कातन्त्रव्याकरणम् – 1

ॐ नमः सिद्धेभ्यः

श्रीशर्ववर्मकृत-कलापव्याकरणस्य

वादिपर्वतवज्रश्रीमद्भावसेनत्रैविद्यकृताटीका

कातन्त्ररूपमाला


मङ्गलम्

वीरं प्रणम्य सर्वज्ञं, विनष्टाशेषदोषकम्

कातन्त्ररूपमालेयं, बालबोधाय कथ्यते ॥ १ ॥

नमस्तस्यै सरस्वत्यै, विमलज्ञानमूर्त्तये

विचित्रालोकयात्रेयं यत्प्रसादात्प्रवर्तते ॥ २ ॥

नमो वृषभसेनादिगौतमान्यगणेशिने

मूलोत्तरगुणाढ्याय, सर्वस्मै मुनये नमः ॥३

गुरुभक्त्या वयं सार्द्धद्वीपद्वितयवर्त्तिनः

वन्दामहे त्रिसङ्ख्योन- नवकोटिमुनीश्वरान् ॥४

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥५ ॥

  अथ संज्ञासन्धिः 

सिद्धो वर्णसमाम्नायः ॥ १ ॥ 

सिद्धः खलु वर्णानां समाम्नायो वेदितव्यः । ते के- अ आ इ ई उ ऊ ऋ ऋ लृ लू ए ऐ ओ औ क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण । त थ  द धन । प फ ब भ म य र ल व श ष स ह इति ।

तत्र चतुर्दशादौ स्वराः ॥ २  

तस्मिन् वर्णसमाम्नाये आदौ ये चतुर्दश वर्णास्ते स्वरसंज्ञा भवन्ति । ते के, अ आ इ ई उ ऊ ऋ ऋ लृ लृ ए ऐ ओ औ इति । 

दश समाना: ॥३॥ 

तस्मिन् वर्णसमाम्नाये आदौ ये दश वर्णास्ते समानसंज्ञा भवन्ति । ते के- अ आ इ ई उ ऊ ऋ ऋ ऌ ॡ इति । 

तेषां द्वौ द्वावन्योऽन्यस्य सवर्णौ ॥४  

तेषां  समानानां मध्ये द्वौ द्वौ वर्णावन्योऽन्यस्य परस्परं सवर्णसंज्ञौ भवतः अआइई उऊ ऋऋ ऌॡ । तेषां ग्रहणं किमर्थम् ? द्वयोर्हस्वयोर्द्वयोर्दीर्घयोश्च सवर्णसंज्ञार्थम् । 

श्लोकः

क्रमेण वैपरीत्येन, लघूनां लघुभिः सह ।

गुरूणां गुरुभिः सार्धं, चतुर्थेति सवर्णता ॥ १ ॥

ऋकारलृकारौ च ॥५  

ऋकारलृकारौ च परस्परं सवर्णसंज्ञौ भवतः । ऋलृ । 

पूर्वो ह्रस्वेः  ॥६ ॥ 

तयोः सवर्णसंज्ञयोर्मध्ये पूर्वो वर्णो ह्रस्वसंज्ञो भवति । अ इ उ ऋ लृ । 

परो दीर्घः ॥७  

तयो: सवर्णयोर्मध्ये परो वर्णो दीर्घसंज्ञो भवति । आ ई ऊ ऋ लृ । 

स्वरोऽवर्णवर्जो नामि ॥८ ॥ 

अवर्णवर्जः स्वरो नामिसंज्ञो भवति । इई उऊ ऋ लृ एऐ ओओ ॥ वर्णग्रहणे सवर्णग्रहणं । कारग्रहणे केवलग्रहणम् । 

एकारादीनि सन्ध्यक्षराणि ॥९  

एकारादीनि स्वरनामानि सन्ध्यक्षरसंज्ञानि भवन्ति । तानि कानि । ए ऐ ओ औ ॥ 

नित्यं सन्ध्यक्षराणि दीर्घाणि ॥१० ॥ 

सन्ध्यक्षराणि नित्यं दीर्घाणि भवन्ति । 

कादीनि व्यञ्जनानि ॥ ११  

ककारादीनि हकारपर्यन्तान्यक्षराणि व्यञ्जनसंज्ञानि भवन्ति । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह ॥ 

ते वर्गाः पञ्च पञ्च पञ्च ॥ १२  

ते ककारादयो मावसाना वर्णाः पञ्च पञ्च भूत्वा पश्चैव वर्गसंज्ञा भवन्ति । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म ॥ 

वर्गाणां प्रथमद्वितीयाः शषसाचाघोषाः ॥ १३ ॥ 

वर्गाणां प्रथमद्वितीया वर्णाः शषसाश्चाघोषसंज्ञा भवन्ति । कख चछ टल तथ पफ श ष स ॥ 

घोषवन्तोऽन्ये ॥१४ ॥ 

अघोषेभ्योन्ये तृतीयचतुर्थपञ्चमा वर्णा यरलवहान घोषवत्संज्ञा भवन्ति । गघङ जझञ डढण दधन भम यरलवह इति ॥ 

अनुनासिका डञणनमा: ॥ १५  

अनु पश्चानासिकास्थानमुच्चारणं येषां ते अनुनासिकाः । डञनमा वर्णा अनुनासिकसंज्ञा भवन्ति । ङञणनम इति ॥ 

अन्तःस्था यरलवाः ॥ १६ ॥ 

वर्गाणां ऊष्मणाञ्च अन्तः तिष्ठन्तीत्यन्तःस्थाः । यरलवा इत्येते वर्णा अन्तःस्थसंज्ञा भवन्ति । यरलव || 

ऊष्माणः शमसहाः ॥ १७ ॥ 

ऊष्म उष्णं धर्ममुत्पादयन्तीति ऊष्माणः । शषसहा इत्येते वर्णा ऊष्मसंज्ञा भवन्ति । शषसह । 

अः इति विसर्जनीयः ॥ १८  

येन विना यदुच्चारयितुं न शक्यते स उच्चारणार्थो भवति । अकार इहोच्चारणार्थः । यथा कादिषु । कुमारीस्तनयुगलाकृतिवर्णो विसर्जनीयसंज्ञो भवति । 

शृङ्गवालवत्सस्य कुमारीस्तनयुग्मवत्

नेत्रवत्कृष्णसर्पस्य विसर्गोऽयमिति स्मृतः ॥

 

इति जिह्वामूलीयः ॥ १९ ॥ 

ककार इहोच्चारणार्थ: वज्राकृतिवर्णो जिह्वामूलीयसंज्ञो भवति । कᳲ॥ 

* इत्युपध्मानीयः ॥ २०  

पकार इहोच्चारणार्थः । गजकुम्भाकृतिवर्ण उपध्मानीयसंज्ञो भवति । प *॥

श, ष, स, ह अक्षर ऊष्म संज्ञक हैं ॥ १७ ॥ 

अं इत्यनुस्वारः ॥ २१ ॥ 

अकार इहोच्चारणार्थः । बिन्दुमात्रो वर्णोऽनुस्वारसंज्ञो भवति ॥ अं।

लोकोपचाराद्ग्रहणसिद्धि:२२ ॥ 

लोकानामुपचारी व्यवहारः । तस्मादिहानुक्तस्यापि ग्रहणस्य शब्दस्य सिद्धिः प्रवृत्तिर्वेदितव्या । तत्कथं ? त्वया ग्रामो गम्यते इत्युक्तेस्त्वं ग्रामाय गच्छसीत्यर्थः । 

 इति संज्ञासन्धिः ॥ १ ॥

अथस्वरसन्धिरुच्यते

कः सन्धिः । पूर्वोत्तरवर्णानामव्यवधानेन परस्परेण सन्धानं संश्लेषः सन्धिः ॥ तव अभ्युदय: । कान्ता आगता । दधि इदम् । नदी ईहते । वसु उभयोः । वधू ऊढा । पितृ ऋषभः । मातृ ऋकारेण । कृ ऋकारः ॥ कृ ऋकारेण । इति स्थिते । 

अनतिक्रमयन्विश्लेषयेत् ॥ २३ ॥ 

संघटितान्वर्णान् अनतिक्रमयन् विश्लेषयेत् इति विश्लेष्यः । 

समानः सवर्णे दीर्घीभवति परश्च लोपम् ॥ २४ ॥ 

समानसंज्ञको वर्णो दीर्घीभवति सवर्णे परे परच लोपमापद्यते सर्वत्र ह्रस्वो दीर्घः । स्वभावतो हस्वाभावे परलोपः । उक्तं च– 

अदीघो दीर्घतां याति नास्ति दीर्घस्य दीर्घता । 

पूर्वं दीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ १ ॥

व्यञ्जनमस्वरं परवर्णं नयेत् ॥ २५ ॥ 

अस्वरं व्यञ्जनं परवर्णं नयेत् । तवाभ्युदयः । कान्तागता । दधीदम्। नदीहते। वसूभयोः । वधूढा । पितृषभः । मातृकारेण । कुकारेण । इति सिद्धं पदम् । एवं होतृकारः । होतृ ऋकारः इति विग्रहः । अत्र समान: सवर्णे दीर्घभवति इत्यादिना दीर्घत्वम् । होतृ ऋकार इति स्थिते । 

ऋति ऋतोर्लोपो वा२६ ॥ 

ऋति परे ऋतोलोपो वा भवति होतृकारः ॥ देव इन्द्रः । कान्ता इयम् । इति स्थिते । 

अवर्ण इवर्णे ए ॥ २७  

इवर्णे परे अवर्ण ए भवति परश्च लोपमापद्यते । वर्णग्रहणे सवर्णग्रहणम् । देवेन्द्रः । कान्तेयम् । हल ईषा। लाङ्गल ईषा । इति स्थिते । 

हललाङ्गलयोरीषायामस्य लोपः ॥ २८ ॥ 

हललाङ्गलयोरस्य लोपो भवति ईषायां परत: । हलीषा । लाङ्गलीषा | मनस् ईषा । इति स्थिते । 

मनसः सस्य च ॥ २९ ॥ 

मनसोऽस्य सस्य व लोपो भवति ईषायां परतः । मनीषा ॥ गन्ध उदकम् । माला ऊढा । इति स्थिते। 

उवर्णे ३०  

उवर्णे परे अवर्ण ओ भवति परश्च लोपमापद्यते । गन्धोदकम् । मालोढा ॥ तव ऋकारः । सा ऋकारेण । इति स्थिते । 

ऋवर्णे अर् ॥३१ ।। 

वर्णे परे अवर्ण अर् भवति परश्च लोपमापद्यते । पूर्वव्यञ्जनमुपरि परव्यञ्जनमधः || 

रेफाक्रान्तस्य द्वित्वमशिटो वा ३२ ॥ 

रेफाक्रान्तस्य वर्णस्य द्वित्वं भवत्यशिटो वा । 

तुंबुरुं तृणकाष्ठं च तैलं जलमुपागतम्। स्वभावादूर्ध्वमायाति रेफस्यैतादृशी गतिः ॥ १ ॥

इति जलतुम्बिकान्यायेन रेफस्योर्ध्वममनं ।

शिडिति शादयः ||३३ ॥ 

शवसहा वर्णाः शिट्संज्ञा भवन्ति । तवर्क्कारः । सर्क्कारेण । ऋण ऋणम् । प्र ऋणम् । वसन ऋणम् । वत्सतर ऋणम् । कम्बल ऋणम् । दश ऋणम् । इति स्थिते । 

ऋणप्रवसनवत्सतरकम्बलदशानामृणेऽरो दीर्घः ॥ ३४  

ऋणादीनाम् अरो दीर्घो भवति ऋणे परे । एकदेशविकृतमनन्यवत् । ऋणार्णम् । प्रार्णम् । वसनार्णम् वत्सतरार्णम् । कम्बलार्णम् । दशार्णम् ॥ शीत ऋतः । दुःख ऋतः । इति स्थिते । 

ऋते च तृतीयासमासे ॥ ३५ ॥ 

तृतीयासमासे अरो दीर्घो भवति ऋते च परे । शीतेन ऋतः शीतार्तः । दुःखेन ऋतः दुःखार्तः । तृतीयासमास इति किम् ? परमश्चासौ ऋतश्च परमर्तः ॥ तव लृकारः । सा लृकारेण । इति स्थिते । 

लवर्णे अल् || ३६ || 

लवर्णे परे अवर्ण अल् भवति परश्च लोपमापद्यते । तवल्कारः । सल्कारेण ॥ तव एषा । सा ऐन्द्री । इति स्थिते । 

एकारे ऐ ऐकारे च ॥ ३७ ॥ 

एकारे ऐकारे च परे अवर्ण ऐर्भवति परच लोपमापद्यते । तवैषा । सैन्द्री ॥ स्व ईरम् । स्व ईरिणी । स्व ईरी इति स्थिते । 

स्वस्येरेरिणीरिषु३८ ॥ 

स्वस्याकारस्य ऐत्वं भवति ईरईरिणीईरिषु परतः परच लोपमापद्यते । स्वैरम् । स्वैरिणी । स्वैरी । अद्य एव । इह एव । इति स्थिते । 

एवे चानियोगे नित्यम् ॥ ३९ ॥ 

अनियोगेऽवर्णस्य नित्यं लोपो भवति एवं च परे । अद्येव । इहेव । नियोगे तु अद्यैव गच्छ । इहैव तिष्ठ । तव ओदनम् । सा औपगवी । इति स्थिते ! 

ओकारे औकारे च ॥ ४० ॥ 

ओकारे औकारे च परे अवर्ण और्भवति परश्च लोपमापद्यते । तवौदनम् । सौपगवी ॥ “चकाराधिकारादुपसर्गावर्णलोपो धातोरेदोतोः !” प्र एलयति प्रेलयति । परा ओखति परोखति । इणेधत्योर्न । उप एति । उपैति । उप एधते उपैधते ॥ नामधातोर्वा । उप एलकीयति उपेलकीयति ॥ उपलकीयति । प्र ओषधीयति प्रोषधीयति प्रौषधीयति । अञ्च ओम् । सा ओम् । इति स्थिते । 

ओमि च ॥ ४१ ॥ 

अवर्णस्य नित्यं लोपो भवति ओमि च परे । अद्योम् सोमित्यवोचत् ॥ बिम्ब ओष्ठः । स्थूल ओतुः इति स्थिते । 

ओष्ठौत्वोः समासे वा ॥४२ ॥ 

अवर्णस्य लोपो वा भवति ओष्ठौत्वोः परतः समासविषये । बिम्बमिव ओष्ठौ यस्यासौ बिम्बोष्ठः । बिम्बोष्ठः । स्थूलोतुः । स्थूलौतुः । असमासे तु हे पुत्रौष्ठं पश्य । अद्यौतुं पश्य ॥ अक्ष ऊहिनी । इति स्थिते ।

अक्षस्य ऊहिन्याम् ॥४३  

अक्षस्यौत्वं भवति ऊहिन्यां परत: परक्ष लोपमापद्यते । अक्षौहिणी सेना । प्रस्योढोक्यो । प्र ऊढः प्रौढः । प्र ऊढिः प्रौढिः ॥ एषैष्ययोरैत्वं । प्र एषः प्रैषः । प्र एष्यः प्रैष्यः । दधि अत्र । नदी एषा । इति स्थिते । 

इवर्णो यमसवर्णे न च परो लोप्यः ॥ ४४  

इवर्णो यमापद्यते असवर्णे परे न च परो लोप्यः । दध्यत्र । नद्येषा ॥ मधु अत्र । वधू आसनम् । इति स्थिते । 

वमुवर्णः ||४५ || 

वर्णो वमापद्यते असवर्णे परे न च परो लोप्यः । मध्वत्र । वध्वासनम् ॥ पितृ अर्थः । मातृ अर्थः । इति स्थिते । 

रमूवर्णः ॥४६ ॥ 

ऋवर्णो रमापद्यते असवर्णे परे न च परो लोप्यः । पित्रर्थः । मात्रर्थः ॥ लृ अनुबन्धः । ऌ आकृति: । इति स्थिते । 

लम्लृवर्णः४७ ॥ 

लुवर्णों लमापद्यते असवर्णे परे न च परो लोप्यः । लनुबन्धः । लाकृतिः । ने अनम्। चे अनम् । इति स्थिते । 

अय् ॥४८ || 

एकारो अय् भवति असवर्णे परे न च पसे लोप्यः । नयनम् । चयनम् ॥ नै अकः । चै अकः । इति स्थिते । 

ऐ आय् ॥४९ ।। 

ऐकार आय् भवत्यसवर्णे परे न च परो लोप्यः । नायकः । चायकः । लो अनम् । पो अनम्। इति स्थिते

अव् ॥ ५०  

ओकारी अव् भवति असवर्णे परे न च परो लोप्यः । लवनम् । पवनम् ॥ लौ अकः । पौ अकः । इति स्थिते । 

आव् ॥५१ ॥ 

औकार आद् भवत्यसवर्णे परे न च परो लोप्यः । लावकः । पावकः ॥ गो अजिनम् । इति स्थिते । 

गोर इति वा प्रकृतिः ॥५२॥ 

गोशब्दस्य वा प्रकृतिर्भवत्यकारे परे । गो अजिनम् गोऽजिनम् । गवाजिनम् ॥ गो अश्वौ । गो ईहा। गो उष्ट्रौ । गो एलकौ । इति स्थिते । 

अवः स्वरे ॥५३ || 

गोशब्दस्य अवादेशो वा भवति स्वरे परे । गो अश्वौ । गवाश्वौ गोऽश्वौ । गवेहा । गवीहा । गवोष्टौ । गवुष्ट्रौ । गवेलको । गवैलकौ || यो अक्षः । गो इन्द्रः । इति स्थिते । 

अक्षेन्द्रयोर्नित्यम् ॥ ५४  

गोशब्दस्य नित्यमवादेशो भवति अक्षेन्द्रयोः परतः । गवाक्षः । गवेन्द्रः ॥ ते आहुः । तस्मै आसनम् । पटो इह । असौ इन्दुः । इति स्थिते । 

अयादीनां यवलोपः पदान्ते न वा लोपे तु प्रकृतिः ॥५५  

पदान्ते वर्तमानानां अय् इत्येवमादीनां यवयोर्लोपो भवति न वा लोपे तु प्रकृतिश्च भवति । त आहुः । तयाहुः । तस्माआसनम् तस्मायासनम् । पट इह पटविह| असाइन्दुः असाविन्दुः ॥ नै ऋ अदः । रै उ अणः । मै ऋ उतः । ओ उ इन्दुः । रिपु इ उदयः । इति स्थिते । 

स्वरजौ यवकारावनादिस्थौ लोप्यौ व्यञ्जने ॥ ५६ ॥ 

अनादिस्थौ स्वरजौ यवकारी लोप्यौ भवतो व्यञ्जने परे । नारदः । रावणः, मारुतः । अविन्दुः । रिप्युदयः ॥ ते अत्र पटो अत्र । इति स्थिते । 

एदोत्परः पदान्ते लोपमकारः ॥ ५७ ॥ 

एदोद्ध्यां पदान्ते वर्तमानाभ्यां परोऽकारो लोपमापद्यते । तेऽत्र पटोऽत्र । देवी गृहम् । पटु हस्तः । मातृ मुखम्। जले पद्मम्। रै धृतिः । गो गतिः । नौ यानम् । 

व्यञ्जने स्वराः सन्धेयाः ॥ ५८ ॥ 

व्यञ्जने परे स्वरा: सन्धानीया न भवन्ति ॥ पितृ यम् । भातृ यम् । मातृ यम् । इति स्थिते ।

र ऋतस्तद्धिते ये ।।५९ ॥ 

ऋतो रो भवति तद्धिते ये परे । पितुरिदम् पित्र्यम् । एवं भ्रात्र्यम् । मात्र्यम् ॥ गो यूतिः इति स्थिते ॥ 

गव्यूतिरध्वमाने ॥ ६० ॥ 

अध्वमाने गव्यूतिरिति निपात्यते । गवां यूतिः गव्यूतिः ॥ 

इति स्वरसन्धिः || 

अथ प्रकृतिभावसन्धिः 

अथ तेषां स्वराणामेव सन्धिकार्ये प्राप्ते क्वचित्पूर्ववत् प्रकृतिभाव उच्यते । अहो आश्चर्य्यम् | नो एहि । अ अपेहि । इ इन्द्रं पश्य । उतिष्ठ । आ एवम् । इति स्थिते || 

ओदन्ता अइउआ निपाताः स्वरे प्रकृत्या ६१ ॥ 

ओदन्ता निपाता अ इ उ आश्च केवला निपाताः स्वरे परे प्रकृत्या तिष्ठन्ति । यल्लक्षणेनानुत्पन्नं तत्सर्वं निपातनात्सिद्धं । 

ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । 

आङानुबन्धो विज्ञेयो वाक्यस्मरणयोर्न तु ॥ १ ॥ 

ईषदर्थे आ-उष्णं- ओष्ण | क्रियायोगे-ल , इहि– एहि । मर्यादायां आ उदकान्तात् । ओदकान्तात् । अभिविधौआ आयेभ्यः । आर्येभ्यो यशो गतमकलंकस्वामिनः । वाक्ये- आ एवं किल मन्यसे । स्मरणे- आ एवं किल तत् । अन्तग्रहणमकारादीनां केवलार्थम् ॥ कवी ऐतौ । माले इमे । इति स्थिते । 

द्विवचनमनौ ॥६२  

अनौभूतं द्विवचनं स्वरे परे प्रकृत्या तिष्ठति ।। 

मणीवादीनां वा ६३ ॥ 

मणीवादीनां वा सन्धिर्भवति । मणी इव मणीव | जम्पती इव जम्पतीव । अमुके अत्र तिष्ठतः । इति स्थिते

न साकोऽदसः ||६४ ॥ 

साक: अदसः परमनौभूतं द्विवचनं स्वरे परे प्रकृत्या न तिष्ठति । अमुकेऽत्र तिष्ठतः ॥ अमी अश्वाः ॥ अमी एडका: । अमी उष्ट्राः। अभी आदित्यरश्मयः । इति स्थिते । 

बहुवचनममी ||६५ ॥ 

बहुवचनान्तममीरूपं स्वरे परे प्रकृत्या तिष्ठति । आगच्छ भी देवदत्त ३ अत्र । उत्तिष्ठ भो यज्ञदत्त ३ इह । आयाहि भो विष्णुमित्र ३ इह । इति स्थिते । 

अनुपदिष्टाश्च ॥ ६६ ॥ 

अक्षरसमाम्नायेऽनुपदिष्टाः प्लुताः स्वरे परे प्रकृत्या तिष्ठन्ति ॥ सुश्लोक ३ इति । इति स्थिते । 

नेतौ ॥६७  

प्लुतस्य इतिशब्दे परे सन्धिकार्य्यनिषेधो न भवति । अहो सुश्लोकेति । दूरादाह्वाने गाने रोदने च प्लुतास्ते लोकतः सिद्धाः । उक्तं च– 

एकमात्रो भवेदधस्वो द्विमात्रो दीर्घ उच्यते  

त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम् ॥१ ॥ 

|| इति प्रकृतिभावसन्धिः ॥

अथ व्यञ्जनसन्धिरुच्यते

वाक् अत्र । वाक् जयति । अच् अत्र अच् गच्छति । षट् अत्र । षट् गच्छन्ति । तत् अत्र । तत् गच्छति । ककुप् आसते । ककुप् जयति । इति स्थिते । 

वर्गप्रथमा: पदान्ताः स्वरघोषवत्सु तृतीयान् ॥ ६८  

पदान्ता वर्गप्रथमा: स्वरेषु घोषवत्सु च परेषु स्ववर्गतृतीयानापद्यन्ते । वर्गप्रथमातिक्रमे कारणा- भावात् । वागत्र । वाग्जयति । अजत्र । अजगच्छति । षडन । षड्गच्छन्ति । तदत्र । तद्रच्छति । ककुबास्ते । ककुब्जयति । प्रकृतिप्रत्यययोः पदयोर्विभागे सन्धिस्वरात्प्रतिषेधश्च प्रकृतिप्रत्यययोर्विभागो यत्र तत्र नित्यं सन्धिकार्यं भवति । यत्र पदयोर्विभागस्तत्र विकल्पेन सन्धिकार्यं भवति । इति सिद्धम् ॥ वाक् मती । अच् मात्रम् । षट् मुखानि । तत् नयनम् । त्रिष्टुप् मिनोति । इति द्विः स्थिते । 

पचमे पञ्चमांस्तृतीयान्नवा ॥६९  

पदान्ता वर्गप्रथमा: पचमे परे स्ववर्गपञ्चमानापद्यन्ते तृतीयान्न वा। वाङ्मती वाग्मती । अञ्मात्रम् | अज्मात्रम् । षण्मुखानि । षड्मुखानि । तन्त्रयनम् । तद्नयनम् । त्रिष्टुम्मिनोति । त्रिष्टुमिनोति ॥ 

प्रत्यये पञ्चमे पञ्चमान्नित्यम् ॥७०  

पदान्ता वर्गप्रथमा नित्यं स्ववर्गपञ्चमानापद्यन्ते प्रत्ययपञ्चमे परे । वाङ्मात्रम् | अब्मात्रम् । षण्मात्रम् । तन्मयम् । ककुम्मात्रम् ॥ वाक् शूरः । अच् शेषः । षद् श्यामाः । तत् श्वेतम् । त्रिष्टुप् श्रुतम् । इति स्थिते । 

वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा ॥ ७१ ॥ 

पदान्तेभ्यो वर्गप्रथमेभ्यः शकारः स्वरयवरपर छकारमापद्यते न वा । वाक्छूरः । वाक् शूरः । अच्छेषः । अच्शेषः । षट्छ्यामाः । षट्श्यामाः । तच्छ्वेतम् । तच्श्वेतम् । त्रिष्टुप्छुतम् । त्रिष्टुप्श्रुतम् ॥ तत् श्लक्ष्णम् । तत् श्मशानम् । इति स्थिते । न वा ग्रहणेन । 

लानुनासिकेष्वपीच्छन्त्यन्ये ॥७२ ॥ 

लानुनासिकेषु परतः शकारश्छकारमापद्यते न वा । तच्छ्लक्ष्णं तच्चलक्ष्णं तच्श्मशानं- तश्मशानं इति सिद्धम् । वाक् होनः । अच् हलौ । षट् हलानि । तत् हितम् । ककुप् हासः । इति द्विः स्थिते । 

तेभ्य एव हकारः पूर्वचतुर्थं न वा ॥ ७३ ॥ 

तेभ्यः पदान्तेभ्यो वर्गप्रथमेभ्यः परो हकारः पूर्वेचतुर्थमापद्यते न वा । वाग्धीनः । वाग्हीनः । अज्झलौ अञ्हलौ । षड्ढलानि षड्हलानि । तद्धितम् तद् हितम् । ककुब्भ्यासः ककुब्हासः । तेभ्यो ग्रहणं स्वरयवरनिवृत्त्यर्थम् । तेन वाग्घ्लादयति । एवेति ग्रहणं तृतीयमतव्यवच्छेदार्थम् । पुनरपि न वा ग्रहणमुत्तर- त्रयविकल्पनिवृत्त्यर्थम् ॥ तत् लुनाति । तत् चरति । तत् छादयति । तत् जयेति । तत् झषयति । तत् ञकारेण । तत् टीकते । तत् ठकारेण । तत् डीनम् । तत् ढौकते । तत् णकारेण । इति स्थिते । 

पदांत में वर्ग के प्रथम अक्षर से परे शकार हो और यदि उस शकार से परे स्वर, य, वर होवें तो शकार को विकल्प से छकार हो जाता है ॥ ७१ ॥ 

पररूपं तकारो लचटवर्गेषु ॥७४  

पदान्तस्तकारो लचटवर्गेषु परेषु पररूपमापद्यते। तल्लुनाति । तच्चरति । 

धुड् व्यञ्जनमनन्तस्थानुनासिकम् ।। ७५ ।। 

अन्तस्थानुनासिकवर्जितं व्यञ्जनं धुट्संज्ञं भवति । 

पदान्ते धुटां प्रथमः ॥७६  

पदान्ते वर्त्तमानानां धुटामन्तरतमः प्रथमो भवति ॥ 

धुटां तृतीयश्चतुर्थेषु ॥७७ ।। 

धुटां तृतीयो भवति, चतुर्थेषु परेषु । तच्छादयति । तज्जयति । तज्झषयति । तञ्ञकारेण । तट्टीकते । तट्ठकारेण । तड्डीनम् । तड्ढौकते । तण्णकारेण ॥ तत् शेते । तत् शयनम् । इति स्थिते । 

चं शे ॥७८  

पदान्तस्तकारश्चकारमापद्यते शकारे परे || 

चं शे व्यर्थमिदं सूत्रं यदुक्ते शर्ववर्मणा ।

तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ॥१ ॥

मूढधीस्त्वं न जानासि छत्वं किल विभाषया ।

अच्छत्वपक्षे वचनं नूनं चं शे व्यवस्थितम्

तच् शेते । तच् शयनम् ॥ क्रुङ् आस्ते । सुगण् अत्र । पचन् इह । कृषन् आसते । इति स्थिते । 

अन्त्यात्पूर्व उपधा ।।७९ ॥ 

धातुलिंगयोरन्त्यवर्णात्पूर्वी वर्ण उपधासंज्ञो भवति । । 

ङणना ह्रस्वोपधाः स्वरे द्विः ॥ ८०   

हस्वोपधा: पदान्ता ङणना: स्वरे परे द्विर्भवन्ति । क्रुङ्ङास्ते । सुगण्णत्र । पचन्निह । कृषत्रास्ते । अत्र रवर्णेभ्य इत्यादिना णत्वे प्राप्ते [ असिद्धं बहिरंगमन्तरंगे] अन्तरंगे कार्ये कृते सति बहिरंगं कार्य्यमसिद्धं भवति । इति णत्वे सति द्वित्वनिषेधः । पूर्वं णत्वे कृते पश्चाद् द्वित्वे प्राप्ते सति । सकृद् बाधितो विधिर्बाधित एव सत्पुरुषवत् ॥ भवान् चरति । भवान् छादयति । इति स्थिते । 

नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम् ॥ ८१  

पदान्तो नकारछयोः परयोः शकारमापद्यते अनुस्वारपूर्वम् । भवांश्चरति । भवांश्छादयति ॥ भवान् टीकते । भवान् ठकारेण । इति स्थिते । 

टठयोः षकारम् ||८२ ॥ 

पदान्तो नकारः टठयोः परयोः षकारमापद्यते अनुस्वारपूर्वम् । भवांष्टीकते । भवांष्ठकारेण ॥ भवान् तरति । भवान् थुडति । इति स्थिते । 

तथयोः सकारम् ||८३  

पदान्तो नकारस्तथयोः परयोः सकारमापद्यतेऽनुस्वारपूर्वम् । भवांस्तरति । भवांस्युडति । नॄन् पाहि । इति स्थिते । 

नॄनः पे वा ८४ ॥ 

नृन्शब्दस्य पदान्तो नकारोऽनुस्वारपूर्वं सकारं वाऽऽपद्यते पकारे परे । नृस्पाहि । नृन्पाहि ॥ 

प्रशानः शादीन् ॥ ८५ ॥ 

प्रशानो नकार: शादीत्र प्राप्नोति । प्रशान् चरति । प्रशान्छादयति । प्रशान्टीकते । प्रशान्ठकारेण । प्रशान् तरति । प्रशान् थुडति ।  भवान् लुनाति । भवान् लिखति । इति स्थिते । 

ले लम् ८६  

पदान्तो नकारो लकारमापद्यते लकारे परे । 

अनुस्वारहीनम् ॥ ८७ ॥ 

अधिकारस्येष्टत्वात् शकारादीनां हीनत्वादनुस्वारो नास्ति । भवाल्लुनाति । भवाल्लिखति ॥ भवान् जयति । भवान् झषयति । भवान् जकारेण । भवान् शेते । इति स्थिते । 

जझञशकारेषु ञकारम् ॥८८ ॥ 

पदान्तो नकारो जझञशकारेषु परेषु ञकारमापद्यते । भवाञ्जयति । भवाञ्झषयति । भवाञ्चकारेण । भवाञ्शेते ॥ कुर्वन् शूरः । उभयविकल्पे त्रैरूप्यम् । इति स्थिते । 

शि न्चौ वा ॥८९ ॥ 

पदान्तो नकारो न्चौ वा प्राप्नोति शकारे परे । तवर्गवर्गयोगे चटवर्गों । इति पञ्चमः स्यात् । कुर्वञ्शूरः कुर्वञ्च्छूरः कुर्वञ्शूरः । भवान् डीनः । भवान् ढौकते । भवान् णकारेण । इति स्थिते । 

डढणेषु णम् ॥९०  

अत्र वा स्मर्यते । पदान्तो नकारो णकारमापद्यते डढणेषु परतः । भवाण्डीनः । भवाण्ढौकते । भवाण्णकारेण ॥ त्वम् लुनासि। त्वम् रमसे। त्वम् यासि । त्वम् वससि । इति स्थिते । 

मोऽनुस्वारं व्यञ्जने ॥ ९१ ॥ 

पदान्तो मकारोऽनुस्वारमापद्यते व्यञ्जने परे । त्वं लुनासि। त्वं रमसे। त्वं यासि । त्वं वससि । (सम्राट् संज्ञायाम्) सम्पूर्वात् राजतेश्च क्विप्यनुस्वाराभावो निपात्यते । सम् राजते सम्राट् ॥ 

विरामे वा ॥ ९२  

पदान्तो मकारोऽनुस्वारमापद्यते न वा विरामे देवानां देवानाम् । पुरुषाणां पुरुषाणाम् । देव, देवम् ॥ त्वम् करोषि । त्वम् चरसि त्वम् टीकसे । त्वम् तरसि। त्वम् पचसि । इति स्थिते । 

वर्गे तद्वर्गपञ्चमं वा ॥ ९३  

पदान्तो मकारो वर्गे परे तद्वर्गपश्चममापद्यते न वा । त्वङ्करोषि त्वं करोषि । त्वञ्चरसि । त्वं चरसि । त्वण्टीकसे, त्वं टीकसे । त्वन्तरसि त्वं तरसि। त्वम्पचसि त्वं पचसि ॥ त्वम् यासि । त्वम् वरसि। त्वम् लोकसे । इति स्थिते । 

