३ ॥
व्यञ्जनात्परस्य यस्य लोपो भवति अननि प्रत्यये परे । अपापचिष्ट |
गत्यर्थात्कौटिल्ये च ॥ ४१४ ॥
गत्यर्थाद्धातोः कौटिल्येऽर्थे चेक्रीवितसंज्ञको यो भवति ।
अतोन्तोऽनुस्वारोऽनुनासिकान्तस्य ॥ ४१५ ॥
अनुनासिकान्तस्य धातोरभ्यासस्यान्ते अनुस्वारागमो भवति चेक्रीयिते परे । चंक्रम्यते । कुटिल इति किम् ? भृशं पुनः पुनर्वा क्रामति ।
वञ्चिस्रंसिध्वंसिभ्रंसिकसिपतिपदिस्कन्दामन्तो नी ॥ ४१६ ॥
एषामभ्यासस्यान्तो नी आगमो भवति चेक्रीयिते प्रत्यये परे ।
वनीवच्यते । अनिदनुबन्धानामगुणेनुषङ्गलोपः । अत्यर्थं स्रंसते सनीस्त्रस्यते । दनीध्वस्यते । बनीभ्रस्यते । कस गतौ । कसि गतिशासनयोः । अत्यर्थं कसति चनीकस्यते । पनीपत्यते । स्कन्दिर् गतिशोषणयोः । चनीष्कद्यते ।
घ्राध्मोरी ॥४१७ ॥
ग्रामोरित्येतयोराकारस्य ईकारो भवति चेक्रीयिते प्रत्यये परे । जेघ्रीयते । देध्मीयते । “हन्तेघ्नीं वा वक्तव्यं” हन्तेर्नी वा भवति चेक्रीयिते प्रत्यये परे अत्यर्थं हन्ति जेघ्नोयते ।
अभ्यासाच्च ॥४१८ ॥
अभ्यासात्परस्य हन्तेर्हस्य घो भवति ।
अतोन्तोऽनुस्वारोऽनुनासिकान्तस्य ॥४१९ ॥
धातोरभ्यासस्य अतः अकारास्यान्तोऽनुस्वारागमो भवति चेक्रीयिते परे । जंघन्यते ।
ये वा ||४२० ||
यकारादावगुणे प्रत्यये परे खनिसनिजनामन्तस्य आकारो भवति वा । खनु अवदारणे । चंखन्यते । चाखायते । षणु दाने । संसन्यते । सासायते । जंजन्यते । जाजायते ।
स्वपिस्यमिव्येञां चेक्रीयिते ॥४२१ ॥
एषां धातूनां सम्प्रसारणं भवति चेक्रीयिते परे । ञिष्वप् शये । सोषुप्यते । स्वम स्वन ध्वन शब्दे । सेसिम्यते । व्येञ् संवरणे । अत्यर्थं व्ययति वेदीयते ।
अर्त्त्यट्यश्नात्यूर्णसूचिसूत्रिमूत्रिभ्यश्च ॥४२२ ॥
एभ्यः परश्चेक्रीयितसंज्ञको यो भवति ।
चेक्रीयिते च ॥४२३ ॥
अर्त्तिसंयोगाद्योश्च गुणो भवति चेक्रीयिते । अकारस्य रेफरस्य द्विरुक्तिर्भवति यकारेऽपि । अरार्यते । स्मृ ध्यै चिन्तायां । सास्मर्यते । अट् गतौ। अटाट्यते । अश् भोजने । अशाश्यते । प्रणोनूयते । सूच् पैशून्ये । सोसूच्यते । सूत्र अवमोचने । सोसूत्र्यते । मूत्र प्रस्त्रवणे | मोमूत्र्यते ।
अयीर्ये ||४२४ ||
शीङो अय् यो भवति यकारे परे। शाशय्यते । वावच्यते । जोहूयते । जाहीयते । देधीयते मेमीयते । जेगीयते । पेपीयते । तेष्ठीयते । अवसेषीयते । जेहीयते । देदीव्यते। सोषूयते । नानह्यते । अभिषोषूयते । अशाश्यते । चेचीयते । चायृ पूजानिशामनयोः ।
चाय: किश्चेक्रीयिते ॥ ४२५ ।।
चाय: किर्भवति चेक्रीयिते परे । अत्यर्थं चायति चेक्रीयते । अत्यर्थं तुदति तोतुद्यते ।
ऋत इदन्तश्च्विचेक्रीवितविन्नायिषु ||४२६ ||
ऋदन्तस्य विचैक्रीयितयिन् आयिषु परत ईदन्तो भवति । मेम्रीयते । मोमुच्यते । रोरुध्यते । बोभुज्यते । योयुज्यते । ततन्यते । ममन्यते । चेक्रीयते ।
जपादीनां च ॥ ४२७ ॥
जपादीनामभ्यासस्यान्तो ऽनुस्वारागमो भवति चेक्रीयिते परे । जपजभदहदंशभञ्जपश षडेते जपादयः । जप मानसे भृशं पुनः पुनर्वा गर्हितं जपति जञ्जप्यते । जभ जुभी गात्रविनामे भृशं पुनः पुनर्वा जभति जञ्जभ्यते । दह भस्मीकरणे । ददह्यते । दंश दशने। दंदश्यते । भजो अवमर्दने । भृशं भनक्ति
बम्भज्यते । पश इति सौत्रो धातुः । भृशं पशति । पंपश्यते ।
चरफलोरुच्च परस्यास्य ॥ ४२८ ॥
चरफलोरभ्यासस्यान्तो ऽनुस्वारागमः परस्यास्योच्च भवति चेक्रीयिते परे । अभ्र वभ्र मभ्र चर रिवि धिवि गत्यर्थाः । भृशं पुन: पुनर्वा गर्हितं चरति चञ्चूर्यते। पंफुल्यते । वेत्रीयते ।
ऋमतो रीः ।।४२९ ।
ऋमतो धातोरभ्यासस्यान्तो री आगमो भवति । चेक्रीयिते परे । ग्रही उपादाने गृहिज्या इत्यादिना संप्रसारणम् । भृशं पुनः पुनर्वा गर्हितं गृह्णाति जरीगृह्यते । नृती गात्रविक्षेपे ।
नृतेश्चेक्रीयिते ॥ ४३० ||
नृतेर्नकारस्य णकारो न भवति चेक्रीयिते परे । नरीनृत्यते । परीपृच्छ्यते । चोचूर्यते । एवं सर्व वेदितव्यम् ।
इति चेक्रीवितप्रकरणम् ॥
तस्य लुग्वा ||४३१ ॥
तस्य चक्रीवितस्य लुग्वा भवति । यस्य स्थाने यो विधीयते स स्थानीतर आदेश: । स्थानीव भवत्यादेशः । प्रकृतिग्रहणे चेक्रीयितलुगन्तस्यापि ग्रहणम् । धातुप्रकृतीनां ग्रहणे चेक्रीवितलुगन्तस्यापि धातोर्ग्रहणं भवतीति द्विर्वचनादि कार्यं भवति ॥ चर्करीतं परस्मैपदमदादौ दृश्यते ।
चर्करीताद्वा ॥ ४३२ ॥
चर्करीताद्धातोर्वा इड् भवति व्यञ्जनादौ गुणिनि सार्वधातु के परे । यिलोपे च चेक्रीयितः ॥४३३ ॥
यिलोपे आयिलोपे च परस्मैपदं भवति । अत्यर्थं भवति बोभवीति बोभोति बोभूतः । स्वरादाविवर्णो वर्णान्तस्य धातोरियुवौ । बोभूवति । बोभूयात् बोभूयातां बोभूयुः ॥ बोभवीतु बोभोतु बोभूतात् बोभूता बोभुवतु । बोभूहि बोभूतात् बोभूतं बोभूत। अबोभवीत् अबोधोत् अबोभूतां अबोभूवुः । पापचीति । पापक्ति पापक्तः पापचति । पापच्यात् । पापक्तु पापक्तात् पापक्तां पापचतुः । हुधुड्भ्यां हेर्द्धिः ॥ पापग्ध पापक्तात् पापक्तं पापक्त | अपायचीत् अपापक् अपापक्तां अपापचुः ।। टुणादि समृद्धौ । नानंदीति नानंति नानंतः नानंदति । ध्वंसु गतौ च । दनीध्वसीति दनीध्वस्त: दनीध्वसति । एवं सर्वमवगन्तव्यं । शेशयीति ॥
न तिबनुबन्धगणसंख्यैकस्वरोक्तेषु ॥ ४३४ ॥
तिबनुबन्धगणसंख्यैकस्वर एभिरुक्तेषु निदानेषु प्रकृतिग्रहणे चक्रीवितलुगन्तस्य ग्रहणं न भवति । तिपा उक्ते- सोषवीति सोषोति । सोषूयात् । सोषवीतु सोषोतु सोषूतात् सोषूतां सोषुवतु । सोषूहि सोषूतात् सोषूतं सोषूत । सोषवाणि सोषवाव सोषवाम ॥ तिपा निर्देशात् सूतेः पञ्चभ्यामिति गुणप्रतेषेधो न स्यात् । अनुबन्धोक्ते-: शेशितः शेश्यति । शिङः सार्वधातुके इति ङानुबन्ध इति निर्देशात् गुणो न भवति ॥ गुणोक्ते:-चोकोटीति । कुटादेरनिनिचट्स्विति गुणप्रतिषेधो न स्यात् । संख्योक्ते:- रोरुदीति । रोरोति । रुदादिः पञ्चको गण इति रुदादेः सार्वधातुके इतीण् न स्यात् । एकस्वरोक्तेः- पापचीति । अनिडेकस्वरादात् । इत्येकस्वराधिकारे पचिवचीत्यादिनेट्प्रतिषेधो न स्यात् ॥ वावचीति । वावक्ति वावक्त: वावचति । जाहेति । दादेति दात्त: दादति ।
अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्वधातुके ॥ ४३५ ॥
अभ्यस्तस्य चोपधाया नामिनो गुणो न भवति स्वरादी गुणिनि सार्वधातुके परे । अत्यर्थं पुनः पुनर्वा दीव्यति देदिवीति ।
य्वोर्व्यञ्जने ये ||४३६ ॥
धातोर्यकारवकारयोर्लोपो भवति यकारवर्जिते व्यञ्जने च परे । देदेति देद्यूत: देदिवति । सोषवीति सोषोति । नानहीति नानद्धि । अभिषेोषवीति अभियोषोति । पुनः पुनर्वा क्रीणाति चेक्रीचीति चेक्रेति । तोतोदीति तोतोति ।
रि रो री च लुकि ॥४३७ ॥
ऋमतो धातोरभ्यासस्यान्ते रि से री च भवति चेक्रीयितस्य लुकि । मरिमरीति सर्मरीति मरीमरीति । मरिमर्ति मर्मर्त्ति मरीमर्ति । मर्मृतः मरीमृतः मरिमृतः । मम्रति मरीप्रति मरिप्रति । मरीमरीषि मर्मरीषि मरिमरीषि । मरिमर्षि मर्मषि मरीमर्षि। मरीमृथः मर्मृथ: मरिमृथः । मरीमृथ मर्मृथ मरिमृथ । मरीमरीमि मर्मरीमि मरिमरीमि । मरिमर्मि मर्मर्मि मरीमर्मि। मरिमृवः मर्मृवः मरीमृवः । मरिमृमः मर्मृमः मरीमृमः । मरिमृयात् मर्मृयात् मरीमृयात् । मरिमरीतु मर्मरीतु मरीमरीतु। मरीमर्तु मर्मर्तु मरिमर्तु । मरिमृतात् मर्मृतात् मरीमृतात् । मरिमृतां मर्मृता मर्म्रतु मरिम्रतु । मरिमृहि मर्मृहि मरीमृहि । मरिमृतात् मर्मृतात् । मरीमृतात् । मरिमृतं मर्मृतं मरीमृतं । मरिमृत मर्मृत मरीमृत । मरिमराणि मर्मराणि मरीमराणि । मरिमराव मर्मराव मरीमराव । मरिमराम मर्मराम मरीमराम । अमरिमरीत् अमर्मरीत् अमरीमरीत् । अमरिम: अमर्म: अमरीमः । अमरिमृतां अमर्मृतां अमरीमृर्तां । अमरिमरु अमर्मरु: अमरीमरुः । अमरिमरी: अमर्मरी: अमरीमरी: 1 अमरिमृतं अमर्मृतुं अमरीमृतं । अमरिमृत अमर्मृत अमरीमृत अमरिमरं अमर्मर अमरीमरं । अमरिमृव अमर्मृव अमरीमृव। अमरिमृम अमर्मृम अमरीमृम । एवमभ्यस्तस्य चोपधाया इत्यादिना गुणो न भवति ॥ नृति गात्रविक्षेपणे ।
नृतेश्चेकीयिते ॥४३८ ॥
नृतेर्नकारस्य णकारो न भवति चेक्रीयिते परे ॥ नरिनृतीति नर्नृतीति नरीनृतीति । नरिवर्ति नर्नर्ति नरीनर्त्ति । नरिनृतः नर्वृतः नरीनृतः । नर्नृतति नरीनृतति नरिवृतति ॥ मोमुचीति मोमोक्ति मोमुक्तः मोमुचति । रोरुधीति रोरोद्धि रोरुद्ध: रोरुधति । बोभुजीति बोभोक्ति बोभुक्तः बोभुजति । योयुजीति योयोक्ति योयुक्तः योयुजति ॥ तंतनीति तंतति तंततः तंतनति । मंमनीति मंमति मंमतः मंमनति । जंजपति जंजप्ति जंजतः जंजपति । चरिकरीति चर्करीति चरीकरीति । चरिकर्ति चर्कर्ति चरीकर्ति । चरिक्रतः चर्क्रतः चरीक्रतः ।
चरिक्रति चर्क्रति चरीक्रति । चेक्रयोति चक्रेति चेक्रीतः चेक्रियति । वरिवरीति वर्वरीति वरीवरीति । वरिवर्ति वर्व्वर्त्ति वरीवर्त्ति । वरिवृतः वर्वृतः वरीवृतः । वरिव्रति वर्व्रर्त्ति वरीव्रति । जरीगृहीति जर्गृहीति जरिगृहीति । जरिगर्ढि जगर्ढि जरीगर्ढि ।
न ऋतः ॥४३९ ॥
ढे ढलोपे ऋमतोर्धातोदीर्घो न भवति । जरिगृढः जर्गृढः जरीगृढः । जरिगृहति जर्गृहति जरीगृहति । जरिगृहीषि जर्गृहीषि जरोगृहीषि । जरिघर्क्षि जर्घक्षि जरीघर्क्षि । जरिगृढ: जर्गृढ: जरीगृढः । जरिगृढ जर्गृढ जरीगृढ । जरिगृहीमि जगृहीमि जरीगृहीमि । जरिगर्ह्मि जर्गर्ह्मि जरीगर्ह्मि । जरिगृह्णः जगृह्णः जरीगृह्णः । जरिगाः जर्गृह्नः जरीगृह्णः ॥ जरिगृह्णात् जर्गृह्यात् जरीगृह्यात् । जरीगृहीतु जर्ग्गृहीतु जरिगृहीतु। जरिगर्ढु जर्गर्ढु जरीगर्ढु । जरिगृढात् जढात् जरीगृढात् । जरिगृढां जगृढां जरीगृढां । जरिगृहतु जर्गृहतु जरीगृहतु । जरिगृढि जर्गढि जरीगृढि । जरिगृढात् जर्गृढात् जरीगृढात् । जरिगृढं जर्गृढं जरीगृढं । जर्गृढ़ जरिगृढ जरीगृढ । जरिगृहाणि जर्गृहाणि जरीगृहाणि । जरिगृहाव जर्गृहाव जरीगृहावं । जरीगृहाम जर्गृहाम जरिगृहाम। अजरीगृहीत् अजर्गृहीत् अजरिगृहीत्। अजरिगृढां अजर्गृढां अजरीगृढां । अजरीगृहुः अजर्गृहु: अजरिगृहु: । अजरीगृही: अजर्गृही: अजरिगृहीः ।
न रात् ॥ ४४० ||
रेफात्परः संयोगान्तो लोप्यो न भवति । अजरिघर्ट् अजघर्ट् अजरीघर्ट् । अजरिगृढं अजर्गृढं अजरीगृढं । अजरिगृढ अजगृढ अजरीगृढ । अजरीगृहं अजगृहं अजरिगृह । अजगृह्ण अजरिगृह्ण अजरीगृह्ण । अजर्ग्गृह्म अजरीगृह्म अजरिगृह्म ।
इति चेक्रीयितलुगन्ता: ।
इन्कारितं धात्वर्थे ॥ ४४१ ॥
नाम्नः कारितसंज्ञक इन्भवति धात्वर्थे ।
इनि लिङ्गस्यानेकाक्षरस्यान्तस्य स्वरादेर्लोपः ||४४२ ॥
अनेकाक्षरस्य लिङ्गस्य अन्त्यस्वरादेर्लोपो भवति इनि परे ।। इस्तिनाऽतिक्रामति अतिहस्तयति । हलि गृह्णाति ।
न हलिकल्योः ||४४३ ॥
हलिकल्योर्वृद्धिर्न भवति । हलयति । कलयति । अजहलत् । अचकलत् । कृतयति । अचकृतत् । वस्त्रं समाच्छादयति । संवस्त्रयति । समवस्त्रत् । वर्मणा सन्नह्यति संवर्मयति । समवर्मत् । तत्करोति तदाचष्टे इति इन् । मुण्डं करोति मुण्डयति । अमुमुण्डत् । एवं मिश्रयति । अमिमिश्रत् । सूत्रमाचष्टे सूत्रयति । असुसूत्रत् ।
सत्यार्थवेदानामन्त आप् कारिते ॥ ४४४ ॥
सत्यार्थवेदानामन्त आप् भवति कारिते परे । सत्यमाचष्टे सत्यापयति । एवं अर्थापयति ।
न स्वरादेः ||४४५ ||
स्वरादेर्दीर्घो न भवति इन् चण् परे । आर्त्तिथपत् । वेदापयति । अविवेदपत् ।
रशब्द ऋतो लघोर्व्यञ्जनादेः || ४४६ ||
व्यञ्जनादेरनेकाक्षरस्य लिङ्गस्य लघोः ऋतो रशब्दादेशो भवति इनि परे । पृथ प्रख्याने । पृथुं करोति प्रथयति । अपिप्रथत् । मृदुं करोति म्रदयति । अमिम्रदत् । दृढं करोति द्रढयति । अदिद्रवत् । कृशं करोति क्रशयति । अचिक्रशत् । भृशं करोति भ्रशयति अबिभ्रशत्। परिवृढं करोति परिव्रढयति पर्यविवदत् । इत्यादि ।
पृथं मृदं दृढं चैव कृशं च भृशमेव च ।
परिपूर्वं वृढं चैव षडेतान्नविधौ स्मरेत् ॥ १ ॥
धातोश्च हेतौ ॥४४७ ॥
हेतुकर्तृकव्यापारे वर्त्तमानाद्धातोः कारितसंज्ञक इन् भवति । उवर्णस्य जान्तस्यापवर्गपरस्यावर्णे इत्यभ्यसावर्णस्य इकारः ॥ दीर्घो लघोरस्वरादीनामिति दीर्घः । भवति कश्चित्तमन्यः प्रयुक्ते भावयति भावयते । भावयेत् । भावयतु। अभावयत् । इन्व्यञ्जनादेरुभयमित्युक्तत्वात् सर्वेषामिन्प्रत्ययानामुभयपदित्वम् ॥ अबीभवत् । भावयाञ्चक्रे । भावयिता । भाव्यात् । भावयिषीष्ट । भावयिष्यति । भावयिष्यते । अभावयिष्यत् अभावयिष्यत । पाचयति । अपीपचत् । एधयति ऐदिधत् । नन्दयति । अननन्दत् । स्रंसयति असस्रंसत् ।
शाच्छासाह्वाव्यावेपामिनि ॥४४८ ॥
एषामयिर्भवति इनि परे । शाययति । अशीशयत् । छाययति अचिच्छयत् । अवसाययति । अवासीषयत् । ह्राययति ।
ह्वयतेर्नित्यम् ||४४९ ||
ह्वयतेर्नित्यं संप्रसारणं भवति कारिते च संश्चणोः परयोः | अजूहवत् । व्याययति । अविव्ययत् । वाययति । अवोवयत् । पाययति ।
लोपः पिबतेरीच्चाभ्यासस्य ॥४५० ॥
पिबतेरभ्यासस्य ईद्भवति उपधायाश्च लोपो भवति इनि चण्परे । अपीप्यत् । आदयति । आदिदत् । वाचयति अवीवचत् । हावयति अजूहवत् ।
अर्तिहीब्लीरीक्नुयीक्ष्माटयादन्तानामन्तः पो यलोपो गुणश्च नामिनाम् ||४५१ ॥
अर्त्यादीनामादन्तानां च पकारोन्तो भवति यथासंभवं यलोपश्च नामिनां गुणश्च इनि परे । अर्पयति आर्पिपत् । हेपयति । अजिहिपत् । ब्ली वरणे । ब्लेपयति । अबिब्लिपत् । रोड श्रवणे । रेपयति अरीरिपत् । क्नूयी शब्दे । क्नोपयति । अचुक्नुपत् । क्ष्मायी विधूनने । क्ष्मापयति । अचिक्ष्मपत् । हेपयति अजिह्रपत् । धापयति । अदीधपत् । मापयति अमीमपत् । स्थापयति । स्थापयेत् । अस्थापयत् ।
तिष्ठतेरित् ॥४५२ ॥
तिष्ठतेरिद्भवति इनि चण् परे । अतिष्ठिपत् घ्रापयति ।
जिघ्रतेर्वा ॥४५३ ।।
जिघ्रतेर्वा इद्भवति इति चण्परे । अजिघ्रिपत् । अजिघ्रपत् । देवयति । अदीदिवत् । सावयति । असूषुवत् । नहयति । अनीनहत्। अभिषावयति । आशयति । आशिशत्। चाययति । अचीचयत् ।
तोदयति । अतूतुदत् । मारयति । अमीमरत् । मोचयति । अमूमुचत् । रोधयति । अरूरुधत् । भोजयति। अबूभुजत् । योजयति । अयूयुजत् । तानयति । अतीतनत् । मानयति । अमीमनत् । कारयति। अचीकरत् ।
स्मिजिक्रीङामिनि ।।४५४ ।।
एवामाकारो भवति इनि परै । विस्मापयति । व्यसस्मपत् । विजापयति । व्यजिजपत् । विक्रापयति । व्यचिक्रपत् । अध्यापयति । अध्यापिपत् । वीरयति अवीवरत् । ग्राहयति अजिग्रहत् । चोरयति अचूचुरत् । तन्त्रयति अततन्त्रत् ।
मानुबन्धानां ह्रस्वः ||४५५ ॥
मानुबन्धानां धातूनां ह्रस्वो भवति इनि परे । अस्योपधाया दीर्घो न भवति ॥ घटादयो मानुबन्धाः । घट चेष्टायां ॥ घटयति ॥ अजिघटत् । व्यथ भयचलनयोः ॥ व्यथयति । अविव्यथत् ।
जनिजृष्कनस्रञ्जोऽमन्ताश्च ॥ ४५६ ॥
एषां ह्रस्वो भवति सनि परे । जनिङ् प्रादुर्भावे । जनयति । अजीजनत् । जॄष् वयोहानी ॥ जरयति अजीजरत् । क्नस ह्ररण दीप्तौ । क्नसयति । अचिक्नसत् । रञ्च रागे ।
रञ्जेरिनि मृगरमणे ॥४५७ ॥
मृगरमणार्थे इनि परे रञ्जेरनुषङ्गलोपो भवति । रजयति । अरीरजत् । पक्षे रञ्जयति || अररञ्जत् । रमु क्रीडायां । रमयति । अरीरमत् । श्रमु तमसि खेदे च । श्रमयति । अशिश्रमत् ।
ज्वलह्वलह्मलनमोनुपसर्गा वा ॥४५८ ॥
एते सोपसर्गा नित्यं मानुबन्धा भवन्ति । एते अनुपसर्गा वा मानुबन्धा भवन्ति । तत्र सोपसर्गपक्षे मानुबन्धानां ह्रस्वः । ज्वल दीप्तौ प्रज्वलयति । प्राजिज्वलत् । ह्वल ह्मल चलने । प्रह्वलयति । प्राजिह्वलत् । प्रह्मलयति । प्राजिह्मलत् । अमन्तत्वात् ॥ प्रणमयति । प्राणीनमत् । उपनमयति । उपानीनमत् ।
अनुपसर्गा वा ।। ४५९ ।
एते अनुपसर्गा वा मानुबन्धा भवन्ति । ज्वलयति । ज्वालयति । अजिज्वलत् । हलयति । ह्रालयति । अजिह्वलत् । ह्मलयति अजिह्मलत् । नमयति ॥ नामयति । अनीनमत् ।
ग्लास्नावनवमश्च ॥४६० ||
एते मानुबन्धा वा भवन्ति । ग्लै हर्षक्षये । ग्लापयति । ग्लपयति । अजिग्लपत् । ष्णा शौचे || स्नपयति । स्नापयति । असिस्नपत् । वन षण संभक्तौ ॥ वनयति । वानयति । अवीवनत् । टुवमुद्गिरणे । वमयति । वामयति । अवीवमत् ।
न कमभ्यमि चमः ॥४६१ ॥
एषां ह्रस्वो न भवति इनि परे ।
कमेरिनिङ् कारितम् ॥४६२ ॥
कमेः कारितसंज्ञक इनिङ् भवति स्वार्थे । कमु कान्तौ । कामयते । अधिकमत् । अम हम मी मृ हय गतौ ॥ आमयति | आमिमत् । चमु अदने । चामयति । अवीचमत् ।
शमोऽदर्शने ॥४६३ ॥
शमोऽदर्शनेऽर्थे ह्रस्वो भवति इनि परे । शमयति रोगान् । अशिशमत् । अदर्शन इति किं ? निशामयति रूपं । न्यशीशमत् ।
यमो ऽपरिवेषणे ॥ ४६४ ॥
यमः अपरिवेषणेऽर्थे ह्रस्वो भवति इनि परे । यम उपरमे । नियमयति । अपरिवेषण इति किं आयामयति | आयीयमत् ।
स्खदिरवपरिभ्यां च ॥४६५ ॥
स्खदिरवपरिभ्यां च ह्रस्वो भवति इनि परे । स्खदिष स्खदने । अवस्खदयति । अन्योपसर्गात्र भवति । उपस्खादयति । अवचिस्खदत् । पर्य्यचिस्खदत् । उपाचिस्खदत् ।
पण गतौ ॥ ४६६ ||
पणो गत्यर्थे ह्रस्वो भवति इनि परे || पणयति ॥ अगत्यर्थ इति किं ? पाणयति । अपीपणत् ।
इति इन्नन्ताः ॥
आत्मेच्छायां यिन् ॥४६७ ॥
नाम्नो यिन्भवति आत्मेच्छायाम ।
यिन्यवर्णस्य ||४६८ ॥
अवर्णस्य इत्वं भवति यिनि परे । पुत्रमिच्छत्यात्मनः पुत्रीयति । पुत्रीयेत् । पुत्रीयतु अपुत्रीयत् । अपुत्रीयीत् ॥ पुत्रीयाञ्चकार पुत्रीयिता । पुत्रीय्यात् । पुत्रीयिष्यति । अपुत्रीयिषीत् । एवं घटीयति । वस्त्रीयति । सुवर्णीयति ।
काम्य च ॥४६९ ॥
नाम्नः काम्यो भवति आत्मेच्छायाम् । पुत्रमिच्छत्यात्मनः पुत्रकाम्यति । पुत्रकाम्येत् । पुत्रकाम्यतु अपुत्रकाम्यत् । अपुत्रकाम्यीत्। पुत्रकाम्याञ्चकार । पुत्रकाम्यिता । पुत्रकाम्यात् । पुत्रकाम्यिष्यति । अपुत्रकाम्यष्यत् । एवम् इदंकाम्यति ।
उपमानादाचारे ||४७० ॥
उपमानान्नाम्नो यिन्भवति आचारेऽर्थे । पुत्रमिव आचरति पुत्रीयति माणवकम् । एवं क्षीरीयति जलं । भूपीयति पुत्रकं । इति यित्रन्तः ।
कर्तुरायिस्सलोपश्च ॥ ४७९ ॥
कर्तुरुपमानानाम्नः आयि भवति आचारेऽर्थे यथासंभवं सलोपश्च ॥
आय्यन्ताच्च ॥४७२ ॥
आयिप्रत्ययान्ताद्धातोरात्मनेपदं भवति । श्येन इव आचरति श्येनायते। श्येनायेत । श्येनायतां । अश्येनायत । अश्येनायिष्ट । श्येनायाञ्चक्रे । श्येनायिता । श्येनायिष्यते । अश्येनायिष्यत ॥ एवम् अप्सरायते ॥
ओजसोप्सरसोर्नित्यं पयसस्तु विभाषया ॥
आयिलोपश्च विज्ञेयो गर्दभत्यश्वतीत्यपि ॥ १ ॥
ओजस्वि इव आचरति । ओजायते । एव्मए अप्सरायते । पयायते ।
नामिव्यञ्जनान्तादायेरादेः ||४७३ ॥
नामिव्यञ्जनान्तात्परस्य आयेरादेर्लोपो भवति । पयस्यते । वाशब्दस्येष्टाऽर्थत्वात्ववचिदायिलोपः । आम्यन्ताच्चेत्यन्तग्रहणाधिक्यादायिलोपे परस्मैपदं भवति । गर्दभ इव आचरति गर्दभति । एवम् अश्वति । अग्नीयते । एवं पटूयते । पित्रीयते । रैयते ।
नलोपश्च ॥४७४ ||
नलोपश्च भवति यिन्यायोः परतः । विध्वस्यते ॥ अनुडुह्यते ।
ओतायिन्नायिपरे स्वरवत् ॥४७५ ॥
ओत: परौ यिन्नायिस्वरवद्भक्तः ॥ ओ अविति संधि: । गामित्यात्मन इच्छति गव्यति । गौरिवाचरति गव्यते।।
औत्वश्च ॥४७६ ॥
औतः परो यिन्नायिस्वरवद्भवति ॥ नावमिच्छत्यात्मनः नाव्यति । नौरिवाचरति नाव्यते ।
वा गल्भक्लीबहोढेभ्यः ॥४७७ ॥
एभ्यः परमात्मनेपदं भवति । वाशब्दस्येष्टार्थत्वात् क्वचिदायिलोपः । गल्भ इव आचरति गलभते । क्लीबते । होढते।
कष्टकक्षसत्रगहनाय पापे क्रमणे ॥४७८ ॥
एभ्यश्चतुर्थ्यन्तेभ्यः पापे वर्त्तमाने क्रमण इत्यर्थे आयिप्रत्ययो भवति । कष्टाय कर्मणे क्रामति कष्टायते । एवं कक्षायते । सत्रायते । गहनायते । पाप इति किं ? कष्टाय तपसे क्रामति ।
बाष्पोष्मफेनमुद्वमति ॥४७९ ॥
बाष्पादिभ्यो द्वितीयान्तेभ्य उद्वमनेऽर्थे आयिप्रत्ययो भवति ॥ बाष्पमुद्वमति बाप्पायते । ऊष्माणमुद्वमति उष्मायते । नस्य लोपः फेनमुद्रमति फेनायते ।
सुखादीनि वेदयते ॥ ४८० ॥
सुखादिभ्यो द्वितीयान्तेभ्यो वेदयते इत्यर्थे आयिप्रत्ययो भवति । सुखमावेदयते सुखायते । एवं दुःखायते । तदनुभवतीत्यर्थः ।
शब्दादीन् करोति ॥४८१ ।।
शब्दादिभ्यो द्वितीयान्तेभ्यः । करोत्यर्थे आयिप्रत्ययो भवति । शब्दं करोति शब्दायते । एवं पैरायते । कलहायते ।
नमस्तपोवरिवसश्च यिन् ॥४८२ ॥
एभ्यो यिन्भवति करोत्यर्थे । नमस्करोति नमस्यति देवान् । एवं तपस्यति शत्रून् । वरिवस्यति गुरून् ।
कण्ड्वादिभ्यो यन् ॥ ४८३ ॥
कण्ड्वादिभ्यो यन्भवति करोत्यर्थे ॥ कण्डूं करोति कण्डूयते । एवं तिरस्करोति तिरस्यते । इत्यायिप्रत्ययान्ताः ।
गुपूधूपविच्छपनेरायः ॥ ४८४ ॥
गुपूप्रभृतिभ्य आयः प्रत्ययो भवति स्वार्थे । गोपायति । गोपायाञ्चकार | गोपयिता । एवं धूपायति । विच्छायति । विश विच्छ गर्तौ । पणायते । पणि व्यवहारे । पनायते । पन स्तुतौ च ॥ इत्यायान्ताः ।
अभूततद्भावे कृभ्वस्तिषु विकाराच्च्विः ।।४८५ ।।
विकारान्नाम्नरिच्चर्भवति अभूततद्भावेऽर्थे कृभ्वस्तिषु परेषु ।
च्वौऽचावर्णस्य ईत्वम् ॥४८६ ॥