यवलेषु वा ॥ ९४  

पदान्तो मकारः पररूपमापद्यते वा यवलेषु परतः । त्वँय्यसि, त्वं यासि । त्वँव्वरसि, त्वं वरसि । त्वँल्लोकसे, त्वं लोकसे ॥ 

|| इति व्यञ्जनसंधिः ॥

अथ विसर्जनीयसन्धिरुच्यते

कः चरति । कः छादयति । इति स्थिते । 

विसर्जनीयश्चे छे वा शम् ।।९५ ।। 

चे वा छे वा परे विसर्जनीयः शमापद्यते । कश्चरति । कश्छादयति । इति सिद्धम् ॥ कः टीकते । कः ठकारेण । इति स्थिते । 

टे ठे वा षम् ।।९६ ।। 

टे वा ठे वा परे विसर्जनीयः षकारमापद्यते । कष्टीकते । कष्ठकारेण । कः तरति । कः थुडति । इति स्थिते । 

ते थे वा सम् ॥ ९७  

ते वा थे वा परे विसर्जनीयः समापद्यते । कस्तरति । कस्थुडति । कः करोति । कः खनति । इति द्विः स्थिते । 

कखयोजिह्वामूलीयं न वा ॥९८ ॥ 

कखयोः परयोर्विसर्जनीयो जिह्वामूलीयमापद्यते न वा । 

जिह्वामूलीयोपध्मानीयौ च ॥ ९९ ॥ 

जिह्वामूलीयमुपध्मानीयं च परं वर्ण नयेत् । कᳲकरोति कः करोति । कᳲखनेति कः खनति । क पचति । क फलति । इति स्थिते । 

पफयोरुपध्मानीयं न वा ॥ १०० ॥ 

पफयोः परयोर्विसर्जनीय उपध्मानीयमापद्यते न वा । क*पचति, कः पचति । क*फलति कः फलति ॥ कः च्शावित्याचष्टे । कः ट्षावित्याचष्टे । पुरुषः त्सरुकः । यतः क्षमः । ततः प्साति । इति स्थिते । 

शादीन् शषसस्थे ॥ १०१ ॥ 

विसर्जनीय: शादीन् न प्राप्नोति शवसत्थे निमित्ते परे ॥ कः शच्योतति । कः ष्ठीवति । कः स्तौति । इति स्थिते । 

अघोषस्थेषु शषसेषु वा लोपम् ॥ १०२ ॥ 

अघोषस्थेषु शषसेषु परतो विसर्जनीयो लोपमापद्यते वा । उभयविकल्पे त्रिरूपम् । कश्च्योतति, कश्श्च्यतति कःश्च्योतति । कष्ठीवति कष्ष्ठीवति कः ष्ठीवति । कस्तौति, कस्स्तौति, कः स्तौति ॥ कः शेते । कः षण्डः । कः साधुः । इति स्थिते । 

शे षे से वा वा पररूपम् ॥१०३ ॥ 

शे वा षे वा से वा परे विसर्जनीयः पररूपमापद्यते न वा । कश्शेते, कः शेते । काष्षण्ड, कः षण्डः । कस्साधुः कः साधुः ॥ कः अर्थः । कः अत्र । इति स्थिते । 

उमकारयोर्मध्ये ||१०४  

द्वयोरकारयोर्मध्ये विसर्जनीय उमापद्यते । कोऽर्थः ॥ कोऽत्र ॥ कः गच्छति । कः धावति । इति स्थिते । 

अघोषवतोश्च ।। १०५ ॥ 

अकारघोषवतोर्मध्ये विसर्जनीय उमापद्यते । को गच्छति । को धावति । । कः इह । कः उपरि । कः एषः । इति स्थिते । 

अपरो लोप्योऽन्यस्वरे यं वा ॥१०६  

अकारात्परो विसर्जनीयो लोप्यो भवति यं वाऽऽपद्यते अन्यस्वरे परे । वाशब्दोऽत्र समुच्चयार्थः । न च विकल्पार्थः ॥ 

विसर्जनीयलोपे पुनः सन्धिः ॥ १०७  

विसर्जनीयलोपे कृते पुनः सन्धिर्न भवति । क इह, कयिह । क उपरि, कयुपरि क एषः, कयेषः ॥ देवाः आहुः । भोः अत्र । इति स्थिते । 

आभोभ्यामेवमेव स्वरे ॥ १०८ ॥ 

आकारभोशब्दाभ्यां परो विसर्जनीय एवमेव भवति (लोपं यं वाऽपद्यते ) स्वरे परे । देवा आहुः, देवायाहुः । भो अत्र, भोयत्र । भगोः अत्र । अघोः अत्र । इति स्थिते । 

भगोअघोभ्यां वा १०९  

भगो अधोभ्यां विसर्जनीय एवमेव भवति (लोपं यं वाऽपद्यते) स्वरे परे भगो अत्र, भगोयत्र । अघो अत्र, अघोयत्रं ॥ देवाः गता: । भोः यासि । भगोः व्रज । अघोः यज । इति स्थिते । 

घोषवति लोपम् ११० ॥ 

आकार भो भगोअघोशब्देभ्यः परो विसर्जनीयो लोपमापद्यते घोषवति परे । देवा गताः । भो यासि । भगो व्रज । अधो यज || लोपग्रहणं य वेति (एवमेवेति) निवृत्त्यर्थम् ॥ सुपिः । सुतुः । इति स्थिते । 

नामिपरो रम् ॥ १११  

नामिनः परो विसर्जनीयो रमापद्यते निरपेक्षः । ईरूरर्थं वचनम् । 

इरुरोरीरूरौ ॥ ११२ ॥ 

अत्र धातोरिरुरोररूरौ भवतो विरामे व्यञ्जनादौ च । रेफसोर्विसर्जनीयः । सुपीः सुतः ॥ अग्निः गच्छति । अग्निः अत्र । रविः गच्छति । रविः अत्र मुनिः आयाति । मुनिः गच्छति । पटुः वदति । पटुः अत्र । इति स्थिते । 

घोषवत्स्वरेषु ॥११३॥ 

नामिनः परो विसर्जनीयो रमाऽपद्यते घोषवत्स्वरेषु। अग्निर्गच्छति । अग्निरत्र । रविर्गच्छति । रविरत्र। मुनिरायाति । मुनिर्गच्छति । पटुर्वदति । पटुत्र || पितः याहि ॥ पितः अत्र । पुनः गच्छति । पुनः अत्र । इति स्थिते । 

रप्रकृतिरनामिपरोऽपि ॥ ११४  

रेफप्रकृतिर्विसर्जनीयो नामिपरोऽप्यनामिपरोऽपि रमापद्यते घोषवत्स्वरेषु परतः । पितर्याहि । पितरत्र पुनर्गच्छति । पुनरत्र || अहः गणः । अहः अत्र। अहः जयति ॥ अहः आयाति । अहः हसति । अहः अपि । इति स्थिते । 

अह्नोऽरेफे ॥ ११५ ॥ 

अहो विसर्जनीयो रमापद्यते अरेफे घोषवति च स्वरे परे । अहर्गणः । अहरत्र । अहर्जयति अहरायाति । अहर्हसति। अर्हति । अहरपि । रेफे तु अहो राजते । अहोरात्रम् । अहो रूपम् ॥ अहः भ्याम् । अहः भिः। इति स्थिते || 

न स्यादिभे ।। ११६ ॥ 

अहो विसर्जनीयो न रमापद्यते स्यादिभे परे । अहोभ्याम् । अहोभिः । स्यादिभे इति किम् । अहर्भुक्तिः । अहर्भवति ॥ अहः पतिः । इति स्थिते । 

अहरादीनां पत्यादिषु ॥ ११७ ॥ 

अहरादीनां विसर्जनीयो वा रमापद्यते पत्यादिषु परतः । अहर्पतिः अहः पतिः । इत्यादि ॥ एषः करोति । सः गच्छति । इति स्थिते । 

एषसपरो व्यञ्जने लोप्यः ॥ ११८  

एषसाभ्याम् परो विसर्जनीयो लोप्यो भवति व्यञ्जने परे । एष करोति । स गच्छति । अग्निः रथेन । पुनः रात्रिः । इति स्थिते । 

रो रे लोपं स्वरश्च पूर्वो दीर्घः ॥ ११९ ॥ 

रे परे रो लोपमापद्यते पूर्वस्वरश्च दीघों भवति । अग्नीरथेन । पुनारात्रिः । वट छाया । कवि छन्दः । तनु छविः । इति स्थिते । 

द्विर्भावं स्वरपरश्छकारः ॥ १२०  

स्वरात्परश्छकारो द्विर्भावमापद्यते । 

अघोषे प्रथमः १२१  

अघोषे परे धुटां प्रथमो भवति । वटच्छाया । कविच्छन्दः । तनुच्छविः ॥ बाला छादयति । वेला छादयति । इति स्थिते । 

दीर्घात्पदान्ताद्वा ॥ १२२  

पदान्ताद्दीर्घात्परश्छकारो वा द्विर्भावमापद्यते । बालाच्छादयति बाला छादयति । वेलाच्छादयति, वेला छादयति । इति सिद्धम् ॥ आ छादयति । मा छिदत् । इति स्थिते । 

आङ्माङ्भ्यां नित्यम् ॥ १२३ ॥ 

आङ्माङ्भ्यां परश्छकारो नित्यं द्विर्भावमापद्यते । आच्छादयति माच्छिदत् । इति सिद्धम् । दध्यत्र इति स्थिते ।  

अस्वरे ॥ १२४  

व्यञ्जनं द्विर्भवति व्यञ्जने परे । दद्धयत्र ॥ 

इति विसर्जनीयसन्धिः

        अथ लिङ्गाद्विभक्तय उच्यन्ते 

सर्वज्ञं तमहं वन्दे परं ज्योतिस्तमोपहम्।

प्रवृत्ता यन्मुखादेवी सर्वभाषा सरस्वती ॥१

किं लिङ्गम् ?

धातुविभक्तिवर्जमर्थवल्लिङ्गम् ॥ १२५ ॥ 

अर्थोभिधेयः ॥ धातुविभक्तिवर्जमर्थवच्छब्दरूपं लिङ्गसंज्ञं भवति । तच्च लिङ्गं द्विविधम् । स्वरान्तं व्यञ्जनान्तं चेति । तत्पुनः प्रत्येकं त्रिविधिम् । पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गं वेति । तत्रादावकारान्तात्पुल्लिङ्गात्पुरुषशब्दाद्विभक्तयो योज्यन्ते । लोकोपचारात्स्यादीनां विभक्तिसंज्ञायां पुरुष इति स्थिते ||

तस्मात्परा विभक्तयः ॥ १२६  

सि औ जस्। अम् औ शस्। टा भ्याम् भिस् । ङे भ्याम् भ्यस् । इसि भ्याम् भ्यस् । इस् ओस् आम् । ङि ओस् सुप् । तस्मादर्थवतो लिङ्गात्पराः स्यादयो विभक्तयो भवन्ति । ताः पुनः सप्त । सि औ जस इति प्रथमा। अम् औ शस् इति द्वितीया । टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी । ङसि भ्याम् भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी । एवं युगपत् सर्वप्रत्ययप्रसङ्गे वक्तुर्विवक्षया शब्दार्थप्रतिपत्तिरिति लिङ्गार्थविवक्षायाम् । 

प्रथमा विभक्तिर्लिङ्गार्थवचने ॥ १२७ ॥ 

लिङ्गार्थवचने प्रथमा विभक्तिर्भवति । इति लिङ्गार्थे प्रथमा । तत्रापि युगपदेकवचनादिप्राप्तौ । 

एकं द्वौ बहून् ॥ १२८  

अर्थान् वक्तीति, एकस्मिन्नर्थे एकवचनं द्वयोरर्थयोर्द्विवचनं बहुष्वर्थेषु बहुवचनं भवति । इति लिङ्गार्थैकत्वविवक्षायां प्रथमैकवचनं सि । पुरुष सि इति स्थिते । 

योऽनुबन्धोऽप्रयोगी ॥ १२९ ॥ 

यः अनुबन्धः स अप्रयोगी भवति । अनुबन्धः कः ? इजशटङपा विभक्तिष्वनुबन्धाः । वा विरामे इति वर्तमाने । 

रेफसोर्विसर्जनीयः ॥ १३०  

विरामे व्यञ्जनादौ च रेफसकारयोर्विसर्जनीयो भवति । परवर्णाभावो विरामः । अथवा यदनन्तरं वर्णान्तरं नोच्यते स विरामः । पुरुषः इति सिद्धं पदम् । तथैव लिङ्गार्थे द्वित्वविवक्षायां द्विवचन औ। सन्धिः । पुरुषौ ॥ तथैव लिङ्गार्थे बहुत्वविवक्षायां बहुवचनं जस्। अनुबन्धलोपः । पुरुष अस् इति स्थिते । अकारे लोपमिति प्राप्ते तत्प्रतिषेधः । अकारो दीर्घ घोषवतीति वर्तते । सर्वविधिभ्यो लोपविधिर्बलवान् । लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान् । 

जसि१३१ ॥ 

लिङ्गान्तोकारो दीर्घमापद्यते जसि परे (एकदेशविकृतमनन्यवत्) । यथा कर्णपुच्छादिस्वाङ्गेषु भित्रेषु सत्सु श्वा न गर्दभः किंतु श्वा श्वैव । पुनः सवर्णे दीर्घः । सस्य विसर्जनीयः । पुरुषाः ।। तथैवामंत्रणार्थविवक्षायाम् । 

आमन्त्रणे च ॥ १३२  

दूरस्थानामभिमुखीकरणमामन्त्रणम् । तत्र प्रथमा विभक्तिर्भवति । 

आमन्त्रणे सिः सम्बुद्धिः ॥ १३३  

आमंत्रणार्थे विहितः सिः सम्बुद्धिसंज्ञो भवति ॥ 

ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम् ॥ १३४  

ह्रस्वनदीश्रद्धाभ्यः परः संबुद्धिसंज्ञकः सिर्लोपमापद्यते । कैश्चिदामन्त्रणाभिव्यक्तये अहो हे भो शब्दा: प्राक्प्रयोज्यन्ते । हे पुरुष । द्विवचनबहुवचनयो: पूर्ववत् । हे पुरुषौ । हे पुरुषाः । तथैव कर्मविवक्षायाम् ||

शेषाः कर्मकरणसंप्रदानापादानस्वाम्याद्यधिकरणेषु ।। १३५ ।। 

शेषा द्वितीयाद्या: षड् विभक्तयः कर्मादिषु षट्सु कारकेषु यथासंख्यं भवन्ति । इति कर्मणि द्वितीया । पुरुष अम् इति स्थिते । 

अकारे लोपम् ॥१३६ ।। 

लिङ्गान्तोकारो लोपमापद्यते सामान्ये अकारे परे । पुरुषम् । द्विवचने सन्धिः । पुरुषौ बहुत्वे- पुरुष अस इति स्थिते । 

शशि सस्य च नः ॥ १३७  

शसि परे लिङ्गान्तोकारो दीर्घमापद्यते सस्य च न भवति । पुनः सवर्णे दीर्घः । पुरुषान् । तथैव करणविवक्षायाम् ॥ शेषाः कर्मेत्यादिना करणे तृतीया । पुरुष टा इति स्थिते । 

इन टा ।।१३८ ।। 

अकारान्ताल्लिङ्गात्परष्टा इनो भवति । सन्धिः । 

रषृवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि ॥ १३९

रेफषकारॠवर्णेभ्यः परोऽनन्त्यो नकारः णमापद्यते स्वरहयवकवर्गपवर्गान्तरोऽपि शब्दान्तरोऽपि । स्वरान्तरस्तावत् । पुरुषेण द्विवचने । 

अकारो दीर्घं घोषवति ॥ १४०  

लिङ्गान्तोकारो दीर्घमापद्यते घोषवति परे । पुरुषाभ्याम् । 

भिसैस्वा १४१  

अकारान्ताल्लिङ्गात्परो भस् ऐस् वा भवति । सन्धिः । पुरुषैः । तथैव सम्प्रदानविवक्षायाम् । शेषाः कर्मेत्यादिना सम्प्रदाने चतुर्थी

ङेर्यः ।। १४२ ।। 

अकारान्ताल्लिङ्गात्परो ङेर्यो भवति । घोषवति दीर्घः । पुरुषाय । द्वित्वे पूर्ववत् । पुरुषाभ्याम् । 

धुड् व्यञ्जनमनन्तःस्थानुनासिकम् ॥७५

 अन्तःस्थानुनासिकवर्जितं व्यञ्जनं धुट्संज्ञं भवति । क ख ग घ च छ ज झ ट ठ ड ढ त थ दध । प फ ब भ । श ष स ह इति । 

धुटि बहुत्वे त्वे ॥१४३ || 

लिङ्गान्तोऽकार ए भवति बहुत्वे धुटि परे । पुरुषेभ्यः । तथैव अपादानविवक्षायां शेषाः कर्मेत्यादिना अपादाने पचमी । 

ङसिरात् ॥ १४४ ॥ 

अकारान्ताल्लिङ्गात्परो ङिसिराद्भवति । पुरुषात् । द्वित्वबहुत्वयोः पूर्ववत् । दीर्घोच्चारणं किमर्थम् । अकारे लोपे प्राप्ते सति तत्रिमित्तम् पुरुषाभ्यां । पुरुषेभ्यः । तथैव स्वाम्यादिविवक्षायां शेषाः कर्मेत्यादिना  स्वाम्यादौ षष्ठी । 

ङस् स्यः ॥ १४५ ॥ 

अकारान्ताल्लिङ्गात्परो इस् स्यो भवति । पुरुषस्य । द्वित्वे, धुटि बहुत्वे त्वे इति वर्तते ।

ओसि च ॥ १४६ ॥ 

लिङ्गान्तोकार ए भवति ओसि च परे । सन्धिः । ए अय्। रेफसोर्विसर्जनीयः । पुरुषयोः । बहुत्वे – पुरुष आम् इति स्थिते । ह्रस्वनदी श्रद्धाभ्य इति वर्तते । 

आमि च नुः १४७ ॥ 

ह्रस्वनदी श्रद्धाशब्देभ्यः परो नुरागमो भवति आमि परे । 

तृतीयादौ तु परादिः ॥ १४८ ॥ 

उदनुबन्ध आगम: परादिर्भवति तृतीयादौ विभक्तौ । 

दीर्घमामि सनौ ॥ १४९ ॥ 

हस्वान्तं लिङ्गं दीर्घमापद्यते सनावामि परे । रषृवर्णेत्यादिना णत्वं घोषवति दीर्घः । पुरुषाणाम् ॥ तथैव अधिकरणे सप्तमी । अनुबन्धलोपः । सन्धिः । पुरुषे । द्विवचने पूर्ववत् । पुरुषयोः । बहुत्वे-धुटि एत्वं च ।

नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि ।। १५० ।। 

नामिकरेभ्यः परः प्रत्ययविकारागमस्थ: सिः षमापद्यते नुविसर्जनीयषान्तरोऽपि पुरुषेषु । नीतक:- पुरुषः, पुरुषौ, पुरुषाः । हे पुरुष, हे पुरुषौ, हे पुरुषाः । पुरुषम्, पुरुषौ, पुरुषान् । पुरुषेण, पुरुषाभ्याम्, पुरुषैः । पुरुषाय, पुरुषाभ्याम्, पुरुषेभ्यः । पुरुषात् पुरुषाभ्याम्, पुरुषेभ्यः । पुरुषस्य, पुरुषयोः पुरुषाणाम्। पुरुषे, पुरुषयोः पुरुषेषु ॥ एवं धर्म वीर वेद वृक्ष सूर्य सागर स्तम्भ वाण मृग दन्त राघव मास पक्ष शिव शैल गुह्यक व्रात गण्ड कट कपाट नाम शङ्कर घट पटादयः ॥ 

पूर्वपरयोरर्थोपलब्धौ पदम् १५१ ॥ 

पूर्वपरयोरिति कोऽर्थः । प्रकृतिविभक्त्योरित्यर्थः । प्रकृतयः काः । पुरुषादिशब्दा भूप्रभृतयो धातवश्च प्रकृतयो भवन्ति । विभक्तयः काः । स्यादिस्त्यादिश्च । तयोः प्रकृतिविभक्त्योरथोपलब्धौ सत्यां समुदायस्य पदसंज्ञा भवति । एवं विभक्त्यन्तानां सर्वत्र पदसंज्ञा भवति । सर्वशब्दस्य क्वचिद्विशेषः । सर्वः । सर्वौ । जसि- सर्वनाम्न इति वर्तते । 

जः सर्व इः ॥ १५२  

अकारान्तात्सर्वनाम्नः परो जस् सर्व इर्भवति । सर्वे । हे सर्व हे सर्वो। हे सर्वे । सर्व । सर्वो। सर्वान् । सर्वेण । सर्वाभ्यां । सर्वैः ॥ ङयि । 

स्मै सर्वनाम्नः ॥ १५३  

अकारान्तात्सर्वनाम्नः परो ङे स्मै भवति । सर्वस्मै । सर्वाभ्यां । सर्वेभ्यः ॥ ङसौ । 

ङसिः स्मात् ॥ १५४ ॥ 

अकारान्तात्सर्वनाम्नः परो ङसि स्माद् भवति । सर्वस्मात् । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्य । सर्वयोः । 

सुरामि सर्वतः ॥ १५५ ॥ 

सर्वनाम्नः परः सुरागमो भवत्यामि परे । घुटि एत्वम् । नामिकरपरेत्यादिना षत्वम् । सर्वेषाम् । ङौ। 

ङि : स्मिन् ॥ १५६ ॥ 

अकारान्तात्सर्वनाम्नः परो ङि: स्मिन् भवति । सर्वस्मिन् । सर्वयोः । सर्वेषु । नीतकः- सर्वः, सर्वौ, सर्वे। हे सर्व, हे सर्वौ, हे सर्वे । सर्वम्, सर्वौ, सर्वान् । सर्वेण, सर्वाभ्याम्, सर्वैः । सर्वस्मै, सर्वाभ्याम्, सर्वेभ्यः । सर्वस्मात्, सर्वाभ्याम्, सर्वेभ्यः । सर्वस्य, सर्वयो:, सर्वेषाम् । सर्वस्मिन्, सर्वयो:, सर्वेषु । किं तत्सर्वनाम् । सर्व विश्व उभ उभय अन्य अन्यतर इतर इतम कतर कतम यतर यतम ततर ततम एकतर एकतम (एते डतरडतमप्रत्ययान्ताः । वृत्) । त्व नेम सम सिम पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर (वृत्) त्यद् तद् यद् अदस् इदम् एतद् किम् एक द्वि (वृत्) युष्मद् अस्मद् भवत् इति सर्वादि | अल्पशब्दस्य तु भेदः । अल्पः । अल्पौ । जसि । 

अल्पादेर्वा ॥ १५७ ॥ 

अल्पादेर्गणात्परो जस् सर्व इर्भवति वा । अल्पे, अल्पाः । अन्यत्र पुरुषशब्दवत् । कोऽल्पादिर्गणः । अल्प प्रथम चरम त्रितय द्वितय द्वय त्रय (ऐते तयअयप्रत्ययान्ता) कतिपय नेम अर्द्ध पूर्व पर अवर दक्षिण उत्तर अपर अधर एवं अन्तर (वृत्) इति अल्पादिः । पूर्वशब्दस्य तु भेदः । पूर्वः । पूर्वी । पूर्वे । पूर्वाः । हे पूर्व, हे पूर्वौ, हे पूर्वे, हे पूर्वाः । पूर्वम् । पूर्वौ। पूर्वान् । पूर्वेण । पूर्वाभ्याम् । पूर्वैः । पूर्वस्मै । पूर्वाभ्याम् । । पूर्वेभ्य: । डसिड्यो:। 

विभाष्येते पूर्वादेः ॥१५८ ॥ 

पूर्वादिर्गणात्परयोङसिङ्यो स्मात्स्मिनौ विभाष्येते । पूर्वस्मात् पूर्वात् पूर्वाभ्याम् । पूर्वेभ्यः । पूर्वस्य । पूर्वयोः । पूर्वेषाम् । ङौ तथैव विकल्पः । पूर्वस्मिन् पूर्वे । पूर्वयोः । पूर्वेषु । कः पूर्वादिः । प्रागेवोक्तः । इत्यकारान्ताः । आकारान्तः पुल्लिङ्गः क्षीरपाशब्दः । ततः स्वाद्युत्पत्तिः । सौ । क्षीरपाः । क्षीरपौ, क्षीरपाः । सम्बुद्धावविशेषः क्षीरपाम् । क्षीरपौ । शसादौ तु विशेष: । 

पञ्चादौ घुट् ॥ १५९ ॥ 

स्यादीनामादौ पञ्चवचनानि घुट्संज्ञानि भवन्ति । 

आधातोरघुट्स्वरे ।।१६० ॥ 

धातोराकारस्य लोपो भवति अघुट्स्वरे परे । धातोरिति किम् । शन्तङन्तक्किबन्तौ धातुत्वं न त्यजत इति । एतदुपलक्षणम् । उपलक्षणं किं । स्वस्य स्वसदृशस्य च ग्राहकमुपलक्षणं । तेन विजन्तमपि धातुत्वं न जहाति । क्षीरपः । क्षीरपा । क्षीरपाभ्याम् । क्षीरपाभिः । क्षीरपे। क्षीरपाभ्याम् । क्षीरपाभ्यः । क्षीरपः । क्षीरपाभ्याम् । क्षीरपाभ्यः । क्षीरपः । क्षीरपोः । क्षीरपाम् । क्षीरपि । क्षीरपोः । क्षीरपासु । एवं सोमपा सीधुपा कीलालपा सौवीरपा मण्डप अग्रेमा विवस्वा अब्जजा उदधिका हाहा पुरोगादयः । इत्याकारान्ताः । इकारान्तः पुलिङ्गो मुनिशब्दः । ततः स्याद्युत्पत्तिः । सौ। मुनिः । द्वित्वे । 

इदुदग्निः ।। १६१ ।। 

इकारान्तमुकारान्तञ्च लिङ्गं अग्निसंज्ञं भवति । तपरकरणमसन्देहार्थम् । 

औकारः पूर्वं ।। १६२  

अग्निसंज्ञकात्पर औंकारः पूर्वस्वररूपमापद्यते । सन्धिः । मुनी । जसि । 

इरेदुरोज्जसि ॥१६३ ॥ 

अग्निसंज्ञकस्य इः एद्भवति उः ओद्भवति जसि परे । मुनयः । 

सम्बुद्धौ च ॥ १६४ ॥ 

अग्निसंज्ञकस्य इः एद्रवति उः ओद्भवति सम्बुद्धौ परतः । प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायात् । हे मुने। हे मुनी। हे मुनयः । 

अग्नेरमोकारः ॥१६५ ।। 

अग्निसंज्ञकात्परस्य अमोऽकारो लोपमापद्यते। मुनिम् । मुनी । शसादौ । 

शसोऽकार: सश्च नोऽस्त्रियाम् ॥ १६६  

अग्निसंज्ञकात्परस्य शसोऽकारः पूर्वस्वररूपमापद्यते सर्वत्र सस्य च नो भवत्यस्त्रियाम् । मुनीन् । 

अस्त्रियां टा ना १६७ ॥ 

अग्निसंज्ञकात्परस्य टा ना भवत्यस्त्रियाम् । मुनिना । मुनिभ्यां । मुनिभिः । ङयि । 

ङे १६८  

अग्निसंज्ञकस्य इः एद्भवति उः ओद्रवति ङयि परे । मुनये । मुनिभ्यां । मुनिभ्यः । 

ङसिङसोरलोपश्च ॥ १६९  

अग्निसंज्ञकस्य इः एद्भवति उः ओद्भवति ङसिङसोः परतः तयोरकारश्च लोप्यो भवति । मुनेः । मुनिभ्याम् । मुनिभ्यः । मुनेः । मुन्योः । आमि नुरागमः । 

दीर्घमामि सनौ ॥ १७०  

नाम्यन्तं लिङ्गं दीर्घमापद्यते सनावामि परे । मुनीनाम् । 

ङिरौ सपूर्वः ॥ १७१  

अग्निसंज्ञकात्परो ङि : पूर्वस्वरेण सह और्भवति । मुनौ । मुन्योः । मुनिषु । एवमग्नि गिरि रवि ऋषि यति कवि विधि राशि शीतरश्मि शालि दानवारि दैत्यारि सौरि सूरि विघ्नारि हेमाद्रि अद्रि हरि सारि वह्नि शकुनि पाकशासनि धूमयोनि पद्मयोनि अपांपति अतिथि ग्रन्थि पदाति मैत्रि बलि ध्वनि पाणि कपि   अलि मणि जलधि अब्धि पयोधि निधि उपाधि नीरधि व्याधि शेवध्यादयः ।। द्विशब्दस्य तु भेदः । तस्य द्व्यर्थवाचित्वात् द्विवचनमेव भवति । द्वि औ अति स्थिते । 

त्यदादीनामविभक्तौ ॥ १७२  

त्यदादीनामन्तः अकारो भवति विभक्तौ परतः । सन्धिः । द्वौ द्वौ 

द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः ॥ त्रिशब्दस्य तु भेदः । तस्य बह्वर्थवाचित्वात् बहुवचनमेव भवति । त्रयः । हे त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः । आमि। 

त्रेस्त्रयश्च ॥ १७३  

त्रिशब्दस्य त्रयादेशो भवति नुरागमश्चामि परे । त्रयाणाम् । त्रिषु । कतिशब्दस्य तु भेदः । तस्यापि बहुवचनमेव भवति । 

कतेश्च जस्शसोर्लुक् ॥१७४ ॥ 

संख्याया: ष्णान्ताया: कतेश्च परयोर्जस्शसोर्लुग्भवति (सर्वविधिभ्यो लोपविधिर्बलवान्) प्रत्ययलोपे प्रत्ययलक्षणमिति प्राप्ते सति । 

लुग्लोपे न प्रत्ययकृतम् ॥ १७५  

लुगिति लोपे सति प्रत्ययलोपे परे यत्कृतं कार्यं प्रकृतेस्तन्न भवति । इरेदुरोज्जसीत्येत्वं न भवति । कति। कति । कतिभिः । कतिभ्यः । कतिभ्यः : कतीनाम् । कतिषु । सखिशब्दस्य तु भेदः । सावनन्तः इति वर्तते । 

सख्युश्च ॥ १७६ ॥ 

सख्युरन्तोऽन् भवति असम्बुद्धौ सौ परे । 

घुटि चासम्बुद्धौ १७७ || 

नान्तस्य चोपधाया दीर्घो भवति असम्बुद्धौ घुटि परे । 

व्यञ्जनाश्च ।। १७८ ॥ 

व्यञ्जनाच्च परः सिर्लोपमापद्यते । 

लिङ्गान्तनकारस्य ॥ १७९ ॥ 

लिङ्गान्तकारस्य लोपो भवति विरामे व्यञ्जनादौ च । सखा । 

घुटि त्वैः ॥ १८०  

सख्युरन्तः ऐर्भवति असंबुद्धौ घुटि परे । सखायौ । सखायः । संबुद्धौ मुनिशब्दवत् । हे सखे । हे सखायौ । हे सखायः । सखायम् ॥ सखायौ । शसि मुनिशब्दवत् । सखीन् । टादौ । 

न सखिष्टादावग्निः ॥ १८१  

सखिशब्दष्टादौ स्वरे परे नाग्निर्भवति । सख्या । सखिभ्याम् । सखिभिः । सख्ये । सखिभ्याम् । सखिभ्यः ॥ 

ङसिङसोरुमः ||१८२  

सखिपतिभ्यां परयोर्ङिसिङसोरकारः उमापद्यते । सख्युः । सखिभ्याम् । सखिभ्यः । सख्युः । सख्योः । सखीनाम् ॥ 

सखिपत्योर्डिः१८३ ॥ 

सखिपतिभ्यां परो ङिरेव और्भवति । पुनङिग्रहणं किमर्थं । सपूर्वस्वरनिवृत्त्यर्थं ॥ सख्यौ । सख्योः । सखिषु । एवं सुसखि अतिसखि असखि प्रभृतयः । पतिशब्दस्य तु भेदः । पतिः । पती । पतयः । हे पते । हे पती । हे पतयः । पतिम्। पती। पतीन्। टादौ । 

पतिरसमासे ।।१८४ ॥

पतिशब्दोऽसमासे टादौ स्वरे परे नाग्निर्भवति । पत्या । पतिभ्याम् । पतिभिः । पत्ये । पतिभ्याम् । पतिभ्यः । पत्युः । पतिभ्याम् । पतिभ्यः । पत्युः । पत्योः । पतीनाम् । पत्यौ । पत्योः । पतिषु । भूपत्यादिशब्दानां समासत्वान्मुनिशब्दवत् । पन्थिशब्दस्य तु भेदः । पन्थि स् इति स्थिते । अम्शसोरा इति वर्तते । 

पन्थिमन्थिऋभुक्षीणां सौ ॥१८५ ॥ 

पन्थ्यादीनामन्त आकारो भवति सौ परे । पन्थाः । 

अनन्तो घुटि ।।१८६ ।। 

पन्थ्यादीनामन्तोऽन् भवति घुटि परे । पन्थानौ । पन्थानः । सम्बोधनेऽपि तद्वत् । हे पन्थाः । हे पन्थानौ । हे पन्थानः । अग्नेरमोकार इति प्राप्ते । अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान् । अल्पाश्रितमन्तरङ्गम् । बह्नाश्रितं बहिरङ्गम् । पन्थानम् । पन्थानौ । 