अवर्णस्य ईत्वं भवति च्वौ च परे । च्चिसर्वापहारिप्रत्ययस्य लोपः । अशुक्लं शुक्लं करोति शुक्लोकरोति । अशुक्लः शुक्लः क्रियते शुक्लीक्रियते । अशुक्लः शुक्लो भवति शुक्ली भवति । अशुक्लः शुक्लः स्यात् शुक्लीस्यात् । अदीर्घ दीर्घः क्रियते दीर्घीक्रियते । अदीर्घं दीर्घं करोति दीर्घीकरोति । अदीर्घो दीर्घो भवति दीर्घीभवति । अदीर्घो दीर्घः स्यात् दीर्घीस्यात् । एवं पुत्रीक्रियते पुत्रीकरोति पुत्री भवति पुत्रीस्यात् । अवनिता वनिता क्रियते । वनितीक्रियते । एवमग्नीक्रियते अग्नीकरोति अग्नीभवति अग्नीस्यात् । पक्रियते पटूकरोति पटूभवति पटूस्यात् ।
ऋत ईदन्तश्च्विचेक्रीयितयिन्नायिषु ||४८७ ॥
ऋदन्तस्य च्विचेक्रीयितयिन्नायिषु परत ईदन्तो भवति । मात्रीकरोति मात्रीक्रियते मात्रीभवति मात्रीस्यात् । पित्रीकरोति पित्रीक्रियते । पित्रीभवति पित्रीस्यात् । इत्यादि । एवं सर्वमवगन्तव्यं ।
इति च्विप्रत्ययान्ताः समाप्ताः ।
अथ पुषादयः ।
पुषादिद्युतादिलृकारानुबन्धार्त्तिसर्चिशास्तिभ्यश्च परस्मै ॥४८८ ॥
इत्यण् प्रत्ययः सर्वत्र भवति। पुष पुष्टौ । अपुषत् । शुष शोषणे अशुषत् । दुःख वैकल्ये ।. अदुःखत् । श्लिष आलिङ्गने । अश्लिषत् । ञिच्छिदा गात्रप्रक्षरणे । अच्छिदत् । क्षुध बुभुक्षायां । अक्षुधत् । शुभ शौचे। अशुधत् । विध संराद्धौ । असिधत् । रथ हिंसायां । अरथत् । तृप प्रीणने। अतृपत् । दृप हर्षणमोचनयोः । अदृपत् । मुह वैचित्ये । अमुहत् । द्रुह जिघांसायां । अदुहत् । ष्णुह उद्गिरणे । अस्नुहत् । ष्णिह प्रीतौ । अस्निहत्। णश् अदर्शने । अनशत्। शम् दम् उपशमे अशमत् अदमत्। तमु कांक्षायाम् । अतमत् । श्रमु तपसि खेदे च । अश्रमत् । भ्रमु अनवस्थान। अभ्रमत् । क्षमूषु सहने । अक्षमत् । क्लम् ग्लानौ । अक्लमत् । मदीहर्षे। अमदत् । असु क्षेपणे । अपासत् । यसु प्रयत्ने। अवसत् । जसु मोक्षणे। अजसत् । तसु दसु उपक्षये । अतसत् । अदसत् । वसु स्तम्भे । अवसत् । प्लुष दाहे । अप्लुषत् । विष प्रेरणे। अविषत् । कुश श्लेषणे । अकुशत् । बुस उत्सर्गे । अबुसत्। मुश खण्डने। अमुशत् । मसि परिणामे । अमसत् । लुठ विलोडने । अलुठत् । उच समवाये । औचत् । भृश भ्रंश अधःपतने । अभृशत् । वृश वरणे । अदृशत् । कृश तनूकरणे अकृशत् । ञितृष पिपासायां । अतृषत् । तुष हृष तुष्टौ । अतुषत् । अहृषत् । कुप क्रुध रुष रोषे । अकुपत् । अक्रुधत् । अरुषत् । डिप क्षेपे । अडिपत् । स्तुप समुच्छ्राये । अस्तुपत् । गुप व्याकुलत्वे । अगुपत् । युप रूप लुप विमोहने । अयुपत् । अरुपत् । अलुपत् । लुभ गार्ध्ये । अलुभत् । क्षुभ संचलने । अक्षुभत् । नभ तुम हिंसायां । अनभत् अतुभत् । क्लिन्दू आर्द्राभावे । अक्लिन्दत् । ञिमिदा स्नेहने । अमिदत् । ञिविदा मोचने । आश्वदत् । ऋथ वृद्धौ । आर्द्धत् । गृधु अभिकांक्षायां । अगृधत् । इति पुषादिः । पुषादिद्युतादीत्यण् प्रत्ययः । द्युत शुभ रुच दीप्तौ । अद्युतत् अद्योतिष्ट । एवं सर्वत्र आत्मनेपदेऽपि । अशुभत् । अरुचत् । श्चित आवरणे 1
श्वितादीनां ह्रस्वः ||४८९ ॥
श्वितादीनां ह्रस्वो भवति । अश्वितत् । घुट् परिवर्तने । अघुटत् । रुट लुट लुठ प्रतीघाते । अरुटत् । अलुटत्। अलुठत् । क्षुभ संचलने । अक्षुभत् । श्रंस अंस अवस्रंसने। अश्रसत् । अभ्रसत् । ध्वंस गतौ च । अध्वसत् । स्रंभु विश्वासे । अस्रभत् । वृत वर्तने । अवृतत् । वृद्ध वृद्धौ । वृधु वर्धने । अवृधत् । शुलृ शब्दकुत्सायां । अशृदत् । स्यन्दू प्रस्रवणे । अस्यदत् । कृपू सामर्थ्ये। अकृपत् । गृधु अभिकांक्षायां । अगृधत् ।
ऋतो लृत् ॥४९० ॥
कृपेर्धातोः ऋतो तृत् भवति । अक्लृपत् ।
इति द्युतादिः ॥
भावसेनत्रिविद्येन वादिपर्वतवज्रिणा ।
कृतायां रूपमालायामाख्यातः परिपूर्यते ॥ १ ॥
अथ कृदन्ताः केचित्प्रदर्श्यन्ते
सिद्धिरिज्वद्ञ्णानुबन्धे ||४९९ ॥
ञ्णानुबन्धे कृत्प्रत्यये परे इचि कृतं कार्यमतिदिश्यते यथासंभवम् ।
धातोः ॥४९२ ॥
अविशेषेण धातोरित्यधिकारो वेदितव्यः ।
कृत् ॥४९३ ॥
वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञका वेदितव्याः ।
कर्त्तरि कृ ।। ४९४ ।।
कृत्प्रत्ययान्ताः कर्तृकारके भवन्ति ।
वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः ॥४९५ ।। अप्रथमैकाधिकरणामन्त्रितयोः परयोः वर्तमानकाले धातोः शन्तृाङानशौ भवतः ॥
सार्वधातुकवत् ||४९६ ||
शानुबन्धे कृति परि सार्वधातुकवत्कार्यं भवति । कृदन्ताः प्रायो वाच्यलिङ्गाः । शन्तृङन्तं क्विबन्तं धातुत्वं न जहाति । भवन् पुमान् । भवन्ती स्त्री । भवत्कुलं । लोकोपचारादानशानङावात्मनेपदे ।
आनोऽत्रात्मने ||४९७ ॥
अत्र आन: प्रत्यय आत्मनेपदं भवति ।
आन्मोन्त आने ।।४९८ ।।
अकारान्तान्मकारागमो भवति आने परे ।। एधमानः पुत्रः । एधमाना लक्ष्मीः । एधमानं कुलं । तथा पचन् पचन्ती पचत् । पचमानः पचमाना पचमानमित्यादि । अदन् अदन्ती अदत् । शयानः शयाना शयानम् ।
ङे न गुणः ॥४९९ ।।
नाम्यन्तयोर्धातुविकरणयोर्गुणो न भवति ङानुबन्धे कृति परे । ब्रुवन् ब्रुवाणः । जुह्वत् जुह्वानः । दधत् दधानः । दीव्यन् । सूयमानः । सुन्वन् सुन्वानः । अश्नुवानः ॥ सर्वेषामात्मने इत्यादिना गुणो न भवति । चिन्वन् चिन्वानः । भावे । भूयमानं देवदत्तेन । एध्यमानमस्माभिः । भावे सर्वत्र नपुंसकलिङ्गत्वं एकत्वं च । कर्मणि । पच्यमान ओदनः । पच्यमानौ ओदनौ । पच्यमानाः ओदनाः । क्रियमाण: कट इत्यादि ।
वेत्तेः शन्तुर्वन्सुः ||५०० ॥
विदः परस्य शन्तुर्वन्सुर्भवति । विद्वान् विद्वान्सौ ।
क्वन्सुकानौ परोक्षावच्च ॥५०१ ॥
धातो: परोक्षास्वरूपौ क्वन्सुकानौ भवतः ॥ क्वन्सु परस्मै कान आत्मनेपदं भवति ।
के यण्वच्च योक्तवर्जनम् ||५०२ ॥
कानुबन्धे कृति परे यण्वत्कार्यं भवति योक्तं वर्जयित्वा । इति न गुणः । बभूवान् बभूवान्सौ बभूवान्सः । एधाञ्चक्रिवान् । एधाञ्चक्राण: । अत्र नाम्यादेर्गुरुमत इत्यादिना आमः कृञ् प्रयुज्यते इत्यनुप्रयोगः । पेचिवान् पेचान: । चक्रिवान् चक्राण: 1
य्वोर्व्यञ्जनेऽये ॥५०३ ॥
धातोर्यकारवकारयोर्लोपो भवति यकारवर्जिते कृति व्यञ्जने परे । क्नूयी शब्दे । चुक्नूवान् । क्ष्मायी विधूनने । चक्ष्मावान्। दिव् क्रीडादौ । दिदिवान् । षिवु तन्तुसन्ताने । सिषिवान् । ष्ठिवु क्षितु निरसने । तिष्ठिवान् । चिक्षिवान् ।
गमहनविदविशदृशां वा ॥ ५०४ ॥
एषां वन्स् आजारड् वा भवति यथासंभवं उपधालोपः । जग्मिवान् । इडभावे ।
वमोश्च ।।५०५ ।।
वमोश्च परयोद्धातोर्मो न भवति । जगन्वान् जघ्निवान् । जवन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान् ।
दास्वान्साह्वान्मीढ्वांश्च ॥५०६ ॥
एते क्वन्स्पत्ययान्ता निपात्यन्ते । दासृ दाने । दास्वान् । षह मर्षणे। साह्वान् । मिह सेचने । मीढ्वान् ।
तव्यानीयौ ||५०७ ||
धातोस्तव्यानीयौ भवतः ।
ते कृत्याः॥५०८॥
ते तव्यादयः कृत्या भवन्ति ।
भावकर्मणोः कृत्यक्तखलर्थाः ||५०९ ॥
भावे कर्मणि च कृत्यक्तखलर्था वेदितव्याः || पूर्वस्यापवादोऽयं ॥ सुजनेन भवितव्यं । भवनीयं । अनुक्ते कर्तरि तृतीया । एधितव्यं । एधनीयं । उक्ते कर्मणि प्रथमा। अभिभवितव्यः शत्रुः । अभिभवनीयः । कर्तव्यः करणीय कटः, दातव्यं दानीयं धनं ।
कृत्ययुटोऽन्यत्रापि ॥५१० ॥
कृत्यो युट् च उक्तादन्यत्रापि भवति । स्ना शौचे। स्नानीयं चूर्णं । दानीयो ब्राह्मणः । वृत् वर्तने । समावर्तनीयो गुरुः ||
स्वराद्यः ॥५११ ॥
स्वरान्ताद्धातोर्यः प्रत्ययो भवति । चेयं ज्ञेयं नेयं ।
उदौद्भ्यां कृद्यः स्वरवत् ॥५१२ ॥
उदौदद्भ्यां परः कृद्यः स्वरवद्भवति । लव्यम् अवश्यलाव्यम् ।
शकिसहिपवर्गान्ताच्च ॥५१३ ॥
शकिसहिभ्यां पवर्गान्ताच्च यो भवति । शक्ऌ शक्तौ । शक्यं सह्यं जप्यं । लम्यम्
आत्खनोरिच्च ॥५१४ ॥
आकारान्तात्खनो नश्च यो भवति अनयोरन्त इकारागमो भवति । देयं पेयं । खनु अवदारणे । खरिकारादेशः । अन्येषामागमः । खेयम्
यमिमदिगदां त्वनुपसर्गे ॥५१५ ॥
एषामुपसर्गाभावे यो भवति । यम्यं मद्यं । गद्यं। अनुपसर्ग इति किं ? ध्यण प्रयाम्यं । प्रमाद्यं प्रगाद्यम् ।
चरेराङ्गि चागुरौ ॥ ५१६ ॥
अनुपसर्गे आङ्गि चरेर्यो भवति अगुरौ । आचर्यो देश: । अनुपसर्ग इति किं ? अभिचार्यं । अगुराविति किं ? आचार्यो गुरुः ।
पण्यावद्यवर्या विक्रेयगर्ह्यानिरोधेषु ॥५१७ ||
एतेष्वर्थेषु एते निपात्यन्ते यथासंख्यं । पण्यमिति निपात्यते विक्रेयार्थे । अवद्यमिति निपात्यते गह्यार्थे । वर्यमिति निपात्यते अनिरोधार्थे । पण व्यवहारे स्तुतौ च । वद व्यक्तायां वाचि । वृञ् वरणे । पण्यं । अवद्यं । वर्यं ।
वह्यं करणे ॥५१८ ||
वह्यमिति निपात्यते करणेऽर्थे। वहां शकटं वाह्यमन्यत् ।
अर्यः स्वामिवैश्ये ॥५१९ ॥
अर्यमिति निपात्यते स्वामिनि वैश्ये चार्थे । अर्यते इति अर्यः स्वामी अर्थो वैश्यः ।
उपसर्या काल्याप्रजने ॥५२० ॥
प्रजने प्राप्तकाले चेत् उपसर्या इति निपात्यते । सृ गतौ । उपसर्या ऋतुमतीत्यर्थः ।
अजर्यं संगते ॥५२१ ॥
अजर्यमिति निपात्यते संगतेऽर्थे । न जीर्यत इत्यजर्यम् आर्यसंगतम् ।
नाम्नि वदः क्यप् च ॥५२२ ॥
नाम्नि उपपदे वदः क्यप् भवति यश्च।
सप्तम्युक्तमुपपदम् ॥५२३ ॥
धात्वधिकारे सप्तम्या निर्दिष्टमुपपदसंज्ञं भवति ।
तत्प्राङ्नाम चेत् ||५२४ ॥
तदुपपदं नाम चेद्धातोः प्राग्भवति ।
तस्य तेन समासः ।।५२५ ।।
तस्य नामोपपदस्य तेन कृदन्तेन सह समासो भवति । ब्राह्मणो वदनं अथवा ब्रह्मणा उच्यते ब्रह्मोद्य ब्रह्मवद्यं ।
भावे भुवः ||५२६ ॥
नाम्नि उपपदे भुवो धातोः क्यप् भवति भावे । ब्रह्मभूयं गतः ब्रह्मत्वं गत इत्यर्थः ।
हनस्त च ॥५२७ ॥
नाम्नि उपपदे हन्तेः क्यप् भवति नस्य तकारादेशो भवति । ब्रह्महत्या । अश्वहत्या |
वृञ्दृजुषीण्शासुस्रुगुहां क्यप् ॥ ५२८ ॥
एषां क्यप् भवति । पुनः क्यप् ग्रहणं अधिकारनिवृत्यर्थम् । तेन नाम्नि भावे चेति निवृत्त्यर्थम् ।
धातोस्तोन्तः पानुबन्धे ॥५२९ ॥
ह्रस्वान्तस्य धातोस्तोऽन्तो भवति पानुबन्धे कृति परे । वृत्यं दृत्यम् । जुषी प्रीतिसेवनयोः जुष्यते इति जुष्यम् । इत्यः । शासु अनुशिष्टौ ॥ शासेरिदुपधाया इत्यादिना आकारस्य इत्वम् । शिष्यः । स्तुत्यः । गुह्यः ।
ऋदुपधाच्चाकृपिचृतेः ॥५३० ॥
कृपि चृति वर्जित ऋकारोपधाद्धातोः क्यप् भवति । वृत्यं नृत्यं दृश्यं स्पृश्यम् ।
भृञोऽसंज्ञायाम् ॥५३१ ॥
भृञ असंज्ञायां क्यप् भवति । भ्रियत इति भृत्यः ।
ग्रहोऽपिप्रतिभ्यां वा ॥५३२ ॥
अपिप्रतिभ्यां परात् ग्रहेः क्यब् भवति वा । अपिगृह्यं । अपिग्राह्यं । पक्ष्ये घ्यण् । प्रतिगृह्यं प्रतिग्राह्यम् ।
पदपक्ष्ययोश्च ॥५३३ ॥
पदपक्ष्ययोरर्थयोर्ग्रहेः क्यब् भवति । पक्षे भवः पक्ष्यः । प्रगृह्यं पदं । पक्षे अर्जुनगृह्या सेना ।
वौ नीपूज्भ्यां कल्कमुञ्जयोः ॥५३४ ॥
वावुपपदे नीपूभ्यां कल्कमुञ्जयोरर्थयोः क्यप् भवति । विनीयः कल्कः । विपूयो मुञ्जः ।
कृवृषिमृजां वा ॥ ५३५ ॥
कृञादिभ्यो वा क्यप् भवति । कृत्यं कार्यं । वृष वृक्ष सेचने । वृष्यं । वृष्यं । मृज्यं । मर्ज्यम् ।
मृजो मार्जिः ||५३६ ||
मृजु इत्येतस्य धातोर्मार्जिरादेशो भवति । चजो: कगौ धुडघानुबन्धयोरिति जकारस्य गकारः ॥ मार्ज्यं मार्ग्यम् ।
सूर्यरुच्याव्यथ्याः कर्त्तरि ॥५३७ ॥
एते कर्तरि निपात्यन्ते । सरति सूते वा लोकानिति सूर्यः । रोचत इति रुच्यः । व्यथ दुःखभयचलनयोः । न व्यथते इति अव्यथ्यः ।
भिद्योध्यौ नदे ॥५३८ ॥
एतौ कर्तरि नदे निपात्येते । भिनत्ति कूलानीति भिद्यः । उज्झत्युदकमित्युध्यः ।
युग्यं च पत्रे ।।५३९ ॥
युग्यमिति निपात्यते पत्रे वाहनार्थे । युज्यते अनेनेति युग्यं ।
कृष्टपच्यकुप्यसंज्ञायाम् ॥५४० ॥
एते निपात्यन्ते संज्ञायां । कृष्टे स्वयमेव पच्यन्ते कृष्टपच्या वीहयः । कुप्यं सुवर्णरजताभ्यामन्यत् ।
ऋवर्णव्यञ्जनान्ताद् घ्यण् ॥ ५४१ ॥
ऋवर्णान्तात् व्यञ्जनान्ताद्धातोः घ्यण् भवति । णकार इद्वद्भावार्थ: । धकारश्चजो: कगौ इत्यर्थ: । कार्यं । स्तृङ् आच्छादने । निस्तार्यं । श्लोकृ लोचृ दर्शने । आलोक्यं आलोच्यं । वाद्ये । कृप कृपायां । कृपे । रो लः । कल्प्यं ।
चजो: कगौ धुट्घानुबन्धयोः ॥५४२ ॥
चजो: कगौ यथासंख्यं भवतः धुटि धानुबन्धे परे । वाक्यं पाक्यं योग्यं भोग्यम् ।
न कवर्गादिवज्यजाम् ॥५४३ ॥
कवर्गादे: व्रजे: अजश्च चजो: कगौ न भवतः । क्षीज कूज गुज अव्यक्ते शब्दे ॥ कूज्यं कूजं । खज मन्थे । खाज्यं । प्रावाज्यं । अज क्षेपणे। आज्यम् ।
घ्यण्यावश्यके ॥५४४ ॥
आवश्यके गम्यमाने चजो: कगौ न भवतः घ्यणि परे । अवश्यपाच्यं । अवश्यभोज्यम् ।
प्रवचर्चिरुचियाचियजित्यजाम् ।।५४५ ।।
एषां चजो: कगौ न भवतो घ्यणि परे । प्रवाच्यः । आर्च्यः । रोच्यः । याच्यः । याज्यः । त्यज हानौ । त्याज्यः ।
निःप्राभ्यां युजेः शक्ये ॥५४६ ॥
निप्राभ्यां परस्य युजेर्गो न भवति शक्यार्थे घ्यणि परे । नियोक्तुं शक्यः नियोज्यः । एवं प्रयोज्य: भृत्यः।
भुजोऽन्ने ॥५४७ ॥
भुजो गो न भवति शक्यार्थे घ्यणि परे अन्ने । भोक्तुं शक्यं भोज्यं अन्नं भोज्यं पयः ।
आसुयुवपिरपिलपित्रपिदभिचमां च ॥५४८ ॥
आवात्सुनातेर्व्वित्यादिभ्यश्च घ्यण् भवति | आसाव्यं । यु मिश्रणे । यूयते याव्यं । टुवप् बीजतन्तुसन्ताने । वाप्यं । रप लप जल्प व्यक्तायां वाचि । राप्यं । लाप्यं । त्रपूष् लज्जायां । त्रप्यं । दंभेरिह प्रकृतिनलोपः । अवदाभ्यं । आचाम्यं ।
उवर्णादावश्यके ॥५४९ ।।
उवर्णान्तात् घ्यण् भवति अवश्यंभावे गम्यमाने । अवश्यं लूयत इति लाव्यं । एवं नाव्यं । भाव्यम् ।
पाधोर्मानसामिधेन्योः ॥५५० ॥
पाधोरित्येतयोर्मानसामिधेन्योरर्यथासंख्यं ध्यण् भवति । आयिरिच्यादन्तानामिति आयिप्रत्ययः । पाव्यं । धाय्यं । सामिधेनो ऋक् ।
प्राङोर्नियोऽसंमतानित्ययोः स्वरवत् ॥५५१ ॥
प्राडोरुपपदयोर्नियो धातोरसंमतानित्ययोर्यथासंख्यं घ्यण् भवति स च स्वरवत् । प्रणाय्यश्चोरः । निग्राह्य इत्यर्थ: । यो गार्ह्यपत्यादानीयत इति स चानित्यो रूढितः । आनाय्यो दक्षिणाग्निः ।
सञ्चिकुण्डपः कृतौ ।। ५५२ ।।
संपूर्वाच्चिनोतेः कुण्डपूर्वात्पिबतेर्घ्यण् भवति स च स्वरवत् कृतावभिधेये । सञ्चायः क्रतुः । कुण्डपायः क्रतुः ।
राजसूयश्च ॥ ५५३ ॥
कृतावभिधेये राजसूय इति निपात्यते । राजा सोतव्यः राजा वा सूयते इति राजसूयः ।
सान्नाय्यनिकाय्यौ हविर्निवासयोः ॥५५४ ॥
एतौ निपात्येते हविर्निवासयोरर्थयोः । सान्नाय्यं हविः विशिष्टमन्त्रनिकाय्यो निवासः ।
परिचाय्योपचाय्यावग्नौ ॥ ५५५ ॥
एतावग्नावर्थे निपात्येते । परिवाय्योऽग्निः । उपचाय्योऽग्निः ।
चित्याग्निचित्ये च ॥५५६ ॥
एतावग्नावर्थे निपात्येते । नयनं चित्यं । अग्नेश्चयनमग्निचित्या ।
अमावास्या वा ॥ ५५७ ॥
अमा–सहार्थे अमापूर्वाद्वसतेर्घ्यण् भवति कालाधिकरणे वा दीर्घत्वं निपात्यते । अमा सह वसतश्चन्द्रार्कौ यस्यां तिथौ सा तिथि: अमावस्या | अमावास्या । यल्लक्षणेनानुपपत्रं तत्सर्वं निपातनात्सिद्धं ।
वुण्तृचौ ॥ ५५८ ॥
धातोर्वण्तृचौ भवतः ।
युवुलामनाकान्ताः ||५५९ ॥
युवुलां स्थाने यथासंख्यं अन अक अन्त इत्येते भवन्ति । भवतीति भावकः भविता | कारकः कर्त्ता । नायक: नेता । हारक: हर्त्ता । बुभूषकः । अस्य च लोपः बुभूषिता । गुणश्चेक्रीयिते । बोभूयकः । बोभूयिता । भावकः । भावयिता । पुत्रीयिकः । पुत्रीयिता ।
हन्तेस्तः ॥५६० ॥
हन्तेर्नकारस्य तो भवति ञ्णानुबन्धे प्रत्यये परे । हस्य हन्तेर्घरिणिचोः । घातकः । हन्ता । हन हिंसागत्योः । आधिरिव्यादन्तानां । दायकः । दाता । अवसायक: । अवसाता | गायक: । गाता ।
नसेटोऽमन्तस्यावमिकमिचमाम् ॥५६१ ॥
सेटोऽमन्तस्य वमिकमिचमिवर्जितस्य इचि कृतं कार्यं न भवति ञ्णानुबन्धे कृति परे । शमकः शमिता । दमक: दमिता । यमकः यमिता
अच् पचादिभ्यश्च ॥५६२ ॥
पचादिभ्यः अच् भवति । सर्वे धातवः पचादिषु पठ्यन्ते । पचः पठः करः देवः ।
नन्द्यादेर्युः ||५६३ ॥
नन्द्यादेर्युर्भवति सर्वे धातवो नन्द्यादौ पठ्यन्ते । नन्दतीति नन्दनः । रम क्रीडायां रमणः । राध साध संसिद्धौ । राधन: साधन: ।
ग्रहादेर्णिन् ॥५६४ ॥
ग्रहादेर्गणात् णिन् भवति । सर्वे धातवः ग्रहादौ पठ्यन्ते । ग्राही ग्राहिणौ ग्राहिणः । स्थायी मायी श्रावी
नाम्युपधात्प्रीकॄगॄज्ञां कः ||५६५ ।।
नाम्युपधात् प्रीणाते: किरतेर्गिरतेर्जानातेच को भवति । क्षिप प्रेरणे। विक्षिष: । लिख विलेखने विलिखः । कुशः । प्रीञ् तर्पणे कान्तौ च प्रियः उत्किरः ।
वा स्वरे ॥५६६ ॥
गिरते रेफस्य वा लकारो भवति स्वरे परे । उद्विरः उद्गिलः प्रज्ञः ।
उपसर्गे चातो ङः ॥५६७ ॥
उपसर्गे तु आकारान्ताड्डो भवति । सुग्लः । सुम्लः । प्रस्थः । प्रह्वः । छो छेदने । प्रच्छः ।
धेट्दृशिपाघ्राध्मः शः ॥ ५६८ ।।
उपसर्गे उपपदे एम्य शो भवति । उद्धयः । उत्पश्यः । उत्पिवः । उज्जिधः । उद्धमः । साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पिविदां त्वनुपसर्गे ॥५६९ ॥
एषामनुपसर्गे शो भवति । साहयतीति साहयः । एवं सातयः । वेदयः । एजृ कम्पने । उदेजयः । चिती संज्ञाने । चेतयः । धृङ् धारणे धारयः । पार तीर कर्मसमाप्तौ । पारयः । लिम्पः । विन्दः।
वा ज्वलादिदुनीभुवो णः ॥५७० ॥
ज्वलादिभ्यो दुनोतेः नयतेर्भवतेश्च अनुपसर्से णो भवति वा पक्षे अच् । ज्वल दीप्तौ । ज्वलः ज्वालः । चल कम्पने । चल: चालः । कसपर्यन्तो ज्वलादिः । टुदु उपतापे । दवः दावः । नयः नायः । भवः भावः ।
समाङो स्रुवः ॥५७१ ॥
समाङो स्रवतेर्णो भवति । संस्रावः । आस्राव । समाङोरिति किं ? परिस्रवः ।
अवे हृषोः ।।५७२ ।।
अब उपपदे हरते: स्यतेश्च णो भवति । ह्रञ् हरणे । अवहारः । षोऽन्तकर्मणि । अवसाय: ।
दिहिलिहिश्लिविश्वसिव्यधतीण्श्यातां च ॥ ५७३ ॥
एषां णो भवति । दिह उपचये । देहः । लिह आस्वादने । लेहः । श्लिष आलिङ्गने श्लेषः । श्वस प्राणने श्वासः । व्यध ताडने व्याधः । अत्यायः । च्युङ् छ्युङ् ज्युङ् ग्युङ् प्रुङ गाङ् श्यैङ् गतौ । अवश्यायः । दायः । पायः । प्रत्याय इत्यादि ।
ग्रहेर्वा ॥ ५७४ ॥
ग्रहेर्वा णो भवति । ग्राहो जलचर: ग्रहः ।
स्वरवृदृगमिग्रहामल ||५७५ ॥
स्वरान्ताद् वृदृगामिग्रहिभ्यश्च अल् भवति घञोपवादः ।
गेहे त्वक् ॥५७६ ॥
ग्रहेर्गेहेऽभिधेये तु अग्भवति । गृह्णातीति गृहं । गृहं दाराः ।
नृतिखनिरञ्जिभ्य एव शिल्पिनि वुस् ||५७७ ॥
अभ्य एव शिल्पिनि अभिधेये दुस् भवति । नर्त्तकः नर्तकी खनकः खनकी। रंज रागे ।
उषिधिनीणोश्च ॥५७८ ॥
रंजे: पञ्चमो लोप्यो भवति उषिधिनिणोः परतः ॥ रज्यते इत्येवं शिल्पमस्य ॥ रजकः रजकी ।
गस्थक: ।।५७९ ॥
गायतेः शिल्पिन्यर्थे थको भवति । गाथक: । गाथकी ।
प्युट् च ॥५८० ॥
गायतेः शिल्पिन्यर्थे ण्युट् च भवति । गायनः गायनी ।
हः कालव्रीह्योः ॥ ५८१ ॥
जहाते: काले व्रीहौ चार्थे ण्युङ् भवति । जहाति काले भावानिति हायनः संवत्सरः । जहत्युदकमिति हायना व्रीहयः ।
आशिष्यकः ।।५८२ ॥
आशिषि गम्यमाने धातोरकप्रत्ययो भवति । जीव प्राणधारणे । जीवतात् जीवकः । एवं नन्दकः ।
पुस्रुसृल्वां साधुकारिणि ।।५८३ ॥
एषां साधुकारिण्यर्थे अकः प्रत्ययो भवति । साधुकरणं शिल्पमेव । च्युङ् छ्युङ् प्रुङिति दण्डकधातुः। साधु प्रवते साधुप्रवक: । एवं स्रवकः । सरकः । लवकः । साधु सरतीति । साधु लुनातीति । सृ गतौ । इत्यादि ।
कर्मण्यण् ॥ ५८४ ॥
कर्मण्युपपदे धातोरण् भवति । कुम्भं करोतीति कुम्भकारः । एवं काण्डलाव: । वेदाध्यायः । कुम्भकारी ।
ह्वावामश्च ||५८५ ॥
एभ्यः कर्मण्युपपदे अण् भवति । मित्राह्वायः । तन्तुवायः । धान्यमायः ।
शीलिकामिभक्षाचरिभ्यो णः ॥५८६ ॥
एभ्यो णो भवति कर्मण्युपपदे । दधिशीला । दधिकामा । दधिभक्षा। कल्याणाचारा स्त्रीः ।
आतोऽनुपसर्गात्कः ॥५८७ ॥
कर्मण्युपपदेऽनुपसर्गादाकारान्ताद्धातोः को भवति । धनुः ददातीति धनुदः । एवं सर्वज्ञः ।
नाम्नि स्था ।५८८ ॥
नाम्नि उपपदे तिष्ठतिराकारान्ताच्व को भवति । समे तिष्ठतीति समस्थः । कूटस्थः । कच्छेन पिवतीति कच्छप: । द्वाभ्यां पिवतीति द्विपः ।
तुन्दशोकयोः परिमृजापनुदोः ।।५८९ ।।
तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदिभ्यां को भवति । तुन्दं परिमार्ष्टीति तुन्दपरिमृजः अलसः । एवं शोकमपनुदतीति । शोकापनुदः । आनन्दकारी ।
प्रे दाज्ञः ॥५९० ॥
कर्मणि प्रोपपदे दाज्ञाभ्यां को भवति । प्रदः । पथिप्रज्ञः ।
समि ख्यः ।।५९१ ॥
कर्मणि समि चोपपदे ख्यातेः को भवति ।
चक्षिङः ख्याङ् ॥५९२ ।।
चक्षिङ् इत्येतस्य ख्याङादेशो भवति असार्वधातुके । गां संचष्टे गोसंख्यः ।
गष्टक् ।।५९३ ।।
कर्मण्युपदे गायतेष्टक् भवति । मधुरं गायतीति मधुरगी । सामगी।
सुरासीध्वोः पिबते: ।।५१४ ॥
सुरासोध्वोरुपपदयोः पिबतेष्टग्भवति । सुरापी। सीधुपी ।
हृञोऽच् वयोऽनुद्यमनयोः ॥५९५ ॥
कर्मण्युपपदे हरतेरज् भवति वयसि अनुद्यमने गम्यमाने । ऊर्ध्वं नयनमुद्यमनं ततोऽन्यदनुद्यमनं । कवचहरः क्षत्रियकुमारः ।
आङि ताच्छील्ये ॥५९६ ॥
कर्मण्याङि चोपपदे ताच्छील्यार्थे हस्तेरज् भवति । पुष्पाणि आहर्तुं शीलमस्य पुष्पाहरो विद्याधरः ।
अर्हश्च ॥५९७ ॥
कर्मण्युपपदे अर्हतैरज् भवति । पूजामर्हतीति पूजार्हः ।
धूञः प्रहरणे चादण्डसूत्रयोः ॥ ५९८ ॥
दण्डसूत्रवर्जिते प्रहरणवाचके उपपदे धृञोऽञ् भवति । वज्रधा: चक्रधरः। अदण्डसूत्रयोरिति किं । दण्डधारः । सूत्रधारः ।
धनुर्दण्डत्सरुलाङ्गलाङ्कशयष्टितोमरेषु ग्रहेर्वा ॥ ५९९ ॥