अघुट्स्वरे लोपम् १८७  

पन्थ्यादीनामन्तो लोपमापद्यते अघुट्स्वरे परे । 

व्यञ्जने चैषां निः ॥ १८८ ॥ 

पन्थ्यादीनां नकारो लोपमापद्यते व्यञ्जने चाघुट्स्वरे परे । पथः पथा। पथिभ्याम्। पथिभिः । पथे । पथिभ्याम् । पथिभ्यः । पथः । पथिभ्याम् । पथिभ्यः । पथ: । पथोः । पथाम् । पथि । पथोः । पथिषु । एवं मन्थि ऋभुक्षि शब्दौ । इति इकारान्ताः । ईकारान्तः पुल्लिङ्गो यवक्री शब्दः । ततः स्याद्युत्पत्तिः । सौ— यवक्रीः । स्वरादौ । आधातोरिति वर्तमाने । 

ईदूतोरियुवौ स्वरे ॥ १८९  

धातोरीदूतोरियुवौ भवतो विभक्तिस्वरे परे । पुनः स्वरग्रहणं किमर्थम् । अघुट्स्वरनिवृत्त्यर्थम् । यवक्रियौ । यवक्रियः । सम्बोधनेऽपि तद्वत् । यवक्रियम्। यवक्रियौ । यवक्रियः । यवक्रिया । यवक्रीभ्याम् । यवक्रीभिः । इत्यादि । एवं सुश्रीनीप्रभृतयः । सेनानीशब्दस्य तु भेदः । सौ-सेनानीः । स्वरादावीदूतोरिति प्राप्ते | 

अनेकाक्षरयोस्त्वसंयोगाद् य्वौ ॥ १९०  

अनेकाक्षरयोर्लिङ्गयोस्त्वसंयोगात्परयोरीदूतोर्य्वौ भवतो विभक्तिस्वरे परे । सेनान्यौ । सेनान्यः । सम्बोधनेऽपि तद्वत् । सेनान्यम् । सेनान्यौ । सेनान्यः । सेनान्या । सेनानीभ्याम् । सेनानीभिः। सेनान्ये । सेनानीभ्याम् । सेनानीभ्यः । सेनानोभ्याम् । सेनानीभ्यः । सेनान्यः । सेनान्योः । सेनान्याम् ॥ अनेकाक्षरयोरिति किं । नियौ । नियः । लुवी । लुवः । असंयोगादिति किं । यवक्रियौ । कवपुवौ । ङौ ।

नियो ङिराम् ॥ १९९ ॥ 

नियः परो ङिराम् भवति । सेनान्याम् । सेनान्योः । सेनानीषु । एवमग्रणीग्रामणीप्रभृतयः । सुधीशब्दस्य तु भेदः । सौ- सुधीः । स्वरादावनेकाक्षरयोरिति यत्वे प्राप्ते । ईदूतोरियुवौ स्वरे इति वर्तते । 

सुधीः ॥१२ ॥ 

सुधीशब्द इयं प्राप्नोति विभक्तिस्वरे परे । सुधियौ । सुधियः । सम्बोधनेऽपि तद्वत् । सुधियम् । सुधियौ । सुधियः । सुधिया । सुधीभ्याम् । सुधीभिः । सुधिये । सुधीभ्याम् । सुधीभ्यः । सुधियः । सुधीभ्याम् । सुधीभ्यः । सुधियः । सुधियोः । सुधियाम् । सुधियि । सुधियोः । सुधीषु ॥ इति ईकारान्ताः । उकारान्तः पुल्लिङ्गो भानुशब्दः ॥ स च मुनिशब्दवत् । अयं भेदः — उत ओत्वमवादेशञ्च । भानुः । भानू । भानवः । हे भानो हे भानू । हे भानवः । भानुम् । भानू । भानून् । भानुना । भानुभ्याम् । भानुभिः । भानवे । भानुभ्याम् । भानुभ्यः । भानोः । भान्वोः । भानूनाम् । भानौ भान्दोः । भानुषु। एवमृतु मेरु गुरु तरु धातु सेतु बाहु वायु बहुप्रभृतयः । इत्युकारान्ताः । ऊकारान्तः पुल्लिङ्गः कटप्रू- शब्दः । स च यवक्रीशब्दवत् । उवादेशोऽत्र भेदः । कटप्रूः । कटप्रुवौ । कटप्रुवः । सम्बोधनेऽपि तद्वत् । कटप्रुवम् । कटप्रुवौ । कटप्रुवः । कटप्रूवा । कटप्रूभ्याम् । कटप्रूभिः । इत्यादि । खलपू शरलू काण्डलू प्रभृतीनां सेनानीशब्दवत् । वत्वं भेदः । प्रतिभूशब्दस्य तु भेदः । सौप्रतिभूः । स्वरादौ — 

भूरवर्षाभूरपुनर्भूः ॥ १९३ || 

भूरुवं प्राप्नोति विभक्तिस्वरे परे वर्षाभूपुनर्भ्वौ वर्जयित्वा । प्रतिभुवौ । प्रतिभुवः । सम्बोधनेऽपि तद्वत् । एवं स्वयंभू मित्रभू आत्मभू अग्निभू मनोभू प्रभृतयः । वर्षाभू पुनर्भू सेनानीवत् । वत्वं भेदः । इत्यूकारान्ताः । ऋकारान्तः पुल्लिङ्गः पितृशब्दः । सौ- 

सौ सिलोपश्च ॥ १९४  

ऋदन्तस्य लिङ्गस्य आ भवति सौ परे सिलोपश्च । पिता 

घुटि १९५  

ऋदन्तस्य अर् भवति घुटि परे । पितरौ । पितरः । सम्बुद्धौ च । 

आ च न सम्बुद्धौ ॥ १९६  

ऋदन्तस्य आर् आ च न भवति सम्बुद्धौ परतः । अपि तु घुटि चेत्यर्भति । हे पितः । हे पितरौ । हे पितरः । पितरम् । पितरौ 

अग्निवच्छसि ॥ १९७ ॥ 

ऋदन्तस्य अग्निवत्कार्यं भवति शसि परे । पितॄन् । पित्रा । पितृभ्याम् । पितृभिः । पित्रे | पितृभ्याम् । पितृभ्यः । ङसिङसोः। 

ऋदन्तात्सपूर्वः ॥ १९८  

ऋदन्तात्परयोङसिङसोरकारः पूर्वस्वरेण सह उमापद्यते । पितुः । पितृभ्याम् । पितृभ्यः । पितुः । पित्रो: । पितॄणाम् । 

अर्ङौ ॥ १९९  

ऋदन्तस्य अर् भवति ङौ परे । पितरि । पित्रोः । पितृषु । एवं भ्रातृ जामातृ सवितृ प्रभृतयः । कर्तृशब्दस्य तु भेदः । सौ- कर्ता घुटि । 

धातोस्तृशब्दस्यार् ॥ २०० ॥ 

धातोविहितस्य तृशब्दस्य ऋत आर्भवति धुटि परे । कर्तारौ । कर्त्तारः । हे कर्तः । हे कर्त्तारौ । हे कर्त्तारः । कर्तारम् । कर्त्तारौ । कर्तृन् । अन्यत्र पितृशब्दवत् । धातोर्विहितस्य किं ? मातरौ । मातरः । यती प्रयत्ने । यतेः ऋत् दीर्घश्च उणादिप्रत्ययः । तृशब्दस्येति कि ? ननान्दरौ । ननान्दरः । एवं धातृ भतृ ज्ञातृ वेतृ श्रोतृ नेतृ पक्त भोक्त पक्तृ प्रभृतयः । क्रोष्टशब्दस्य तु भेदः । क्रोष्टा । क्रोष्टारौं । क्रोष्टारः । सम्बुद्धौ । 

क्रोष्टुः ऋत उत्सम्बुद्धौ शसि व्यञ्जने नपुंसके च २०१ ॥ 

क्रोष्टृशब्दस्य ऋत उर्भवति । सम्बुद्धौ शसि व्यञ्जने नपुंसके च परे । अग्निसंज्ञां विधाय भानुवत्कुर्यात् । हे क्रोष्टा । हे क्रोष्टारौ हे क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्ट्न् । 

टादौ स्वरे वा ॥ २०२ ॥ 

क्रोष्टृशब्दस्य ऋत उर्वा भवति टादौ स्वरे परे। क्रोष्ट्रा क्रोष्टुना । क्रोष्टुभ्याम् । क्रोष्टुभिः । क्रोष्ट्रे, क्रोष्ट्वे । क्रोष्टुभ्याम् । क्रोष्टुभ्यः । क्रोष्टुः क्रोष्टोः । क्रोष्टुभ्याम् । क्रोष्टुभ्यः । क्रोष्टुः, क्रोष्टोः । क्रोष्ट्रोः । क्रोष्ट्वोः । क्रोतॄणाम्, क्रोष्टूनाम्। क्रोष्टरि क्रोष्टौ । क्रोष्ट्रोः क्रोष्ट्वोः । क्रोष्टुषु । स्वसृशब्दस्य तु भेदः । सौ-स्वसा । घुटि । 

स्वस्त्रादीनां च ॥ २०३  

स्वस्रादीनां च ऋत आर्भवति घुटि परे । स्वसारौ । स्वसारः । हे स्वसः । इत्यादि । अन्यत्र पितृशब्दवत् । के स्वत्रादयः ? 

स्वसा नप्ता च नेष्टा च त्वष्टा क्षत्ता तथैव च । 

होता पोता प्रशास्ता चेत्यष्टौ स्वस्रादयः स्मृताः ॥१ ॥ 

नृशब्दस्य तु भेदः । नृशब्दस्यामि विशेषः । ना । नरौ । नरः । हे नः । हे नरौ । हे नरः । नरम् । नरौ। नॄन् । न्रा । नृभ्याम् । नृभिः । न्रे । नृभ्याम् । नृभ्यः । नुः । नृभ्याम् । नृभ्यः । नुः । न्रोः । न नामि दीर्घमिति वर्तते । 

नृ वा २०४ ॥ 

नृशब्दो वा दीर्घं प्राप्नोति सनावामि परे । नृणाम् नॄणाम्। नरि। त्रोः । नृषु ॥ इति ऋदन्ताः । ऋकारलृकारॡकारकारान्ता अप्रसिद्धाः । ऐकारान्तः । पुल्लिङ्गो रैशब्दः । आत्वं व्यञ्जनादौ इति वर्तते।

रैः॥२०५॥ 

रैशब्दस्य आद् भवति व्यञ्जनादौ परतः । राः । रायौ। रायः । हे राः । हे रायौ। हे रायः । रायम् । रायौ । रायः । राया। राभ्याम् । राभिः । राये। राभ्याम् । राभ्यः । रायः । राभ्याम् । राभ्यः । रायः । रायोः । रायाम्। रायि। रायोः रासु । इत्यैकारान्तः ॥ ओकारान्तः पुल्लिङ्गो गो शब्दः । 

गोरौ घुटि २०६  

गोशब्दस्यान्त और्भवति घुटि परे । गौः । गावौ । गावः । हे गौः । हे गावौ । हे गावः । 

अम्शसोरा ॥ २०७ ॥ 

गोशब्दस्यान्त आ भवति अम्शसोः परतः । गाम् । गावौ । याः । गवा। गोभ्याम् । गोभिः । गवे । गोभ्याम् । गोभ्यः । ङसिङसोरलोपश्चेति वर्तते । 

गोश्च २०८ ॥ 

गोशब्दात्परयोसिङसोरकारो लोपमापद्यते । गोः । गोभ्याम् । गोभ्यः । गोः । गवोः । गवाम् । गवि । गवोः । गोषु । इत्योकारान्तः । औकारान्तः पुल्लिङ्गो ग्लौशब्द: । ग्लौः । ग्लावौ । ग्लावः । सम्बोधनेऽपि तद्वत् । ग्लावम् । ग्लावौ । ग्लाव: ग्लावा ग्लौभ्याम् । ग्लौभिः । इत्यादि । इत्यौकारान्तः ।

इति स्वरान्ताः पुल्लिङ्गाः।

अथ स्वरान्ताः स्त्रीलिङ्गा उच्यन्ते।

अकारान्त स्त्रीलिङ्गोऽप्रसिद्धः । आकारान्तः स्त्रीलिङ्गो रम्भाशब्दः । सौ। 

श्रद्धा ॥ २०९  

आकारान्तः स्त्र्याख्यः श्रद्धासंज्ञो भवति । 

श्रद्धायाः सिर्लोपम्२९० ॥ 

श्रद्धया परः सिर्लोपमापद्यते। रम्भा।

औरिम् ।।२११ ॥ 

श्रद्धायाः पर औरिमापद्यते । रम्भे । रम्भाः । 

सम्बुद्धौ च ॥ २१२  

श्रद्धाया एत्वं भवति सम्बुद्धौ परे । हे रम्भे हे रम्भे । हे रम्भाः । रम्भां रम्भे । रम्भाः । 

टौसोरे ॥ ११३  

श्रद्धाया एत्वं भवति टौसोः परतः । रम्भया । रम्भाभ्याम् । रम्भाभिः । ङ्वत्सु । 

ङ्वन्ति यैयास्यास्याम् ॥ २१४ ॥ 

श्रद्धायाः पराणि उन्वन्ति वचनानि यै यास् यास् याम् भवन्ति यथासंख्यम् । रम्भाभ्याम् । रम्भाभ्यः । रम्भायाः । रम्भाभ्याम् । रम्भाभ्यः । रम्भायाः । रम्भयोः । रम्भाणाम् । रम्भायाम् । रम्भयोः । रम्भासु । एवं शाला माला दोला भार्या कान्ता अङ्गना वनिता जाया माया प्रभृतयः । सर्वनाम्नस्त्रिलिङ्गत्वात्स्त्रीलिङ्गे । 

स्त्रियामादा ।।२१५ ।। 

स्त्रियां वर्तमानादकारान्तादाप्रत्ययो भवति विभक्तिपरे । सर्वा। सर्वे सर्वाः । हे सर्वे । हे सर्वे । हे सर्वाः । सर्वाम् । सर्वे । सर्वाः । सर्वया । सर्वाभ्याम् । सर्वाभिः । ङवत्सु । 

सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च ॥ २१६ ॥ 

सर्वनाम्नः श्रद्धायाः पराणि ङवन्ति वचनानि यै यास याम् भवन्ति यथासंख्यं सह सुना ह्रस्वपूर्वाश्च । सर्वस्यै । सर्वाभ्याम् । सर्वाभ्य: । सर्वस्याः । सर्वाभ्याम् । सर्वाभ्य: । सर्वस्याः । सर्वयोः । आमि। सुरामि सर्वतः । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादीनामेकशब्दपर्यन्तानां रूपं ज्ञेयम् । अल्पादीनां तु सप्तानां रम्भाशब्दवत् । अल्प प्रथम चरम तय अय कतिपय अर्य एते सप्त। द्वितीयाशब्दस्य तु भेदः । द्वितीया । द्वितीये । द्वितीयाः । हे द्वितीये । हे द्वितीये । हे द्वितीयाः । द्वितीयाम् । द्वितीये ।  द्वितीयाः । द्वितीयया । द्वितीयाभ्याम् । द्वितीयाभिः । उवत्सु । 

द्वितीयातृतीयाभ्यां वा ॥ २१७ ॥  

द्वितीयातृतीयाभ्यां पराणि इवन्ति वचनानि यै यास् यास् याम् भवन्ति यथासंख्यं सह सुना इस्वपूर्वाश्च वा । द्वितीयस्यै, द्वितीयायै । द्वितीयाभ्याम् । द्वितीयाभ्यः । द्वितीयस्याः, द्वितीयायाः । द्वितीयाभ्याम्, द्वितीयाभ्यः । द्वितीयस्याः द्वितीयायाः । द्वितीययोः । सर्वादौ अपठितत्वात् न सुरागमः । द्वितीयानाम्। द्वितीयस्याम् द्वितीयायाम् । द्वितीययोः । द्वितीयासु । एवं तृतीयाशब्दोऽपि । अन्यत्र रम्भाशब्दवत् । जराशब्दस्य तु भेदः । व्यञ्जने रम्भाशब्दवत् । 

जरा जरः स्वरे वा ।।२१८ ॥ 

जराशब्दों जरस् वा भवति विभक्तिस्वरे परे । जरे, जरसौ । जराः, जरसः । हे जरे । हे जरे, हे जरसौ हे जराः हे जरसः । जरां, जरसं । जरे, जरसौ। जराः, जरसः । जरसा, जरया । जराभ्याम् । जराभिः । जरायै, जरसे। जराभ्याम् । जराभ्यः । जराया: जरसः । जराभ्यां जराभ्यः । जराया: जरसः । जरयोः, जरसोः । जराणाम्, जरसाम् । जरायां, जरसि । जरयो:, जरसोः । जरासु । 

ह्रस्वोऽम्बार्थानाम् ॥ २१९ ॥ 

अम्बार्थानां द्विस्वराणां श्रद्धासंज्ञकानां सम्बुद्धौ ह्रस्वो भवति । हे अम्ब । हे अक्क। हे अल्ल । हे अत्त । एवमादयोऽम्बार्थाः । अन्यत्र रम्भाशब्दवत् । 

बहुस्वराणाम् ॥ २२०  

बहुस्वराणामम्बार्थानां श्रद्धासंज्ञकानां ह्रस्वो न भवति सम्बुद्धौ सौ परे । हे अम्बाडे । हे अम्बाले । हे अम्बिके । इत्याकारान्ताः । इकारान्तः स्त्रीलिङ्गो रुचिशब्दः । रुचिः । रुची | रुचयः । हे रुचे | हे रुची । हे रुचयः । रुचिम् । रुची । स्त्रीलिङ्गत्वात्सस्य नत्वाभावः । रुचीः । तृतीयैकवचनेऽपि तस्मान्नत्वाभावः । रुच्या | रुचिभ्याम् । रुचिभिः । ङवत्सु । 

हस्वश्च ङवति ॥ २२९ ॥ 

स्त्र्याख्यावियुवौ स्थानिनौ च ह्रस्वश्च ङवति परे नदीसंज्ञौ वा भवतः । यत्र नदीसंज्ञा तत्र । 

माता अर्थ के वाचक दो स्वर वाले श्रद्धासंज्ञक शब्दों को संबुद्धि

नद्या ऐआसासाम् ॥ २२२  

नदीसंज्ञकात्पराणि ङवन्ति वचनानि ऐ आस् आस् आम् भवन्ति यथासंख्यम् । नदीसंज्ञाभावे मुनिशब्दवत् । रुच्यै, रुचये । रुचीभ्याम् । रुचिभ्यः । रुच्याः, रुचेः । रुचिभ्याम् । रुचिभ्यः । रुच्याः, रुचेः । रुच्योः । रुचीनाम् । रुच्याम्, रुचौ । रुच्चोः । रुचिषु । एवं बुद्धि वृद्धि कीर्ति कान्ति कृति युक्ति श्रेणि पङ्क्ति प्रभृतयः । द्विशब्दस्य तु भेदः । त्यदादित्वात् अ आदेश आ प्रत्ययश्च | द्वे । हे द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । त्रिशब्दस्य तु भेदः । 

त्रिचतुरोः स्त्रियां तिसृचतसृ विभक्तौ २२३  

स्त्रियां वर्तमानयोस्त्रिचत्वार्शब्दयोः तिसृ चतसृ आदेशौ भवतः विभक्तौ परतः । धुटि चेत्यरि प्राप्ते बाधकबाधनार्थोऽयं योगः । 

तौ रं स्वरे २२४ ॥ 

तौ तिसृ चतसृ आदेशौ रं प्राप्नुतो विभक्तौ स्वरे परे । तिस्रः । हे तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । तिसृभ्यः । 

न नामि दीर्घम् २२५  

तौ तिसृ चतसृ आदेशौ दीर्घत्वं न प्राप्नुवतः सनावामि परे । तिसृणाम्। तिसृषु । इति इकारान्तः । ईकारान्त: स्त्रीलिङ्गो नदीशब्दः । 

ईदूतो स्त्र्याख्यौ नदी ।। २२६ ॥ 

स्त्र्याख्यावीदूतौ नदीसंज्ञौ भवतः । 

ईकारान्तात्सिः ॥ २२७ ॥ 

नदीसंज्ञकादीकारान्तात्परः सिर्लोपमापद्यते । नदीसंज्ञादन्तग्रहणाधिक्यान्नदाद्यञ्चीत्यादिना 

विहितादीकारात्पर: सिल्लीपभापद्यते । नदी । नद्यौ । नद्यः । 

संबुद्धौ ह्रस्वः ॥ २२८  

नद्याः संबुद्धौ ह्रस्वो भवति । हे नदि । हे नद्यौ । है नद्यः । 

अम्शसोरादिर्लोपम् ॥ २२९  

नदीसंज्ञकात्परयोः अम्शसोरादिर्लोपमापद्यते । नदीम्। नद्यौ । नदीः । नद्या । नदीभ्याम् । नदीभिः । ङवत्सु । नद्या ऐआसासामित्यादयः । नद्यै । नदीभ्याम् । नदीभ्यः । नद्याः । नदीभ्याम् । नदीभ्यः । नद्याः । नद्योः । नदीनाम् । नद्याम् । नद्योः । नदीषु । एवं गौरी गान्धारी वाणी भारती गायत्री सावित्री सरस्वती गोमती गोमिनी भामिनि काष्ट्री महिषी मही प्लवी सौरभेयी प्रभृतयः ॥  

मही मन्दाकिनी गौरी सखी भागीरथी नदी

पुरी नारी पुरन्ध्री च सैरन्ध्री सुरसुन्दरी ॥१

मृगी वनचरी देवी शर्वरी वरवर्णिनी ।

सिंही हैमवती धात्री धरित्रीत्येवमादयः ॥

स्त्रीशब्दस्य तु भेदः । सौ-  

स्त्री नदीवत् २३०  

स्त्रीशब्दो नदीवद्भवति विभक्तौ परतः । स्त्रीशब्दस्य पृथक्नदीसंज्ञाकरणं किमर्थं ? ह्रस्वश्च वति वा इति सूत्रोक्तविकल्पनिषेधार्थम् । स्त्री । 

स्त्री च ॥ २३९  

स्त्रीशब्दो धातुवद्भवति विभक्तिस्वरे परे । स्त्रियौ । स्त्रियः । हे त्रि । हे स्त्रियौ । हे स्त्रियः । 

वाम्शसौः ||२३२ ॥ 

स्त्रीशब्दो वा धातुवद्भवति अम्शसोः परतः । स्त्रीम् स्त्रियम् । स्त्रियौ । स्त्री स्त्रियः । स्त्रिया । स्त्रीभ्याम् । स्त्रीभिः । स्त्रियै । स्त्रीभ्याम् । स्त्रीभ्यः । स्त्रियाः । स्त्रीभ्याम् । स्त्रीभ्यः । स्त्रियाः । स्त्रियोः । स्त्रीणाम् । स्त्रियां । स्त्रियोः । स्त्रीषु । श्रीशब्दस्य तु भेदः । श्रीः । ईदूतोरियुवौ स्वरे इति स्वरादावियादेशः । श्रियो । श्रियः । अनित्यनदीत्वात्संबुद्धी ह्रस्वो नास्ति । हे श्रीः । हे श्रियौ । हे श्रियः । श्रियम् । श्रियौ । श्रियः । श्रिया । श्रीभ्याम् । श्रीभिः । डवत्सु — नद्या ऐआसासाम्। पश्चादीदूतोरियुवौ स्वरे । नदीपक्षे ऐआसादय: । श्रियै, श्रिये । श्रीभ्याम् । श्रीभ्यः । श्रिया, श्रियः । श्रभ्याम् । श्रीभ्यः । श्रियाः श्रियः । श्रियो: । आमि। 

स्त्र्याख्यावियुवौ वामि ॥ २३३ ॥ 

स्त्र्याख्यावियुवस्थानिनौ आमि परे वा नदीसंज्ञौ भवतः । सिद्धे सत्यारम्भो नियमाय । कि नदीवत्कार्यं आमि च नुः इति नुरागमः । अन्यत्र “ईदूतोरियुवौ स्वरे” इति इय् उव् । श्रीणाम् श्रियाम् । श्रियाम् श्रियि । श्रियोः । श्रीषु । लक्ष्मीशब्दस्य तु भेदः । लक्ष दर्शनाङ्कनयोः । 

लक्षेरीमोऽन्तश्च ॥ २३४ ॥ 

लक्षधातोरीप्रत्ययो भवति मोऽन्तश्च ॥ ईकारोऽन्ते यस्य लिङ्गस्येति वचनात् ईकारान्तात्सिरिति सेलोपो न भवति । 

अवीलक्ष्मीतरीतन्त्रीह्रीधीश्रीणामुणादितः

अपि स्त्रीलिङ्गजातीनां सिलोपो न कदाचन ॥१ ॥

लक्ष्मीः । लक्ष्म्यौ । लक्ष्म्यः । अन्यत्र नदीशब्दवत् । इति ईकारान्ताः । उकारान्तः स्त्रीलिङ्गश्चञ्चुशब्दः । स च रुचिशब्दवत् । विशेषस्तु उत ओत्वमवादेशश्च । चञ्चुः । चञ्चू । चञ्चवः । हे चञ्चो । हे चञ्चू । हे चञ्चवः । चञ्चुम् । चञ्चू । चञ्चूः । चञ्च्वा । चञ्चुभ्याम् । चञ्चुभिः । ह्रस्वश्च ङवतीति वा नदीवद्भावादैआसादयः । पक्षे भानुशब्दवत् । चञ्च्वै, चञ्चवे । चञ्चुभ्याम् । चञ्चुभ्यः । चञ्च्वाः, चञ्चोः । चञ्चुभ्याम् । चञ्चुभ्यः । चञ्च्वाः, चञ्चोः । चञ्च्वोः । चञ्चूणाम् । चञ्च्वाम्, चञ्चौ । चञ्च्वोः । चञ्चषु । एवं उडु तनु प्रियङ्ग स्नायु ऊरु करेणु धेनुप्रभृतयः । इत्युकारान्ताः ॥ ऊकारान्तः स्त्रीलिङ्गो वधूशब्दः । सौ- अनीकारान्तत्वात् ईकारान्तात्सिरिति सेलोपो न भवति । वधूः । वध्वौ । वध्वः । संबुद्धौ ह्रस्वः । हे वधु । हे वध्र्वौ । हे वध्वः । अन्यत्र नदीवत् । एवं अलाबू कच्छू यवागू चमू तण्डू कमण्डलू कद्रू कण्डू कासूप्रभृतयः भ्रूशब्दस्य तु भेदः 1 सौ-भ्रूः 1 

भ्रूर्धातुवत् ।। २३५ ।। 

भ्रूशब्दो धातुवद्भवति विभक्तिस्वरे परे । भ्रुवौ । ध्रुवः । सम्बोधनेऽप्यनित्यनदीत्वात् संबुद्धौ ह्रस्वो नास्ति । अन्यत्र नदीवत् । हे भ्रूः । हे भ्रुवौ । हे भ्रुवः । भ्रुवम् । भ्रुवौ भुवः । भ्रुवा । भ्रूभ्याम् । भ्रूभिः । भ्रुवे, भ्रुवै । भ्रूभ्याम् । भ्रूभ्यः । भ्रुवा भ्रुवः । भ्रूभ्याम् । भ्रूभ्यः । ध्रुवा ध्रुवः । भ्रुवोः । भ्रूणाम् । भुवि, भ्रुवाम् । भ्रुवोः । भ्रूषु । इत्यूकारान्ताः ॥ ऋकारान्तः स्त्रीलिङ्गो मातृशब्दः । माता। मातारौ । मातरः । हे मातः । हे मातरौ । हे मातरः । मातरम् । मातरौ । मातृः । स्त्रीलिङ्गत्वात्सस्य नत्वाभावः । इत्यादि । अन्यत्र पितृशब्दवत् । एवं दुहितृ ननान्दृप्रभृतयः । स्वस्रादीनां च पूर्ववत् । स्वस्रादयः के ? 

स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ।

याता मातेति सप्तैते स्वस्त्रादिष्वध्यगीषत ११

शमादौ मातृशब्दवत् । इति ऋकारान्ताः । ऋकार ऌकार ॡकार एकारान्ता अप्रसिद्धाः । ऐकारान्तः स्त्रीलिङ्गो सुरैशब्दः । स च रैशब्दवत् । सुराः सुरायौ सुरायः । सम्बोधनेऽपि तद्वत् । सुरायम् सुरायौ सुरायः । सुराया सुराभ्याम् सुराभिः । सुराये सुराभ्याम् सुराभ्यः । सुरायः सुराभ्याम् सुराभ्यः । सुरायः सुरायोः सुरायाम् । सुरायि सुरायोः सुरासु । इत्यैकारान्ता: । ओकारान्तः स्त्रीलिङ्गो गोशब्दः । स च पूर्ववत् । अकारान्त स्त्रीलिङ्गो नौशब्दः । स च ग्लौशब्दवत् । इत्यौकारान्ताः । 

इति स्वरान्ताः स्त्रीलिङ्गाः।

अथ स्वरान्ता नपुंसकलिङ्गा उच्यन्ते।

अकारान्त नपुंसकलिङ्गः कुलशब्दः । सौ— 

अकारादसम्बुद्धौ मुश्च ॥ २३६ ॥ 

अकारान्तात्रपुंसकलिङ्गात्परयोः स्यमोर्लोपो भवति मुरागमश्चासम्बुद्धौ । कुलं । 

औरीम् ॥ २३७ ॥ 

नपुंसकलिङ्गात्पर: औरीमापद्यते । कुले । 

जस्शसौ नपुंसके ॥ २३८ ॥ 

जस्शसौ नपुंसकलिङ्गे घुट्संज्ञौ भवतः । 

जस्शसोः शिः || २३९  

सर्वनपुंसकलिङ्गात्परयोर्जस्शसोः शिर्भवति । शकारः सर्वादेशार्थः । 

धुट्स्वराधुटि नुः ॥ २४०  

धुटः पूर्व: स्वरात्परश्च नपुंसकलिङ्गे धुटि परे नुरागमो भवति । धुटि चासम्बुद्धौ इति दीर्घः । कुलानि । हे कुल । हे कुले। हे कुलानि । पुनरपि कुलम् । कुले । कुलानि । कुलेन । कुलाभ्याम् । कुलैः । अतःपरं पुरुषशब्दवत् । एवं दान धन धान्य मित्र वस्त्र वसन वदन नयन पुण्य पाप सुख दुःखादयः । सर्वनाम्नः प्रथमाद्वितीययोः कुलशब्दवत् । सर्वम् । सर्वे । सर्वाणि । पुनरपि । अन्यत्र पुंलिङ्गवत् । अन्यशब्दस्य तु भेदः । 

अन्यादेस्तु तुः ॥२४१ ॥ 

अन्यादेर्नपुंसकलिङ्गात्परयोः स्वमोर्लोपो भवति तुरागमश्च । द्वितीयस्तुशब्दः किमर्थम् ? असम्बुद्ध्यधिकारनिवृत्त्यर्थम् । 

वा विरामे ।। २४२ ।। 

विरामे धुटां प्रथमस्तृतीयो वा भवति । अन्यत्, अन्यद् । अन्ये । अन्यानि । हे अन्यद्, हे अन्यत् । हे अन्ये । हे अन्यानि ॥ शेषं पुंवत् । एवमेकतरं वर्जयित्वान्यतरप्रभृतयः । 

नैकतरस्य ॥ २४३  

एकतरशब्दस्य नपुंसकलिङ्गे तुरागमो न भवति । एकतरम्। एकतरे । एकतराणि । हे एकतर । हे एकतरे । हे एकतराणि । पुनरपि । अन्यत्र सर्वशब्दवत् । इत्यकारान्ताः । आकारान्तो नपुंसकलिंग: सोमपाशब्दः । 

स्वरे ह्रस्वो नपुंसके ॥ २४४  

नपुंसकलिङ्गे वर्तमानः स्वरो ह्रस्वो भवति । सोमपम् । सोमपे । सोमपानि । हे सोमप । हे सोमपे ! हे सोमपानि । पुनरपि । सोमपं । सोमपे । सोमपानि । शेषं पुल्लिङ्गवत् । इत्याकारान्ताः । इकारान्तो नपुंसकलिङ्गो वारिशब्दः । सौ– 

नपुंसकात्स्यमोलोपो न च तदुक्तं ॥ २४५  

नपुंसकात्परयोः स्यमोर्लोपो भवति तदुक्तं कार्यं न भवति । वारि । 

नामिनः स्वरे ॥ २४६ ॥ 

नाम्यन्तान्नपुंसकलिङ्गान्नुरागमो भवति स्वरे परे। औरीमिति ईत्वं णत्त्वञ्च । वारिणी । जसि पूर्ववत् । नुरागमः । सामान्यविशेषयोर्विशेषो विधिर्बलवान् इति न्यायात् । उक्तञ्च । 

सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् ।

परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥ १ ॥

धुट्स्वराद्धुटि नुः इत्यनेन सूत्रेण नुरागमो भवतीत्यर्थः ॥ 

इन्हन्पूषार्यम्णां शौ च ॥ २४७ ॥ 

इन् हन् पूषन् अर्यमन् इत्येतेषामुपधाया दीर्घो भवति नपुंसकलिङ्गे जस्शसोरादेशे शौ चासम्बुद्धौ सौ च परे । वारीणि । 

नाम्यन्तचतुरां वा ॥ २४८ ॥ 

नाम्यन्तस्य नपुंसकलिङ्गस्य चत्वार्-शब्दस्य च यदुक्तं कार्यं तद् वा भवति सम्बुद्धौ परे । प्रत्ययलोपे प्रत्ययलक्षणं न याति इति न्यायात् हे वारि, हे वारे । हे वारिणी । हे वारीणि । पुनरपि वारि । वारिणी । वारीणि । वारिणा । वारिभ्याम् । वारिभिः । वारिणे । वारिभ्याम् । वारिभ्यः । वारिणः । इत्यादि । आमि । ‘नामिन: स्वरे’ प्राप्ते सति सामान्यविशेषयोर्विशेषो विधिर्बलवान् इति न्यायात् आमि च नुरिति नुरागमो भवति । दीर्घमामि सनौ । वारीणाम् । वारिणि । वारिणोः । वारिषु । अस्थि दधि सक्थि अक्षिशब्दानां प्रथमाद्वितीययोर्वारिशब्दवत् । अस्थि । अस्थिनी । अस्थीनि । पुनरपि अस्थि । अस्थिनी । अस्थीनि । 

टादौ– 

अस्थिदधिसक्थ्यक्ष्णामनन्तष्टादौ ॥ २४९ ॥ 

नपुंसकलिंगानामस्थ्यादीनामन्तोऽन् भवति टादौ स्वरे परे । 

अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ ॥ २५०  

अवमसंयोगात्परस्य अनोऽकारस्य लोपो भवति अघुटि स्वरे परे स चालुप्तवद्भवति पूर्वस्य वर्णस्य विधौ कर्तव्ये । अस्थ्ना। अस्थिभ्याम् । अस्थिभिः । अस्थ्ने । अस्थिभ्याम् । अस्थिभ्यः । अस्थ्नः । अस्थिभ्याम् । अस्थिभ्यः । अस्थ्नः । अस्थ्नोः । अस्थ्नाम् । 

ईङ्यर्वा २५१  

अवमसंयोगात्परस्य अनोऽकारस्य लोपो भवति वा ईङ्योः नपुंसकलिंगे औकारादेशे ईकारे सप्तम्येकवचने परतः स चालुप्तवद्भवति पूर्वस्य वर्णस्य विधौ कर्तव्ये । अस्थ्नि, अस्थनि । अस्थ्नोः । अस्थिषु । एवं दधि सक्थि अक्षिशब्दाः । शुचिशब्दस्य प्रथमाद्वितीययोर्वारिशब्दवत् । शुचि । शुचिनी । शुचीनि । सम्बुद्धावविशेषः । पुनरपि- शुचि । शुचिनी । शुचीनि । 

टादौ भाषितपुंस्कं पुंवद्वा ॥ २५२  

नाम्यन्तं भाषितपुंस्कं नपुंसकलिङ्गं टादौ स्वरे वा पुंवद्भवति । 

यनिमित्तमुपादाय पुंसि लिङ्गे प्रवर्तते ।

क्लीबवृत्तौ तदेव स्यात्तद्धि भाषितपुंसकम् ॥ १ ॥

शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता ।

शुचिर्धर्मपरो राजा ब्रह्मचारी सदा शुचिः ॥ २

शुच्या, शुचिना | शुचिभ्यां । शुचिभिः । शुचिने, शुचये । शुचिभ्याम् | शुचिभ्यः । इत्यादि । द्विशब्दस्य तु भेदः । त्यदाद्यत्वं औरीमिति ईत्वं च । द्वे । हे द्वे द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । त्रिशब्दस्य जस्शसोर्वारिशब्दवत् । त्रीणि त्रीणि । त्रिभिः । अन्यत्र पुंलिङ्गवत् इति इकारान्ताः । ईकारान्तो नपुंसकलिङ्गो ग्रामणीशब्दः । तस्य स्वरो ह्रस्वो नपुंसके इति ह्रस्वत्वे शुचिशब्दवत् । टादौ भाषितपुंस्कं पुंवद्भावो भवति विकल्पेन । ग्रामणि । ग्रामणिनी। ग्रामणीनि । पुनरपि ग्रामणि । ग्रामणिनी। ग्रामणीनि । ग्रामणिना । अनेकाक्षरयोस्त्वसंयोगाद् य्वौ इति यत्वम् । ग्रामण्या। ग्रामणिभ्याम् । ग्रामणिभिः । ग्रामणिने । ग्रामणिभ्याम् । ग्रामणिभ्यः । इत्यादि । आमिनुरागमः । दीर्घमामि सनौ इति दीर्घः । ग्रामणीनाम् । पुंवद्भावे । ग्रामण्याम् । ग्रामणिनि । पुंवति- नियो ङिराम् इति आम् । यत्त्वं पूर्ववत् । ग्रामण्याम् । ग्रामणिनोः, ग्रामण्योः । ग्रामणिषु सम्बोधने-नाम्यन्तचतुरां वा । हे ग्रामणे, हे ग्रामणि । हे ग्रामणिनी । हे ग्रामणोनि । एवमग्रणी सेनानीप्रभृतयः ॥ इति ईकारान्ता । उकारान्तो नपुंसकलिङ्गो वस्तुशब्दः । स च वारिशब्दवत् । वस्तु । वस्तुनी । वस्तूनि । सम्बोधने हे वस्तु, हे वस्तो ! वस्तुनी हे वस्तूनि । पुनरपि । टादौ स्वरे परे नित्यं नपुंसकं। आमि परे-आमि च नुः । दीर्घमामि सनौ इति दीर्घः । वस्तूनां । वस्तुनि । वस्तुनोः । वस्तुषु । मृदुशब्दस्य प्रथमाद्वितीययोर्वारिशब्दवत् । मृदु । 

। 

| । 

मृदुनी। मृदूनि पुनरपि टादौ स्वरे परे भाषितपुंस्कं पुंवद्वा इति विकल्पेन पुंवद्भावः । शुचिवत् । मृदुना । मृदुभ्यां । मृदुभिः । इत्यादि । एवं पटु लघु गुरु प्रभृतयः । इत्युकारान्ताः । उकारान्त नपुंसकलिङ्गः खलपूशब्द: । तस्य स्वरो ह्रस्वो नपुंसके इति ह्रस्वत्वे सेनानीशब्दवत् । खलपु । खलपुनी । खलपूनि । पुनरपि । तादौ भाषितपुंस्कमिति विकल्पेन यत्र पुंवद्भावस्तत्र सेनानीशब्दवत् । खलपुना, खलप्वा । खलपूभ्यां । खलपूभिः । इत्यादि । एवं सरलू । काण्डलू प्रभृतयः । इत्यूकारान्ता । ऋकारान्तो नपुंसकलिङ्गः कर्तृशब्दः । तस्य प्रथमाद्वितीययोर्वारिशब्दवत् । कर्तृ । कर्तृणी । कर्तॄणि। पुनरपि टादौ पुंवद्भावात्पुल्लिङ्गवद्वा । कर्त्रा, कर्तृणा । कर्तृभ्यां । कर्तृभिः । कर्त्रे, कर्तृणे । कर्तृभ्यां । कर्तृभ्यः । कर्तुः,कर्तृणः । कर्तृभ्यां । कर्तृभ्यः । कर्तुः कर्तृणः । कर्तृभ्यां । कर्तृभ्यः । कर्तुः कर्तृणः । कर्त्रोः, कर्तृणो: । आमि परे नुरागमः । कर्तॄणाम् । कर्तृणि, कर्तरि । कर्त्रोः कर्तृणोः । कर्तृषु।  सम्बोधने – हे कर्तृ, हे कर्तः । हे कर्तृणी । हे कर्तॄणि । बहुकोष्टृशब्दस्य तु भेदः । क्रोष्टुः ऋत उत्सम्बुद्धौ इत्यादिना उर्भवति । शसि व्यञ्जने नपुंसके च इति ऋत उकारः । बहुक्रोष्टु । बहुक्रोष्टुनी । बहुक्रोष्टूनि । पुनरपि । टादौ स्वरे भाषितपुंस्कं पुंवद्वा इति विकल्पेन पुंवद्भावः अयमेकविकल्पः । 

टादौ स्वरे वा ॥ २०२  

क्रोष्टशब्दस्य ऋत उर्वा भवति दादौ स्वरे परे । इति द्वितीयविकल्पः । इति उभयविकल्पे त्रैरूप्यं । बहुकोष्टुना, बहुक्रोष्ट्वा, बहुकोष्ट्रा । बहुक्रोष्टुभ्यां । बहुक्रोष्टुभिः । इत्यादि । सम्बोधने । हे बहुक्रोष्टु, बहुकोष्टो । हे बहुक्रोष्टुनी । हे बहुक्रोष्टूनि । इत्यादि । ऋकार ऌकार ॡकारान्ता एकारान्ताश्चाप्रसिद्धाः ।। ऐकारान्त नपुंसकलिङ्गो अतिरैशब्दः । तस्य ह्रस्वत्वे- 

सन्ध्यक्षराणामिदुतौ हस्वादेशे २५३  

सन्ध्यक्षराणां हृस्वादेशे सति इदुतौ भवतः । तपरकरणमसन्देहार्थं । इति एकारस्यैकारस्य च ह्रस्व इकारः । ओकारस्यौकारस्य च हस्व उकारः । अतिरि । नामिनः स्वरे इति नुरागमः । अतिरिणी । अतिरीणि। पुनरपि । टादौ स्वरे भाषितपुंस्कं पुंवद्रा इति विकल्पेन पुंवद्भावः । यत्र पुंवद्भावस्तत्र सुरैशब्दवत् । अतिरिणा, अतिराया। व्यञ्जनादौ प्रत्यये परे रैरिति आत्वं । कुतः ? एकदेशविकृतमनन्यवत् इति न्यायात् । अतिराभ्यां । अतिराभिः । अतिरिणे, अतिराये। अतिराभ्यां । अतिराभ्यः । इत्यादि । इति ऐकारान्ता: । ओकारान्तो नपुंसकलिङ्गश्चित्रगोशब्दः । तत्र ओकारस्य ह्रस्व उकारः । मृदुशब्दवत् । चित्रगु । 

चित्रगुणी। चित्रगुणि। पुनरपि । टादौ स्वरे भाषितपुंस्कं पुंवद्वा इति विकल्पः । चित्रगुणा, चित्रगवा इत्यादि । इति औकारान्ताः । औकारान्तो नपुंसकलिङ्गोऽतिनौशब्दः । तत्रापि औकारस्य ह्रस्व उकारः । तस्य प्रथमाद्वितीययोर्वारिशब्दवत् । अतिनु । अतिनुनी। अतिनूनि । पुनरपि । टादौ स्वरे भाषितपुंस्कं पुंवद्वा इति विकल्पः । अतिनुना, अतिनावा । इत्यादि । इत्यौकारान्ताः ॥ 

इति स्वरान्ता नपुंसकलिङ्गाः

अथ व्यञ्जनान्ताः पुल्लिङ्गशब्दा यथाक्रमेणोच्यन्ते

कवर्गान्ता: पुल्लिङ्गशब्दा अप्रसिद्धाः । चकारान्तः पुल्लिङ्गः सुवाच्शब्दः । सौ— व्यञ्जनाच्चेति सिलोपः । दादेर्हस्य ग इत्यनुवर्तते । 

चवर्गदृगादीनां च ।। २५४ ॥ 

चवर्गान्तस्य दृश् इत्येवमादीनां च गो भवति विरामे व्यञ्जनादौ च । 

पदान्ते धुटां प्रथमः ॥७६ ॥ 

पदान्ते वर्तमानानां धुटां वर्णानां प्रथमो भवति अघोषे । प्रथम इत्यनुवर्तते । 

वा विरामे ॥ २४२ ॥ 

विरामे धुटा प्रथमस्तृतीयश्च वा भवति । सुवाक् सुवाग, सुवाचौ। सुवाचः । एवं सम्बुद्धौ । सुवाचं । सुवाचौ। सुवाचः । सुवाचा। सुवारभ्यां । सुवाग्भिः । सुवाचे । सुवाग्भ्यां । सुवारभ्यः । सुवाचः । सुवाचो: । सुवाचां । सुवाचि । सुवाचो: । सुपि । गत्वं । 

अघोषे प्रथमः ।। २५५  

अघोषे परे धुटां प्रथमो भवति । इति कत्वं । नामिकरेत्यादिना सस्य षत्वं । 

कषयोगे क्षः ॥ २५६  

ककारषकारयोर्योगे क्षो भवति सुवाक्षु । 

कवर्गप्रथमः शषसेषु द्वितीयो वा ॥ २५७ ॥ 

कवर्गप्रथमस्य द्वितीयो भवति शषसेषु परतो वा । सुवाख्सु । प्रत्यञ्चशब्दस्य तु भेदः । चवर्गदृगादीनां चेत्यत्र चवर्गग्रहणबलादञ्च् युज् क्रुश्शां प्रागेव गत्वं । 

मनोरनुस्वारो धुटि ॥ २५८  

अनन्त्ययोर्मकारनकारयोरनुस्वारो भवति धुटि परे । 

वर्गे वर्गान्तः ॥ २५९  

अनुस्वारो वर्गे परे वर्गान्तो भवति । 

संयोगान्तस्य लोपः || २६० ॥ 

पदस्य संयोगान्तस्य लोपो भवति विरामे व्यञ्जनादौ च । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चं । प्रत्यञ्चौ । 

व्यञ्जनान्नोऽनुषङ्गः ॥२६१ ॥ 

धातुलिङ्गयोरन्त्याद्व्यञ्जनाद्यः पूर्वो नकारः सोऽनुषङ्गसंज्ञो भवति । अधुट् स्वरे लोपमित्यनुवर्तते । व्यञ्जने चैषां निरति च । 

अनुषङ्गञ्चाकुञ्चेत् ॥ २६२ ॥ 

अक्रुश्चेरिदनुबन्धवर्जितस्यानुषङ्गो लोपमापद्यते अघुट्स्वरे

अञ्चेरलोपः पूर्वस्य च दीर्घः ॥ २६३  

अञ्चेरलोपो भवति पूर्वस्य च दीर्घो भवति अघुट् स्वरादौ प्रतीचः । प्रतीचा । प्रत्यग्भ्यां । प्रत्यग्भिः । इत्यादि । एवं प्राञ्च् सम्यञ्च् प्रभृतयः । अक्रुश्चेरिति किं ? क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुञ्चं । क्रुञ्चौ । क्रुञ्चः । क्रुञ्चा क्रुङ्भ्यां । क्रुङ्भिः । सप्तम्यां तु- 

ङात् ॥ २६४ ॥ 

ङात्परस्य सस्य षो भवति । क्रुङ्षु । इत्यादिः । इदनुबन्धवर्जितस्येति किं ? सुकन्स्शब्दः । कसि गतिशासनयोः । अत एव वर्जनादिदनुबन्धानां धातूनां नुरागमोऽस्तीति । सूपूर्वकः सुष्ठु कंस्ते क्विप् । क्विप् सर्वापहारिलोपः । कृतद्धितसमासाचेति लिङ्गसंज्ञा । प्रथमैकवचनं सि । व्यञ्जनाच्चेति सेर्लोपः । मनोरनुस्वारे धुटि इति नकारस्यानुस्वारे प्राप्ते सर्वविधिभ्यो लोपविधिर्बलवानिति न्यायात् संयोगान्तस्य लोप इति नित्यं सकारलोपः । सुकन् । स्वरे परे मनोरनुस्वारो धुटि इति अनुस्वारः । महत्साहचर्याद्धातोदीर्घो न स्यात् । सुकंसौ । सुकंसः । सुकंसं सुकंसौ। सुकंसः । सुकंसा। सुकन्भ्यां । सुकन्भिः । इत्यादि । सम्बोधनेऽपि तद्वत् । 

नाञ्चे: पूजायां ।। २६५  

पूजार्थे वर्तमानस्य अञ्चेरनुषङ्गस्य लोपो न भवति अघुट्स्वरे व्यञ्जने च परे । प्राङ् । प्राञ्चौ । प्राञ्चः । हे प्राङ् । हे प्राची हे प्राञ्चः । प्राञ्चं । प्राञ्चौ । प्राञ्चः । प्राञ्चा। प्राङ्भ्याम् । प्राङ्भिः । इत्यादि । सुपि विशेषः । ङात्परस्य सस्य षो भवति । प्राङ्षु । अञ्जु गतिपूजनयोः । प्रपूर्वक: प्राञ्चतीति क्विप् सर्वापहारिलोपः । कृत्तद्धितसमासाश्चेति लिङ्गसंज्ञा । यत्र गत्यर्थस्तत्र अनुषङ्गञ्चाक्रुञ्चेत् इत्यनुषङ्गलोपः । यत्र पूजार्थस्तत्र नाञ्चे: पूजायामिति अघुट्स्वरे व्यञ्जने अनुषङ्गलोपो न भवति । अदद्र्यञ्चशब्दस्य तु भेदः । अञ्चु अदस्पूर्वः- अमुमञ्चतीति क्विप् चेति क्विप् प्रत्ययः । क्विपि सति- 

विष्वग्देवयोश्चान्त्यस्वरादेरद्र्यञ्चतौ क्वौ ॥ २६६ ॥ 

विष्वग्देवयोः सर्वनाम्नश्चान्त्यस्वरादेरवयवश्चाञ्चतौ क्विबन्ते परेऽद्रिरादेशो भवति । इति सकारसहितस्य अकारस्य अद्रिरादेशः । इवर्णो यत्वं । अदद्र्यञ्च इति स्थिते सति– 

अदद्र्यञ्चो दस्य बहुलं २६७ ॥ 

अद्र्योञ्चो दकारस्य बहुलं मकारो भवति, मात् परस्य रस्य उत्वं च । अदमुयङ् । अदमुयञ्चौ। अदमुयञ्चः । एवं सम्बुद्धौ । अदमुयञ्च । अदमुञ्चौ। 

नोतो वः ॥ २६८ ॥ 

अदद्य्रञ्च् इत्येतस्य उतो वत्वं च भवति । अनुषङ्गञ्चाक्रुञ्चेत् इति नलोपः । अञ्चेरलोपः पूर्वस्य च दीर्घ इति अकारलोपः पूर्वस्य च दीर्घो भवति । अदमुईचः । अदमुईचा अनुषङ्गञ्चाक्रुश्चेत् नलोपः । चवर्गद्गादीनां च गत्वं । अदमुयग्भ्यां । अदमुयग्भिः । पूर्ववत् अनुषङ्गलोपो गत्वं च । अघोषे प्रथमः । क् । नामिकरेत्यादिना षत्वं । अदमुयक्षु । अमुद्र्यङ् । अमुद्र्यञ्चौ । अमुद्र्यञ्चः । अमुद्र्यञ्चं । अमुद्र्यञ्चौ । अमुद्रीचः । अमुद्रीचा अमुद्र्यभ्यां । अमुद्र्यग्भिः । अमुद्र्यक्षु । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्च । अमुमुयञ्चं। अमुमुयञ्चौ। अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यां । अमुमुयग्भिः । अमुमुयक्षु । अदद्र्यङ् । अदद्र्यञ्चौ । अदद्र्यञ्चः। अदद्र्यञ्चं । अदद्र्यञ्चौ। अदद्रीच: । अदद्रीचा । अदद्य्रग्भ्यां । अदद्य्रग्भिः । अदद्य्रक्षु

परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः ।

उभयोः केचिदिच्छन्ति केचिन्नेच्छन्ति चोभयोः

उदञ्चशब्दस्य तु भेदः । उदङ् । उदञ्चौ । उदञ्चः । उदञ्चं । उदञ्चौ। शसादौ— 

उदङ् उदीचिः ॥ २६९  

उदङ् उदीचिर्भवति । अघुट्स्वरादौ । उदीचः । उदीचा । उदग्भ्यां । उदग्भिः । इत्यादि । तिर्यञ्च् शब्दस्य तु भेदः । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चं । तिर्यञ्चौ । शसादौ- 

तिर्यङ् तिरश्चिः ॥ २७०  

तिर्यङ्शब्दः तिरश्चिर्भवति अघुट्स्वरादौ । तिरश्चः । तिरश्चा। तिर्यग्भ्यां । तिर्यग्भिः । इत्यादि । छकारान्तः पुल्लिङ्गः प्राच्छ्शब्दः । सौ-विरामे व्यञ्जनादिष्विति वर्तते । 

हशषछान्तेजादीनां ङः ॥ २७१  

हशषछान्तानां यजादीनां च डो भवति विरामे व्यञ्जनादौ च। प्राट् प्राड् । द्विर्भावं स्वरपरश्छकारः । प्राच्छौ। प्राच्छः । संबोधनेऽपि तद्वत् । प्राच्छं । प्राच्छौ। प्राच्छः। प्राच्छा । प्राङ्भ्यां । प्राङ्भिः । इत्यादि । इति । छकारान्ताः । जकारान्तः पुल्लिङ्गो युज्शब्दः । 

युजेरसमासे नुघुटि || २७२ ।। 

युज्शब्दस्य असमासे नुरागमो भवति घुटि परे । 

आगम उदनुबन्धः स्वरादन्त्यात्परः ॥ २७३  

उदनुबन्ध आगमोऽन्त्यात्स्वरात् परो भवति । मित्रवदागमः । अथवा प्रकृतिप्रत्यययोरनुपघाती आगम उच्यते । शत्रुवदादेश: । युङ् । युञ्जौ । युञ्जः । सम्बोधनेऽपि तद्वत् । युञ्जं। युञ्जौ । युजः। युजा। युग्भ्यां । युग्भिः । इत्यादि । अश्वयुजादीनां समासत्वान्नुरागमो नास्ति । अश्वयुग् अश्वयुक् । अश्वयुजौ । अश्वयुजः । सम्बोधनेऽपि तद्वत् । इत्यादि । एवं ऋत्विज् गुणभाज् प्रभृतयः । साधुमस्ज् शब्दस्य तु भेदः । 

संयोगादेर्धुटः२७४ ॥ 

संयोगादेधुटो लोपो भवति विरामे व्यञ्जनादौ च । व्यञ्जनाच्च सिलोपश्चवर्गदृगादीनां च गकारककारौ । साधुमक्, साधुमम् । 

धुटां तृतीयः ।। २७५ ।। 

धुटां तृतीयो भवति घोषवति सामान्ये । इति सस्य तृतीयत्वे प्राप्ते लवर्णतवर्गलसा दन्त्या इति न्यायात् सकारस्य दकारः । तवर्गशटवर्गयोगे चटवर्गौ इति दकारस्य जकारः । साधुमज्जौ इत्यादि । देवेज्शब्दस्य तु भेदः । सौ-हशषछान्ते इत्यादिना डत्वं । देवेट् देवेड् । देवेजौ । देवेजः । सम्बोधनेऽपि तद्वत् । देवेजम् । देवेजौ । देवेजः । देवेजा। देवेड्भ्यां । देवेड्भिः । 

टात् सुप्तादिर्वा २७६  

टकारात्परः सुप् तादिर्वा भवति । तेन देवेट्त्सु देवेट्सु। एवं सम्राज्यभृतयः । झञटवर्गान्ता अप्रसिद्धाः । तकारान्तः पुल्लिङ्गो मरुत्शब्दः । मरुतु मरुद् । मरुतौ । मरुतः । संबोधनेऽपि तद्वत् । मरुतं । मरुतौ । मरुतः। मरुता । धुटां तृतीय इत्यनेन दत्वे मरुद्भ्याम् इत्यादि । उदनुबन्धस्य भवन्त्शब्दस्य तु भेदः । दीर्घमामि सनौ इति वर्तते । 

अन्त्वसन्तस्य चाधातोस्सौ ॥ २७७  

अन्तु अस् इत्येवमन्तस्याधातोरस्य दीर्घो सौ असम्बुद्धौ । लिङ्गान्तनकारस्य इति नकारस्य लोपे 

नसंयोगान्तावलुप्तवच्च पूर्वविधौ २७८ ॥ 

नकारसंयोगान्तौ लुप्तावप्यलुप्तवद्भवतः पूर्वविधौ दीर्घादिके कर्तव्ये । नकारग्रहणं राजन्शब्दार्थम् । भवान् । भवन्तौ । भवन्तः । 

भवतो वादेरुत्वं सम्बुद्धौ ॥ २७९ ॥ 

उदनुबन्धस्य भवन्त्शब्दस्य वादेरुत्वं भवति वा सम्बुद्धौ । हे भोः । सत्रिपातलक्षणविधिरनिमित्तं तद्विघातस्य । यो यमाश्रित्य समुत्पन्नः स तं प्रति सन्निपातः । हे भवन् । हे भवन्तौ । हे भवन्तः । भवन्तं । भवन्तौ । भवतः । भवता । भवद्भ्यां । भवद्भिः । इत्यादि । एवं भगवन्तु अघवन्त् शब्दौ । सम्बुद्धिं विना गोमन्त् धनवन्त् यावन्त् तावन्त् एतावन्त् इयन्त् कियन्त् प्रभृतयः । एते शब्दाः केन प्रकारेण सिद्धाः । भगं ज्ञानं । भगमस्यास्तीति भगवान् । अघं पापमस्यास्तीति अघवान् । गावोऽस्य सन्तीति गोमान् । धनमस्यास्तीति धनवान् । तदस्यास्तीति मंत्वंत्विन् इति वन्तुप्रत्ययः । 

यत्तदेतेभ्यो डावन्तुः ॥ २८०  

यद् तद् एतद् इत्येतेभ्यः परतो डावन्तुः प्रत्ययो भवति परिमाणेऽर्थे। डकार अनुबन्ध: । 

डानुबन्धेऽन्त्यस्वरादेर्लोपः ॥२८१  

डकार इति अन्त्यस्वरादेर्लोपार्थः । उकार उच्चारणार्थः । यत्परिमाणमस्य यावान्। तत्परिमाणमस्य तावान् । एतत्परिमाणमस्य एतावान् । 

इदमो डियन्तुः ॥ २८२  

इदमः परो डियन्तु प्रत्ययो भवति परिमाणेऽर्थे । डकार-उकारौ पूर्ववत् । इदं परिमाणमस्य इयान् । 

किमो डियन्तुः ॥ २८३  

किम: शब्दात्परो डियन्तुः प्रत्ययो भवति परिमाणेऽर्थे। डकार-उकारौ पूर्ववत् । किम्परिमाणमस्य कियान् । पूर्वमन्त्यस्वरादेर्लोपं कृत्वा पश्चादेकदेशविकृतमनन्यवदिति न्यायात् । तत्रेदमिरिति इ आदेशः । इवर्णावर्णयोर्लोप इत्यादिना इकारलोपः । अनेन प्रकारेण सिद्धा भवन्ति । नीतकम् । भगवान् । भगवन्तौ । भगवन्तः । भगवन्तं । भगवन्तौ । भगवतः । भगवता । भगवद्भ्यां | भगवद्भिः । सुपि भगवत्सु । एवं सर्वत्र । सम्बोधने- 

भगवदघवतोश्च ॥ २८४  

भगवदघवतोश्च वादेरवयवस्य उत्वं वा भवति सम्बुद्धौ सौ परे।  एवं संबुद्धिं विना गोमन्त् धनवन्त् यावन्त् तावन्त् एतावन्त् इयन्त् प्रभृतयः । यत्प्रमाणमस्य यावन्त् । हे भगो, हे भगवन् । हे अघो, हे अघवन् । अन्यत्र हे गोमन् । हे धनवन् । हे यावन् । हे तावन् । हे एतावन् । हे इयन् । हे कियन् । शन्तृङन्तस्य क्विवन्तानां धातुत्वं न त्यजन्ति । शन्तङन्तस्य क्विबन्तानां च । भवन्त्शब्दस्य धातुत्वात् सौ दीर्घो न भवति । भवन् । भवन्तौ । भवन्तः । इत्यादि । एवं पचन् पठन् प्रभृतयः । ददन्त्शब्दस्य तु भेदः । युजेत्समासे नुर्घुटि इत्यनुवर्तते । 

अभ्यस्तादन्तिरनकारः ॥ २८५ ॥ 

अभ्यस्तात्परोऽन्तिरनकारो भवति घुटि परे । ददत् ददद् । ददतौ । ददतः । इत्यादि । एवं दधन्त् जक्षन्त् जाग्रन्त् प्रभृतयः । महन्त्शब्दस्य तु भेदः । दीर्घमामि सनौ, घुटि चासम्बुद्धौ इति वर्तते । 

सान्तमहतोनपधायाः || २८६ ॥ 

सान्त् महन्त् इत्येतयोर्नकारस्योपधाया दीर्घोों भवति असम्बुद्धौ घुटि परे । महान्। महान्तौ । महान्तः । हे महन् । हे महान्तौ हे महान्तः । महान्तं । महान्तौ । महतः । महता । महद्भ्यां । महद्भिः । इत्यादि । इति तकारान्ताः । थकारान्तोऽग्निमथ् शब्दः । अग्निमत्, अग्निमद्’ अग्निमथौ । अग्निमथ: । संबोधनेऽपि तद्वत् । अग्निमथं । अग्निमथौ । अग्निमथः । अग्निमथा। अग्निमद्भ्यां । अग्निमद्भिः । इत्यादि । इति थकारान्ता: । दकारान्तः पुल्लिङ्गस्तत्त्वविद्शब्दः तत्त्ववित्, तत्त्वविद् | तत्त्वविदौ । तत्त्वविदः इत्यादि । द्विपाद्शब्दस्य तु भेदः । द्विपाद, द्विपादौ । द्विपाद: । सम्बोधनेऽपि तद्वत् । द्विपादं । द्विपादौ । शसादौ— 

पात्पदं समासान्तः ॥ २८७  

समासान्तः पाच्छब्द: पदमापद्यते अघुटि स्वरे परे। द्विपदः द्विपदा । द्विपाद्भ्यामित्यादि । एवं चतुष्पाद् व्याघ्रपाद् प्रभृतयः । त्यद्शब्दस्य तु भेदः । सौ- 

तस्य च २८८ ॥ 

त्यदादीनां तकारस्य सकारो भवति सौ परे । स्यः । त्यौ । त्ये । अन्यत्र सर्वशब्दवत् । एवं एतत् तद् शब्दौ । एषः । एतौ । एते । इत्यादि । सः । तौ । ते । इत्यादि । 

एतस्य चान्वादेशे द्वितीयायां चैन: ।।२८९ ।। 

एतस्य इदमश्च टौसोर्द्वितीयायां च एनादेशो भवति कथितस्यानुकथनविषये । एनं । एनौ। एनान् । एनेन । एनयो: । इति दकारान्ताः । धकारान्तः पुल्लिङ्गस्तत्त्वबुध्शब्दः । विरामव्यञ्जनादिष्विति वर्तते । 

हचतुर्थान्तस्य धातोस्तृतीयादेरादि चतुर्थत्वमकृतवत् ॥ २९० ॥ 

हचतुर्थान्तस्य तृतीयादेर्धातोरादि चतुर्थत्वं भवति विरामे व्यञ्जनादौ च । स चाकृतवत् । तत्त्वभुत्, तत्त्वभुद् | तत्त्वबुधौ | तत्त्वबुधः । संबोधनेऽपि तद्वत् । तत्त्वबुधा। तत्त्वद्भ्यां । तत्त्वभुद्धिः । इत्यादि । इति धकारान्ताः । नकाराऽन्तः पुल्लिङ्गः राजन् शब्दः । घुटि चासम्बुद्धाविति दीर्घः । लिङ्गान्तनकारस्येति नकारलोपः । राजा । राजानौ । राजानः । 

सम्बुद्धौ ॥ २९९ ॥ 

भवति सम्बुद्धौ । हे राजन् राजानं राजानौ

तवर्गश्चटवर्गयोगे चटवर्गौ २९२ ॥ 

अनन्त्यस्तवर्गचटवर्गयोगे चटवर्गौ प्राप्नोति आन्तरतम्यात् । राज्ञः । राज्ञा । व्यञ्जनादौ नलोपः । अकारो दीर्घं घोषवतीति दीर्घे प्राप्ते नसंयोगान्तावलुप्तवच्च पूर्वविधौ इति नकारोऽलुप्तवद्भवति । राजभ्यां । राजभिः । राज्ञे । राजभ्यां । राजभ्यः । ङौ । ईङ्योर्वेति अलोपो वा भवति । राज्ञि, राजनि । राज्ञोः । राजसु । एवं तक्षन् मूर्धन् प्रभृतयः । आत्मशब्दस्य तु भेदः । आत्मा । आत्मानौ । आत्मानः । हे आत्मन् । इत्यादि । आत्मानं । आत्मानौ । अघुट्स्वरे अवमसंयोगादिति प्रतिषेधादनोऽलोपो नास्ति । आत्मन: । आत्मना । इत्यादि । एवं सुवर्वन् सुशर्मन् ब्रह्मन् कृतवर्मन् प्रभृतयः । करिन् शब्दस्य तु भेदः । सौ- इन्हन् इत्यादिना दीर्घः । करी । करिणौ । करिणः । हे करिन् ! इत्यादि । एवं दण्डिन् हस्तिन् गोमिन् तपस्विन् प्रभृतयः । वृत्रहन् शब्दस्य तु भेदः । वृत्रहा । वृत्रहणौ । वृत्रहणः । हे वृत्रहन् । वृत्रहणं । वृत्रहणौ । अघुट्स्वरे लोपे कृते । इन्हन् इत्यादिना दीर्घः । अस्मादेव हन उपधायाः सावेव दीर्घः क्विपि न दीर्घः । 

हनेर्हेर्घिरुपधालोपे २९३  

हनेरुपधाया लोपे कृते हेः स्थाने घिर्भवति । घत्वे नस्य णत्वाभावः । वृत्रघ्नः । वृत्रघ्ना । वृत्रहभ्यां । वृत्रहभिः । इत्यादि । एवं ब्रह्मन् भ्रूणहन् ऋणहन् एते शब्दाः । पूषन् शब्दस्य तु भेदः । सौ दीर्घः । पूषा । पूषणौ । पूषणः । हे पूषन् । पूषणं । पूषणौ । 

हन्मासदोषपूषां शसादौ स्वरे वा ॥ २९४  

हन् मास दोष पूषन् इत्येतेषां उपधाया उत्तरस्य लोपो वा भवति शसादौ स्वरे परे । पूषः पृष्णः । पूषा, पूष्णा । पूषभ्यां । पूषभिः । इत्यादि । एवं अर्यमन् शब्दः । अर्वन्-शब्दस्य तु भेदः । सौ- अर्वा । 

अर्वन्नर्वन्तिरसावनञ् ॥ २९५ ॥ 

अर्वन्शब्दोऽर्वन्तिर्भवति असावनञ्परचेति । अर्वन्तौ । अर्वन्तः । हे अर्वन् । हे अर्वन्तौ । हे अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्याम् । अर्वद्भिः । इत्यादि । नञ्परश्चेत् आत्मन्शब्दवत् । अनर्वा । अनर्वाणौ अनर्वाणः । इत्यादि । श्वन् शब्दस्य तु भेदः । सौ- श्वा । श्वानौ । श्वानः हे श्वन् । श्वानं । श्वानौ । अघुट्स्वरादौ सेट्कस्याप्यनुवर्तते । 