एषूपपदेषु ग्रहेरज्वा भवति । धनुर्ग्रहः धनुग्रहः । दण्डग्रहः । दण्डग्राहः । त्सरुग्रहः त्सरुग्राहः । लाङ्गलग्रहः । लाङ्गलग्राहः । अङ्कुशग्रहः अङ्कुशग्राहः । यष्टिग्रहः यष्टिप्राहः । तोमरग्रहः । तोमरग्राहः ।
स्तम्बकर्णयोः रमिजपोः ||६०० ॥
स्तम्बकर्णयोरुपपदयोरमिजपिभ्यां अज् भवति । स्तम्बेरमो हस्ती । कर्णेजपः पिशुनः 1
शंपूर्वेभ्यः संज्ञायाम् ||६०१ ॥
शंपूर्वेभ्यो धातुभ्यः संज्ञायां अज् भवति । शं करोति इति शंकरः । शंभवः । शंवदः ।
शीङोऽधिकरणे च ॥ ६०२ ॥
अधिकरणे च नाम्नि उपपदे शेते अजू भर्श्ववति । खे शेते खशय: । चकारात्-
पार्श्वपृष्ठादौ करणे ||६०३ ॥
पार्श्वपृष्ठादौ करणे उपपदे शीङ अज् भवति । पार्श्वेन शेते पार्श्वशयः । पृष्ठशयः कुब्जः ।
चरेष्टः ||६०४ ॥
अधिकरणे नाम्नि उपपदे चरेष्टो भवति । कुरुषु चरतीति कुरुचरः । एवमटवीचर: ।
पुरोऽग्रतोऽग्रेषु सर्तेः ||६०५ ॥
एषूपदेषु सर्वेष्टो भवति । पुरः सरः । अग्रतःसरः अग्रेसरः ।
पूर्वे कर्त्तरि ॥ ६०६ ॥
पूर्वशब्दे कर्तर्युपपदे सर्वेष्टो भवति । पूर्वसरः पूर्वसरी ।
कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु
३२९
अशब्दादिषु कर्मसूपपदेषु हेतौ ताच्छील्ये आनुलोम्ये कृञष्टो भवति । हेतौ यशस्करी विद्यः । ताच्छील्ये श्राद्धकरः । आनुलोम्ये वचनकरः । अशब्दादिष्विति किं । शब्दकारः । श्लोककारः : कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः । तद्यदाद्यन्तानन्तकारबहुबाह्वहर्दिवाविभानिशाप्रभाभाश्चित्रकर्तृनान्दीकिंलिपिलिबिब-
लिभक्तिक्षेत्रजंघाधनुररुः संख्यासु च ||६०८ ॥
तदादिषु कर्मसूपपदेषु कृञष्टो भवति । तत्करोतीति तत्करः तस्करः । रूढित्वात्तस्य सकारः । यत्करः । आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बहुकरः । बाहुकरः । अहस्करः । दिवाकरः । विभाकर: । निशाकरः । प्रभाकरः । भास्करः । चित्रकरः । कर्तृकरः । नान्दीकरः । किं करोतीति किंकरः । लिपिकरः । लिखिकरः । बलिकरः । भक्तिकरः । क्षेत्रकरः जंघाकरः । धनुःकरः । अरुकरः । एककरः । द्विकरः । इत्यादि । चकारात् रजनीकरः ।
भृतौ कर्मशब्दे ॥ ६०९ ॥
कर्मशब्दे उपपदे कृञष्टो भवति भृतावथ । कर्मकरो भृत्यः ।
इस्तम्बशकृतो: व्रीहिवत्सयोः ॥६१० ॥
स्तम्बशकृतोरुपपदयोः कृञ इर्भवति । स्तम्बकरिः व्रीहिः । शकृत्करिः बालवत्सः ।
हरतेर्वृतिनाथयोः पशौ॥ ६११ ॥
दृतिनाथयोरुपपदयोर्हरतेरि र्भवति पशावर्थे । दृतिहरिः नाथहरिः । पशुः ।
फलेमलरजः सुग्रहे ॥६१२ ॥
एषूपपदेषु ग्रहेरिर्भवति । फलेग्रहिः । मलग्रहिः । रजोग्रहिः ।
देववातयोरापेः ||६१३ ॥
देववातयोरुपपदयोराप्नोतेरिर्भवति । देवान्प्राप्नोति देवापिः । वातापिः ।
आत्मोदरकुक्षिषु भृञः खिः ॥६१४ ॥
एषु कर्मसूपपदेषु भृञः खिर्भवति । नस्तु क्वचित् इति नलोपः ।
ह्रस्वारुषोर्मोन्तः ||६१५ ॥
ह्रस्वान्तस्यानव्ययस्यारुषश्चोपपदस्य मकारान्तो भवति खानुबन्धे कृति परे । आत्मानं बिभर्तीति आत्मंभरिः । एवमुदरंभरिः । कुक्षिभरिः ।
एजेः खश् ।।६१६ ।।
कर्मण्युपपदे एजयतेरिनन्तात् खश् भवति । एजृ कंपने। जनमेजयतीति जनमेजयः ।
शुनीस्तनमुञ्जकूलास्वपुष्पेषु धेटः ।।६१७ ॥
एषु कर्मसूपपदेषु धेट: खश् भवति ।
दीर्घस्योपपदस्थानव्ययस्य खानुबन्धे ॥६१८ ॥
दीर्घान्तस्थानव्ययस्योपपदस्य ह्रस्वो भवति खानुबन्धे कृति परे । धेट् पाने । शुनीं धयतीति शुनिंधयः । स्तनं धयतीति स्तनंधयः । मुञ्जंधयः । कूलन्धयः । आस्यन्धयः । पुष्षन्धयः । शुनिन्धयी ।
नाडीकरमुष्टिपाणिनासिकासु ध्मश्च ॥ ६१९ ॥
एषु कर्मसूपपदेषु धमतेर्धेटश्च खश् भवति । नाडिन्धमः । करन्धमः । करन्धयः । मुष्टिन्धयः । मुष्टिन्धमः । पाणिन्धयः । पाणिन्धमः । नासिकन्धमः । नासिकन्धयः ।
विध्वरुस्तिलेषु तुदः ||६२० ॥
एषु कर्मसूपपदेषु तुदः खश् भवति । विधुंतुदः ।
संयोगादेर्बुदः ||६२१ ॥
संयोगादेर्धुटो लोपो भवति धुटि परे । अरंतुदः तिलन्तुदः ।
असूर्योग्रयोर्दृशः ||६२२ ॥
अनयोरुपपदयोर्दृशः खश् भवति । असूर्यम्पश्या राजदाराः । उग्रम्पश्या: ।
ललाटे तपः ||६२३ ॥
ललाटे उपपदे तपतेः खश् भवति । ललाटंतपः ।
मितनखपरिमाणेषु पचः ||६२४ ॥
एषु कर्मसूपपदेषु पचः खश् भवति । मितम्पचा ब्राह्मणी । नखंपचा यवागूः । प्रस्थंपचा द्रोणंपचा स्थाली ।
कूल उद्रुजोद्वहोः ||६२५ ॥
कूले उपपदे उद्रुजोद्वहो: खश् भवति । रुजो भंगे। कूलमुद्रुजा नदी । कूलमुद्वहः समुद्रः ।
वहंलिहाभ्रंलिहपरन्तपेरंमदाश्च ||६२६ ॥
एते खशन्ता निपात्यन्ते । वहंलिहा गौः । अभंलिहो वायुः । परंतपः खलः । इरंमदा सीधुः । चकारात् वातमजन्तीति वातमजाः । श्राद्धं जहातीति श्राद्धजहा माषाः ।
वदेः खः प्रियवशयोः ||६२७ ॥
अनयोरुपपदयोर्वदेः खो भवति । प्रियंवदः । वशंवदः ।
सर्वकूलाभ्रकरीषेषु कषः ||६२८ ॥
एषूपपदेषु कषतेः खो भवति । कष सिषेति दण्डकधातुः । सर्वंकषः खलः । कूलंकषा नदी । अभ्रकषो गिरिः । करीषंकषा वात्या ।
भयार्त्तिमेघेषु कृञः ||६२९ ।।
क्षेमप्रियमद्रेष्वण्च ||६३० ॥
एषूपपदेषु कृञः खो भवति अण्च । क्षेमंकरः क्षेमकारः । प्रियंकरः प्रियकारः । मद्रंकरः मद्रकारः ।
नाम्नि तृभृवृजिधारितपिदमिसहां संज्ञायाम् ॥६३१ ॥
नाम्युपपदे एभ्यः संज्ञायां खो भवति । रथेन तरतीति रथंतरं सामी विश्वं विभर्तीति विश्वंभरा भूः । पतिं वृणीते पतिंवरा कन्या । धनं जयतीति धनञ्जयः । वसुं धारयतीति वसुन्धरा । शत्रुं तापयतीति शत्रुतपः । अरिं दमयतीति अरिन्दमः । शत्रुं सहते इति शत्रुंसहः ।
गमश्च ।।६३२ ।।
नाम्नि उपपदे गमश्च खो भवति संज्ञायां । सुतंगमः । हृदयङ्गमा वाचः ।
उरोविहायसोरुरविहौ च ॥६३३ ॥
उरोविहायसोरुरविहौ भवतः गमश्च खो भवति संज्ञायाम् । उरसा गच्छतीति उरङ्गमः । विहायसा गच्छतीति विहङ्गमः ।
डोऽसंज्ञायामपि ॥ ६३४ ॥
नाम्नि उपपदे गमेर्डो भवत्यसंज्ञायामपि । भुजाभ्यां गच्छतीति भुजग: । तुरग: । प्लवगः । पतमः । अध्वगः । दूरगः । पारगः । पन्नगः । सुगः । दुर्गः । नगः । अग: । उरग: । विहगः ।
विहङ्गतुरङ्गभुजङ्गाश्च ॥६३५ ।।
एते डान्ता निपात्यन्ते संज्ञायाम् । विहङ्गः । तुरङ्गः । भुजङ्गः ।
अन्यतोऽपि च ||६३६ ॥
नाम्नि उपपदे गमेरन्यस्मादपि डो भवति । वारि चरतीति वार्च: हंसः । गिरौ शेते गिरिशः । वरानाहन्तीति वराहः । परिखन्यते परिखा ।
हन्तेः कर्मण्याशीर्गत्योः ॥६३७ ॥
कर्मण्युपपदे आशिषि गतौ च वर्तमानाद्धन्तेर्डो भवति । शत्रुं वध्यात् शत्रुहः । क्रोशं हन्तीति क्रोशहः ।
अपात्क्लेशतमसोः ||६३८ ॥
क्लेशतमसोरुपपदयोरपहन्तेर्डो भवति । क्लेशापहः । तमोपहः । दुःखापहः । ज्वरापहः । विषापहः । अन्यतोऽपि । अन्यापहः । दर्पापहः ।
कुमारशीर्षयोणिन् ।।६३९ ॥
कुमारशीर्षयोरुपपदयोः हन्तेर्णिन् भवति । कुमारघाती । शीर्षघाती ।
टग्लक्षणे जायापत्योः ॥६४० ॥
जायापत्योरुपपदयोर्हन्तेष्टम् भवति लक्षणवत्कर्त्तरि । जायाघ्नः ब्राह्मणः । पतिघ्नी वृषली ।
अमनुष्यकर्तृकेऽपि च ॥६४१ ॥
अमनुष्यकर्तृकेऽपि च वर्तमानात् हन्तेरपि टग्भवति । जायाघ्नः तिलकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । वातघ्नं तैलं । श्लेष्माणं हन्तीति श्लेष्मघ्नं त्रिकटुकं । अपिशब्दात् कृतघ्नः ।
हस्तिबाहुकपाटेषु शक्तौ ॥६४२ ॥
एषूपपदेषु हन्तेष्टग्भवति शक्तौ । हस्तिनं हंतीति हस्तिघ्नः । एवं बाहुघ्नः । कपाटघ्नः ।
पाणिघताडयौ शिल्पिनि ||६४३ ||
एतौ शिल्पे निपात्येते । पाणिना हन्तीति पाणिघ: । ताडघः ।
नग्नपलितप्रियान्धस्थूलशुभगाद्येष्वभूततद्भावे कृञः ख्युट् करणे । ।६४४ ॥
नग्नादिषूपपदेषु अमृततन्द्रावेऽर्थे कृञः ख्युट् भवति करणे । अनग्नो नग्नः क्रियते अनेन नग्नंकरणं द्यूतं । एवं पलितंकरणं तैलं । प्रियंकरणं शीलं । अन्धंकरणः शोकः । स्थूलंकरणं दधि । शुभगंकरणं रूपं । आढ्यंकरणं वित्तम् ।
भुवः खिष्णुखुकञौ कर्त्तरि ॥६४५ ॥
नग्नादिषूपपदेषु अभूततद्भावे भुवः खिष्णुखुकञौ भवतः कर्तरि । अनग्नो नग्नो भवति नग्नंभविष्णुः । नग्नंभावुकः । पलितंभविष्णुः । पलितंभावुकः । प्रियंभविष्णुः । प्रियंभावुकः । अन्यंभविष्णुः अन्धंभावुकः । स्थूलंभविष्णुः स्थूलंभावुकः ।
कर्मणि भजो विण् ॥६४६ ॥
कर्मणि भजो विण् भवति । वेर्लोपोऽपृक्तस्य इति वेर्लोपो भवति ॥ अर्द्धभाक् । पादभाक् ।
सहः छन्दसि ।।६४७ ।।
छन्दसि भाषायां सहो विण् भवति । तुरांसहते ।
सहेष्वो ढः ||६४८ ॥
सहेस्सकारस्य षत्वं भवति हकारस्य ढकारो भवति चेत् । तुराषाट् तुरासाहौ तुरासाहः ।
बहश्च ||६४९ ।।
नाम्नि उपपदे वहश्च विण् भवति । प्रष्ठवट् प्रष्ठौही ।
अनसि च ||६५० ॥
अनस्युपपदे वह विण् भवति । अनसश्च डो भवति । अनड्वान् । अनडुही।
दुहः को घश्च ॥६५१ ॥
दुहः को भवति अन्तस्य घादेशः । ब्रह्मदुधा । कामदुधा ।
विट् कमिगमिखनिसनिजनाम् ।।६५२ ॥
नाम्नि एभ्यो विट् भवति ।
विड्वनोराः ||६५३ ||
विटि च वनि च प्रत्यये परे पचमान्तस्याकारो भवति । उदधिकाः । अग्रेगाः । विषखाः । गोषाः । अब्जजाः ।
अतो मन् क्वनिष्वनिविचः ||६५४ ॥
आकारान्ताद्धातोर्मन् क्वनिप् वनिप् विच् एते प्रत्यया भवन्ति । मन् सुष्ठु ददातीति सुदामा । अश्व इव तिष्ठतीति अश्वत्थामा। क्वनिप् । सुपीवा। सुधीवा । वनिप् । भूरिदावा। घृतपावा । विच् । क्षीरपाः । सर्वापहारी प्रत्ययलोप:।
अन्येभ्योऽपि दृश्यन्ते ||६५५ ॥
अन्येभ्योपि धातुभ्य एते प्रत्यया दृश्यन्ते । मन् कृतवर्मा । क्वनिप् । इण गतौ। प्रातरेति प्रातरित्या । वनिप् यज्वा । विच् त्विष हिंसायां त्विट् ।
क्विप् ।।६५६ ।।
धातो: क्विप् दृश्यते । उखायाः स्रंसते उखाखत् । पर्णध्वत् ।
वः क्वौ ।।६५७ ॥
वेञः सम्प्रसारणं दीर्घमापद्यते क्वावेव । ऊः उवो उवः ।
ध्याप्योः ||६५८ ॥
ध्याप्योः सम्प्रसारणं दीर्घमापद्यते क्वौ परे आधीः । व्याधीः । आपीः । वचनात्सम्प्रसारणं सिद्धम् ।
पञ्चमोपधाया धुटि चागुणे ॥६५९ ।।
पञ्चमान्तस्योपधाया: क्वौ धुटि चागुणे प्रत्यये परे दीर्घो भवति
मो नो धातोः ||६६० ॥
धातोर्मकारस्य नकारो भवति धुट्यन्ते च । प्रशान् । प्रतान् ।
च्छ्वोः शूठौ पञ्चमे च ॥६६१ ॥
छकारवकारयोः शू ऊठित्येतौ भवतः क्वो धुट्यगुणे पञ्चमे च । लिश विछ गतौ । विछ गोविट् प्रच्छ ज्ञीप्सायां पथिप्राट् । क्वचिद् ह्रस्वस्य दीर्घता । दिव् अक्षद्यूः । षिव् स्यूः । प्रच्छ प्रष्टः पृष्ट्वा । दिव् द्यूतः द्यूत्वा । विच्छे विश्नः । छस्य द्विः पाठे निमित्ताभावे नैमित्तिकस्याप्यभावः ।
श्रिव्यविमविह्वरित्वरामुपधयोः ॥६६२ ॥
एषामुपधया सह वकारस्य ऊठ् भवति क्वौ घुट्यगुणे पञ्चमे च । श्रिवु गतिशोषणयोः । श्रूः । अव रक्ष पालने । अव् ऊः । मव्य बन्धने मूः । ज्वर रोगे जूः । त्वर तूः ।
राल्लोप्यौ ॥६६३ ॥
रेफात्परौ छकारवकारौ लोप्यौ भवतः क्वौ धुट्यगुणे पञ्चमे च । मूर्च्छ मूः । धूर्व धूः ।
वहेः पञ्चम्यां भ्रंशेः ||६६४ ॥
वहे: पचम्यन्त उपपदे भ्रंशे: क्विप् भवति । भ्रंश भ्रंश अधःपतने। वहात् भ्रश्यत इति वहभ्रट् ।
स्पृशोऽनुदके ॥६६५ ॥
अनुदके नाम्नि उपपदे स्पृशः क्विप् भवति । स्पृश संस्पृशे । घृतस्पृक् मन्त्रस्पृक् ।
अदोऽनने ||६६६ ॥
अनन्न उपपदे अद: क्विप् भवति । सस्यमतीति सस्यात् । तृणात् ।
क्रव्ये च ॥६६७ ॥
क्रव्ये चोपपदे अदः क्विप् भवति पक्वेऽर्थे । क्रव्यात् । पुनर्वचनादण् अपक्केऽपि । क्रव्यादः राक्षसः ।
ऋत्विग्दधृक्स्त्रग्दिगुष्णिहश्र ||६६८ ||
एते क्विबन्ता निपात्यन्ते । ऋतौ यजतीति स्वपि वपि इत्यादिना संप्रसारणं, वमुवर्ण इति वत्वम् । ऋत्विक् । धृष्णोतीति दधृक् । स्रक् । दिक् । उष्णिक् ।
सत्सूद्विषद्रुहयुजविदभिदजिनीराजामुपसर्गेऽष्यनुपसर्गेऽपि ॥६६९ ॥
एषामुपसर्गेऽप्यनुपसर्गेऽपि नाम्नि अप्यनाम्नि उपपदे क्विप् भवति । उपसीदतीति उपसत् । सत् । सभासत् । सूरदादिः प्रसूः । सूः । अण्डसूः । द्विष् अप्रीतौ । विद्विट् । द्विट् । मित्रद्विट् । द्रुह जिघांसायां प्रधुक् । धुक् । मित्रधुक् प्रधुक् गोधुक् । प्रयुक् । युक् अश्वयुक् । संवित् वित् वेदवित् । प्रभित् भित् काष्ठभित् । प्रच्छित् छित् रज्जुंच्छित् । प्रजित् जित् अवनिजित् । अवनी: नी: सेनानीः । विराट् राट् गिरिराट् ।
कर्मण्युपमानेत्यदादौ दृशष्टक्सकौ च ॥ ६७० ॥
कर्मण्युपमाने त्यदादौ उपपदे दृशष्टक्सकौ च भवतः । चकारात् क्विप् च ।
आ सर्वनाम्नः ||६७१ ॥
दृग्दृशदृक्षेषु परतः सर्वनाम्न आकारो भवति । दृशिर् प्रेक्षणे । तमिव पश्यतीति अथवा स इव दृश्यते इति तादृशः । तादृक्षः । तादृक् । यादृशः । यादृक् । यादृक्षः। एतादृश: । एतादृक्षः । एतादृक् ।
इदमीः ॥६७२ ॥
दृगादिषु परत इदमीर्भवति । इदमिव पश्यतीति ईदृशः । ईदृक्षः ईदृक् ।
किं कीः ||६७३ ||
दृगादिषु किं कीर्भवति । किमिव पश्यतीति कीदृशः । कीदृक्षः कीदृक् ।
अदोमूः ||६७४ ||
दृगादिषु अदस् अमूर्भवति । अमुमिव पश्यतीति अमूदृशः अभूदृक्ष: अमूदृक् ।
दृग्दृशदृक्षेषु समानस्य स्यः ॥६७५ ॥
दृगादिषु परेषु समानस्य सभावो भवति । समानमिव पश्यतीति सदृशः । सदृक्षः । सदृक् ।
नाम्न्यजातौ णिनिस्ताच्छील्ये ॥६७६ ॥
अजातौ नाम्नि उपपदे धातोर्णिनिर्भवति ताच्छील्येर्थे तच्छब्देन धात्वर्थो गृह्यते । उष्णं भोक्तुं शीलमस्य उष्णभोजी । धर्ममवभासितुं शीलमस्य धर्ममवभास्यत इति एवं शील: धर्मावभासी । प्रियवादी । प्रियवादिनी ।
कर्तर्युपमाने ॥६७७ ॥
कर्तृवाचिनि उपमाने उपपदे धातोर्णिनिर्भवति । उष्ट्र इव क्रोशतीति उष्टक्रोशी । ध्वांक्षरावी । हंसगामिनी ।
व्रताभीक्ष्ण्ययोश्च ||६७८ ॥
व्रताभीक्ष्ण्ययोरर्थयोर्धातोर्णिनिर्भवति । व्रतं शास्त्रविहितो नियमः । आभीक्ष्ण्यं पौनःपुन्यं । अश्राद्धभोजी। स्थण्डिलशायी। क्षीरपायिण: उशीनराः । सौवीरपायिणो बाह्विकाः ।
मनः पुंवच्चात्र ||६७९ ।।
कर्मण्युपपदे मन्यतेर्णिनिर्भवति उपपदस्य पुंवद्भवति यथासम्भवम् । पटुमानी । पट्वीमात्मानं मन्यते । पटुमानिनी ।
खश्रात्मने ||६८० ॥
कर्मण्युपपदे आत्मार्थे मन्यतेर्णिनिर्भवति खश्च प्रत्ययः पुंवच्च । विदुषीमिव आत्मानं मन्यते विद्वन्मानिनी । पटुमिवात्मानं मन्यते पटुमन्यः ।
करणेऽतीते यजः ||६८१ ॥
करणे उपपदे यजेर्णिन् भवति अतीतेऽर्थे । अग्निष्टोमेन इष्टवान् अग्निष्टोमयाजी । वाजपेययाजी ।
कर्मणि हनः कुत्सायाम् ।।६८२ ॥
कर्मण्युपपद हन्तेर्णिनिर्भवति अतीते काले वर्तमानात् कुत्सायाम् । पितृघाती । मातुलघाती ।
क्विप् ब्रह्मभ्रणवृत्रेषु ||६८३ ॥
ब्रह्मादिषूपपदेष्वतीते हन्तेः क्विप् भवति । ब्रह्माणं हन्तिस्म ब्रह्महा । भ्रूणहा । वृत्रहा ।
कृञः सुपुण्यपापकर्ममन्त्रपदेषु ||६८४ ॥
एतेषूपपदेषु कृञः क्विप् भवति अतीते । सुष्टु करोतिस्म सुकृत् । पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् ।
सोमे सुञः ।।६८५ ।।
सोमे उपपदे सुञः क्विप् भवति अतीते । सोमं सुनोतिस्म सोमसुत् ।
चेरग्नौ ||६८६ ॥
अग्नावुपपदे चिनोतेः क्विप् भवति अतीते । अग्नि चिनोतिस्म अग्निचित् ।
विक्रिय इन् कुत्सायाम् ॥६८७ ॥
विक्रीणातेरतीते कुत्सायाम् इन् भवति। सोमं विक्रीणीतेस्म सोमविक्रयी । डुक्रीञ् द्रव्यविनिमये ।
दृशेः क्वनिप् ।६८८ ॥
कर्मण्युपपदे दृशेः क्वनिप् भवति अतीते। मेरुं पश्यतिस्म मेरुदृश्वा ।
सहराज्ञोर्युधः ||६८९ ।।
सहराज्ञोरुपपदयोः युधः क्वनिषु भवति अतीते । युध सम्प्रहारे सह युध्यतेस्म सहयुष्वा। राजानं युध्यतेस्म राजयुध्वा !
कृञश्च ।।६९० ।।
सहराज्ञेरुपपदयोः कृञः क्वनिप् भवति अतीते । सहकृत्वा । राजकृत्वा ।
सप्तमीपञ्चम्यन्ते जनेर्डः ॥ ६९१ ॥
सप्तम्यन्ते पञ्चम्यन्ते उपपदे जनेर्डो भवति अतीते । जले जातं जलजम् । सरसिज संस्कारात् जातं संस्कारजम् । बुद्धिजं । एवं पंकेजं । नीरेजम् ।
अन्यत्रापि च ।।६९२ ॥
अन्यस्मिन्नप्युपपदे जनेर्डा भवति अतीते । न जातः अजः । द्वाभ्यां जाते द्विजः । अभिजः । अग्रजः । अनुजः पुमांसमनुजातः ।
वर्णागमो वर्णविपर्ययक्ष द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥१ ॥
वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः ।
षोडशादौ विकार स्थाद्वर्णनाशः पृषोदरे ॥ २ ॥
वर्णविकारनाशाय धातोरतिशयेन यः ।
योगः स उच्यते प्राज्ञैर्मयूरभ्रमरादिषु ॥ ३ ॥
मह्यां रौतीति मयूरः । भ्रमन् रौतीति भ्रमरः । व्यञ्जनान्तस्य यत्सुभोरिति न्यायात् पुंसोऽऽशब्दलोप इति सूत्रेण अन्शब्दलोप: । संयोगान्तस्य लोप इति सलोपः । पुमनुजः । स्त्र्यनुजः ।
निष्ठा ।।६१३ ।।
धातोर्निष्ठाप्रत्ययो भवति अतीते काले ।
तक्तवन्तू निष्ठा ।।६९४ ॥
तक्तवतू निष्ठासंज्ञौ भवतः ।
न श्रयुवर्णवॄतां कानुबन्धे ।।६९५ ॥
श्रयतेरुवर्णान्तस्य वृङ्वृञ्ऋदन्तस्य च नेड् भवति कानुबन्धेऽसार्वधातुके । श्रितः श्रितवान् । युतः युतवान् । भूत: भूतवान् । वृतः वृतवान् ।
रान्निष्ठातो नोऽपॄमूर्च्छिमदिख्याध्याभ्यः ||६९६ ||
रेफात्परस्य निष्ठातकारस्य नकारो भवति नतु पृमूर्च्छिमदिख्याध्याभ्यः । शॄ हिंसायाम् । शीर्ण: शीर्णवान् । कीर्णः कीर्णवान् । गीर्णः गोर्णवान् । प्रतिषेधः किम् । पॄ पूत्र्त: पूत्र्तवान् । मूर्च्छा मोह समुच्छ्राययो: । मूर्तः मूर्तवान् । मतः न डीङ्श्वीदनुबन्धवेटामपतिनिष्कुषोरिति इट्प्रतिषेधः । ख्यातः । ध्यातः ।
निष्ठेटीनः ||६९७ ||
निष्ठायामिटि परे इनो लोपो भवति । चोर्यतेस्म चोरितः चोरितवान् | कारितः कारितवान् ॥ क्षुधिवसोचेति वर्त्तते ।
निष्ठायाञ्च ।।६९८ ॥
क्षुधिवसोर्निष्ठायां वा नेट् भवति ।
लुभो विमोहने ।।६९९ ।।
विमोहनेऽर्थे लुभो निष्ठानां वा नेट् भवति । क्षुधितः क्षुधितवान् । उषितः उषितवान् । लुभ गार्ध्ये लुभितः लुभितवान् । लुब्धः लुब्धवान् ।
पूञक्लिशोर्वा ||७०० ||
पूञ: दिलशच निष्ठायामिड् वा भवति । पूतः पूतवान् । पवितः पवितवान् । क्लिश् विवाधने । क्लिष्ट: क्लिष्टवान् । क्लिशित: क्लिशितवान् ।
न डीङ्श्वीदनुबन्धवेटामपतिनिष्कुषोः ॥७०१ ॥
डीङ: श्वयतेरीदनुबन्धस्य च वेटस्य निष्ठायां नेड् भवति अपतिनिष्कुषोः ।
ल्वाद्योदनुबन्धाच्च ॥७०२ ॥
लूञादिभ्य ओदनुबन्धेभ्यश्च परस्य निष्ठातकारस्य नकारो भवति । डीङ् विहायसा गतौ । डीन: डीनवान् । टुओश्वि गतिवृद्धयोः ।
तद्दीर्घमन्त्यम् ॥७०३ ॥
तत्सम्प्रसारणमन्त्यं चेद्दीर्घमापद्यते । शूनः शूनवान् । दीप्तः दीप्तवान् । ओलजी ओलस्जी व्रीडायां । लज्जतेस्म अन्तरङ्गत्वात् चजो: कगौ धुटि चानुबन्धयोरिति जकारस्य गकारः । लग्न: लग्नवान् ।
धुटि खनिसनिजनाम् ॥७०४ ।।
एषां पञ्चमान्तस्य आकारो भवति धुटि परे । खातः । सातः । जातः । जातवान्। वेट:- गुहू संवरणे । ढे ढलोपो दीर्घचोपधायाः । गूढः गूढवान् ।
दाद्दस्य च ॥७०५ ॥
दकारात्परस्य निष्ठातकारस्य दस्यं च नकारो भवति ।
आदनुबन्धाश्च ||७०६ ॥
आकारादनुबन्धाद्धातोर्नेड् भवति निष्ठायां ञिमिदा स्नेहने। मित्रः मित्रवान् । क्लिद् आर्दीभावे । क्लिक: क्लिन्नवान् ।
आतोऽन्तस्थासंयुक्तात् ॥७०७ ॥
अन्तस्थासंयुक्तादाकारात्परस्य निष्ठातकारस्य नकारो भवति । ग्लै । हर्षक्षये । ग्लान: ग्लानवान् । म्लै मात्रविनामे । म्लानः । श्रा पाके । श्राण। द्रा कुत्सायां गतौ । विद्राणः विद्राणवान् ।
वर्श्चेः कक्ष ।।७०८ ॥
व्रश्चेः परस्य निष्ठातकारस्य नकारो भवति कश्चान्तादेशः । व्रश्चू छेदने । सम्प्रसारणं । वृक्णः वृक्णवान् ।
क्षैशुषिपचा मकवाः ।।७०९ ॥
एभ्यो निष्ठातकारस्य यथासंख्यं मकवा भवन्ति । क्षै जै वै क्षये । क्षामः क्षामवान् । शुष्कः । पक्कः ।
वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चान्तः ॥७१० ॥
वनतेस्तनोत्यादेः प्रतिषिद्धेटश्च पञ्चमस्य लोपो भवति धुट्यगुणे पञ्चमे च आकारस्य अद् भवति । वन षण संभक्तौ । वतः । ततः । हतः । यतः । रतः । नतः । गतः। गतवान् ।
जपिवमिध्यामिड् वा ॥७११ ॥
जपिवमिध्यामिड् वा भवति निष्ठायाम् । जप विमानसे च । जप्तः जप्तवान् । जपितः जपितवान् । वान्तः । वान्तवान् वमितः वमितवान् ।
व्याद्भ्यां श्वसः ॥७१२ ॥
व्याद्भ्यां परस्य श्वस इड् वा भवति निष्ठायां । विश्वस्तः । विश्वसितः। विश्वस्तवान् विश्वसितवान् । आश्वस्तः आश्वस्तवान् । आश्वसितः आश्वासितवान् ।
भावादिकर्मणोर्वा ॥ ७१३ ॥
आदनुबन्धाद्धातोर्भाव आदिक्रियायाश्च इड् वा भवति निष्ठायां ।
शीङ्पूङ्धृषिक्ष्विदिस्विदिमिदां निष्ठासेट् ॥७१४ ।।
शीङादीनां निष्ठा सेट् गुणी भवति । शयितः शयितवान् । पवितः पवितवान् । ञिधृषा प्रागल्भ्ये । धर्षितः धर्षितवान् । प्रवेदितः प्रविण्णः । प्रस्येदितः प्रस्विनः । प्रमेदितः । प्रमिन्न- । प्रमित्रवान् ।
स्फायः स्फीः ।।७१५ ॥
स्फाय: स्फीरादेशो भवति निष्ठायां । स्फायी ओप्यायी वृद्धौ । स्फीतः स्फीतवान् ।
भावादिकर्मणोर्वोदुपधात् ।।७१६ ॥
उदुपधाद्धातोर्निष्ठा सेट् गुणी भवति वा भावे आदिक्रियायाञ्च । द्योतितमनेन द्युतितमनेन । प्रद्योतित: प्रद्युतितः ।
यपि चादो जग्धिः ॥ ७१७ ॥
तकारादौ अगुणे यपि च परे अदेर्जग्धिर्भवति जग्धं अद्यते स्म निष्ठाक्तः ।
द्यतिस्यमास्थां त्यगुणे ॥७१८ ॥