श्वयुवमघोनां च ॥ २९६ ॥ 

श्वन् युवन् मघवन् एषां वशब्दस्योत्वं भवति अघुट्स्वरे परे । शुनः। शुना । श्वभ्यां । श्वभिः इत्यादि । एवं युवन्शब्दः । युवा । युवानौ । युवानः । हे युवन् । युवानं। युवानौ । यूनः । यूना। युवभ्यां । युवभिः । इत्यादि । मघवन्शब्दस्य तु भेदः । सौ – अर्वन्नर्वन्तिरित्यनुवर्तते । 

सौ च मघवान्मघवा वा ॥ २९७ ॥ 

विभक्तौ सौ च परे मघवन् शब्दो मघवन्त् भवति वा । अन्त्वसन्तस्येति दीर्घे प्राप्ते निपातनाद्दीर्घः । मघवान् । मघवन्तौ । मघवन्तः । संबोधनेऽपि तद्वत् । मघवन्तं । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यां । मघवद्भिः । इत्यादि । पक्षे। मघवा । मघवानौ । मघवानः । मघवानं । मघवानौ । मघोनः । मघोना । मघवभ्यां । मघवभिः । इत्यादि । श्वानमाचष्टे । तत्करोति तदाचष्टे इन् । इनि लिङ्गस्यानेकाक्षरस्येत्यादिना अन्त्यस्वरादेर्लोपे प्राप्ते । 

न शुनः ।। २९८ ।। 

श्वन् इत्येतस्य अन्त्यस्वरादेलोपो न भवति इनि परे । श्वानयति मघवानमाचष्टे मघवयति । 

स्थूलदूरयुवक्षिप्रक्षुद्राणामन्तस्थादेर्लोपो गुणश्च नामिनाम् ।। २९९ ।। 

स्थूलदूरयुवक्षिप्रक्षुद्र इत्येतेषामन्तस्थादेर्लोपो भवति नामिनां गुणश्च इनि परे । स्थूलमाचष्टे स्थवयति । दूरमाचष्टे दवयति । युवानमाचष्टे यवयति । क्षिप्रमाचष्टे क्षेपयति । क्षुद्रमाचष्टे क्षोदयति । इनि लिङ्गस्यानेकाक्षरस्येत्यादिना अन्त्यस्वरादेर्लोपः । अनि च विकरणे गुणः सर्वत्र। पञ्चन् शब्दस्य तु भेदः । तस्य बहुवचनमेव । कतेच जश्शसोर्लुक् । पञ्च । पञ्च पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । आमि च नुरित्यनुवर्तते । 

संख्यायाः ष्णान्तायाः ३०० ॥ 

षकारनकारान्तायाः संख्याया नुरागमो भवति आमि परे । दीर्घमामि सनौ इति अनुवर्तते ।

नान्तस्य चोपधायाः ||३०१  

नान्तस्य चोपधाया दीर्घो भवति सनावामि परे । पञ्चानाम् । पञ्चसु। एवं सप्तन् नवम् दशन् प्रभृतयः । अष्टन्शब्दस्य तु भेदः । तस्यापि बहुवचनमेव । 

अष्टनः सर्वासु ॥ ३०२  

अष्टन्शब्दान्तस्य आ भवति सर्वासु विभक्तिषु । येन विधिस्तदन्तस्य इति नकारस्य आकारः । सवर्णे दीर्घः।

तस्माज्जस्शसोः ॥ ३०३  

तस्मादष्टन: कृताकारात्परयोर्जश्शसो: स्थाने और्भवति । अष्टौ । अष्टौ । तस्माद्ग्रहणं किमर्थम् । औत्वस्यानित्यार्थम् । तेन औत्वाभावे जश्शसोर्लुक् इत्यनेन जश्शसोलोपः । अष्ट। अष्ट। अष्टाभिः अष्टभिः । अष्टाभ्यः, अष्टभ्यः । अष्टाभ्यः, अष्टभ्यः । आमि आत्वं संख्यायाः ष्णान्ताया इति, अत्र अन्तग्रहणाधिक्यात् भूतपूर्वनान्ताया अपि आमि नुरागमः । अष्टानाम् । अष्टसु, अष्टासु । इति नकारान्ताः । पफबभान्ता अप्रसिद्धाः । मकारान्तः पुल्लिङ्गः किम् शब्दः । 

किं कः || ३०४ ।। 

किंशब्द: को भवति विभक्तौ परतः । कः । कौ । के । कं। कौ । कान्। केन । काभ्यां । कैः। इत्यादि । इदम् शब्दस्य तु भेदः । 

इदमियमयं पुंसि ३०५ ॥ 

इदम् शब्दस्य इयं भवति स्त्रियामयं पुंसि इदं च नपुंसके सौ परे । अयम् । अन्यत्र त्यदाद्यत्वम् । 

दोऽद्वेर्मः || ३०६  

त्यदादीनां दकारस्य मो भवति अद्वेर्विभक्तौ । इमौ । इमे । इमं । इमौ । इमान् । 

टौसोरनः ||३०७ || 

अग्वर्जितस्य इंदंशब्दस्य अनादेशो भवति टौसोः परतः । अनेन । 

अद् व्यञ्जनेऽनक् ||३०८  

अग्वर्जितस्य इदं शब्दस्य अद्भवति व्यञ्जनादौ विभक्तौ परतः । आभ्याम् । 

तस्माद्धिस् भिर् ३०९  

तस्मात्कृताकारादिदमः परो भिस् भिर् भवति । एभिः । अस्मै आभ्याम् । एभ्यः । अस्मात् । आभ्याम्।  एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु। अन्वादेशे पूर्ववत् । इति मकारान्ताः । यकारान्तोऽप्रसिद्धः । रेफान्तः पुल्लिङ्गञ्चत्वारशब्द: । तस्य बहुवचनमेव । चत्वारः । 

चतुरो वाशब्दस्योत्वम् ॥३१०  

चत्वार् इत्येतस्य वाशब्दस्य उत्वं भवति अघुट्स्वरे व्यञ्जने च परे । चतुरः । 

रेफस्य घोषवति ॥ ३११ ॥ 

रेफस्य घोषवति परे विसर्जनीयो न भवति । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः । 

आमि चतुरः ।। ३१२ । 

चत्वार् शब्दस्य नुरागमो भवति आमि परे । चतुर्णां । विसर्जनीये प्राप्ते । 

रः सुपि ॥३१३ || 

ये रकारस्य विसर्जनीयः सुपि परे न भवति । इति निषेधः । चतुर्षु । इति रेफान्ताः । लकारान्तोऽप्रसिद्धः । वकारान्तः पुल्लिङ्गः सुदिव्शब्दः । सौ- 

औ सौ ॥ ३१४ ॥ 

दिवो वकारस्य औ भवति सौ परे । सुद्यौः सुदिवौ । सुदिव: 1 

वाम्याः ||३१५ ।। 

दिवो वकारस्य वा आकारो भवति अमि परे । सुद्यां, सुदिवं । सुदिवौ । सुदिवः । सुदिवा ।

दिव उद्व्यञ्जने ॥ ३१६ ॥ 

दिवो वकारस्य उत् भवति व्यञ्जने परे । सुद्युभ्यां । सुद्युभिः । इत्यादि । इति वकारान्ताः । शकारान्तः पुल्लिङ्गो विश् शब्दः । हशषछान्त इत्यादिना डत्वम् । विट् विड् । विशौ । विशः । संबोधनेऽपि तद्वत् । इत्यादि । तादृश्- शब्दस्य तु भेदः । चवर्गदृगादीनां चेति गत्वम् । तादृक् तादृग् । तादृशौ । तादृश: । एवं सदृश् यादृश् एतादृश् कीदृश् ईदृश् अमूदृश् प्रभृतयः । इति शकारान्ताः । षकारान्तः पुल्लिङ्गो रत्नमुष् शब्दः । रत्नमुट् रत्नमुड् । रत्नमुषौ । रत्नमुषः । रत्नमुषं । रत्नमुषौ । रत्नमुषः । रत्नमुषा । रत्नमुद्भ्यां । रत्नमुभिः । इत्यादि । साधुतक्ष् शब्दस्य तु भेदः। 

संयोगादेर्धुटः || २७४ ॥  

संयोगादेर्धटो लोपो भवति विरामे व्यञ्जनादौ च । व्यञ्जनाच्च सेर्लोपः । 

हशषछान्तेजादीनां ङः ॥ २७९ ॥

हशषछान्तानां यजादीनां च डो भवति विरामे व्यञ्जनादौ च । इति डत्वं । साधुतट् साधुतड् । साधुतक्षौ । साधुतक्षः । संबोधनेऽपि तद्वत् । साधुतक्षं । साधुतक्षौ । साधुतक्षः । साधुतक्षा | साधुतड्भ्यां । साधुतड्भिः इत्यादि । षष्शब्दस्य तु भेदः । तस्य बहुवचनमेव । जश्शलोर्लुक् । षट्, षड् । षड्भिः । षड्भ्यः। आमि नुरागमो डत्वं च । 

षडो णो ने || ३१७ || 

संख्यायाः ष्णान्ताया: षडा णो भवति विभक्तौ ने परे । षण्णां । षट्त्सु षट्सु इत्यादि । सकारान्तः पुल्लिङ्गः सुवचस् शब्दः । सौ अन्त्वसन्तस्येत्यादिना दीर्घः । सुवचाः । सुवचसौ सुवचसः हे सुवचः । हे सुवचसौ हे सुवचसः । सुवचसं । सुवचसौ । सुवचसः । सुवचसा । सुवचोभ्यां । सुवचोभिः । इत्यादि । एवं चन्द्रमस् पीतवासस् स्थूलशिरस् हिरण्यरेतस् सुश्रोतस् प्रभृतयः । उशनस् शब्दस्य तु भेदः । 

उशनस्पुरुदंशसोऽनेहसां सावनन्तः ३१८ ॥ 

उशनस् पुरुदंशस् अनेहस् इत्येतेषामन्तोऽन् भवति सौ परे असम्बुद्धौ । उशना । उशनसौ । उशनसः । नञा निर्दिष्टमनित्यम् । 

सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।

श्रीव्याघ्रभूतिप्रतितन्नमेपन्नञापि निर्दिष्टमनित्यमेव ॥ १ ॥

हे उशनः,, हे उशनन्, हे उशन । हे उशनसौ । हे उशनसः । उशनसं । उशनसौ। उशनसः । उशनसा । उशनोभ्यां । उशनोभिः । इत्यादि । एवं पुरुदंशस् अनेहस् शब्दौ सम्बुद्धिं विना । विद्वन्स् शब्दस्य तु भेदः । सौ-सान्तमहतोनोपधाया इति दीर्घः । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । हे विद्वांसौ । हे विद्वांसः । विद्वांसं । विद्वांसौ । 

अघुट्स्वरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् ॥३१९ ॥ सेट्कस्यापि वन्सर्वशब्दस्योत्वं भवति अधुस्वरादौ । विदुषः । विदुषा । 

विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च ॥ ३२०  

विरामे व्यञ्जनादौ च अनड्वन्नविन्सीनामन्तस्य दो भवति । विद्वद्भ्यां । विद्वद्भिः । इत्यादि । पेचिवान् । पेचिवांसौ । पेचिवांसः । पेचिवांसं । पेचिवांसौ । निमित्ताभावे नैमित्तिकस्याप्यभावः । इतीडभावः । अघुट्स्वरादौ सेट्कस्येति उत्वम् । पेचुषः । पेचुषा । पेचिवद्भ्यां । पेचिवद्भिः । पेचुषे । पेचिवद्भ्यां । पेचिद्भ्यः । एवं तेनिवन्स् प्रभृतयः । इत्यादि । उखाश्रस् शब्दस्य तु भेदः । सौ– 

श्रसिध्वसोश्च || ३२१ ॥ 

श्रसिध्वसोलिङ्गयोरन्तस्य दो भवति विरामे व्यञ्जनादौ च । उखाश्रत्, उखाश्रद् । 

घुट्स्वरे नुः ।। ३२२ ।। 

श्रसिध्वसोलिङ्गयोनुरागमो भवति घुट्स्वरे परे । उखाश्रंसौ उखाश्रंसः । संबोधनेऽपि तद्वत् । उखाश्रंसं । उखाश्रंसौ उखाश्रसः । उखाश्रसा । उखाश्रद्द्भ्याम् । उखाश्रद्धिः । उखाश्रत्सु । एवं पर्णध्वस् शब्द: । अदस् शब्दस्य तु भेदः । तदाद्यत्वम् । 

सौ सः || ३२३ ॥ 

त्यदादीनां दकारस्य सकारो भवति सौ परे । 

सावौ सिलोपश्च ॥ ३२४  

अदसोऽन्तस्य और्भवति स्वरे परे सिलोपश्च । असौ । द्वित्वे- 

अदसः पदे मः || ३२५ ।। 

अदसः पदे सति दस्य मो भवति।

उत्वं मात् ॥ ३२६ ॥ 

अदसो मात्परो वर्णमात्रस्योत्वं भवति आन्तरतम्यात् । अमू । जसि 

एद्बहुत्वे त्वी ॥ ३२७ ।। 

अदसो मात्परो बहुत्वे निष्पत्रे एदीर्भवति । अमी । अमुं । अमू । अमून् | 

अदो मुश्च ॥ ३२८  

अदसो मुरादेशो भवति टावचनस्य च नादेशोऽस्त्रियाम् । अमुना। अमूभ्याम् । 

अदसश्च ॥ ३२९ ॥ 

अदसोऽग्वर्जितात्परो भिस् भिर् भवति । धुट्त्वम् । अमीभिः । अमुष्मै । अमूभ्याम् । अमीभ्यः । अमुष्मात् । अमूभ्यां । अमीभ्यः । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ॥ श्रेयन्स् शब्दस्य तु भेदः ॥ श्रेयान् । श्रेयांसी । श्रेयांसः । हे श्रेयन् । हे श्रेयांसी । हे श्रेयांसः । श्रेयांस । श्रेयांसी । श्रेयसः । श्रेयसा । श्रेयोध्या । श्रेयोभिः । पुमन्स्शब्दस्य तु भेदः । पुमान् । पुमांसौ । पुमांसः । हे पुमन् । पुमांसं । पुमांसौ । 

पुंसोऽन्शब्दलोपः ॥ ३३०  

पुमान्स् इत्येतस्य अन्शब्दस्य लोपो भवति, अघुट्स्वरे व्यञ्जने च परे । पुंसः । पुंसा । 

स्यादिधुटि पदान्तवत् ॥३३१ ॥ 

स्यादिधुटि परे पैदान्तवत्कार्यं भवति । इति न्यायात् । मोऽनुस्वारव्यञ्जने । पुंभ्यां । पुंभिः । इत्यादि । इति सकारान्ताः ॥ हकारान्तः पुल्लिङ्गो मधुलिह् शब्दः । मधुलिट् मधुलिङ् । मधुलिहौ । मधुलिहः । संबोधनेऽपि तद्वत् । मधुलिट्सु । एवं पुष्पलिह् इत्यादि । गोदुह् शब्दस्य तु भेदः । हचतुर्थान्तस्य धातोरित्यादिना चतुर्थत्वम् । 

दादेर्हस्य गः ॥ ३३२ ॥ 

दादेर्हकारस्य गकारो भवति, विरामे व्यञ्जनादौ च । गोधुक् गोधुग् । गोदुहौ । गोदुहः । संबोधनेऽपि तद्वत् । गोदुहं । गोदुहौ । गोदुहः । गोदुहा। गोधुग्भ्यां । गोधुग्भिः । इत्यादि । मुह्-शब्दस्य तु भेदः । 

मुहादीनां वा ३३३ ॥ 

मुहादीनां हकारस्य गकारो भवति वा विरामे व्यञ्जनादौ च । मुक्, मुग, मुड् । मुहौ। मुहः । मुहं मुहौ। मुहः । मुहा । मुग्भ्यां मुड्भ्यां । मुग्भिः मुड्भिः । इत्यादि । एवं द्रुह् स्नुह् स्निह् प्रभृतयः । प्रष्ठवाहशब्दस्य तु भेदः । प्रष्ठवाट् प्रष्ठवाड् । प्रष्ठवाहौ । प्रष्ठवाहः । प्रष्ठवाहं प्रष्ठवाहौ । 

वाहेर्वाशब्दस्यौत्वं३३४ ॥ 

वाहेर्वाशब्दस्यौत्वं भवति, अघुट्स्वरे परे । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठवाड्यां । प्रष्ठवाड्भिः । प्रष्ठवाट्सु । इत्यादि । अनड्वाह्- शब्दस्य तु भेदः । सौ- 

सौ नुः ||३३५ ॥ 

अनड्वाह इत्येतस्य नुरागमो भवति सौ परे । अनड्वान् । अनड्वाहौ । अनड्वाहः । 

सम्बुद्धावुभयोर्हस्वः ||३३६  

चतुरनडुहोरुभयोः सम्बुद्धौ ह्रस्वो भवति । हे अनड्वन् ३ । हे अनड्वाहं । अनड्वाहौ । 

अनडुहश्च ॥ ३३७ ॥ 

अनड्वाह इत्येतस्य वाशब्दस्योत्वं भवति अघुट्स्वरे परे व्यञ्जने च परे । अनडुहः । अनडुहा । विरामव्यञ्जनेत्यादिना दत्वं । अनडुद्भ्यां । अनडुद्धिः । अनडुत्सु । इत्यादि । इति हकारान्ताः । प्रियाश्चत्वारो यस्यासौ प्रियचत्वा: । प्रियचत्वारौ प्रियचत्वारः । हे प्रियचत्वः ३ । प्रियचत्वारं । प्रियचत्वारौ। प्रियचतुरः प्रियचतुरा | प्रियचतुर्भ्यां । प्रियचतुर्भिः । इत्यादि । 

इति व्यञ्जनान्ताः पुल्लिङ्गाः।

अथ व्यञ्जनान्ताः स्त्रीलिङ्गा उच्यन्ते।

कवर्गान्ताः स्त्रीलिङ्ग अप्रसिद्धा: । चकारान्तः स्त्रीलिङ्गस्त्वच् शब्दः । त्वक् त्वग् । त्वचौ । त्वचः । त्वक्षु । इत्यादि । एवं वाच् शब्दप्रभृतयः । छकारान्तोऽप्रसिद्धः । जकारान्त स्त्रीलिङ्गः स्रज् शब्दः । स्रक्, स्रग् । स्रजौ । स्रजः । स्रुक्षु । इत्यादि । झञटवर्गान्ता अप्रसिद्धाः । तकारान्तः स्त्रीलिङ्गो विद्युच्छब्दः । विद्युत्, विद्युद्। विद्युतौ । विद्युतः । इत्यादि । थकारान्तोऽप्रसिद्धः । दकारान्तः स्त्रीलिङ्गः शरद् शब्दः । शरत् शरद् । शरदौ शरदः । एवं संविद् विपद् परिषद् प्रभृतयः । त्यद्शब्दस्य तु भेदः । त्यदाद्यत्वं । स्त्रियामादेत्यादिना आप्रत्ययः । सौ- तस्य चेति सकारः । स्या । त्ये । त्या । त्यां | त्ये । त्याः । त्यया । त्याभ्यां । त्याभिः । त्यस्यै । त्याभ्यां । त्याभ्यः । त्यस्याः | त्याभ्यां । त्याभ्यः । त्यस्याः | त्ययो: । त्यासां । त्यस्यां । त्वयोः । त्यासु । एवं तदुशब्दः । सा । ते। ताः । इत्यादि त्यद्शब्दवद्रूपं । एवं यद् एतद् शब्दौ । धकारान्तः स्त्रीलिङ्गो वीरुध्शब्दः । वीरुत्, वीरुद् । वीरुधौ । वीरुधः । इत्यादि । एवं समिध् प्रभृतयः । इति धकारान्ताः । नकारान्तः स्त्रीलिङ्गः सीमन्शब्दः । सीमा सीमानौ । सीमानः । अघुटि अवमसंयोगेत्यादिना अलोपः । सीम्नः । इत्यादि । एवं पंचशब्दादीनां पूर्ववत् । इति नकारान्ताः । पकारान्तः स्त्रीलिङ्गोऽप्शब्दः । तस्य बहुवचनमेव ।

अपक्ष ||३३८ ॥ 

अप् इत्येतस्य उपधाया दीर्घो भवति असम्बुद्धौ घुटि परे । आपः । अपः । 

अपां भे दः ||३३९ ॥ 

अपां दो भवति विभक्तौ भे परे । अद्भिः । अद्भ्यः । अद्भ्यः । अपां । अप्सु । इति पकारान्तः । फकारबकारान्तावप्रसिद्धौ । भकारान्त स्त्रीलिङ्गः ककुभ्शब्दः । ककुप्, ककुब् । ककुभौ । ककुभः । इत्यादि । इति भकारान्तः मकारान्तः स्त्रीलिङ्गः किम्शब्दः । तस्य कादेशः । आप्रत्ययः । का । के । काः । कां । के । काः । कया। काभ्यां । काभिः । कस्यै । काभ्यां काभ्यः । कस्याः । काभ्यां । काभ्यः । कस्याः । कयोः । कासाम् । कस्यां । कयोः । कासु । इत्यादि । इदंशब्दस्य तु भेदः । सौ— इयं । अन्यत्र त्यदाद्यत्वं । दादेर्म इति दस्य मत्वं । स्त्रियामादेत्याप्रत्ययः । इमे । इमाः । इमां । इमे । इमा: । टौसोरन इति अनादेशः । अनया । अयञ्जनेऽनक् इत्यत्वे । आभ्यां । आभिः । भाविनि भूतवदुपचारः । अस्यै । आभ्यां । आभ्यः । अस्याः । आभ्यां । आभ्यः । अस्याः । अनयोः । आसाम् । अस्यां । अनयोः । आसु । अन्वादेशे पूर्ववत् । एनां । एने । एनाः । एनया । एनयो: । यकारान्तोऽप्रसिद्धः । इत्यादि । रकारान्त स्त्रीलिङ्गश्चत्वार्शब्दः । तस्य बहुवचनमेव । त्रिचतुरोरित्यादिना चतस्रादेशः । तौ रं स्वरे इति रत्वं । चतस्रः । चतस्रः । चतसृभिः । चतसृभ्यः । चतसृभ्यः न नामि दीर्घमिति दीर्घो न भवति । चतसृणां । चतसृषु । इत्यादि । गिर्शब्दस्य तु भेदः । सौ– 

इरुरोररूरौ ॥ ११२  

धातोरिरुरोररूरौ भवतो विरामे व्यञ्जनादौ च । गीः । गिरौ । गिरः । सम्बोधनेऽपि तद्वत् । गिरं । गिरौ । गिरः । गिरा । गीर्भ्यां । गीर्भिः । गिरे। गीर्भ्यां । गीर्भ्यः । गिरः । गीर्भ्यां । गीर्भ्यः । गिरः । गिरोः । गिरां । गिरि । गिरोः । वाधिकाराद्विभक्तिव्यञ्जने रेफस्य विसर्गो न स्यात् । गीर्षु एवं पुर् धुर् प्रभृतयः । इति रकारान्ताः । लकारान्तोऽप्रसिद्धः । वकारान्तः स्त्रीलिङ्गो दिव्शब्दः । स च सुदिव्शब्दवत् । द्यौः । दिवौ । दिवः । दिवं । दिवौ । दिवः । दिवा । दिव उव्यञ्जने । द्युभ्यां । द्युभिः । इत्यादि । इति वकारान्तः । शकारान्तः स्त्रीलिङ्गो दृश् शब्दः । दृक् दृग् । दृशौ । दृशः । इत्यादि । इति शकारान्तः । षकारान्तः स्त्रीलिङ्गो विप्रुष्शब्दः । विप्रुट् विप्रुड् । विप्रुषौ विपुषः । इत्यादि । षकारान्ते दधृष्शब्दस्य तु भेदः । चवर्गद्गादीनां च गत्वं । दधृक् दधृग् । दधृक्षु । इत्यादि । सकारान्तः स्त्रीलिङ्गः सुवचस् शब्दः । स च पूर्ववत् । सुवचाः । सुवचसौ । सुवचसः । इत्यादि । अदस् शब्दस्य तु भेदः । त्यदाद्यत्वं । असौ । अन्यत्र आप्रत्ययः । अदसः पदे म इति मत्वं । उत्वमादीति पूर्ववत् । अमू । अमूः । अमूं । अमूं । अमूः । अमुया । अमूभ्यां । अमूभिः । अमुष्यै। अमूभ्यां । अमूध्यः । अमुष्याः । अमूभ्यां । अमूभ्यः । अमुष्याः । अमुयोः । अमूषां । अमुष्यां । अमुयोः । अमूषु । इत्यादि । हकारान्तः स्त्रीलिङ्ग उपानह् शब्दः । विरामव्यञ्जनादिषु हस्य दः । उपानत्, उपानद् । उपानहौ । उपानहः । इत्यादि । अनड्वाह शब्दस्य तु भेदः । 

वा स्त्रीकारे ||३४०  

अनड्वाह इत्येतस्य वाशब्दस्य उत्वं वा भवति स्त्रीकारे परे । नदाद्यंच इति ईप्रत्ययः । अनडुही, अनड्वाही । इत्यादि । 

इति व्यञ्जनान्ताः स्त्रीलिङ्गाः।

अथ व्यञ्जनान्ता नपुंसकलिङ्गा उच्यन्ते।

कवर्गान्ता अप्रसिद्धा: । चकारान्तो नपुंसकलिङ्गः प्राञ्चशब्दः । 

विरामे व्यञ्जनादावुक्तं नपुंसकात्स्यमोर्लोपेऽपि ॥ ३४९ ॥ 

विरामे व्यञ्जनादौ च यदुक्तं नपुंसकलिङ्गात्परयोः स्वमोर्लोपेपि तद्भवति । इति मत्वं अनुषङ्गञ्चाक्रुञ्चेत्सर्वत्र। प्राक् प्राग् । प्राची प्राची । पुनरप्येवं । प्राचा। प्रारभ्यां । प्राग्भिः । प्राक्षु । अन्यत्र पुल्लिङ्गवत् । एवं प्रत्यञ्च सम्यन् उदन् तिर्यञ्च प्रभृतयः । छजझञटवर्गान्ता अप्रसिद्धाः । तकारान्तो नपुंसकलिङ्गः सकृत् शब्दः । सकृत् सकृद् । सकृती । सकृन्ति । पुनरपि । इत्यादि । ददन्त् शब्दस्य तु भेदः । ददत्, ददद् । ददती । 

वा नपुंसके ॥ ३४२  

अभ्यस्तात्परोऽन्तिरनकारको वा भवति नपुंसकलिङ्गे घुटि परे । ददति ददन्ति । पुनरपि । ददत् ददद् । ददती । ददति ददन्ति । ददता । ददद्भ्यां । ददद्भिः । इत्यादि । थकारान्तोऽप्रसिद्धः । दकारान्तो नपुंसकलिङ्गस्तद् शब्दः । नपुंसकात्स्यमोर्लोपो न च तदुक्तमिति वचनात् त्यदाद्यत्वं न भवति । तत् तद् । ते । तानि । पुनरप्येवं । अन्यत्र पुल्लिङ्गवत् । एवं यद् शब्दः । धकारान्तोऽप्रसिद्धः । नकारान्तो नपुंसकलिङ्गः सामन् शब्दः । साम । साम्नी, सामनी सामानि पृथक्करणान्त्रपुंसकस्य वा । हे साम, हे सामन् । साम्नी, हे सामनी । हे सामानि । पुनरप्येवं । इत्यादि । एवं मर्मन् लोमन् भूमन् प्रभृतयः । चर्मन् शब्दस्य तु भेदः । चर्म । चर्मणी । चर्माणि । अन्यत्र पुल्लिङ्गवत् । एवं वर्मन् कर्मन् शर्मन् प्रभृतयः । इत्यादि । अहन् शब्दस्य तु भेदः । सौ— 

अह्नः सः ||३४३  

अहन्नित्येतस्य नकारस्य सो भवति विरामे व्यञ्जनादौ च । अहः ईङ्योर्वा । अह्नी, अहनी अहानि । हे अहः | पुनरपि । अह्ना । अहोभ्यां । अहोभिः । अहःसु । इत्यादि । पफबभान्ता अप्रसिद्धाः । मकारान्तो नपुंसकलिङ्गः किम्शब्दः । किं । के । कानि । अन्यत्र पुल्लिङ्गवत् । इदं शब्दस्य तु भेदः । इदमियमयं पुंसि ।

इदं नपुंसकेऽपि च ॥ ३४४  

नपुंसकलिङ्गे स्यमि च परे इदम् शब्दस्य इदमादेशो भवति । इदं । इमे इमानि । इदं । इमे । इमानि । पुनरप्येवं । इत्यादि । यकारान्तोऽप्रसिद्धः । रकारान्तो नपुंसकलिङ्गो वार् शब्दः । वाः । वारी । वारि । पुनरप्येवं । इत्यादि । चत्वार् शब्दस्य तु भेदः । जश्शसोः शिः । चत्वारि । इत्यादि । लवशकारान्ता अप्रसिद्धाः । षकारान्तस्य षषशब्दस्य पूर्ववत् । सकारान्तो नपुंसकलिङ्गो यशस् शब्दः । यशः । यशसी । सान्तमहतोरित्यादिना दीर्घः । यशांसि। पुनरपि । यशसा । यशोभ्यां । यशोभिः । एवं वचस् ओजस् पयस् तपस् वयस् प्रभृतयः । इत्यादि । सर्पिस् शब्दस्य तु भेदः । सर्पिः । सर्पिषी । सर्पोषि । पुनरप्येवं । सर्पिषा । 

इसुस्दोषां घोषवति रः || ३४५ || 

इसुस् दोष इत्येतेषामन्तो रो भवति घोषवति परे । सर्पिर्भ्यां । सर्पिःषु सर्पिष्षु । एवं धनुस् दोस् प्रभृतयः । इत्यादि । अदस् शब्दस्य तु भेदः । अदः । अमू । अमूनि । पुनरप्येवं अन्यत्र पुल्लिङ्गवत् । हकारान्तोऽप्रसिद्धः । इत्यादि । 

इति व्यञ्जनान्ता नपुंसकलिङ्गाः।

अथ व्यञ्जनान्तेष्वलिङ्गेषु युष्मदस्मदौ उच्येते।

युष्मद् सि अस्मद् सि इति स्थिते । 

त्वन्मदोरेकत्वे ||३४६ ॥ 

एकत्वे वर्तमानयोर्युष्मदस्मदो: स्थाने त्वन्मदौ भवतः । 

त्वमहं सौ सविभक्त्योः ॥ ३४७  

युष्मदस्मदो: सविभक्त्योस्त्वमहमित्येतौ भवतः सौ परे । त्वं । अहं । 

युवावौ द्विवाचिषु ॥ ३४८ ॥ 

युष्मदस्मदो: युवावौ द्विवाचिषु भवतः । अन्तलोपे सति- 

अमौ चाम् ।।३४९  

युष्मदादिभ्यः परः अम् औ च आम् भवति । सवर्णदीर्घः । युवां । आवां । 

यूयं वयं जसि ३५०  

युष्मदस्मदो: सविभक्त्योर्यूयं वयमित्येतौ भवतो जसि परे । यूयं । वयं । त्वन्मदोरेकत्वे इति त्वत् अम् । मत् अम् इति स्थिते- 

एषां विभक्तावन्तलोपः ॥ ३५९ ॥ 

एषां युष्मदादीनां अन्तस्य लोपो भवति विभक्तौ परतः सवर्णे दीर्घः । त्वां । मां । युवां । आवां । 

आन् शसः ।।३५२  

युष्मदादिभ्यः परस्य शस् आन् भवति । युष्मान् । अस्मान् । 

एत्वमस्थानिनि ||३५३

युष्मदादीनामन्तस्य एत्वं भवत्यस्थानिनि अनादेशिनि प्रत्यये परे । त्वया । मया । 

आत्वं व्यञ्जनादौ ||३५४  

युष्मदादीनामन्तस्य आत्वं भवति व्यञ्जनादौ विभक्तौ आदेशवर्जिते प्रत्यये परे । युवाभ्यां । आवाभ्यां । युष्माभिः । अस्माभिः | 

तुभ्यं मह्यं ङयि ।। ३५५ ॥ 

युष्मदस्मदो: सविभक्त्योः तुभ्यं महामित्येतौ भवतो ङयि परे । तुभ्यं मह्यं। युवाभ्यां । आवाभ्यां । 

भ्यसभ्यम् ।।३५६ ॥ 

एभ्यो युष्मदादिभ्यः परो भ्यस् अभ्यं भवति । युष्मभ्यं । अस्मभ्यं । 

आदिलोपो ऽन्त्यलोपश्च मध्यलोपस्तथैव च ।

विभक्तिपदवर्णानां दृश्यते शार्ववर्मिके ॥१ ॥

अत् पञ्चम्यद्वित्वे ३५७ ॥ 

एभ्यो युष्मदादिभ्यः परा अद्वित्वे वर्तमाना पचम्यद् भवति । त्वत् । मत् । युवाभ्यां । आवाभ्यां । युष्मत् । अस्मत् । 

तव मम ङसि ।।३५८ ॥ 

युष्मदस्मदो: सविभक्त्योस्तव मम इत्येतौ भवतो ङसि परे । तव । मम । युवयोः । आवयोः । 

सामाकम् ।।३५९ । 

युष्मदादिभ्यः परः सागमयुक्त आम् आकम् भवति । युष्माकं । अस्माकं । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु । एवं नीतक । त्वं युवां यूयं । त्वां युवां युष्मान् । त्वया युवाभ्यां युष्पाभिः । तुभ्यं युवाभ्यां युष्मभ्यं । त्वत् युवाभ्यां युष्मत् । तव युवयोः युष्माकं । त्वयि युवयोः युष्मासु || अहं आवा वयं मां आवां अस्मान् । मया आवाभ्यां अस्माभिः । मह्यं आवाभ्यां अस्मभ्यं मत् आवाभ्यां अस्मत् । मम आवयोः अस्माकं । मयि आवयोः अस्मासु । ग्रामो युष्माकं । ग्रामोऽस्माकं । स ग्रामो युष्मभ्यं दीयते । ग्रामोऽस्मभ्यं दीयते । ग्रामो युष्मान् रक्षति । ग्रामोऽस्मान् रक्षति । इति स्थिते– 