एषां तकारादावगुणे प्रत्यये परे इड् भवति । दो अवखण्डने । दितवान् । अवसितः । माङ् माने । मितः । स्थितः स्थितवान् ।
वा छाशो: ।।७१९ ।।
छाशोस्तकारादावगुणे इड् वा भवति । छो छेदने । अवच्छितः अवच्छातः । शो तनूकरणे निशित: निशात: ।
दधातेर्हिः ॥७२० ||
दधातेर्हिर्भवति तकारादावगुणे। अभिहितः । अभिहितवान् ।
स्वरान्तादुपसर्गात्तः ॥ ७२१ ॥
स्वरान्तादुपसर्गात्परस्य दासंज्ञकस्य तो भवति तकारादावगुणे । प्रत्तं प्रतवान् । नित्तं नित्तवान् ।
दद्दोऽधः ॥७२२ ॥
अधेटो दासंज्ञकस्य दद्भभवति तकारादावगुणे । दत्तः दत्तवान् । दत्त्वा दत्तिः । धाव् गति शुद्धयोः । छ्वोः शूठौ ।
अवर्णादूठो वृद्धिः ||७२३ ॥
अवर्णात्परस्य ऊठो वृद्धिर्भवति । धौतः ।
आदिकर्मणि क्तः कर्तरि च ॥७२४ ॥
आदिक्रियाणां कर्तरि च क्तो भवेदिति वेदितव्यः । प्रकृतः कटं भवान् । प्रकृंतः कटो भवता । सुप्तो भवान् । प्रसुप्तं भवता । प्रशब्द: आदिक्रियाद्योतकः ।
गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ॥७२५ ॥
गत्यर्थेभ्य: अकर्मकेभ्यः श्लिषादिभ्यश्च कर्तरि क्तो भवति । गतो ग्रामं भवान् । ग्रामो भवता प्राप्तः । ग्रामं भवान् प्राप्तः। प्राप्तो ग्रामो भवता । गतोऽयं गतमनेन । प्राप्तोऽयं प्राप्तमनेन । अकर्मकात्। शयितो भवान् शयितं भवता । श्लिषादय: सोपसर्गाः सकर्मकाः आश्लिष्टो गुरुं भवान् । आश्लिष्टो गुरुर्भवता श्लिष आलिङ्गने । अधिशयितः खट्वां भवान् । अधिशयिता खट्वा भवता । उपस्थितो गुरुं भवान् । उपस्थितो गुरुर्भवता । उपसितो गुरुं भवान् । उपासितो गुरुर्भवता । वस निवासे । अनृषितो गुरुं भवान् । अनूषितो गुरुर्भवता । अनुजातो. बुधं चन्द्रमाः अनुजातो बुधश्चन्द्रमसा । आरूढो वृक्षं कपिः आरूढो वृक्षः कपिना । नृषुषु वयोहानौ । अनुजीर्णो वृषली भवन् । अनुजीर्णा वृषली भवता ।
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसादनार्थेभ्यः ॥७२६ ॥
ध्रुवस्य भावो धौव्यं प्रत्यवसादनं भोजनं । ध्रौव्यार्थेभ्य: गत्यर्थेभ्यः प्रत्यवसादनार्थेभ्यश्च क्तो भवति अधिकरणे इदमेषामासितं । इदमासितमेभिः । अत्रासितोऽयं । इदमेषां यातं । इदं । तैर्यातं । ग्रामं ते याता: । इदमेषां भुक्तं । इदं तैर्भुक्तं । ओदनं ते भुक्ताः । इदमेषां पीतं । पयस्तैः पीतं । पयस्ते पीताः । पीत पयः ।
ञ्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः ॥ ७२७ ॥
मतिरिच्छा बुद्धिर्ज्ञानं पूजा सत्कारः । ञ्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तो भवति वर्तमानकाले भावे कर्मणि कर्तरि च यथासम्भवं । ञिमिदा स्नेहने । मिन्नः । स्विन्नः । क्ष्विण्णः । राज्ञां मतः । सतामिष्टः बुद्धौ राज्ञां बुद्धः । राज्ञां ज्ञातः । पूज पूजायां । राज्ञां पूजितः । सतामर्चितः ।
नपुंसके भावे क्तः ।।७२८ ।।
भावे क्तो भवति नपुंसके । उपासितमत्र । सुजल्पितं । कुमारस्य शयितम् । आस् उपवेशने । आसितं पुत्रस्य एति ।
युद् च ॥७२९ ।।
भावे नपुंसके युट् च भवति। भवनं । पचनं । यजनं । वसनं देवनं तोदनं । रोदनं । करणं । मननं । इत्यादि सर्वमवगन्तव्यम् ।
तच्छीलतद्धर्मतत्साधुकारिष्वा क्वेः ।।७३० ||
आक्वेः कोऽर्थः क्विपमभिव्याप्य इत्यर्थः । तच्छीलादिषु कर्तृषु अतः परे केचित्प्रत्यया वेदितव्याः ।
तृन् ॥७३१ ॥
तच्छीलादिषु धातोस्तृन् भवति वदिता जनापवादान् मूर्खः । मुण्डयितारः श्राविष्ठायिनाः । अधीतृ ज्ञानम् ।
भ्राज्यलृङ्कृञ्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रपेनामिष्णुच् ॥७३२ ॥
एभ्यः इष्णुच् भवति तच्छीलादिषु । भ्राजिष्णुः । अलङ्करिष्णुः । भविष्णुः। सहिष्णुः । रोचिष्णुः। वर्त्तिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । त्रपूष् लज्जायां । अपत्रपिष्णुः । इनन्तेभ्यः । धारयिष्णुः ।
मदिपतिपचामुदि ||७३३ ॥
उद्युपपदेभ्य एभ्यइष्णुच् भवति तच्छीलादिषु । उन्मदिष्णुः । उत्पतिष्णुः । उत्पचिष्णुः ।
जिभुवोः ष्णुक् ॥७३४ ॥
आभ्यां ष्णुग्भवति तच्छीलादिषु । जिष्णुः । भूष्णुः ।
क्रुधिमण्डिचलिशब्दार्थेभ्यो युः ॥ ७३५ ॥
एभ्यो युर्भवति तच्छीलादिषु । कुप क्रुध रुष रोषे । कोपनः । क्रोधनः । रोषणः । एते क्रुध्यर्थाः । मण्ड्यर्थात् । मडि भूषायां । मण्डनः । भूष अलङ्कारे । भूषणः । चल्पर्थात् । चल कल्पने । चलनः । टुवेपृ कपि चलने । वेपनः । कम्पनः । शब्दार्थात् । खणः भाषण: ।
रुचादेश्च व्यञ्जनादेः ||७३६ ॥
व्यञ्जनादेश्च रुचादेर्गणात् युर्भवति तच्छीलादिषु । रोचनः । लोचनः । वर्त्तनः । वर्द्धनः । दीपनः ।
ततो यातेर्वरः ।।७३७ ॥
ततश्चेक्रीयितान्ताद्यातेर्वरो भवति तच्छीलादिषु । यस्यानिनि इति यलोपश्च । यायावर: ।
कसिपिसिभासीशस्थाप्रमदां च ॥७३८ ||
एषां वरो भवति तच्छीलादिषु ।
घोषवत्योश्च कृति ॥७३९ ।।
घोषवति तौ च कृति नेड् भवति कस्वरः । पेस्वरः । भास्वरः । ईश्वरः । स्थावरः । प्रमद्वरः ।
सनन्ताशंसिभिक्षामुः ||७४० ||
सनन्तस्याशंसेर्भिक्षेश्च उर्भवति तच्छीलादिषु । बुभूषः । पिपासुः । बुभुक्षुः । चिकीषुः शंस-स्तुतौ च आशंसुः । भिक्ष याञ्चायां । भिक्षुः ।
उणादयो भूतेऽपि ॥ ७४१ ॥
उणादयः प्रत्यया वर्त्तमाने भूतेऽपि भवन्ति ।
कृवापाजिमीस्वदिसाध्यशूदॄषणिजनिचरिचटिभ्य उण् ॥७४२ ॥
एभ्यो धातुभ्य उण् प्रत्ययो भवति । णकार इद्वद्भावः । करोतीति कारु वा गतिगन्धनयोः । वातीति वायुः । पायुः जायुः । मीङ् हिंसायां । मायुः स्वद आस्वादने । स्वादुः । साध् संसिद्धौ साध्यतीति साधुः । अशूङ् व्याप्तौ । अश्नुते इति अश्नुः । दृ कि विदारणे । दृणातीति दारुः । पणु दाने। सनोतीति । सानुः । जनिङ् प्रादुर्भावे । जायत इति जानुः । चर गतिभक्षणयोः । चरतीति चारुः । चट विगतौ । चटतीति चाटुः। ‘सर्वधातुभ्य अस्’ मनु ज्ञाने । सृ गतौ । तिज निशाने रुजो भङ्गे । मनः । सरः । तेजः । रोगः ।
भविष्यति गम्यादयः ।।७४३ ||
औणादिका गमीत्येवमादयः भविष्यति भवन्ति । भविष्यत्कालवृत्तिभ्यः गमादिभ्यः इनादयः स्युरित्यर्थः ।
गमेरिन्णिनौ च ॥७४४ ॥
गम्लृ गतावित्येतस्माद्धातोरिन्गिनौ भवतः । ग्रामं गमिष्यतीति ग्रामं गमी । ग्रामं गामी ।
भवतेश्च ॥७४५ ।।
भू सत्तायां इत्येतस्माद्धातोरिणिनौ भवतः भविष्यत्काले । भविष्यतीति भवी भावी । इत्यादि सर्वगुणादिषु वेदितव्यम् ।
वुण्तुमौ क्रियायां क्रियार्थायाम् ॥७४६ ॥
क्रियायां क्रियार्थायामुपपदे धातोर्वमौ भवतः भविष्यदर्थे वर्तमानात् । पाचको व्रजति । पक्तुं व्रजति । पक्ष्यामि इति व्रजतीत्यर्थः । एवं गन्तुं दातुं पातुं धरितुं तरितुं योक्तुं भोक्तुं त्रष्टुं द्रष्टुं प्रष्टुम् ।
सहिवहोरोदवर्णस्य ||७४७ ॥
सहिवहारवर्णस्य ओत्वं भवति धुटि परे । सोढुं । वोढुम् ।
शन्त्रानौ स्यसहितौ शेषे च ।। ७४८ ।।
क्रियार्थायां क्रियायामुपपदे भविष्यदर्थे वर्त्तमानाद्धतो: स्थेन सहितौ शन्त्रानौ शन्तृडानशौ भवतः । करिष्यामि इति व्रजति कटं करिष्यन् व्रजति । कटं करिष्यमाणो व्रजति । शेषे च करिष्यतीति करिष्यन् करिष्यमाणः । यक्ष्यन् यक्ष्यमाणः ।
पदरुजविशस्पृशो वा घञ् ॥७४९ ॥
एषां घञ् भवति वा । पादः । वेशः । स्पर्शः । उच समवाये ओकः ।
भावे ॥७५० ।।
सर्वस्माद्धातोर्घञ् भवति । पाकः । यागः । योगः । त्यज हानौ । त्यागः । भोगः भागः । पार: । भावः । इत्यादि ।
घञीन्धेः ॥७५१ ।।
इन्धेः पञ्चमस्य लोपो भवति भावकरणयोर्विहिते घञि परे । ञिइन्धी दीप्तौ । इन्धनं एधः ॥
रञ्जेर्भावकरणयोः ॥७५२ ॥
रञ्जेर्भावकरणविहिते घञि परे पञ्चमो लोप्यो भवति । रञ्ज रागे। रजनं रागः ।
उपसर्गादसुदुभ्यां लभेः प्राग् भात् खल्घञोः ।।७५३ ।। सुदुर्वर्जितादुपसर्गात्परस्य लभेर्भात् प्राङ् मकारागमो भवति खल्घञोः परतः ।
उपसर्गाणां घञि बहुलम् ॥७५४ ॥
उपसर्गाणां दीर्घो भवति बहुलं घञि परे डुलभष् प्राप्तौ । उपलम्भः उपालम्भः । प्रलम्भः प्रालम्भ: । असुदुर्भ्यामिति किम् । सुलभः दुर्लभः ।
अकर्त्तरि च कारके संज्ञायाम् ।।७५५ ।।
कर्तृवर्जिते कारके भावे च संज्ञायां घञ् भवति । दीयते अस्मादिति दायः । चीयतेऽस्मादिति चायः । एवं विधातः । अस–क्षेपणे प्रास्यते अस्मादिति । प्रासः । आहारः । विहरन्त्यस्मिन्निति वा विहारः । भुज्यते इति भोगः ।
स्वरवृदृमिग्रहामल् ॥७५६॥
स्वरान्ताद्वदृमिग्रहिभ्यश्च अल् भवति भावे । भूयते भवनं वा भवः । भयनं भयः । जयनं जयः । वरणं वरः । दरणं दरः । गमनं गमः । ग्रहणं ग्रहः ।
ट्वनुबन्धादथुः ॥७५७ ॥
ट्वनुबन्धाद्धातोरथुर्भवति भावे । टुवेपृ कम्पि चलने । वेपथुः । टुदु उपतापे । दवथुः । टुवेपृ । वेपनं वेपथुः । दुर्गादि समृद्धौ । नन्दथुः दुवम् उद्गिरणे । वयथुः । टु ओश्वि गतिवृद्ध्योः । श्वयथुः ।
ड्वनुबन्धात्रिमक्तेन निर्वृते ॥७५८ ॥
ड्वनुबन्धाद्धातोस्त्रेर्मग्भवति तेन धात्वर्थेन निर्वृत्ते । पाकेन निर्वृत्तं पक्त्रिमम् । एवं कारणेन निर्वृत्तं कृत्रिमं ।
याचिविछिप्रछियजिस्वपिरक्षियतां नङ् ॥७५९ ।।
एभ्यो नङ् भवति भावे। याच्ञा। छ्वोः शूठौ इति शकारः । विश्नः प्रश्नः । यज्ञः । स्वप्नः । रक्ष्णः । यती प्रयत्ने । प्रयल: ।
उपसर्गे दः किः ।।७६० ॥
उपसर्ग उपपदे दासंज्ञकात्किर्भवति भावे । आलोपोऽसार्वधातुके इत्याकारलोपः । आदिः । आधि: । व्याधिः । सन्धिः । निधिः ।
कर्मण्यधिकरणे च ॥७६१ ॥
कर्मण्युपपदे दासंज्ञकात्किर्भवति अधिकरणे च । बाला धीयन्तेऽस्मित्रिति बालधिः । एवं जलधिः । वारिधिः । अब्धिः । वाधिः । अम्भोधिः ।
कर्मव्यतिहारे णच् स्त्रियाम् ॥७६२ ॥
क्रियाव्यतिहारे वर्तमानाद्धातोः भावे णच् भवति स्त्रियां । तत्र न वृध्द्यागमः किन्तु वृद्धिरादौ सणि इति वृद्धिः । क्रियाव्यतिहारे क्रुशृ आह्नाने रोदने च । पुनः पुनः व्यवक्रोशनं व्यवक्रोश: । व्यवक्रोश एव व्यावक्रोशी । हसि विहसने । पुनः पुनः व्यवहस्यते व्यवहासः । व्यवहास एव व्यवहासी ।
अभिविधौ भावे इनण् ॥ ७६३ ॥
अभिविधिरिति कोऽर्थः । अभिव्याप्तेः साकल्येन क्रियासंबन्ध इत्यर्थः । अभिविधौ गम्यमाने धातोरिनण् भवति भावे स्वार्थे अण् भवति । कुट कौटिल्ये । संकुटनं संकोटिनम् । संकोटिनमेव सांकोटिनं वर्त्तते । एवं सांराविणम् । सांहासिनं वर्तते ।
षानुबन्धभिदादिभ्यस्त्वङ् ॥७६४ ॥
षानुबन्धेभ्योभिदादिभ्यश्च भावे अङ् भवति स्त्रियाम् । कृप कृपायाम् । कृप सामर्थ्ये । कृपा । व्यथदुःखभयचलनयोः । व्यथा । व्यध ताडने व्यथा । छिदिर् छिदा। गुहू संवरणे। गुहा। स्पृह ईप्सायां स्पृहाः ।
आतश्चोपसर्गे ॥७६५ ॥
उपसर्ग उपपदे आकारान्ताद्धातोरभवति स्त्रियां । सन्ध्या । संस्था | उपधा । अन्तर्धा ।
रोगाख्यायां वुञ् ॥७६६ ॥
रोगाख्यायां धातोर्बुञ् भवति स्त्रियां । प्रवाहिका । प्रछर्द्दिका ।
संज्ञायां च ॥७६७ ॥
संज्ञायाञ्च धातोर्बुञ् भवति स्त्रियां । भञ्जो आमर्दने । उद्दालपुष्पाणि भज्यन्ते यस्यां क्रीडायां सा उद्दालपुष्पभञ्जिका । एवं शालपुष्पप्रवाहिका ।
प्रश्नाख्यानयोरिञ्वुञ् च वा ॥७६८ ॥
प्रश्ने आख्यानेऽवगम्यमाने धातोरिञ् भवति वुञ्ज भवति । वाग्रहणात् यथाप्राप्तं च । त्वं कां कारिमकार्षीः कां कारिकां कां क्रियां कां कृत्याम् । अहं सर्वां कारिमकार्षं सर्वां कारिकां सर्वां क्रियां सर्वां कृत्याम् । एवं त्वं कां कारणामकार्षीः । त्वं कां पाचिकामपाक्षीः । कां पक्तिम् ।
नञ्यन्याक्रोशे ॥७६९ ॥
नञ्युपपदे आक्रोशे गम्यमाने धातोरनिर्भवति । अकरणिस्ते वृषलो भूयात् । जीव प्राणधारणे । एवमजीवनि: । जन जनने अजननी: अप्राणनी: ।
युट्च ||७७० ||
नपुंसके भावे युट् भवति । गमनं । हस हसने । हसनं । शयनं । यजनम् ।
करणाधिकरणयोश्च ॥७७१ ॥
करणेऽधिकरणे च युट् भवति । ओव्रश्च च्छेदने इध्मानि प्रकर्षेण वृश्च्यन्ते अनेन अस्मिन्निति वा इध्मप्रवञ्चन: । गौः दुह्यते अनयाऽस्यामिति गोदोहनी सक्तूनि धीयन्ते सक्तुधानी स्थानम् । आसनं । यानं । यजनम् ।
पुंसि संज्ञायां घः ।।७७२ ॥
करणाधिकरणयोश्च पुंसि संज्ञायां घो भवति ।
छादेर्घे स्मन्त्रन्क्विप्सु च ॥७७३ ॥
छादे: ह्रस्वो भवति ध इस् इन् वन् क्विप् एषु परतः । छद षदृ संवरणे । उर: छाद्यते अनेनेति उरश्छदः । एवं दन्तच्छदः ।
अर्चिशुचिरुचिहुसृपिछादिछर्दिभ्य इस् ॥७७४ ॥
एभ्य इस् भवति । अर्चिः । शोचिः । रोचिः । हविः । सर्पिः। छदिः । छर्द वमने । छर्द्दिः ।
सर्वधातुभ्यो मन् ||७७५ ॥
छद्म ।
छदिगमिपदिनीभ्यस्त्रन् ॥७७६ ॥
एभ्यः परः त्रन् प्रत्ययो भवति । छाद्यते अनेनेति छत्रम् । क्विप् । तनुच्छत् । कुर्वन्ति अनेनेति करः । शृण्वन्त्यनेनेति श्रवः । लीङ् श्लेषणे । लीयन्ते अस्मिन्निति लयः ।
ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥७७७ ॥
कृच्छ्रं दुःखं दुरोऽर्थः । अकृच्छ्रं सुखं सोरर्थः । एषूपपदेषु कृच्छ्राकृच्छ्रार्थेषु खलु भवति भावे कर्मणि कर्त्तरि च । ईषदप्रयासेन क्रियत इति ईषत्करः कटो भवता । दुष्करः । सुकरः । ईषद्बोधं काव्यम् । दुर्बोधं व्याकरणम् । सुबोधं अध्यात्मम् ।
कतृकर्मणोश्च भूकृञोः ॥७७८ ॥
ईषदादिषूपपदेषु आभ्यां कर्तृकर्मणोः खल् भवति । ईषदादयस्य भवनं ईषदाढ्यंभवम् । भवता दुरायंभवम् । भवता स्वाढ्यंभवम् । ईषदाढ्यः क्रियते ईषदाढ्यंकरो भवान् । दुराढ्यङ्करः । स्वाढ्यंकरः ॥
आढ्यो य्वदरिद्रातेः ॥७७९ ॥
ईषदादिषूपपदेषु आकारान्तेभ्यो युर्भवति अदरिद्राते ॥ ईषत्पानः सोमो भवता । दुष्पानः । सुपानः । ईषद्यानः । दुर्यानः सुयानः । ईषदाना । दुर्दाना । सुदाना ।
अलंखल्वोः प्रतिषेधयोः क्त्वा वा ॥ ७८० ॥
अलं खलु शब्दयोः प्रतिषेधार्थयोरुपपदयोर्धातोः क्त्वा वा भवति । अलंकृत्वागच्छति । खलुकृत्वा । अलंभुक्त्वा । खलुभुक्त्वा । अलङ्करणेन खलुकरणेन । अलं भोजनेन । खलुभोजनेन ।
क्त्वामसन्ध्यक्षरान्तोऽव्ययं ॥ ७८१ ॥
क्त्वामकारसन्ध्यक्षरान्ताश्च कृत्संभवा अव्ययानि भवन्ति । अव्ययाच्चेति विभक्तीनां लुक्।
एककर्तृकयोः पूर्वकाले ॥७८२ ॥
एकंकर्तृकयोर्धात्वर्थयोर्मध्ये पूर्वक्रियाकाले वर्तमानाद्धातोः क्त्वा भवति । भुक्त्वा व्रजति । स्नात्वा भुते । गत्वा गृह्णाति ।
गुणी क्त्वा सेडरुदादिक्षुधक्लिशकुशकुषगृधमृडमृदवदवसग्रहां ॥७८३ ॥
अरुदादिक्षुधादीनां च क्त्वा सेड् गुणी भवति ।
उदनुबन्धपूक्लिशां क्त्वि ।।७८४ ॥
उदनुबन्धापुञः क्लिशश्च इड् वा भवति क्त्वाप्रत्यये परे । देवनं पूर्वं पश्चात्किंचिदिति देवित्वा द्यूत्वा । वृधु । वर्धनं पञ्चात्किंचिदिति वर्धित्वा वृध्वा । स्रंस् भ्रंस् अवस्रंसने। संसित्वा स्वस्त्वा । भ्रंसित्वा । भ्रस्त्वा पवित्वा । पूत्वा । क्लेशित्वा । क्लिष्ट्वा ।
व्यञ्जनादेर्व्युपधस्यावो वा ॥७८५ ॥
उश्च इश्च वी । वी उपधे यस्यासौ व्युपधः व्यञ्जनादेरुकारइकारोपधस्यावकारान्तस्य धातोः क्त्वा सेट् गुणी भवति । द्योतित्वा द्युतित्वा । लेखित्वा लिखित्वा ।
तृषिमृषिकृषिवञ्चिलुञ्च्यृतां च ॥७८६ ॥
एषां क्त्वा सेट् गुणी भवति वा । ञितृषा पिपासायाम् । तर्षित्वा तृषित्वा । मृष सहने च । मर्षित्वा सृषित्वा । कृष विलेखने। कर्षित्वा । कृषित्वा । वञ्च प्रलंभने । वञ्चित्वा । लुञ्चु अपनयने । लुञ्चित्वा ऋत इति सौत्रो धातुः । अर्त्तित्वा ऋतित्वा ।
थफान्तानां चानुषङ्गिणां ॥७८७ ॥
थान्तानां फान्तानां चानुषङ्गिणां क्त्वा सेट् गुणीभवति वा । श्रन्थ ग्रन्थ सन्दर्भे । श्रन्थित्वा ग्रन्थित्वा । श्रथित्वा ग्रथित्वा । गुफ गुम्फ दृभी ग्रन्थे । गुम्फित्वा । गुफित्वा ।
जान्तनशामनिटाम् ॥७८८ ॥
जान्तनशामनिटां चानुषङ्गिणां क्त्वा गुणीभवति वा । षञ्ज सङ्गे । संक्त्वा सक्त्वा । रञ्ज रागे । रक्त्वा । रंक्त्वा । भञ्जो आमर्दने । श्रंक्त्वा भक्त्वा ध्वज परिष्वङ्गे । स्वंक्त्वा वक्त्वा ।
मस्जिनशोर्धुटि ।।७८९ ॥
मस्जिनशो: स्वरात्परो नकारागमो भवति धुटि परे । टुमस्जो शुद्धौ । मंक्त्वा मक्त्वा । णश अदर्शने । नंष्ट्वा नष्ट्वा । रुदादिभ्यक्ष इड् वा भवति । नशित्वा ।
इज्जहातेः क्त्वि ||७९० ॥
जहातेरिद् भवति क्त्वा प्रत्यये । हित्वा ।
समासे भाविन्यनञः क्त्वो यप् ॥७९१ ।।
अनञः क्त्वान्तेन समासे भाविनि क्त्वाप्रत्ययस्य यपादेशो भवति अभिभूय । अभिभवनं पूर्व पश्चात्किंचिदिति । अभिभूय स्थितं । विजित्य प्रस्तुत्य । अधीत्य । उपेत्य ।
मीनात्यादिदादीनामा: ।।७९२ ।।
मीनातिमिनोतिदीङां दामागायति पिवति स्थास्यति जहातीनामाकारो भवति यपि परे । मीङ् हिंसायां प्रमाय। डुमिङ् प्रक्षेपणे । परिमाय दीङ् क्षये । दीङ् अनादरे । प्रदाय । दामादीनामां बाधनार्थम् । आदाय । निमाय । प्रगाय । प्रपाय | प्रस्थाय अवसाय । विहाय ।
यपि च ।।७९३ ।।
वनतितनोत्यादिप्रतिषिद्धेटां पञ्चमो लोप्यो भवति आतच अद्भवति, यथासम्भवं धुट्यगुणे यपि च परे । प्रवत्य प्रतत्य प्रमत्य प्रहत्य |
वा मः ।।७९४ ॥
प्रतिषिद्धेटां मकारो लोप्यो भवति वा यपि च परे । प्रणत्य प्रणम्य आगत्य आगम्य ।
ये वा ॥७९५ ॥
खनि वनि सनि जनामन्तस्य आकारो भवति यकारे वा । खन खनने प्रखाय प्रखन्य प्रवाय प्रवन्य । षणु दाने । प्रसाय । प्रसन्य जनी प्रादुर्भावे । प्रजाय प्रजन्य ।
लघुपूर्वो यपि ॥ ७९६ ॥
लघुपूर्व इन् अय् भवति यपि च परे । प्रशमय्य प्रममय्य । गण् संख्याने विगणय्य ।
णम् चाभीक्ष्ण्ये द्विश्च पदं ।।७९७ ॥
एककर्तृकयोः पूर्वकाले वर्तमानाद्धातोर्णम् क्वा व आभीक्ष्ण्ये पदं च द्विर्भवति । भोज भोजं व्रजति । भुक्त्वा भुक्त्वा व्रजति । पांच पांच भुङ्क्ते । पक्त्वा पक्त्वा भुङ्क्ते । दार्य दायं तुध्यति । दत्वा दत्वा तुष्यति । पायं पायं तृष्यति । पीत्वा पीत्वा तृष्यति ।
कर्मण्याक्रोशे कृञः खमि ।।७९८ ॥
कर्मण्युपपदे कृञः खमिञ् भवति आक्रोशे गम्यमाने । चौरंकारमाक्रोशति । अंधकारं निरीक्ष्यते । बधिरंकारं शृणोति । पङ्गुंकारं गच्छति ।
यावति विन्दजीवोः ॥ ७९९ ॥
यावदित्यनिर्दिष्टवाची यावदित्युपपदे विन्दतेर्जीवतेश्च णम् भवति । यावद्वेदं भुङ्क्ते । यावन्तं लभते तावन्तं भुङ्क्ते इत्यर्थः । यावज्जीवमधीते । यावन्तं जीवति तावन्तं अधीते इत्यर्थः ।
कर्म्मणि चोपमाने ॥८०० ॥
उपमाने कर्तरि कर्मणि चोपपदे धातोर्णम् भवति। चुडक इव नष्टः । चूडकनाशं नष्टः । गुरुरिव अभवत् गुरुभावमभवत् । रत्नमिव निहितं रत्ननिधायं निहितम्।
निमूलसमूलयोः कषः ||८०१ ॥
निमूलसमूलयोः कर्मणोरुपपदयोः कषतेर्णम् भवति । निमूलकाषं कषति निमूलं कषतीत्यर्थः । समूलकाषं कषति समूलं कषतीत्यर्थः । अभ्रकाषं कषति अभ्रंकषतीत्यर्थः । ओदनमिव पक्कः ओदनपाकं पक्कः । इत्यादि प्रयोगादनुसर्त्तव्यम् ।
स्त्रियां क्तिः ||८०२ ॥
धातोर्भावे तिर्भवति स्त्रियां । घोषवत्योश्च कृतीति नेट् । भूयते भवनं वा भूतिः । नवनं नुतिः । स्तवनं स्तुतिः । वर्धनं वृद्धि: । धारणं धृतिः । वर्त्तनं वृत्तिः । यजनम् इष्टि: । श्रु विश्रवणे श्रवणं श्रुतिः । बुध अवगमने बोधनं बुद्धिः । कारणं कृति भ्रमु अवस्थाने भ्रमणं, पचमोपधाया धुटि चागुणे इति उपधाया दीर्घः भ्रान्तिः ।
ऋल्वादिभ्योऽपृणातेः क्तेः ॥८०३ ॥
पृणातिवर्जितादृकारान्ताल्ल्वादिभ्यश्च परस्य र्क्तेन्नकारो भवति । कृ विक्षेपे करणं कीर्यत इति वा कीर्णि: । गरणं गीर्णिः । लवनं लूनिः । पृणातेस्तु उरोष्ट्योपधस्य च पृ पा लनपूरणयोः पूरणं पूर्तिः । मरणं मूर्तिः ।
हाज्याग्लाभ्यश्च ॥ ८०४ ॥
एभ्यो धातुभ्यश्च परस्य क्तेः नकारो भवति स्त्रियाम्। ओहाक् त्यागे हानं हानि: । ज्या वयोहानौ ज्यानं ज्यानिः । ग्लानं ग्लानिः ।
संपदादिभ्यः क्विप् ॥८०५ ॥
संपदादिभ्यः क्विप् भवति भावे स्त्रियाम् । पद गतौ संपद्यते संपदनं वा संपत् । षद्ऌ विशरणगत्यवसादनेषु ॥ संसदनं संसत् । परिषदनं परिषत् ।
व्रजयजोः क्यप् ॥८०६ ॥
आभ्यां भावे स्त्रियां क्यब् भवति । ब्रज् गतौ प्रवजनं प्रव्रज्या इज्या ।
श च ॥८०७ ॥
कृञो भावे शो भवति क्यप् क्तिश्च स्त्रियाम् । क्रीयते करणं वा यणाशिषोर्ये इति इकारागमः क्रिया धातोस्तोन्त: पानुबन्धे कृत्वा कृतिः ।
शंसिप्रत्ययादः ||८०८ ॥
शंसेः प्रत्ययान्ताद्धातोर्भावे अप्रत्ययो भवति स्त्रियां शंसु विस्तुतौ प्रशंसनं प्रशस्यते इति वा प्रशंसा । प्रत्ययान्तात् बुभूषणं बुभूष्यत् इति वा बुभूषा । वच परिभाषणे विवक्षणं विवक्षा | विधित्सनं विधित्सा । पिपतिषणं पिपतिषा | पिपासनं पिपासा । बोभूयनं बोभूया । कण्डूञ्त्रविकर्षणे । स्वार्थेयण् । कण्ड्वादेर्येण कण्डूयनं कण्डूया ।
गुरोश्च निष्ठायां सेटः ||८०१ ॥
निष्ठायां सेटः मुरुमंतो धातोरप्रत्ययो भवति स्त्रियाम् । ईह चेष्टायां ईहनं ईह्यत इति वा ईहा । ईक्ष दर्शने ईक्षणम् । ईक्षा एवं सर्वमवगन्तव्यम् ।
भावसेनत्रिविद्येन वादिपर्वतवज्रिणा ||
कृतायां रूपमालायां कृदन्तः पर्यपूर्यत ॥ १ ॥
मन्दबुद्धिप्रबोधार्थं भावसेनमुनीश्वरः ॥
कातन्त्ररूपमालाख्यां वृत्तिं व्यररचत्सुधीः ॥ २ ॥
क्षीणेऽनुग्रहकारिता समजने सौजन्यमात्माधिके ॥
सन्मानं नुतभावसेन मुनिये त्रैविद्यदेवे मयि ॥ ३ ॥
सिद्धान्तोऽयमथापि यः स्वधिषणागर्वोद्धतः केवलम् ॥
संस्पर्धेत तदीयगर्वकुहरे वज्रायते मनुचः ॥४ ॥
इति कातन्त्रस्य रूपमाला प्रक्रिया समाप्ता ।