युष्मदस्मदोः पदं पदात्षष्ठीचतुर्थीद्वितीयासु वस्नसौ ॥ ३६० || 

पदात्परं युष्मदस्मदोः पदं षष्ठीचतुर्थीद्वितीयासु बहुत्वे निष्पन्नं वस्नसावापद्यते यथासंख्यं । ग्रामो वः स्वं । ग्रामो नः स्वं । ग्रामो वो रक्षति । ग्रामो नो रक्षति । इति सिद्धं । ग्रामो युवयोः स्वं ग्राम आवयोः स्वं । ग्रामो युवाभ्यां दीयते । ग्राम आवाभ्यां दीयते । ग्रामो युवां रक्षति। ग्राम आवां रक्षति । इति स्थिते— 

वाम्नौ द्वित्वे ॥३६१ ॥ 

पदात्परं युष्मदस्मदोः पदं षष्ठीचतुर्थीद्वितीयासु द्वित्वे निष्पन्नं वाम्नौ आपद्यते यथासंख्यं । ग्रामो वां स्वं । ग्रामो नौ स्वं । ग्रामो वां दीयते । ग्रामो न दीयते । ग्रामो वां रक्षति । ग्रामो नौ रक्षति । ग्रामस्तव स्वं । ग्रामो मम स्वं । ग्रामस्तुभ्यं दीयते । ग्रामो मह्यं दीयते । ग्रामस्त्वां रक्षति । ग्रामो मां रक्षति । इति स्थिते– 

त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायां ॥ ३६२ ।। 

युष्मदस्मदोरेकत्वे त्वन्मदीभूतयोः पदं पदात्परं षष्ठीचतुर्थीद्वितीयासु एकत्वे निष्पत्रं ते मे आपद्यते त्वामा त द्वितीयायां । ग्रामस्ते स्वं । ग्रामो मे स्वं । ग्रामस्ते दीयते । ग्रामो मे दीयते । ग्रामस्त्वा रक्षति । ग्रामो मा रक्षति । इति सिद्धं । 

न पादादौ ॥३६३ ॥ 

पादस्यादौ वर्तमानानां युष्पदादीनां पदमेतानादेशान्न प्राप्नोति । 

वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता ।

एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥

भगवानीश्वरो भूयाद्युष्माकं वरदः प्रभुः ।

सद्यो निराकृता दूरमस्माकं येन विद्विषः ॥ २ ॥

पादादाविति कि ? पान्तु वः पार्वतीनाथमौलिचन्द्रमरीचयः । 

आमन्त्रणात् || ३६४  

आमन्त्रणात्परं युष्मदादीनां पदमेतानादेशान्न प्राप्नोति । हे पुत्र तव स्वमिदं । हे पुत्र मम स्वमिदं । हे पुत्र त्वां रक्षति । 

चादियोगे च ॥ ३६५ ॥ 

चादीनां योगे युष्मदादीनां पदमेतानादेशान्न प्राप्नोति । पुत्रो युष्माकं च पुत्रोऽस्माकं च । पुत्रो युष्मभ्यं च दीयते । पुत्रोऽस्मभ्यं च दीयते । पुत्रो युष्मांश्च रक्षति । पुत्रोऽस्मांश्च रक्षति । चादयः कति ? पञ्च । ते के ? वा ह अह एव इति चादयः । 

दृश्यार्थैश्चानालोचने || ३६६ ॥ 

अचक्षुरालोचने वर्तमानैर्दृश्यार्थैर्धातुभियोगे युष्मदस्मत्त्वन्मदादीनां वस्नसादयो न भवन्ति । अनालोचनमिति किम् ? आलोचनं चक्षुर्ज्ञानमनालोचनं मनसा ज्ञानं । ग्रामस्त्वां समीक्षते । ग्रामो मां 

समीक्षते । ग्रामो युष्मभ्यं दीयमानः समीक्षते । ग्रामोऽस्मभ्यं दीयमानः समीक्षते । ग्रामस्त्वां मनसा विलोकयति । वाञ्छतीत्यर्थः । मनसेति किं ? ग्रामो वः पश्यति । ग्रामो नः पश्यति । चक्षुषेत्यर्थः । 

इत्यलिंगाः

अथाव्ययान्युच्यन्ते।

अव्ययमसंख्यं । तानि कानि ? स्वर् प्रातर् पुनर् अन्तर बहिर च, वा, ह, अह, एव, प्र, परा, अप, सम्, अनु, अबू, निर्, दुर, वि, आङ् नि, अति, अपि, अधि, सु, उत्, अभि, प्रति, परि, उप, इत्यादि प्रादयो विशतिः विना, नाना, अन्तर, नो, अथ, अथो, अहो, पृथक्, यावत् तावत् मना, वषट्, ईषत्, हि, यदि, खलु ननु, तिर्यक्, मिथ्या, किल, हन्त, वै, तु । 

अव्ययाच्च ॥३६७ ॥ 

अव्ययाच्च परासां विभक्तीनां लुग्भवति । 

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥१ ॥

इत्यव्ययानि ।

स्त्रीप्रत्ययाः।

अथ प्रत्यया उच्यन्ते।

अव्ययसर्वनाम्नः स्वरादन्त्यात्पूर्वोऽक्कः ।। ३६८ ।। 

अव्ययानां सर्वनाम्नां चान्त्यात्स्वरात्पूर्वोऽक्प्रत्ययो वा भवति कप्रत्ययश्च बहुलं । बहुलमिति किं ? 

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । 

विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति ॥  

उच्चकैः । उच्चैः । नीचकैः । नीचैः । सर्वः । सर्वकः । विश्वः । विश्वकः । युष्मकाभिः । अस्मकाभिः । एभिः । इमकै: । अमीभि: । अमुकैः । भवन्तः । भवन्तकः । 

विभक्तेश्च पूर्व इष्यते ॥ ३६९ ।। 

विभक्तेश्च पूर्वोऽक्प्रत्ययो वा इष्यते । त्वया त्वयका । मया मयका । 

आख्यातस्य चान्त्यस्वरात् ||३७० ॥ 

आख्यातस्य चान्त्यस्वरात्पूर्वोऽक्प्रत्ययो वा भवति । पचति, पचतकि । भवन्ति भवन्तकि । इत्यादि । कप्रत्ययक्ष । यावकः । यामकः । मणिकः । वत्सकः । पुत्रकः । अश्वकः । वृक्षकः । देवदत्तकः । इत्यादि । 

के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम् ||३७९ ॥ 

के प्रत्यये स्त्रीकृताकारे परे पूर्वोऽकार इकारमापद्यते । सर्विका । विविका । उष्ट्रिका । पाचिका । मूषिका । कारिका । पाठिका | इत्यादि । 

नदाद्यञ्च् वाह् व्यंसन्तृसखिनान्तेभ्य ई ॥ ३७२ ॥ 

स्त्रियां वर्तमानेभ्यो नदादि अञ्च् वाह् उ इ अंस् अन्त् ऋ सखि नान्तेभ्य ई प्रत्ययो भवति । 

ईकारे स्त्रीकृतेऽलोप्यः ॥ ३७३ ॥ 

स्त्रियां वर्तमाने ईप्रत्यये परे पूर्वोऽकारो लोप्यो भवति । नदी मही भषी प्लवी कुमारी किनारी किशोरी प्रभृतयः । अञ् । प्राची प्रतीची समीची उदीची तिरक्षीत्यादि । वाह् । अनडुही (वा स्त्रीकारे) अनड्वाही प्रष्ठौही इत्यादि । । तन्वी । उवीं पृथ्वी । पट्वी । इ-दाक्षी । दैवदत्ती । धूली। अंस् । श्रेयन्स्-श्रेयसी विदुषी प्रेयसी । अन्त्- 

तुदभादिभ्य ईकारे ॥ ३७४  

तुदादिभ्यो भादिभ्यश्च परो अन्तिरनकारको वा भवति ईप्रत्यये परे । तुदती तुदन्ती स्त्रीः । भाती भान्ती स्त्रीः।

स्यात् ।।३७५ || 

स्यात्परोऽन्तिरनकारको वा भवति ईप्रत्यये परे । भविष्यती । भविष्यन्ती । 

न यनन्भ्यां ||३७६ ॥ 

यन् अन् विकरणाभ्यां परोऽन्तिरनकारको न भवति ईकारे परे । दीव्यन्ती सीव्यन्ती पचन्ती गच्छन्ती स्त्री इत्यादि । न यनन्भ्यामिति किं ? सुन्वती तन्वती क्रीणती सती आयुष्मती धनवती इत्यादि । ऋ । कर्त्री हर्त्री भर्त्री क्रोष्ट्री इत्यादि । सखि । सखी । इवर्णावर्णयोर्लोपः । 

नान्तात् स्त्रीकारे नित्यमवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ ॥ ३७७ ॥ 

अवमसंयोगादनोऽलोपो नित्यं भवति स्वीकारे परे । राज्ञी दण्डिनी गोमिनी तपस्विनी यशस्विनी । 

वरुणेन्द्रमृडभवशर्वरुद्रादान् ॥ ३७८ ॥ 

एभ्यः परो आन् प्रत्ययो भवति । तेभ्यश्च ई प्रत्ययः । वरुणानी शर्वाणी मृडानी इन्द्राणी भवानी रुद्राणी । 

नान्तसंख्यास्वस्त्रादिभ्यो न ॥ ३७९  

नान्तेभ्यः संख्यादिभ्यः स्वस्त्रादिभ्यश्च ईप्रत्ययो न भवति । पचदश । तिस्रः । चतस्र: । आदि शब्दात् सीमा दामा । बहवो राजानो यस्यां पुर्यां सा बहुराजा । स्वसा माता दुहितेत्यादि । 

इति प्रत्ययान्ताः

अथ कारकं किञ्चिदुच्यते।

किं कारकं ? करोति क्रियां निर्वर्तयतीति कारकं । कस्मिन्नर्थे प्रथमा विभक्तिः ? कर्तरि प्रथमा । कः कर्ता ? 

यः करोति स कर्ता ॥ ३८० ॥ 

यः क्रियां करोति स कर्तृसंज्ञो भवति । देवदत्तः करोति । मुनिरधीते । यज्ञदत्तौ लुनीतः । यती पठतः । विष्णुमित्रा गच्छन्ति साधवोऽनुतिष्ठन्ति । इत्यादि । कस्मिन्नर्थे द्वितीया ? कर्मणि द्वितीया । किं कर्म ? 

यत्क्रियते तत्कर्म ॥ ३८१  

कर्त्रा यत्क्रियते तत्कारकं कर्मसंज्ञ भवति । कुम्भं करोति । काष्ठं छिनत्ति। मार्गं रुणद्धि । स्तनौ पिबति । गुरून् वन्दते । इत्यादि । 

द्वितीयैनेन ॥३८२ ॥ 

एनप्रत्ययान्तेन योगे लिङ्गाद् द्वितीया भवति । 

अदूरे एनोऽपञ्चम्या दिग्वाचिनः || ३८३ || 

अदूरार्थे दिग्वाचिनः पर एनप्रत्ययो भवति अपञ्चम्याः । अपञ्चम्या इति कोऽर्थः ? द्वितीयायाः । गणनया पञ्चमी विभक्तिः षष्ठी । तेन षष्ठ्यर्थे द्वितीया भवति । अदूरवर्तीन्यां पूर्वस्यां द्विशीत्यर्थः ॥ पूर्वेण ग्रामं । उत्तरेण गिरिं । दक्षिणेन नदीं । पश्चिमेन केदारमित्यादि । चकारात्रिकषासमयाहाधिगन्तरान्तरेण संयुक्ताद् लिङ्गाद् द्वितीया भवति । निकषा ग्रामं समया वनम् | हा देवदत्तम् । धिग् यज्ञदत्तं । अन्तरा गार्हपत्यमाहवनीयं च वेदिः । अन्तरेण पुरुषाकारं न किञ्चिल्लभते । 

सर्वोभयाभिपरिभिस्तसन्तैः३८४ ॥ 

तसन्तैः सर्वादिभिर्योगे लिङ्गाद् द्वितीया भवति । सर्वतो ग्रामं वनानि । उभयतो ग्रामं क्रमुकवनानि । अभितो ग्रामं पत्रवनानि । परितो ग्रामं रंभावनानि । 

कर्मप्रवचनीयैश्च ॥३८५ || 

कर्मप्रवचनीयैर्योगे लिङ्गाद् द्वितीया भवति । के कर्मप्रवचनीया: ? 

लक्षणवीत्सेप्यंभूतेऽभिर्भागे च परिप्रती

अनुरेषु सहार्थे च होने चोपक्ष कथ्यते ॥१ ॥

लक्षणार्थे वीप्सार्थे इत्थम्भूतार्थे अभिशब्दः कर्मप्रवचनीयो भवति । भागे च परिप्रती कर्मप्रवचनीयौ भवतः । चशब्दात् लक्षणार्थे वीप्सार्थे इत्थंभूतार्थे परिप्रती कर्मप्रवचनीयौ भवतः । अनुशब्द एषु पूर्वोक्तेषु अर्थेषु कर्मप्रवचनीयो भवति । सहार्थे च । चशब्दः समुच्चयार्थः । होनार्थे उपशब्दः कर्मप्रवचनीयो भवति ॥ चशब्दाद् हीनार्थे अनुशब्दः कर्मप्रवचनीयो भवति । लक्षणार्थे वृक्षमभि विद्योतते विद्युत् । वीप्सार्थे वृक्षं वृक्षमभि तिष्ठति विद्युत् । इत्थंभूतार्थे साधुर्देवदत्तो मातरमभि । वृक्षं परि विद्योतते विद्युत् । वृक्षं प्रति तिष्ठति । वृक्षं वृक्षं प्रति तिष्ठति । साधु देवदत्तो मातरं परि साधु देवदत्तो मातरं प्रति । यदत्र मां परि स्यात् । तदत्र मां प्रति स्यात् । वृक्षमनु विद्योतते विद्युत् । वृक्षं वृक्षमनुतिष्ठति । साधु देवदत्तो मातरमनु । यदत्र मामनु स्यात् । पर्वतमनु वसते सेना । अन्वर्जुनं योद्धारः । उपार्जुनादन्ये योद्धारो निकृष्टा इत्यर्थः । 

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ ३८६  

चेष्टाक्रियाणां गत्यर्थानां धातूनां प्रयोगेऽध्वनि वर्जिते कर्मणि द्वितीयाचतुथ्यौ भवतः । ग्रामं गच्छति । ग्रामाय गच्छति । नगरं व्रजति नगराय व्रजति । इत्यादि चेष्टायामिति किं ? मनसा मेरुं गच्छति । मनसा स्वर्गं गच्छति । अनध्वनीति किं ? अध्वानं गच्छति । गत्यर्थानामिति किं ? पन्थानं पृच्छति । 

मन्यकर्मणि चानादरेऽप्राणिनि ।।३८७ ॥ 

प्राणिगणवर्जिते मन्यतेः कर्मणि द्वितीयाचतुर्थ्यौ भवतः अनादरे गम्यमाने । न त्वां तृणं मन्ये, न त्वां तृणाय मन्ये । न त्वां बुषं मन्ये, न त्वां बुषाय मन्ये । इत्यादि । अनादरे इति किम् ? अश्मानं दृषदं मन्ये । पाषाणं रत्नं मन्ये । अप्राणिनीति कि ? न त्वां नावं मन्ये । न त्वामन्नं मन्ये । न त्वां काकं मन्ये । न त्वां शुकं मन्ये । न त्वां शृगालं मन्ये । नौ अन्न काक शुक श्रृंगाला एते प्राणिनो वैयाकरणजनानां । इह स्यादेव — न त्वां श्वानं मन्ये, न त्वां शुने मन्ये । 

कस्मिन्नर्थे तृतीया ? करणे तृतीया । किं करणं ? 

येन क्रियते तत्करणम् ।।३८८ || 

येन क्रियते तत्कारकं करणसंज्ञं भवति । दात्रेण लुनाति । कराभ्यां हन्ति । वाणैर्विध्यति ।

दिवः कर्म च ॥ ३८९ ॥ 

दिवधातोः प्रयोगे करणे द्वितीया भवति । अक्षान् दीव्यति । अक्षैर्दीव्यतीत्यर्थः । 

तृतीया सहयोगे || ९०  

सहार्थेन योगे लिङ्गातृतीया भवति । पुत्रेण सह आगतः । त्यागसत्ताभ्यां सार्धं विराजते । सौर्यगुणैः साकमेधते यशः । इत्यादि । 

हेत्वर्थे ॥ ३९९ ॥ 

हेत्वर्थे वर्तमानालिङ्गात्तृतीया भवति । अनेन सेवते । धनेन कुलं । विद्यया यशः । 

कुत्सितेऽङ्गे ॥ ३९२  

कुत्सितेऽङ्गे वर्तमानाल्लिङ्गात्तृतीया भवति । अक्ष्णा काणः । पादेन खञ्जः । अक्षि काणमस्येति प्रधानत्वात्प्रथमैव । 

विशेषणे ॥ ३९३ ॥ 

विशेषणे वर्तमानाल्लिङ्गात्तृतीया भवति । 

शिखया बटुमद्राक्षीत् श्वेतच्छत्रेण भूपतिम्

केशवं शंखचक्राभ्यां त्रिभिर्नेत्रैः पिनाकिनम् ।।

कर्तरि च ॥ ३९४  

कर्तरि कारके वर्तमानाल्लिङ्गात्तृतीया भवति । देवदत्तेन कृतं । यज्ञदत्तेन भुक्तं । छात्रेण हन्यते । सुराभ्यां युध्यते । सुजनैः क्रियते । 

तुल्यार्थे षष्ठी च ॥ ३९५ ॥ 

तुल्यार्थे योगे लिङ्गात् षष्ठी तृतीया च भवति । देवदत्तस्य तुल्यः, देवदत्तेन तुल्यः । देवदत्तस्य समान,: देवदत्तेन समानः । इत्यादि । 

किं सम्प्रदानं ? कस्मिन्नर्थे चतुर्थी ? सम्प्रदानकारके चतुर्थी । 

यस्मै दित्सा रोचते धारयते वा तत्सम्प्रदानम् ॥ ३९६ ॥ 

यस्मै दातुमिच्छा यस्मै रोचते यस्मै धारयते वा तत्कारकं सम्प्रदानसंज्ञं भवति । ब्राह्मणाय गां ददाति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय धारयते शतं । विष्णुमित्रो यतिभ्यो दानं ददाति । देवाय रोचते हविः । मोक्षाय ज्ञानं धारयते । पुण्यार्थे चतुर्थी भवति नान्यत्र । राज्ञो दण्डं ददाति । न तत्र पुण्यं । पुनरागमने षष्ठी रजकस्य वस्त्रं ददाति । 

नमः स्वस्तिस्वाहास्वधालंवषड्योगे चतुर्थी ॥ ३९७ ॥ 

नम आदिभिर्योगे लिङ्गाच्चतुर्थी भवति । नमो देवाय । स्वस्ति जगते । स्वाहा हुताशनाय । स्वधा पितृभ्यः । अलं मल्लाय प्रतिमल्लः । शक्तो मल्लाय प्रतिमल्लः । वषडिन्द्राय । स्वाहा स्वधा वषट् दाने ।

तादर्थ्ये ।।३९८ ॥ 

तदर्थभावे द्योत्ये लिङ्गाच्चतुर्थी भवति । मोक्षाय तत्त्वज्ञानं । भुक्तिप्रदानाभ्यां धनं । गुणेभ्यः सत्सङ्गतिः । 

संयमाय श्रुतं ते नरो धर्माय संयमम् ।

धर्म मोक्षाय मेघावी धनं दानाय भुक्तये ॥१ ॥

 

तुमर्थाच्च भाववाचिनः ॥ ३९९  

तुमः समानार्थाद्भाववाचिप्रत्ययान्ताल्लिङ्गाच्चतुर्थी भवति । भाववाचिनश्चेति वक्ष्यति । पाकाय व्रजति । पक्तये व्रजति । पचनाय व्रजति । पक्तुं व्रजति इत्यर्थः । 

कस्मिन्नर्थे पञ्चमी ? अपादाने पञ्चमी । किमपादानं ? 

यतोऽपैति भयमादत्ते तदपादानम् ||४००  

यस्मादपैति यस्माद्भयं भवति यस्मादादत्ते वा तत्कारकमपादानसंज्ञं भवति । वृक्षात्पर्णं पतति । व्याघ्राद्द्बिभेति । उपाध्यायादादत्ते विद्यां । इत्यादि । 

ईप्सितं च रक्षार्थानाम् ॥४०१ ॥ 

रक्षार्थानां धातूनां प्रयोगे ईप्सितमनीप्सितं च तत्कारकमपादानसंज्ञं भवति । यवेभ्यो गां रक्षति । गौः यवात् रक्षति । गां निवारयतीत्यर्थः । पापात्पातु भगवान् । रोगकोपाभ्यां निवारयति मनः। अहिभ्य आत्मानं रक्षति । 

पर्यपाङ्योगे पंचमी ||४०२  

परि अप आङ् योगे लिङ्गात्पञ्चमो भवति । इहापपरी वर्जने । आङ्मर्यादाभिविध्योः । परि पाटलिपुत्राद्वृष्टो देवः । अप त्रिगर्तेभ्यो वृष्टो देवः । आ पाटलिपुत्रावृष्टो देवः । 

दिगितरर्तेन्यैश्च ४०३  

दिग् इतर ऋते अन्य एभिर्योगे वर्तमानाल्लिङ्गात्पञ्चमी भवति । पूर्वो ग्रामात् । उत्तरो ग्रामात् । इतरो देवदत्तात् । ऋते धर्मात् कुतः सुखं । अन्यो देवदत्तात् । 

पृथग्नानाविनाभिस्तृतीया वा ॥ ४०४ ॥ 

पृथक् नाना विना एभिर्योगे लिङ्गात्तृतीयापञ्चम्यौ भवतः । पृथग् देवदत्तेन । पृथग् देवदत्तात् । नाना देवदत्तेन । नाना देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । 

हेतौ ॥४०५  

हेतौ च वर्तमानाल्लिङ्गात्पञ्चमी भवति । कस्माद्धेतोः समागतः । अग्निमानयं धूमवत्त्वात् । अनित्योऽयं कृतकत्वात् ॥ कस्मिन्नर्थे षष्ठी ? स्वाम्यादौ षष्ठी।  के स्वाम्यादयः ? स्वामी सम्बन्धः समीपः  समूह: विकारः अवयवः स्व इति स्वाम्यादयः । देवदत्तस्य स्वामी । देवदत्तस्य वस्त्रं । पर्वतस्य समीपं । हंसानां समूहः । क्षीरस्य विकार: । देवदत्तस्य बाहू । यज्ञदत्तस्य शिरः । चैत्रस्य स्वं । 

स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च ॥४०६ ॥ 

स्वाम्यादिभिर्योगे लिङ्गात्पष्ठी सप्तमी च भवति । गवां स्वामी । गोषु स्वामी । गवामीश्वरः । गोष्वीश्वरः । गवामधिपतिः । गोष्वधिपतिः । गवां दायादः । गोषु दायादः । गवां साक्षी । गोषु साक्षी । गवां प्रतिभूः । गोषु प्रतिभूः । गवां प्रसूतः । गोषु प्रसूतः । 

निर्धारणे च ॥ ४०७ ॥ 

निर्धारणे चार्थे लिङ्गात्षष्टी सप्तमी च भवति । जातिगुणक्रियाभिः समुदायस्य एकदेशपृथक्करणं निर्धारणं । पुरुषाणां क्षत्रियः शूरतम: । पुरुषेषु क्षत्रियः शूरतमः । गवां कृष्णा गौः सम्पन्नक्षीरा । गोषु कृष्णा गौः सम्पन्नक्षीरा । गच्छतां धावन्तः शीघ्राः । गच्छत्सु धावन्तः शीघ्राः । इत्यादि । 

षष्ठी हेतुप्रयोगे ||४०८ ॥ 

हेतोः प्रयोगे लिङ्गात्षष्ठी भवति । अध्ययनस्य हेतोर्वसति । अन्नस्य हेतोर्वसति । 

स्मृत्यर्थकर्मणि ॥ ४०९  

स्मरणार्थानां धातूनां प्रयोगे वर्तमानाल्लिङ्गात् कर्मणि षष्ठी भवति । उत्तरत्र नित्यग्रहणादिह विकल्पो लभ्यते । मातुः स्मरति । मातरं स्मरति । पितुरध्येति । पितरमध्येति । इत्यादि । 

करोतेः प्रतियत्ने४१० ॥ 

करोतेः प्रतियले गम्यमाने लिङ्गात्कर्मणि षष्ठी भवति । सतो विशेषाधानं प्रतियनः । एधो दकस्योपस्कुरुते । एधोदकमुपस्कुरुते । इत्यादि । 

हिंसार्थानामज्वरि ||४११ ॥ 

हिंसार्थानां ज्वरवर्जितानां धातूनां प्रयोगे कर्मणि षष्ठी भवति । चौरस्य प्रहन्ति । चौरं प्रहन्ति । चौरस्योत्क्राथयति । चौरमुत्क्राथयति । चौरस्य पिनष्टि । रुजो भङ्गे । चौरस्य रुजति । इत्यादि । अज्वरीति किं ? चौरं ज्वरयति कर्कटी। चौरस्य सन्तापयतीत्यर्थः । 

कर्तृकर्मणोः कृति नित्यम् ॥४१२ ।। 

कर्तृकर्मणोरर्थयोर्नित्यं षष्ठी भवति कृत्प्रत्यययोगे । भवतः आसिका । भवतः शायिका भुवनस्य स्रष्टा पर्वतानां भेत्ता । तत्त्वानां ज्ञाता । इत्यादि । 

न निष्ठादिषु ॥ ४१३  

कर्तृकर्मणोरर्थयोः षष्ठी न भवति निष्ठादिषु परतः । के निष्ठादयः ? क्त । क्तवत् । शन्तृङ् । आनश् । कंस्। कान। किं । उदन्त् । क्त्वा । तुम् । भविष्यदर्थे वुण्। आवश्यकाधमर्ण्ययोर्ण्यन् अव्यय तृन् इत्येवमादयः । देवदत्तेन भुक्तमोदनं । त्वया कृतः कटः । देवदत्त ओदनं भुक्तवान् । देवदत्तः कृतवान् करें । इत्यादि । कस्मिन्नर्थे सप्तमी ? अधिकरणे । किमधिकरणं ? 

य आधारस्तदधिकरणम् ||४१४

आधारस्तत्कारकमधिकरणसंज्ञं भवति । स आधारस्त्रिविधः । औपश्लेषिको वैषयिकोऽभिव्यापकञ्चेति । कटे आस्ते काकः । औपश्लेषिकोऽयं । करयोः कङ्कणं । दिवि देवाः । वैषयिकोऽयम् । तिलेषु तैलं । अभिव्यापकोऽयं । 

कालभावयोः सप्तमी ||४१५  

कालभावयोर्वर्तमानाल्लिङ्गात्सप्तमी भवति । काले —— शरदि पुष्यन्ति सप्तच्छदाः । भावे गोषु दुह्यमानासु गतः । 

अधिशीस्थासां कर्म ॥ ४१६ ॥ 

अधिपूर्वाणां शीङ् स्था आसु इत्येतेषां प्रयोगे अधिकरणे द्वितीया भवति । ग्राममधिशेते । ग्राममधितिष्ठति । ग्राममध्यास्ते । ग्रामे आस्त इत्यर्थः । 

उपान्वध्याङ्ग्वसः ||४१७  

उप अनु अधि आङ्पूर्वस्य वसु इत्येतस्य धातोः प्रयोगे अधिकरणे द्वितीया भवति । ग्राममुपवसति । ग्राममनुवसति । ग्राममधिवसति । ग्राममावसति । ग्रामे वसतीत्यर्थः । 

सति च ॥४१८ ॥ 

सत्यर्थे वर्तमानाल्लिङ्गात्सप्तमी भवति । दाने सति भोगः । ज्ञाने सति मोक्षः । इत्यादि । 

निमित्तात्कर्मणि ॥ ४१९ ॥ 

निमित्तभूताल्लिङ्गात्सप्तमी भवति कर्मणि युक्ते । 

चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्

केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥१ ॥

मुक्तौ चित्तत्वमव्येति स्वर्मुक्त्योर्जिनमर्चति

गुणेषु गुरुमाप्नोति गोपः पयसि दोग्धि गाम् ||||

संप्रदानमपादाने करणाधारको तथा ।

कर्म कर्ता कारकाणि षट् संबन्धस्तु सप्तमः ॥३ ॥

इति कारकप्रकरणं समाप्तम् । 

     अथ समास उच्यते  

पान्तु वो नेमिनाथस्य पादपद्यारुणांशवः ।

यस्य पादौ समानम्य शीतीभूता जगज्जनाः ॥१ ॥

नाम्नां समासो युक्तार्थः ॥ ४२०  

नाम्नां युक्तार्थ: समासो भवति । 

वस्तुवाचीनि नामानि मिलितं युक्तमुच्यते ।

समासाख्यं तदेतत्स्यात्तद्धितोत्पत्तिरेव च ॥१

चकारबहुलो द्वन्द्वः स चासौ कर्मधारयः ।

यत्र द्वित्वं बहुत्वं च स द्वन्द्व इतरेतरः ॥ २

पदयोस्तु पदानां वा विभक्तिर्यत्र लुप्यते ।

स समासस्तु विज्ञेय: पुराणकविवाक्यतः ||||

स चतुर्विधः । तत्पुरुषबहुव्रीहिद्वन्द्वाव्ययीभावभेदात् । पुनरुत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । सर्वपदार्थप्रधानो द्वन्द्वः । पूर्वाव्ययपदार्थप्रधानोऽव्ययीभावः । इति चतुर्विधः । स च यथाक्रमं प्रदर्श्यते । सुखं प्राप्तः । गुणान् आश्रितः । इति स्थिते– 

विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु ।

समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ॥ १ ॥

द्वितीयादिविभक्त्यन्तं पूर्वपदं नाम्ना परपदेन सह यत्र समस्यते स समासस्तत्पुरुषसंज्ञको भवति । 

तत्स्था लोप्या विभक्तयः ॥४२१ ॥ 

तस्मिन् समासे स्थिता विभक्तयो लोप्या भवन्ति । 

प्रकृतिश्च स्वरान्तस्य ॥४२२  

लुप्तासु विभक्तिषु स्वरान्तस्य व्यञ्जनान्तस्य च लिङ्गस्य प्रकृतिर्भवति । चकारात्क्वचित्सन्धिर्भवति । 

कृत्तद्धितसमासाश्च ॥४२३  

कृतद्धितसमासाश्च शब्दा लिङ्गसंज्ञा भवन्ति । सुखप्राप्तः । गुणाश्रितः । एवं ग्रामं गतः- ग्रामगतः । एवं स्वर्गं गतः स्वर्गगतः । तृतीया- दध्ना संसृष्टः- दधिसंसृष्टः । धान्येन अर्थः- धान्यार्थः । यलेन् कृतं -यत्नकृतं । चतुर्थी – कुबेराय बलिः कुबेरबलिः । यूपाय दारू- यूपदारु । देवाय सुखं- देवसुखं । पश्चमी -चौराद्भयं- चौरभयं । ग्रामान्निर्गतः- ग्रामभिर्गतः । षष्ठी चन्दनस्य गन्ध:– चन्दनगन्धः । राज्ञः पुरुषः- राजपुरुषः । फलानां रसः -फलरसः । सप्तमी- व्यवहारे कुशल:- व्यवहारकुशलः । काम्पिल्ये सिद्धः -काम्पिल्यसिद्धः । धर्मे नियतः – धर्मनियतः । एवं मोक्षसुखम् । संसारसुखम् । इत्यादि । प्रादयो गताद्यर्थे प्रथमया ॥ प्रादयः शब्दाः गताद्यर्थे प्रथमया सह यत्र समस्यते स समासस्तुत्पुरुषसंज्ञो भवति प्रगत आचार्य: -प्राचार्य: अभिगतो मुखं– अभिमुखं, प्रतिगतोऽक्षं प्रत्यक्षमित्यादि । विश्वमतिक्रान्तः । इति विग्रहे— 

अत्यादयः क्रान्ताद्यर्थे द्वितीयया ||४२४ || 

अत्यादयः शब्दाः क्रान्ताद्यर्थे द्वितीयया सह यत्र समस्यन्ते स समासस्तत्पुरुषसंज्ञो भवति । उक्तार्थानामप्रयोगः । अव्ययानां पूर्वनिपातः । अतिविश्वः । कोकिलया अवकृष्टं वनमिति विग्रहः । 

अवादयः कुष्टाद्यर्थे तृतीयया ॥४२५ ।। 

अवादयः शब्दाः कुष्टाद्यर्थे तृतीयया सह यत्र समस्यन्ते स समासस्तत्पुरुषसंज्ञको भवति । स्वरो ह्रस्वो नपुंसके इत्यत्र योगविभागात्- 

गोरप्रधानस्यान्तस्य स्त्रियामादादीनां च ॥४२६ ।। 

अप्रधानस्यान्तरस्य गोशब्दस्य तथाविधस्त्रियामादादीनां ह्रस्वो भवति । इति ह्रस्वः । अवकोकिलं वनं । अवमयूरं । अध्ययनाय परिग्लान इति विग्रहः । 

पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥ ४२७  

पर्यादयः शब्दा ग्लानाद्यर्थे चतुर्थ्या सह यत्र समस्यन्ते स समासस्तत्पुरुषसंज्ञो भवति । पर्यध्ययनः । कौशाम्ब्या निर्गतः । मथुराया निर्गत इति विग्रहे– 

निरादयो निर्गमनाद्यर्थे पञ्चम्या ॥४२८  

निरादयः शब्दा निर्गमनाद्यर्थे पञ्चम्या सह यत्र समस्यन्ते स समासस्तत्पुरुषसंज्ञो भवति । गोरप्रधानस्यान्तस्य इत्यादिना ह्रस्वः । निष्कौशाम्बिः । एवं निर्मयूरः ॥ दीर्घश्चारायणः । व्यासः पाराशर्यः । रामो जामदग्न्यः । क्षेमंकरः । शुभंकरः । प्रियंकरः । श्रियंमन्यः । भुवंमन्यः । अम्भसाकृतं । तमसाकृतं । परस्मैपदं । आत्मनेपदं । स्तोकान्मुक्तः । कृच्छ्रान्मुक्तः । अन्त्यकादागतः । दूरादागतः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः । शुनःपुच्छः । शुनःशेफः । शुनोलाङ्ग्लः । सरसिजं । पङ्केजं । स्तम्बेरमः । कर्णेजपः । कण्ठेकालः । उरसिलोमा । इत्यत्र समासे कृते विभक्तिलोपे प्राप्ते ‘तत्स्था लोप्या विभक्तयः’ इत्यत्र स्थग्रहणाधिक्याल्लोपो न भवति । 

सप्तम्यास्तत्पुरुषे कृति बहुलम् ||४२९ ॥ 

कृदन्ते परे सप्तम्यास्तत्पुरुषे कृति समासे बहुलमलुग्भवति । गेहेनदीं। गेहेक्ष्वेडा । प्रवाहेमूत्रितं । भस्मनिहुतं । क्वचिद्विकल्पः । खेचरः खचरः । वनेचर, वनचरः । पङ्केरुहं, पङ्करुहं । सरसिज, सरोजं । इत्यादि ॥ विदुषां गमनं । दिवं गतः । इत्यादौ समासे कृते– 

व्यञ्जनान्तस्य यत्सुभोः ||४३०  

लुप्तासु विभक्तिषु व्यञ्जनान्तस्य सुभोर्यदुक्तं तद्भवति । विद्वद्गमनं । गतः । इत्यादि । नीलं च तदुत्पलं च । रक्तं च तदुत्पलं च च शब्दः समुच्चयद्योतनार्थः । तच्छब्द एकाधिकरणद्योतनार्थः । 

निष्कौशाम्बि + सि= निष्कौशाम्बिः, निर्मयूरः । दीर्घश्चारायणः, व्यासः, पाराशर्यः,, रामो जामदग्न्यः, क्षेमंकर, शुभंकर: एकाधिकरणद्योतनार्थः । 

पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः || ४३१  

यस्मिन् समासे द्वे पदे तुल्याधिकरणे भवतः स कर्मधारयो भवति । भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकाधिकरणे समावेशस्तुल्याधिकरणं । उक्तार्थानामप्रयोग इति तत् व शब्दनिवृत्तिः । विभक्तिलोपः । अत्र नीलं किमित्यपेक्षते ? उत्पलमपेक्षते । उत्पलं किमित्यपेक्षते ? नीलमपेक्षते । नीलोत्पलं । एवं वीरश्चासौ पुरुषश्च वीरपुरुषः । शुक्लश्चासौ पटश्च शुक्लपटः । शोभना चासौ भार्या च शोभनभार्या । दीर्घा चासौ माला च दीर्घमाला 

कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते ॥ ४३२ ॥ 

इति ह्रस्वः । इत्यादि । 

संख्यापूर्वी द्विगुरिति श्रेयः ॥४३३ ॥ 

स एव कर्मधारयः संख्यापूर्वश्चेत् द्विगुरिति ज्ञेयः । स च त्रिविध:-उत्तरपदतद्धितार्थसमाहारभेदात् । पञ्चसु कपालेषु संस्कृत ओदनः पञ्चकपाल ओदनः । दशसु गृहेषु प्रविष्टः दशगृहप्रविष्टः । अष्टसु कपालेषु संस्कृतः पुरोडाश: । 

अष्टनः कपालेषु हविषि ॥ ४३४ ॥ 

अष्टन् शब्दस्य आत्वं भवति कपाले परे हविष्यभिधेये । अष्टाकपालः पुरोडाशः। अयमुत्तरपदद्विगुः । पञ्च च ते गावश्च पञ्चगवाः । समासान्तर्गतानां वा राजादीनामदन्तता इति । चत्वारश्च ते पन्थानच चतुष्पथाः । इति तद्धितपदार्थः । पञ्चानां पूलानां समाहारः पञ्चपूली । एवं त्रिलोकी । अकारान्तो द्विगुसमाहारो नदादौ पठ्यते पात्रादिगणं वर्जयित्वा । पात्रादिगण इति किं ? त्रयाणां भुवनानां समाहारस्त्रिभुवनं । समाहारद्विगुरयं । त्रिभुवनेन त्रिभुवनाय । त्रिभुवनात् । त्रिभुवनस्य । त्रिभुवने । (सर्वत्रैकवचनमेव) । पंचसु कपालषेषु संस्कृत: ओदनः 

तत्पुरुषावुभौ ॥४३५ || 

उभौ द्विगुकर्मधारय तत्पुरुषौ भवतः । अब्राह्मणः । अनजः । कदश्व इत्यादि । इति कर्मधारयः । इति तत्पुरुषसमासः । 

आरूढो वानरो यं  वृक्षं । ऊढो रथो येन । उपहृतः पशुर्यस्मै । पतितं पर्णं यस्मात् । चित्रा गावो यस्य । वीराः पुरुषा यस्मिन्देशे । लम्बौ कर्णौ यस्य । दीर्घौ बाहू यस्य । इति स्थिते- 

स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ||४३६ || 

यत्र समासे द्वे पदे यदि वा स्यातां बहूनि वा स्युरन्यपदार्थे समस्यन्ते स समासो बहुव्रीहिर्भवति । आरूढवानरः । ऊढरथः । उपहृतपशुः । पतितपर्णः। चित्रगुः । वीरपुरुषो देशः । लम्बकर्णः । दीर्घबाहुः । बहुपदानामपि । बहवो मत्ता मातङ्गा यस्मिन् वने तत् बहुमत्तमातङ्गं वनं । बहूनि रसवन्ति फलानि यस्मिन् वृक्षे स बहुरसवत्फलो वृक्षः । व्यञ्जनान्तस्य यत्सुभोरिति न्यायात् अनुषङ्गलोपः । उपगता दश येषां ते उपगतदशाः । एवमासन्ना दश येषां ते आसन्नदशा: । अदूरा दश येषां ते अदूरदशाः । अधिका दश येषां ते । अधिकदशा: । पुत्रेण सह आगतः सपुत्रः सहपुत्रः । 

सहस्य सो बहुव्रीहौ वा ॥४३७ ॥ 

सहशब्दस्य सो वा भवति बहुव्रीहौ समासे । एवं सधर्मः । जनकेन सह वर्तते इति सजनकः । जनन्या सह वर्तते इति सजननि: । एवं सवधु: । गोरप्रधानस्येत्यादिना ह्रस्वः । अव्ययानां पूर्वनिपातः । 

युधि क्रियाव्यतिहारे इच् ॥४३८  

ग्रहणप्रहरणबाधके युद्धे क्रियाव्यतिहारे बहुव्रीहिसमासात् इच् भवति । 

इचि पूर्वपदस्याकारः ||४३९ ॥ 

इचि परे पूर्वपदस्याकारो भवति । दण्डैश्च दण्डैश्च प्रवृत्तं युद्धं दण्डादण्डि । एवं गदागदि । खड्गाखड्गि । केशाकेशि। मुष्टामुष्टि। कचाकचि । दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा विदिक् । विदिक् तथा ।।४४०  

तथा विदिगभिधेये बहुव्रीहिज्ञेयः । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । दक्षिणपूर्वा । पश्चिमोत्तरा । दक्षिणपश्चिमा । उत्तरपूर्वा । इत्यादि । 

शुकक्ष मयूरश्च । धवश्च खदिरश्च पलाशश्च । इति स्थिते— 

द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वाऽपि यो भवेत् ॥४४१ ॥

द्वयोर्नाम्नोर्बहूनां वापि समुच्चयो द्वन्द्वो भवेत् । स च इतरेतरयोगः समाहारश्चेति द्विप्रकारः ।

यत्र द्वित्वं बहुत्वं च स द्वन्द्र इतरेतरः

समाहारो भवेदन्यो यत्रेकत्वनपुंसके ॥

द्वित्वे द्विवचनं । बहुत्वे बहुवचनं । शुकमयूरौ ॥ धवखदिरपलाशाः । 

अल्पस्वरतरं तत्र पूर्वम् ॥४४२  

तत्र द्वन्द्वे समासे अल्पस्वरतरं पदं पूर्व निपात्यते । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ । एवं रथपदाती । तरग्रहणं द्विपदनियमार्थम् । अन्यत्र शंखदुंदुभिवीणा: । 

यच्चार्चितं द्वयोः ||४४३  

तत्र द्वन्द्वे समासे द्वयोर्यदर्चितं तत्पूर्वं निपात्यते । वासुदेवार्जुनौ । शुककाकौ । हंसबलाके। देवदैत्यौ । क्वचिद् व्यभिचरति च । तथा हि– 

न नरनारायणादिषु ||४४४ ॥ 

नरनारायणादिषु यदर्चितं पदं तत्पूर्वं न निपात्यते । नरश्च नारायणश्च नरनारायणै उमामहेश्वरौ । काकमयूरौ । इत्यादि । 

मातुः पितर्यरश्च ।।४४५ ।। 

तत्र द्वन्द्वे समासे पितरि उत्तरपदे मातृशब्दस्य ऋत अरादेशो भवति चकारादा च । माता च पिता च मातरपितरौ । मातापितरौ । 

पुत्रे ॥४४६ ॥ 

पुत्रशब्दे उत्तरपदे द्वन्द्वविषये विद्यायोनिसम्बन्धिन ऋदन्तस्य आत्वं भवति । माता च पुत्रश्च मातापुत्रौ। एवं होतापुत्रौ । इति द्वन्द्वसमासः ॥ 

कुम्भस्य समीपं : अन्तरायस्य अभावः । 

पूर्वं वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते ४४७  

यस्य समासस्य पूर्वमव्ययं पदं वाच्यं भवेत्सोऽव्ययीभाव इष्यते । अव्ययानां स्वपदविग्रहो नास्तीत्यन्यपदेन विग्रह इति वचनाद् समीपस्य उपादेशः । अभावस्य निरादेशः । समासे कृते अव्ययाना पूर्वनिपातः । 

स नपुंसकलिङ्गः स्यात् ॥ ४४८ ॥ 

सोऽव्ययीभावसमासो नपुंसकलिङ्गः स्यात् । अव्ययत्वादलिङ्गे प्राप्ते वचनमिदं । 

अव्ययीभावादकारान्ताद्विभक्तीनामपञ्चम्याः ॥४४९  

अकारान्तादव्ययीभावाद्विभक्तीनां स्थाने अपञ्चम्या अम् भवति । उपकुम्भं । निरन्तरायं । एवमुपगृहं । उपगेहं । उपगजं । उपराजं । उपच्छत्रं । उपवनं । उपनगं । उपदेवं । उपभार्यं । उपशालं । वादस्याभावो निर्वादं । मक्षिकाणामभावो निर्मक्षिकं । शीतस्यातिक्रमः अतिशीतं । एवमतिक्रमं । दिनं दिनं प्रति प्रतिदिनं । एवं प्रतिगृहं । प्रतिवृक्षं । प्रतिपुरुषं । प्रतिवनितं । प्रतिमासं । प्रतिवर्षं प्रतिग्रामं । प्रतितरं । पुरुषस्य अनुगम: अनुपुरुषं । एवमनुतटं । ग्रामस्यान्तः अन्तर्ग्रामं । अन्तर्गृहं । ग्रामस्य मध्ये मध्येग्रामं ! एवं मध्येवनं । मध्येदिनं । मध्येकूपं । ग्रामस्य बहिर्बहिग्रामं । उपरिपर्वतं । एवं बहिर्वणं । अन्तर्वणम् । 

वा तृतीयासप्तम्योः ४५०  

अकारान्तादव्ययीभावात्परयोस्तृतीयसप्तम्योः स्थाने अन् वा भवति । उपकुम्भं, उपकुम्भेन । उपकुम्भं, उपकुम्भाभ्यामित्यादि । निरन्तरायं निरन्तरायेण । उपकुम्भं, उपकुम्भे । उपकुम्भयोः । इत्यादि । निरन्तरायं निरन्तराये । अपञ्चम्या इति किं ? उपकुम्भात् । निरन्तरायात् । इत्यादि । स्त्रीष्वधिकृत्य अधिकृत्यस्याधिरादेशः । शक्तिमनतिक्रम्य अनतिक्रम्यस्य यथादेशः । इत्यादिषु समासे कृते । 

अन्यस्माल्लुक् ॥४५१ ॥ 

अकारान्तादन्यस्माद्व्ययीभावात्परासां विभक्तीनां लुग् भवति । 

भवति । अधिस्त्रि । यथाशक्ति । एवमधिगायत्रि । अधिसरस्वति । अधिभारति । अधिनदि । आत्मनः अधि अध्यात्मं । गुरोरनतिक्रमेण यथागुरु । वध्वा अनतिक्रमेण यथावधु । चम्वा अनतिक्रमेण यथाचमु । गिरेरनतिक्रमेण यथागिरि । वध्वा अनुगमः अनुवधु । अनुकण्डु । अनुनदि । अनुस्त्रि। अनुपटु । अनुवायु। अनुगुरु अनुपितृ अनमातृ अनुकर्तृ । कर्तुः समीपमुपकर्तृ । एवमुपगिरिं । उपरवि। उपयति । उपगुरु उपतरु | उपवधु । उपचमु उपनदि उपस्त्रि । उपगु । उपनु । कर्तुरतिक्रमः अतिकर्तृ । एवमतिरि । अतिगु । अतिनु । 

समं भूमिपदात्योः ।।४५२  

भूमिपदात्योः परयोः समत्वं इत्येतस्य सममित्यादेशो भवति । भूमेः समत्वं समभूमि । पदातीनां समत्वं सम्पदाति । 

सुविनिर्दुर्भ्यः स्वपिसूतिसमानाम् ॥४५३ ॥ 

सुविनिर्दुर्भ्यः परस्य स्वपिसूतिसमानां सकारस्य षकारो भवति । सुषमं । विषमं । निष्षमं । दुष्षमं । अपरसमं इत्यादि  

द्वन्द्वैकत्वम् ||४५४ ॥ 

समाहारद्वन्द्रस्यैकत्वं नपुंसकलिङ्गं च स्यात् । अर्कश्च अश्वमेधश्च अर्काश्वमेधौ । तयोः समाहारः अर्काश्वमेधं । एवं तक्षायस्कार। हंसमयूंर । मथुरापाटलिपुत्रं । पाणिपादं । बदरामलकं । सुखदुःखं । शुकश्च हंसश्च मयूरश्च कोकिलक्ष शुकहसमयूरकोकिलं । इत्यादि । ।

तथा द्विगोः ।।४५५

तथा समाहारद्विगोरप्येकत्वं नपुंसकलिङ्गं च स्यात् । 

समासान्तर्गतानां वा राजादीनामदन्तता ||४५६  

समासान्तर्गतानां राजादीनामदन्तता अत्प्रत्ययो भवति । वा समुच्चये । पञ्चानां गवां समाहारः पञ्चगवं । चतुर्णां पथा समाहारः चतुष्पथम् । 

न सूत्रे क्वचित् ४५७ ॥ 

क्वचित्सूत्रे द्वन्द्वैकत्वं भवति, नपुंसकलिङ्गत्वं न नपुंसकलिङ्गत्वं न स्यात् । विरामव्यञ्जनादौ । । एवं पचिवचिसिचिरुचिमुचेश्चात् । इत्यादि । 

पुंवद्भाषितपुंस्कानूङयूरण्यादिषु स्त्रियां तुल्याधिकरणे ॥४५८  

स्त्रियां वर्तमानं भाषितपुंस्कं अनूङन्तं पूर्वपदभूतं पुंवद्भवति स्त्रियां वर्तमाने तुल्याधिकरणे पूरण्यादिगणवर्जिते उत्तरपदे परे। शोभना भार्या यस्यासौ शोभनभार्यः । एवं दीर्घजङ्घभार्यः । इत्यादि । भाषितपुंस्कमिति किं ? द्रोणीभार्यः । अनूङ् इति किम् ? ब्रह्मवधूभार्यः । अपूरण्यादिष्विति किं ? कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । के पूरण्यादयः ? पूरणी पञ्चमी कल्याणी मनोज्ञा सुभगा दुर्भगा स्वकान्ता कुब्जा वामना । 

संज्ञापूरणीकोपधास्तु |४५९  

स्त्रियां वर्तमाना भाषितपुंस्कानूङन्ताः संज्ञापूरणीप्रत्ययान्ताः कोपधाः पूर्वपदभूताः पुंवद्रूपा न भवन्ति स्त्रियां वर्तमाने तुल्याधिकरणे पदे पूरण्यादिगणवर्जित उत्तरपदे परे । दत्ता भार्या यस्यासौ दत्ताभार्यः । पञ्चमीभार्यः । पाचिकाभार्यः । गोरप्रधानस्येत्यादिना ह्रस्वः । इत्यादि । 

कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते ॥ ४६० ॥ 

स्त्रियां वर्तमाना भाषितपुंस्का अनूङन्ताः संज्ञापूरणीप्रत्ययान्ताः कोपधा अपि कर्मधारयसमासे तु पुंवद्भवन्ति स्त्रियां वर्तमाने तुल्याधिकरणे पूरण्यादिगणवर्जित उत्तरपदे परे । शोभना चासौ भार्या च शोभनभार्या । एवं दत्तभार्या पाचकभार्या । पञ्चमभार्या इत्यादि । भाषितपुंस्कमिति कि ? खट्वावृन्दारिका । अनूङिति किं ? ब्रह्मवधूदारिका । 

आकारी महतः कार्यस्तुल्याधिकरणे पदे ॥ ४६१ ॥ 

महत आकार: कार्यस्तुल्याधिकरणे पदे परे । महांश्चासौ वीरश्च महावीरः । अन्तरङ्गत्वात् व्यञ्जनान्तस्य यत्सुभोरिति न्यायादनुषङ्गलोपः । प्रथमतोऽनुषङ्गस्य लोपे कृते सति पश्चात् येन विधिस्तदन्तस्येति न्यायात् तकारस्याकारः । सर्वत्र सवर्णे दीर्घः । एवं महापुरुषः । महापर्वतः । महादेश: । 

नस्य तत्पुरुषे लोपः ॥४६२  

तत्पुरुषसमासे नस्य नकारमात्रस्य लोपो भवति । न सवर्ण: असवर्णः । न ब्राह्मण: अब्राह्मण: । एतल्लक्षणं तत्पुरुस्यैव, अन्येषां समासानां कथमिदं लक्षणं ? न विद्यते घोषो ध्वनिर्येषां ते अघोषाः ? तथा तत्पुरुष इहोपलक्षणं । उपलक्षणं किम् ? स्वस्य स्वसदृशस्य च ग्राहकमुपलक्षणं । यथा दधि काकेभ्यो रक्षति । 

स्वरेऽक्षरविपर्ययः ||४६३  

तत्पुरुषे समासे नस्य अक्षरविपर्ययो भवति स्वरे परे । न अजः अनजः । एवमनर्घ्यः । अनर्थः । अनकारः । अनिन्द्रः । अनुदकमित्यादि । 

कोः कत् ॥ ४६४ ॥ 

कुशब्दस्य कद्भवति तत्पुरुषे स्वरे परे । स्वपदविग्रहो नास्तीत्यन्यपदविग्रहः । कुत्सितश्चासौ अश्वश्च कदश्वः । कदन्नं । कदुष्ट्रः । तत्पुरुष इति किम् ? कुत्सिता उष्ट्रा यस्मिन्देशे स कूष्ट्रो देशः । 

का क्वीषदर्थेऽक्षे ||४६५ ।। 

ईषदर्थे वर्तमानस्य कुशब्दस्य कादेशो भवति तत्पुरुषे समासे अक्षशब्दे च परे । कु ईषल्लवणं कालवणं । काम्लं । कामधुरं । काज्यं । काक्षीरं । कादधि । कु ईषत् तन्त्र कातन्त्रम् । काक्षेण वीक्षते ।

कवोष्णे ||४६६ ॥ 

ईषदर्थे वर्तमानस्य कुशब्दस्य कवादेशो भवति तत्पुरुषे चोष्णशब्दे परे । चकारोऽत्र विकल्पार्थः । कु ईषच्च तत् उष्णं च कवोष्णं । पक्षे कोष्णं । कदुष्णं । 

पथि च ॥ ४६७ ॥ 

कुशब्दस्य कादेशो भवति पथिन्शब्दे च परे । कुत्सितश्चासौ पन्थाश्च कापथः । समासान्तर्गतेत्यादिना अत्प्रत्ययः । नस्तु क्वचित्र लोपः । इवर्णावर्णयोलोपः स्वरे प्रत्यये ये च । इति इकारलोपः । 

पुरुषे तु विभाषया ॥ ४६८ ।। 

कुशब्दस्य कादेशो भवति वा तत्पुरुषे पुरुषशब्दे परे । कुत्सितश्चासौ पुरुषश्च कापुरुषः । कुपुरुषः । 

याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् ॥ ४६९  

ईकारच आकारश्च याकारौ । याकारौ स्त्रीकृतौ ह्रस्वौ भवतः समासे क्वचिल्लक्ष्यानुरोधात् । रेवत्या मित्रं रेवतिमित्रं । एवं रोहिणिमित्रं । इष्टकाना चितं इष्टकचितं । इषीकाणां तूलं इषीकतूलं । इत्यादि । 

ह्रस्वस्य दीर्घता ॥ ४७० || 

ह्रस्वस्य दीर्घता भवति समासे क्वचिल्लक्ष्यानुरोधात् । दात्राकारौ कर्णौ यस्यासौ दात्राकर्णः । द्विगुणाकर्णः 

नहिवृतिवृषिरुचिसहितनिरुहिषु क्विबन्तेषु प्रादिकारकाणाम् ।४७१ ॥ 

प्रादीनां कारकाणामेषु क्विवन्तेषु दीर्घता भवति नह्यादिषु धातुषु परतः । उपानत् । उपावृत् । प्रावृट् । कर्मावित् । नीरुक् । प्रतीषट् । परीतत् । वीरुत् । इत्यादि । 

अनव्ययविसृष्टस्तु सकारं कपवर्गयोः ||४७२  

अनव्ययविसृष्टस्तु सकारमापद्यते कपवर्गयोः परतः । अयस्कारः अयस्कल्पः । अयस्पाशः । अयस्काम्यति । अयस्काम इत्यादि । कारकल्पपाशकाम्यकेषु सकारो दृश्यते । 

बहुव्रीह्यव्ययीभाव द्वन्द्वतत्पुरुषौ द्विगुः ।

कर्मधारय इत्येते समासाः षट् प्रकीर्तिताः॥१॥ वर्धमानकुमारेणार्हता पूज्येन वज्रिणा ।

कौमारे ऋषभेणापि कुमाराणां हितैषिणां ॥ २ ॥

मुष्टिव्याकरणं नाम्ना कातन्त्रं वा कुमारकं ।

कालापकं प्रकाशात्मब्रह्मणामभिधायकं ॥ २ ॥

प्रकाशितं शीघ्रबोधसंपदे श्रेयसां पदं ।

समासानां प्रकरणं भावसेन इहाभ्यधात् || ||

इति समासाः ।

अथ तद्धितं किंचिदुच्यते।

कपटोरपत्यं । भृगोरपत्यं । विदेहस्यापत्यं । उपगोरपत्यं । इति स्थिते

वाणपत्ये ॥४७३ || 

षष्ठ्यन्तानाम्नोऽण् प्रत्ययो भवति वा अपत्ये अभिधेये । तत्स्था- इत्यादिना विभक्तिलोपः ।

वृद्धिरादौ सणे ||४७४

स्वराणामादिस्वरस्य वृद्धिर्भवति सणकारानुबन्धे तद्धिते परे । का वृद्धिः ? 

आरुत्तरे च वृद्धिः ॥४७५ ।। 

अवर्ण ऋवर्ण इवर्ण उवर्णानामा आर उत्तरे – (ऐ औ) च द्वे सन्ध्यक्षरे वृद्धिसंज्ञा भवन्ति । प्रयोगात्- अवर्णस्य आकारो वृद्धिः । ऋवर्णस्य आर् वृद्धिः । इवर्णस्य एकारस्य च ऐकारो वृद्धिः । उवर्णस्य ओवर्णस्य च औकारो वृद्धिः । 

उवर्णस्यौत्वमापाद्यं ॥ ४७६ ।। 

उवर्णस्य त्वमापादनीयं तद्धिते स्वरे ये च परे । 

कार्याववावावादेशावोकारौकारयोरपि ॥ ४७७ ॥ 

ओकारे ओंकारयोरवावौ आदेशौ भवतस्तद्धिते स्वरे ये च परे । काण्टवः। भार्गवः । वैदेहः । औपगवः । औपगवौ, औगवा इति । पुरुषशब्दवत् । एवं यास्क: यास्कौ । वेदः वेदौ । आङ्गिरसः । कौत्सः । वासिष्ठः । गौतमः । ब्राह्मणः । ऐदम इत्यादि । पञ्चालस्यापत्यं । 

रुढादण्||४७८ || 

देशसमाननामान: क्षत्रिया रूढाः । रूढशब्दात्परो अण् प्रत्ययो भवति अपत्येऽभिधेये । 

इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च ॥ ४७९ ।। 

इवर्णावर्णयोर्लोपो भवति तद्धिते स्वरे ये च परे । पाञ्चालः । पञ्चालस्यापत्ये पाञ्चालौ । बहुत्वे— 

रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य ॥४८० ॥ 

रूढानां बहुत्वे विहितस्योस्त्र्यभिधेयस्य अपत्यप्रत्ययस्य लुग्भवति । निमित्ताभावे नैमित्तिकाभाव इति वृद्धेरपि लोपो भवति । पाश्चालाः । एवं विदेहाः । मगधाः । अङ्गाः । अस्त्रियामिति किं ? पाञ्चाल्यः । वैदेह्यः । मागध्यः । इत्यादि । भृगोरपत्यं । 

ऋषिभ्योऽण् ॥४८१ ॥ 

ऋषिवाचिभ्यः परोऽण् भवति अपत्येऽर्थे । भार्गवः । भार्गवो । बहुत्वे- 

भृग्वत्र्यङ्गि रस्कुत्सवसिष्ठगोतमेभ्यश्च ४८२  

भृग्वादिभ्यो बहुत्वे विहितस्यास्त्र्यभिधेयस्य अपत्यप्रत्ययस्य लुग्भवति । भृगवः । अत्रयः । अङ्गिरस । गोतमा इत्यादि । अस्त्रियामिति कि ? भार्गव्यः । णटकारानुबन्धादिति नदादित्वादीप्रत्ययः । गर्गस्यापत्यं इति स्थिते- 

ण्यो गर्गादेः ||४८३ || 

गर्गादिर्गणाद् ण्यो भवति अपत्येऽभिधेये । 

इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च ॥ ४७९  

इवर्णावर्णयोर्लोपो भवति तद्धिते स्वरे ये च परे । गार्ग्यः । गाग्र्यो । वत्सस्यापत्यं वात्स्यः । वात्स्यौ । कौत्स्यः । कौत्स्यौ । बहुत्वे—- 

गर्गयस्कविदादीनां च ॥ ४८४ ॥ 

गर्गादीनां यस्कादीनां विवादीनां च बहुत्वे विहितस्य अस्त्र्यभिधेयस्य अपत्यप्रत्ययस्य लुग्भवति । गर्गाः । वत्साः । कुत्साः । उभयत्र ण्यो लुक् । ऊर्वाः। यस्का: । विदाः । अणो लुक् । इत्यादि । 

कुर्वादेर्यण् ॥४८५ ॥ 

कुर्वादेर्गणाद् यण्प्रत्ययो भवति अपत्येऽर्थे । कुरोरपत्यं कौरव्यः । लहस्यापत्यं लाह्यः । 

कुञ्जादेरायनण् स्मृतः ॥४८६

कुञ्जादेर्गणात् आयनण् प्रत्ययो भवति अपत्येऽर्थे तदन्ते यश्च स्मृतः । अस्त्रीनडादिबहुत्वे । कुत एतत् ? स्मृतग्रहणाधिक्यात् । कुञ्जस्यापत्यं कौञ्जायन्यः कौञ्जायन्यौ । एवं बाध्नायन्यः बाध्नायन्यौ । स्त्रियां तु । कौञ्जायनी । नडादेस्तु । नाडायनः । चारायण: । मौञ्जायनः । शाकटायनः । बहुत्वे । कौञ्जायनाः कुञ्जस्यापत्यानि । एवं बाध्नायनाः । 

स्त्र्यत्र्यादेरेयण् ||४८७

स्त्रियामादादिभ्योऽत्र्यादेश्व एयण् भवति अपत्येऽभिधेये । विनताया अपत्यं वैनतेयः । एवं सौपर्णेयः । यौवतेयः । कौन्तेयः । अनेरपत्यं आत्रेयः आत्रेयौ । बहुत्वे | अग्निसंज्ञायामेत्वमयादेशश्च । अत्रयः भृग्वत्र्यङ्गिरेत्यादिना अपत्यप्रत्ययस्य लुक् । सत्यामग्निसंज्ञायां इरेदुरोज्जसि । इत्येत्वं जसि । एवं सौश्रेयः । गाङ्गेयः । भद्रबाहोरपत्यं । 

एयेऽकद्रवादिस्तु लुप्यते ॥४८८ ॥ 

एये प्रत्यये परे उवर्णो लुप्यते न तु कद्शब्दस्य । भाद्रबाहेयः । कामण्डलेयः । अकद्रवा इति किम् । काद्रवेय: 1 

सर्वनाम्नः संज्ञाविषये स्त्रियां विहितत्वात् ॥ ४८९  

सर्वनाम्नः परः संज्ञाविषये एयण् भवति अपत्येऽभिधेये । सर्वा काचित् स्त्री । सर्वाया अपत्यं सार्वेयः इत्यादि । 

इणतः ॥४९० ॥ 

अकारान्तानाम्न इण् प्रत्ययो भवति अपत्येऽभिधेये । दक्षस्यापत्यं दाक्षिः । एवं दाशरथिः । आर्जुनिः । दैवदत्तिः । अस्यापत्यं इः इत्यादि । 

बाह्रादेश्च विधीयते ४९९ ॥ 

बाह्राणादिण् प्रत्ययो भवति अपत्येऽभिधेये । उपबाहोरपत्यमौपबाहविः । भाद्रबाहविः । 

नस्तु क्वचित् ४९२  

नस्य लोपो भवति क्वचित् लक्ष्यानुरोधात् ॥ उडुलोम्नोऽपत्यं औडुलोमिः । एवमाग्निशर्मिः । 

मनोः षपथ्यौ ॥४९३  

षष्ठ्यन्तान्मनुशब्दात्परौ यौ प्रत्ययौ भवतः अपत्यार्थे । मनोरपत्यं मानुषः । मनुष्यः । मानवः । वाणपत्ये इति अणु भवति । 

कुर्वादेर्यण ॥४८५  

कुर्वादेर्गणात् यण् प्रत्ययो भवति अपत्येऽर्थे । पक्षे कुरोरपत्यं कौरव्यः । वाणपत्ये इति अण् भवति । कौरव: । लहस्यापत्यं लाह्यः । 

क्षत्रादियः ॥४९४ ॥ 

षष्ठ्यन्तात् क्षत्रशब्दात्पर इय: प्रत्ययो भवति अपत्येर्थे । क्षत्रियः । 

कुलादीनः ।।४९५ ।। 

कुलशब्दात्परः ईन-प्रत्ययो भवति जातार्थे । कुले जातः कुलीनः । इत्यादि । 

रागान्नक्षत्रयोगाच्च समूहात्सास्य देवता ।

तद्वेत्यधीते तस्येदमेवमादेरणिष्यते

रागात् अण् । कुसुम्भेन रक्तं कौसुम्भं । एवं हारिद्रं वस्त्रं । कौकुमं । माञ्जिष्ठं । काषायं । नक्षत्रयोगात् । पुष्येण चन्द्रयुक्तेन युक्तः कालः । 

पुष्यतिष्ययोर्नक्षत्रे ||४९६ ।। 

नक्षत्रार्थे वर्तमानयोः पुष्यतिष्ययोर्यकारस्य लोपो भवति अणि परे । इति यकारलोपः । मत्स्यस्य यस्य स्त्रीकारे ईये चागस्त्यसूर्ययोः ॥ इति सूत्राद्य इति अनुवर्तनं । पौषः कालः । पौषो मासः । पौषी रात्रिः । पौषमहः । एवं तैषी मास: 1 तैषी रात्रिः । तैषमहः । चित्रया चन्द्रयुक्तया युक्तः काल: चैत्रः । वैशाखः । एवं ज्येष्ठः | आषाढः । श्रावण: 1 भाद्रपदः । आश्वयुजः । कार्तिकः । मार्गशिरः । माघः । फाल्गुनः । एवं सर्वत्र समूहात् । युवतीनां समूहो यौवतं । एवं हासं । काकं । क्षात्रं। शौद्रं। आर्षं । मार्गं। सास्य देवता। जिनो देवता अस्य इति जैनः । एवं शैव: । वैष्णवः । ब्राह्मण: । बौद्धः । कापिलः । सौरः । ऐन्द्रः । तद्वेति । जिनं वेत्तीति जैन इत्यादि । छन्दो वेत्यधीते वा छान्दसः । व्याकरणं वेत्त्यधीते वा वैयाकरण: । भारतः । तस्येदं । मृगस्य इदं मांसं मार्गं । सौकरं । कौमारं । पुत्रस्येदं पौत्रं । दैवं । पौरुषं । यून इदं यौवनं । एवमादिर्यस्येति गण गृह्यते । चक्षुषा गृह्यते चाक्षुषं रूपं । एवं श्रावणः शब्द: । रासनो रसः । स्पार्शनः स्पर्शः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखलेन क्षुण्णा औलूखलास्तण्डुलाः । अश्वैरुह्यते रथ: आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटं । चतुर्दश्यां दृष्टश्चातुर्दशो राक्षसः । त्रिविद्य एव त्रैविद्यः । पटोर्भाव: पाटवं । लाघवं । कौशलमित्यादि । 

तेन दीव्यति संसृष्टं तरतीकण् चरत्यपि ।

पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि ॥ २ ॥

तेन दीव्यति तेन संसृष्टं तेन तरति तेन चरतीत्यर्थे पण्यात् शिल्पात् नियोगाच्च क्रीतादेरायुधाद्अपीतीकण् प्रत्ययो भवति । तेन दीव्यतीत्यत्र इकण् । अक्षैर्दीव्यति आक्षिकः । एवं गिरिणा दीव्यति गैरिकः । दाण्डिकः । तेन संसृष्टमित्यादि । दध्ना संसृष्टं दाधिकमौदनं । एवं क्षैरिकः । ताक्रिकः । घार्तिकः । शार्ङ्गवैरिकः । सार्पिषिकः । लावणिकः । मारिचिकः । तेन तरतीत्यत्रापि । उडुपेन तरतीति औडुपिकः । एवं वाहित्रिकः । द्रोण्या तरतीति द्रौणिकः । गौपुच्छिकः । नावा तरतीति नाविकः । चरतीत्यत्रापि । शिबिकया चरतीति शैबिकिकः, एवं आक्षिकः औष्ट्रिकः । शृङ्गवेरेण चरतीति शार्ङ्गवैरिकः । पण्यात् । ताम्बूलं पण्यमस्य ताम्बूलिकः । एवमपिशब्दग्रहणात् यथाशिष्टप्रयोगं भवति । गन्धः पण्योऽस्येति गान्धिकः । एवं सार्पिषिक । वास्त्रिकः । राजतिकः । लौहितिकः । शिल्पात्। मृदङ्गं शिल्पमस्येति मार्दङ्गिकः । एवं पाणविकः । शाह्निकः । काहलिकः । वैणिकः । त्रैवलिकः । वांशिकः । तालिकः । नियोगात् । शुल्कं नियोगो यस्येति शौल्किकः । एवं भाण्डागारिकः । माहानसिकः । प्रातीहारिकः । क्रीतादेः । सहस्रेण क्रीतं साहस्रिकं । एवं शातिकं । लाक्षिकं । सुवर्णेन क्रीतं सौवर्णिकं । आदिशब्दात् । लक्षेण युक्तो लाक्षिकः । देवेन प्रवृत्तो दैविक: । कार्षापणेन अर्हतीति कार्षापणिकः । आयुधादपि । चक्रमायुधमस्येति चाक्रिक: एवं कौन्तिकः । तौमरिकः । खाङ्गिकः । क्रीतादेरित्यत्रादि ग्रहणात्तस्येति षष्ठ्यन्तान्नाम्नः परो वाप एतस्मिन्नर्थे इकण् प्रत्ययो भवति । प्रष्टस्य वाप: प्राष्टिकं क्षेत्रं । वाप इति कोऽर्थः ? क्षेत्रं कुम्भस्य वाप: कौम्भिकमित्यादि । 

नावस्तार्ये विषाद्वर्ध्ये तुलया सम्मितेऽपि च तत्र साधौ यः ॥ ४९७  

नावस्तृतीयान्तात्तार्येऽर्थे विधातृतीयान्ताद्वध्येऽर्थे तुलया तृतीयान्तात्सम्मितेऽर्थेऽपि च तत्रेति सप्तम्यन्तात्साधावर्थे यः प्रत्ययो भवति । नावा तार्यमिदं नाव्यं । विषेण वध्यो विष्य: । तुलया सम्मितं तुल्यं । कर्मणि साधुः कर्मण्यः । अपि चेति वचनाद् गिरिणा तुल्यो हस्ती गिरितुल्यः । तुल्यः सदृश: कुशलों योग्यो हितश्चेति साधुरुच्यते । 

ईयस्तु हिते ४९८  

हितार्थे ईय: प्रत्ययो भवति । वत्सेभ्यो हितो वत्सीयो गोधुक् । एवमश्चीयः । जनकेभ्यो हितो जनकीयः । जननीयः । त्वदीयः । मदीयः । युष्मदीयः । इदमीयः । 

तत्र जातस्तत आगतो वा ॥४९९ ।। 

इत्यादिषु च ईयः प्रत्ययो भवति । शालायां जातः शालीयः । शालाया आगतः शालीयः । 

यदुगवादिभ्यः ||५०० || 

उवर्णान्ताद्गवादिभ्यश्च हितार्थे यद्भवति । कृकवाकुभ्यो हितः कृकवाकव्यः । वधूभ्यो हितो वधव्यः । गोभ्यो हितो गव्यः । पटुभ्यो हितः पटव्यः । हविर्भ्यो हिता हविष्यास्तण्डुलाः । गवादय इति के। गो हविस् इष्टका बर्हिस् मेधा स्रज् स्रुच् इति । गवादिगणः । 

उपमाने वतिः ||५०१ ॥ 

उपमानेऽर्थे वतिः प्रत्ययो भवति । राजेव वत्र्तते राजवत् । ब्राह्मणस्येव वृत्तमस्येति ब्राह्मणवत् । मथुरायामिव पाटलिपुत्रे प्रासादा मथुरावत् । देवमिव त्वां पश्यामि देववत् । इत्यादि । सर्वत्र द्रव्यगुणक्रियाभिः साम्यमुपमानमस्तीति वत्प्रत्ययेन भवितव्यं । द्रव्ये । देवदत्त इव धनवान् देवदत्तवत् । एवं कुबेरवत् । बलिवत् । गुणे । यतिरिव गुणवान् यतिवत् । जलमिव शैत्यं जलवत् । अग्निरिव औष्ण्यमग्निवत्। श्रीखण्ड इव सुरभिः श्रीखण्डवत् । क्रियायां । ब्राह्मण इव वर्त्तते ब्राह्मणवत् । पिशाचवत् । 

तत्वौ भावे ॥५०२  

भावेऽभिधेये तत्वौ भवतः । शब्दस्य प्रवृत्तिनिमित्तं भावो भवति । तप्रत्ययस्य स्त्रियां वृत्तिः । त्वप्रत्ययस्य नपुंसके वृत्तिः । पटस्य भावः पटता पटत्वं । एवं अश्वता अश्वत्वं । गोता गोत्वं । इति द्रव्यभावः । शुक्लता शुक्लत्वं । रूपता रूपत्वं । रसता रसत्वं । ज्ञानता ज्ञानत्वं । सुखता सुखत्वं इति गुणभाव: । उत्क्षेपणता उत्क्षेपणत्वं । गमनता गमनत्वं । इति क्रियाभावः । 

यण् च प्रकीर्तितः ॥५०३  

भावेऽभिधेये यण् प्रकीर्तिततस्तत्वौ च । जडस्य भावो जाड्यं जडता जडत्वं । एवं ब्राह्मण्यं ब्राह्मणता ब्राह्मणत्वं । 

अघुट्स्वरवत्तद्धिते ये ५०४  

तद्धिते ये परे अघुट्स्वरवत्कार्य भवति । अघुट्स्वरादौ सेट्कस्यापि वन्सर्वशब्दस्योत्वमित्युक्तं । विदुषां भावो वैदुष्यं । प्रकीर्तितग्रहणाधिक्यादन्यस्मिन्नर्थेऽपि यण् प्रकीर्तितस्तत्त्वौ च भवतः । ब्राह्मणस्य कर्म ब्राह्मण्यं ब्राह्मणता बाह्मणत्वं । पुनःपुनर्भावः पौनःपुन्यं । क्वचिदुभयपदवृद्धिः । पौनः पौन्यं । सौभाग्यं । अणि च पदद्वये वृद्धौ आग्निमारुतं । कर्म । सौहार्दं । 

तदस्यास्तीति मन्वन्त्वीन् ॥५०५  

तदिति प्रथमान्तादस्यास्तीत्येतस्मिन्नर्थे मन्तु वन्तु विन् इन् इत्येते प्रत्यया भवन्ति । गावोऽस्य सन्तीति गोमान् । आयुरस्यास्तीति आयुष्मान् । इतिशब्दस्य विवक्षार्थत्वात् अवर्णान्तात् अवर्णोपधात् मकारान्तात् मकारोपधात् धुडन्तात् अशिडन्तात् परो वन्त् प्रत्ययो भवति । अशिडन्तादित्युक्ते सति तद्वचनं सामान्यमेव । तत्र हकारो वर्जनीयः । अवर्णान्तात् वृक्षाऽस्यास्तीति वृक्षवान् । शालास्यास्तीति शालावान् । इत्यादि । अवर्णोपधात्- तक्षास्यास्तीति तक्षवान् । कर्मास्यास्तीति कर्मवान् । क्वचिन्नकारलोपः । मकारान्तात्-इदमस्यास्तीति इदंवान् । किमस्यास्तीति किंवान् । इत्यादि । मकारोपधात्- लक्ष्मीरस्यास्तीति लक्ष्मीवान् । एवं धर्मवान् । इत्यादि । धुडन्तात् । विद्युदस्यास्तीति विद्युत्वान् । वर्गप्रथमा इत्यादिना तृतीये प्राप्ते सति। तसोर्न तृतीयो मत्वर्थे इत्यनेन सूत्रेण तृतीयत्वं न भवति । अशिडन्तादिति किं ? आयुरस्यास्तीति आयुष्मान् । 

असन्तमायामेधास्रग्भ्यो वा विन् ॥५०६  

एभ्यः परो विन् प्रत्ययो वा भवति । यशोऽस्यास्तीति यशस्वी । पक्षे वन्तु यशस्वान् । अत्र सकारस्य दकारो विसर्गश्च न भवति तपोऽस्यास्तीति तपस्वी । तपस्वान् । एवं तेजस्वी तेजस्वान् । धुटां तृतीय: ।धुटां तृतीयो भवति घोषवति सामान्ये । लुवर्णतवर्गलसा दन्त्या इति न्यायात् सकारस्य दकारे प्राप्ते सति- 

तसोर्न तृतीयो मत्वर्थे ॥ ५०७  

तकारसकारयोस्तृतीयो मत्वर्थे न भवति । मत्वर्थे इति कोऽर्थः ? अस्त्यर्थे । पश्चात् रॊसोर्विसर्जनीये प्राप्ते सकृद् बाधितो विधिर्बाधित एवं सत्पुरुषवत् । मायास्यास्तीति मायावी मायावान् । मेधास्यास्तीति मेधावी मेधावान् । स्रुगस्वास्तीति स्रग्वी खग्वान् । व्यञ्जनान्तस्य यत्सुभारिति न्यायात् चवर्गद्गादीनां चेति गत्वमनेन ज्यायेन अघोषे प्रथमः । वर्गप्रथमास्तृतीयान् । बहुलमिन् भवति । ज्ञानमस्यास्तीति ज्ञानी । दण्डोऽस्यास्तीति दण्डी । शिखास्यास्तीति शिखी । देवोऽस्यास्तीति देवी । इत्यादि । 

तदस्य संजातं तारकादेरितच् ॥५०८ ॥ 

तदिति प्रथमान्तादस्य सञ्जातमित्यस्मिन्नर्थे तारकादेराकृतिगणात् पर इतच् प्रत्ययो भवति । तारका संजाता अस्येति तारकितं नभः । एवं कण्टकितः करः । पल्लवितो वृक्षः । 

संख्यायाः पूरणे इमौ ||५०९  

संख्यायाः पूरणेऽर्थे इमौ भवतः । एकादशपर्यन्तं संख्या । ततः परमसंख्या || संख्यादेर्नान्ताया मो भवति । शेषायाश्च डो भवति तत्कथं ? वाशब्दात् । वाशब्दः क्वास्ते ? वाणपत्ये इत्यत्र । 

डानुबन्धेऽन्त्यस्वरादेर्लोपः ॥५१०  

डानुबन्धे प्रत्यये परे अन्त्यस्वरादेलोंपो भवति । एकादशानां पूरण एकादश एकादशी एकादशं । द्वादशः एवं। अत्र आत्वं निपातः । त्रयोदशः । अत्र त्रयस्तु निपातः । चतुर्दशः । पञ्चदशः । पञ्चमः । पंचमी । पञ्चमं । एवं सप्तमः अष्टमः । नवमः । दशमः इत्यादि । 

द्वेस्तीयः ॥५११ ॥ 

द्वेस्तीयो भवति पूरणेऽथें । द्वयोः पूरणो द्वितीयः । द्वितीया । द्वितीयं । 

त्रेस्तृ च ॥५१२  

त्रेस्तीयो भवति तृआदेशच पूरणेऽर्थे त्रयाणां पूरणस्तृतीयः । तृतीया । तृतीयं । 

अन्तस्थो डे षः ॥ ५१३  

रेफषकारयोरन्तस्थो भवति डे परे । चतुर्णां पूरणश्चतुर्थः । चतुर्थी । चतुर्थं । 

तवर्गस्य षटवर्गाट्टवर्गः ॥ ५१४ ॥ 

षकारटवर्गान्तात्परस्य तवर्गस्य टवर्गो भवति आन्तरतम्यात् । षण्णां पूरणः षष्ठः, षष्ठी, षष्ठं । 

कतिपयात्कतेश्च ॥५१५ ।। 

कतिपयात्कतेश्च पूरणेऽर्थे थो भवति डे परे । कतिपयानां पूरणः कतिपयथः । कतीनां पूरणः कतिथः । कतिपयथी । कतिथी । कतिपयथं । कतिथं  

विंशत्यादेस्तमद् ।।५१६ ।। 

विंशत्यादेस्तमद् प्रत्ययो भवति पूरणेऽर्थे । विंशतितमः । विंशतेः पूरणी विंशतितमी । विशतितमं । त्रिंशत: पूरण: त्रिंशत्तमः । त्रिंशत्तमी । त्रिंशतमं । चत्वारिंशत्तमः । पंचाशत्तमः । उत्तरत्र नित्यग्रहणादिह विकल्पो लभ्यते । उत्तरत्र नित्यग्रहणं क्वास्ते ? नित्यं शतादेरित्यत्र । यत्र संख्या विद्यते तत्र विकल्पेन तमट् भवति । 

तेर्विंशतेरपि ॥५१७ ॥ 

विंशतेरपि तेर्लोपो भवति डानुबन्धे प्रत्यये परे । अपिशब्दात् अस्य लोपो भवति । विशः । त्रिशः । चत्वारिंशः । पञ्चाश: । 

नित्यं शतादेः ॥५१८ । 

शतादेर्गणात् पूरणेऽर्थे नित्यं तमट् प्रत्ययो भवति । एकशतस्य पूरण एकशततमः एकशततमी । एकशततमं । एकसहस्रस्य पूरण एकसहस्रतमः । एकसहस्रतमी । एकसहस्रतमं । एककोटितमः । 

षष्ट्याद्यतत्परात् ॥५१९ ॥ 

षष्ट्यादेरसंख्यायाः परात् पूरणेऽर्थे नित्यं तमद् भवति । षष्टेः पूरण: षष्टितमः । षष्टेः पूरणी षष्टितमी । षष्टितमं । सप्ततितमः | अशीतितमः । नवतितमः । अतत्परादिति किं ? एकषष्टे: पूरण एकषष्टः । एकषष्टितमः । यत्र संख्या विद्यते तत्र विकल्पेन तमट् प्रत्ययो भवति । 

विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परन्तु ये ।

येव्द्यादे: सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः ||||

अतः परं द्वयादिवर्जितात्सर्वनाम्नः परा ये प्रत्यया वक्ष्यन्ते ते विभक्तिसंज्ञा विज्ञेया: । तु पुनः । बहोश्चैव इति कोऽर्थः ? बहुशब्दात्पराः प्रत्ययाः कथिताः श्रुतत्वात्सर्वनाम्नः कार्यं प्रति विभक्तिसंज्ञा भवन्ति । तेन तदा कदा इति घोषवति न दीर्घः । तस्मिन् काले तदा “दादानीमौ तदः स्मृतौ” इति दा प्रत्ययः । कस्मिन्काले कदा । काले किं ? सर्वयदेकान्येभ्य एव दा इति दाप्रत्ययः । विभक्तिसंज्ञा इति विभक्तिकार्यं किं ? त्यदादित्वम् अकारे लोपं । एकत्र। किं क इति कादेशः ।  

पञ्चम्यास्तस् ||५२०  

पञ्चम्यन्तात् द्व्यादिवर्जितात्सर्वनाम्नो बहोश्च परस्तस् भवति । सर्वस्मात् सर्वतः । तस्-प्रत्ययान्ता अव्ययानि भाष्यन्ते । अव्ययाद्विभक्तेर्लोपः । तस्मात् ततः । यस्मात् यतः । बहुभ्यो बहुतः । एवं विश्वतः । उभयतः । अन्यतः । पूर्वतः । परतः । इत्यादि । अद्व्यादेरिति कि ? द्वाभ्यां । उगवादित इत्यत्र कथं, प्रयोगतश्चेति ज्ञापयति । तेन असर्वनाम्नोप्यवधिमात्रातस् वक्तव्यः असर्वनाम्नोऽपि परस्तस् प्रत्ययो भवति अवधिमात्रात् । अवधिमात्रादिति कोऽर्थः ? प्रयोगमात्रादित्यर्थः । इत्यनेन सूत्रेण तस्प्रत्ययो भवति । ग्रामात् ग्रामतः । प्रयोगात् प्रयोगतः । एवं वृक्षात् वृक्षतः । पटतः । घटतः । 

तत्रेदमिः ॥५२१  

तेषु विभक्तिसंज्ञकेषु प्रत्ययेषु परत इदम् इकारतां प्राप्नोति । अस्मात् इतः । 

तेषु त्वेतदकारताम् ॥५२२ ॥ 

तेषु तकारादिषु विभक्तिसंज्ञकेषु परत एतच्छब्दः अकारतां प्राप्नोति । एतस्मात् अतः । तकारादिष्विति किं ? एतेन प्रकारेण एतथा । 

तहोः कुः ।।५२३ ।। 

तकारहकारयोः परयोः किंशब्दः कुर्भवति । कस्मात् कुतः । 

त्रः सप्तम्याः ॥५२४ ।। 

सप्तम्यन्ताद् द्व्यादिवर्जितात्सर्वनाम्नो बहोश्च परतः प्रत्ययो भवति । सर्वस्मिन् सर्वत्र । एतस्मिन् अत्र । कस्मिन् कुत्र । अमुष्मिन् अमुत्र । तस्मिन् तत्र । यस्मिन् यत्र । बहुषु बहुत्र । अद्व्यादेरिति किं ? द्वयोः । त्वयि । मयि । इत्यादि । 

आद्यादिभ्यः सप्तम्यन्तेभ्यश्च ॥५२५  

सप्तम्यन्तेभ्य आद्यादिभ्यश्च परस्तस् प्रत्ययो भवति । आदौ आदितः । एवं मध्ये मध्यतः । अन्ते अन्ततः । अग्रे अग्रतः । मुखे मुखतः । पृष्ठे पृष्ठतः । पार्श्वे पार्श्वतः । पूर्वे पूर्वतः । परे परत इत्यादि । 

इदमो हः ॥५२६ ॥ 

इदम: सप्तम्यन्तात् हो भवति । त्रापवादः । अस्मिन् इह । 

किमः ॥५२७ ॥ 

किमः सप्तम्यन्तात् हो भवति । कस्मिन् कुह । 

अत् क्व च ॥५२८  

किमः सप्तम्यन्तात् अद् भवति क्वादेशश्च । कस्मिन् क्व । 

काले किंसर्वयदेकान्येभ्य एव दा ॥ ५२९ ॥ 

काले वर्तमानेभ्यः सप्तम्यन्तेभ्य एभ्यो दा भवति । कस्मिन् काले कदा। एवं सर्वदा । यदा । एकदा । अन्यदा । काल इति किं ? सर्वत्र देशे। सदा इति निपातः । सर्वशब्दात्परो दाप्रत्ययो भवति । सर्वस्य सभांवश्च । सर्वस्मिन्काले सदा । 

इदमोर्ह्यधुनादानीम् ||५३० ॥ 

काले वर्तमानात्सप्तम्यन्तादिदमः परा र्हि अधुना दानीम् एते प्रत्यया भवन्ति । 

रथारेतेत् ||५३१ ॥ 

रथोः परत इदम् शब्द एत इत् इत्येतौ प्राप्नोति । अस्मिन् काले एतर्हि । इवर्णावर्णयोर्लोपः । अधुना इदानीम् । इत्थम् । 

दादानीमौ तदः स्मृतौ ॥५३२  

काले वर्तमानात्सप्तम्यन्तात्तदः परौ दादानीमौ स्मृतौ । तस्मिन् काले तदा । तदानीम् । 

सद्यआद्या निपात्यन्ते ॥५३३ || 

सद्यआद्या: शब्दा: कालेऽभिधेये निपात्यन्ते । लक्षणसूत्रमन्तरेण लोकप्रसिद्धशब्दरूपोच्चारणं निपातनं । समाने अहनि सद्यः । समानस्य सभावो द्यश्च परविधिः । अस्मिन्नहनि अद्य । इदमो अद्भावोद्य च परविधिः । पूर्वस्मिन् संवत्सरे परुत् । पूर्वतरस्मिन् संवत्सरे परारि । 

पूर्वपूर्वतरयोः पर उदारी च संवत्सरे ।। ५३४  

पूर्वपूर्वतरयो: उत्-आरी च भवतः । चशब्दात्पर आदेशश्च संवत्सरेऽर्थे । 

इदमः समसण् ॥ ५३५  

सप्तम्यन्तादिदम: समसण् प्रत्ययो भवति संवत्सरेऽर्थे। अस्मिन्संवत्सरे ऐषमः 1 

पूर्वादेरेद्युस् ।। ५३६  

सप्तम्यन्तात्पूर्वादेर्गणात् पर एद्युस् प्रत्ययो भवति । पूर्वस्मिन्नहनि पूर्वेद्युः । एवं परेद्युः । अन्येद्युः । अन्यतरेद्युः । इतरेद्युः । कतरेद्युः । अपरेद्युः । 

उभयाद् द्युश्च ॥ ५३७ ॥ 

सप्तम्यन्तादुभयशब्दात्परो द्युस् भवति । चकारात् एद्युस् भवति । उभयस्मिन्नहनि उभयेद्युः । उभयद्दुः  

परादेरेद्यविस् ॥५३८ || 

परादेर्गणात्पर एद्यविस् प्रत्ययो भवति । परस्मिन्नहनि परेद्यवि । एवमन्येद्यविः । अन्यतमेद्यविः । इत्यादि ।  

प्रकारवचने तु था ॥ ५३९ ॥ 

अद्वयादेः सर्वनाम्नः प्रकारवचने तु था भवति । प्रकारशब्दः सदृशार्थो विशेषार्थश्च । सामान्यभेदक: प्रकारः । सर्वेण प्रकारेण सर्वथा । एवमन्यथा । यथा । तथा । उभयथा । पूर्वथा । अपरथा । वाक्यार्थविशेषण सर्वविभक्तिभ्यो ज्ञेयः थाप्रत्ययः । सर्वस्मिन् प्रकाराय यदि वा सर्वस्मिन् प्रकारे सर्वथा इत्यादि । 

संख्यायाः प्रकारे था ॥ ५४०  

संख्याया: परः प्रकारवचने था भवति । चतुर्भिः प्रकारैः चतुर्धा । एवं द्विधा । एकधा । बहुभिः प्रकारैर्बहुधा । पञ्चधा। षोढा । षट्प्रकारा अस्य इति विग्रहः । 

षष् उत्वम् ।।५४१ ॥ 

शब्दस्यान्त उत्वं भवति । सप्तधा । अष्टधा नवधा। दशधा सहस्रधा । लक्षधा कोटिधा । 

द्वित्रिभ्यां धमणेधा च ॥५४२  

द्वित्रिभ्यां परो धमण एधा च प्रत्ययौ भवतः प्रकारवचने । द्वैधं । त्रैधं । द्वेधा । त्रेधा । 

इदंकिंभ्यां थमुः कार्यः ५४३ ॥ 

इदकिभ्यां परः थमुः कार्यः प्रकारवचने । अनेन प्रकारेण इत्थं । केन प्रकारेण कथम् । 

आख्याताच्च तमादयः || ५४४ ॥ 

नाम्न आख्याताच्च परास्तमादयः प्रत्यया भवन्ति । 

प्रकृष्टे तमतररूपाः ५४५  

प्रकृष्टार्थे एते प्रत्यया भवन्ति । प्रकृष्ट आढ्य: आढ्यतरः आढ्यतमः आढ्यरूपः । एवं वैयाकरणतमः वैयाकरणतर: वैयाकरणरूपः । पचतितमः पचतितरः पचतिरूपः । 

ईषदसमाप्तौ कल्पदेश्यदेशीयाः || ५४६ || 

ईषदपरिसमाप्तौ अर्थे कल्पदेश्यदेशीया एते प्रत्यया भवन्ति । ईषदपरिसमाप्तः पटुः पटुकल्पः । पटुदेश्यः । पटुदेशीयः । पचतिकल्पः । पचतिदेश्यं । पचतिदेशीयं । पचतिकल्पं । [ एतौ अव्ययौ पुल्लिंगौ। अयं नपुंसकलिंगः पचतिरूपं] । 

कुत्सितवृत्तेर्नाम्नः पाशः ॥ ५४७ ॥ 

कुत्सितवृत्तेर्नाम्नः परः पाशः प्रत्ययो भवति । कुत्सितो वैयाकरणो वैयाकरणपाश: । 

भूतपूर्ववृत्तेर्नाम्नश्चरट्॥ ५४८  

भूतपूर्ववृत्तेर्नाम्नः परचरट् प्रत्ययो भवति । टकारः षणटकारानुबन्धादिति विशेषणाऽर्थः । भूतपूर्व आढ्दय: आढ्यचरः । आढ्यचरी आढ्यचरं । भूतपूर्वो राजा राजचरः । भूतपूर्वा राज्ञी राजचरी । एवं देवचरः । देववरी । 

बह्वल्पार्थात्कारकाच्छस्वा मङ्गले गम्यमाने ।। ५४९ ।। 

बह्वर्थाद् अल्पार्थाच्च परः शस्प्रत्ययो वा भवति मङ्गले गम्यमाने । बहून् देहि । बहुशो देहि । एवम् अल्पशो देहि अल्पं देहि । स्तोकशो देहि स्तोकं देहि । शतशो देहि शतं देहि । सहस्रशो देहि, सहस्रं देहि । लक्षशो याचते, लक्षं याचते । 

वारस्य संख्यायाः कृत्वसुच् ॥ ५५०  

वारस्य संबन्धिन्याः संख्यायाः परः कृत्वसुच् प्रत्ययो भवति । उकार उच्चारणार्थः । कृत्वसुच्प्रत्ययान्ता अव्ययानि स्युः । पञ्च वारान् भुङ्क्ते पञ्चकृत्वः । एवं गणकृत्वः । कतिकृत्वः । बहुकृत्वः । एवं सप्तकृत्वो गच्छति । दशकृत्वो ददाति । शतकृत्वो याचते । सहस्रकृत्वो मन्यते इति ।

द्वित्रिचतुर्भ्यः सुच् ५५१ ॥ 

वारस्य संबन्धिभ्यो द्वित्रिचतुर्भ्यः परः सुच् प्रत्ययो भवति । द्वौ वारौ भुङ्क्ते द्विर्भुङ्क्ते । त्रिर्भुङ्क्ते । चतुर्भङ्क्ते । 

संख्याया अवयवान्ते तयट् ॥ ५५२  

संख्याया अवयवान्तार्थे तयद् प्रत्ययो भवति । द्वौ अवयव यस्य असौ द्वितयः । त्रितय: । चतुष्टयः । पञ्चतयः । सप्ततयः । 

परिमाणे तयट् ॥ ५५३ ॥ 

परिमाणेऽर्थे तयद् प्रत्ययो भवति । चत्वारि परिमाणानि यस्य चतुष्टयं । एवं द्वितयं त्रितयं । 

द्वित्रिभ्यामयट्५५४ ॥ 

द्वित्रिशब्दाभ्यां परोऽयट् प्रत्ययो भवति समूहे ऽर्थे । द्वयोः समूहः द्वयं । त्रयाणां समूहः त्रयम् । उत्सेधमानं तिर्यग्मानमिति द्विविधं मानं । 

मात्रट् ॥ ५५५  

परिमाणे मात्रट् प्रत्ययो भवति । ऊरुः प्रमाणमस्य ऊरुमात्रमुदकं । ऊरुमात्री परिखा । 

यत्तदेतद्द्भ्यो डावन्तु ।। ५५६ ॥ 

यद् तद् एतद् इत्येतेभ्यः परो डावन्तु प्रत्ययो भवति परिमाणेऽर्थे । उकार उच्चारणार्थः । यत्परिमाणमस्य यावान्। एवं तावान् । एतावान् । 

किमो डियन्तुः ॥ ५५७  

किम: शब्दात्परो डियन्तु प्रत्ययो भवति परिमाणेऽर्थे । किं परिमाणमस्य कियान् । 

इदमः ५५८ ॥ 

इदमः परो डियन्तु प्रत्ययो भवति परिमाणेऽर्थे । इदं परिमाणमस्य इयान् । 

अभूततद्भावे कृभ्वस्तिषु विकारात् च्चिः ।। ५५९ ।। 

अभूततद्भावे विकारात् च्चिप्रत्ययो भवति कृभ्वस्तिषु परतः । 

चौ चावर्णस्य ईत्वम् ॥ ५६० ॥ 

अवर्णस्य ईत्वं भवति च्वौ परे । सर्वापहारी प्रत्ययस्य लोपः । च्वि-प्रत्यये परे पूर्वस्वरस्य दीर्घः, शुक्लीकरोति । दीर्घीभवति । पुत्रीस्यात् । पटुस्यात् । कवीकरोति । कवीभवति । कवीस्यात् । मात्रीकरोति । मात्रीभवति । मात्रीस्यात् । 

ऊर्ध्वे दघ्नट्द्वयसटौ च ॥ ५६१ ॥ 

ऊर्ध्ववाचिनि प्रमाणेऽर्थे दघ्नट्द्वयसटौ प्रत्ययौ भवतः । चशब्दान्मात्रट् भवति । ऊरुः प्रमाणमस्य ऊरुदघ्नं । ऊरुद्वयसं । ऊरुमात्रमुदकं । 

हस्तिपुरुषादण् च ॥ ५६२ ॥ 

हस्तिन् पुरुष इत्येताभ्यां मानेऽर्थेऽण् भवति । चशब्दान्मात्रट् दघ्नट् द्वयसट् च भवति । हस्ती प्रमाणमस्य हास्तिनं । हस्तिमात्रं । हस्तिदनं । हस्तिद्वयसं । पुरुष: प्रमाणमस्य पौरुषं । पुरुषमात्रं । पुरुषदनं । पुरुषद्वयसम् । उदकमित्यर्थः । 

प्रस्रुतवृत्तेर्मयद् ॥ ५६३  

प्रस्रुतवृत्तेर्नाम्नः परो मयट् प्रत्ययो भवति । सुवर्णं प्रस्रुतं सुवर्णमयं । एवमन्त्रं प्रस्रुतमन्नमयं । भस्ममयं । यदि वा अन्नं प्रस्रुतमत्र अन्नमयः काय: । अन्नं प्रस्रुतमत्र अन्नमयं जीवनं । भस्म प्रस्रुतमत्र भस्ममयं पाकस्थानं । भस्ममयो मठः । भस्ममयी तपस्विनी । भस्ममयी 

तनुः । 

न य्वोः पदाद्योर्वृद्धिरागमः ५६४  

इह प्रतिषेधो विधिश्च गम्यते । आदिशब्दः समीपवचनः । इश्च उश्च यू तयोर्य्वोः स्वराणामाद्योः स्वरात्पूर्वयोरिकारोकारयोर्वृद्धिर्न भवति तयोरादौ वृद्धिरागमो भवति णकारानुबन्धे तद्धिते प्रत्यये परे । स्थानेन्तरतम इति न्यायाद् यकारस्य ऐकारः वकारस्य औकारः । व्याकरणं वेत्ति अधीते वा वैयाकरणः । द्वारे नियोगो यस्येति दौवारिकः । य्वोरिति किं ? महानसे नियोगोऽस्येति माहानसिकः । इत्यादि ।

सन्धिर्नाम समासश्च तद्धितश्चेति नामतः

चतुष्कमिति तत्प्रोक्तमित्येतच्छर्ववर्मणा

भावसेनत्रिविद्येन वादिपर्वतवज्रिणा

कृतायां रूपमालायां चतुष्कं पर्यपूर्यत २ ॥

चतुःषष्टिः कलाः स्त्रीणां ताश्चतुःसप्ततिर्नृणाम्।

आपक: प्रापकस्तासां श्रीमानृषभतीर्थकृत् ३ ॥

तेन ब्राह्म्यै कुमार्यै च कथितं पाठहेतवे

कालापकं तत्कौमारं नाम्ना शब्दानुशासनम् ॥ ४ ॥

यद्वदन्त्यधियः केचित् शिखिनः स्कन्दवाहिनः । पुच्छान्निर्गतसूत्रं स्यात्कालापकमतः परम् ॥ ५ ॥

तन्न युक्तं यतः केकी वक्ति प्लुतस्वरानुगम् ।

त्रिमात्रं च शिखी ब्रूयादिति प्रामाणिकोक्तितः ॥ ६ ॥

चात्र मातृकाम्नाये स्वरेषु प्लुतसंग्रहः ।

तस्मात् श्रीऋषभादिष्टमित्येव प्रतिपद्यताम् ७ ॥

 

इति श्रीभावसेनरचितायां कातंत्ररूपमालायां स्यादिनिरूपणं प्रथम: संदर्भः । 

Previous Post
Next Post

© 2025 All rights reserved.