शाकटायनव्याकरणम् प्रक्रियासंग्रहे उत्तरार्द्धम

श्रीरस्तु

सुरासुरनराधीशमौलिमालार्चितक्रमम् ॥

आख्यातसर्वतत्त्वार्थं सर्वज्ञं जिनमाश्रये

 

अथ तिङन्तसंग्रहोऽभिधीयते

तद्यथा ॥ भू सत्तायां । भू इत्ययं शब्दः सत्तायामर्थे वर्तते ॥

१०८४ क्रियार्त्थो धातुः | ||२२|

क्रिया परिणतिः प्रवृत्तिर्वा सा अर्थो वाच्यो यस्य स शब्दो धातुसंज्ञो भवति ॥ ” स्मे च लट् १४/३/२१५|” इत्यधिकृत्य || 

१०८५ सति |||२१७ |

वर्तमानार्थे वर्तमानाद्धातोर्लट्प्रत्ययो भवति || अटावितौ । अकारो ‘विदो लटो वेति’ विशेषणार्थः । टकार ‘ए टित’ इति विशेषणार्थः ॥ 

१०८६ कृल्लोऽतुन्त्वाम् ||| | ४५ |

कृतो लकाराश्च कर्तरि भवन्ति न तुन्त्वामः ॥ एकद्विबहावित्यधिकृत्य ॥ 

१०८७ लोऽन्ययुष्मदस्मासु तिप्तस्झिसिप्थस्थमिब्वस्मस् | |||

 अन्ययुष्मदस्मदर्थेषु प्रत्येकमेकद्विबहुषु वर्तमानाद्धातोर्लस्य यथासंख्यं तिप् तस् झि सिप् थस् थ मिप् वस् मस् इत्यादेशा भवन्ति ॥ प इत् शूल्यब्लाविति विशेषणार्थः ॥ 

१०८८ कर्तरि शप् | | | २० |

धातोः कर्तरि शिति लेटि लेङि लटि लङि च मध्ये शप् भवति || शपावितौ । शकारः ‘एचोऽश्या’ इति विशेषणार्थः । पकारः पूर्ववत् ॥ 

१०८९ अक्ङिल्लुग्घेतौ | || १७ |

पूर्वस्येक एङरो भवन्ति धातोर्विहिते प्रत्यये परे न किति ङिति लुग्घेतौ च ॥ इत्येङ् अव् ॥ 

१०९० झोऽन्तः | ||८८ |

धातोर्लादेशस्य झः अन्तो भवति || अदित एद इत्यतो लुक् ॥ 

१०९१ आद्मव्यतः |||३४ |

धातोर्मवादौ लिवर्जितलादेशे पूर्वस्यात आद्भवति ॥ सुङ् पदमिति पदत्वाद्रित्वादि । स भवति । तौ भवतः । ते भवन्ति इति प्रथमपुरुषः ॥ त्वं भवसि । युवां भवथः । यूयं भवथ इति मध्यमपुरुषः ॥ अहं भवामि । आवां भवावः । वयं भवामः इत्युत्तमपुरुषः ॥ अन्याद्यप्रयोगेऽपि । भवति भवतः भवन्ति । भवसि भवथः भवथ| भवामि भवावः भवामः ॥ भवच्छब्दप्रयोगेऽपि प्रथमपुरुष एव तस्य पूज्यार्थवाचकत्वात् । भवान् भवति । भवन्तौ भवतः । भवन्तो भवन्ति ॥ एवं वदव्यक्तायां वाचि । अदित् । वदति वदतः वदन्ति इत्यादिपरस्मैपदिधातवः शब्विकरणाः सर्वेऽपि नेतव्याः || टुनदु समृद्धौ || दुशब्दोतावितौ ॥ 

१०९२ उदितः ||२/१९७|

 उदितो धातोर्नम् भवति || अमावितौ । मित्त्वादन्त्यादचः परो भवति शेषं प्राम्वत् । नन्दति नन्दतः नन्दन्तीत्यादि || एवं चदु दीप्तिह्लादनयोः । चन्दति चन्दतः चन्दन्तीत्यादि ॥ एधि वृद्धौ । इदित् प्राग्वद्धातुसंज्ञायाम् । सतीति लट् 

१०९३ ताताझथासाथांध्वमिवल्व हिमहिङ्ङिदिच्छीयसंक्ष्ण्वपस्कृनिविशः | |||

ङितः इदितः शीयादेशात संक्ष्णु अपस्कृ निविश् इत्येतेभ्यश्च धातुभ्यः परस्य लः अन्ययुष्मदस्मासु प्रत्येकमेकद्विबहुषु यथासङ्ख्यं त आतां झ थास् आथां ध्वम् इल् वहि महिङ् इत्यादेशा भवन्ति || लङावितौ । लकारो रन्नौ शेलोरिति विशेषणार्थः । उकारः सुङिति प्रत्याहारार्थः । शप् ॥ 

१०९४ ए टितः | ||१२|

धातोष्टिल्लादेशस्य तङ एद्भवति ॥ षष्ठ्यास्स्थानेऽन्तेऽल इत्यन्तादेशः || 

१०९५ वह्यामो गेश् || ४।९३

 टितो लस्तङो वहेरितः आमश्च गेश् भवति || गशावितौ । गकारो गित इति सन्धिप्रतिषेधार्थः । शकारः सर्वादेशार्थः ॥ 

१०९६ आतोऽपः || | |३६|

 धातोर्लिवर्जितलादेशस्य आतः अतः परस्य इय् भवति न पितः ॥ लुग्व्योर्वल्काविति यलुक् । एङ् । झोऽन्तः ॥ 

१०९७ थासस्से ||४/९५।

टितो लस्थासस्से भवति ॥ ध्वमिलोरति एद इति लुक् । मवयोरात् । एधते एधेते एधन्ते । एधसे एधेथे एधध्वे । एधे एधावहे एधामहे || एवं स्पर्धि सङ्घर्षे || स्पर्द्धते स्पर्द्धेते स्पर्द्धन्ते ॥ वदुङ् स्तुत्यभिवादनयोः ॥ उङावितौ । वन्दते वन्देते वन्दन्ते इत्यादि आत्मनेपदिधातवोऽन्येऽपि नेतव्याः ॥ डुपचीष् पाके । डुशब्देकारषकारा इतः पूर्ववल्लडादयः । पचति पचतः पचन्ति । पचसि पचथः पचथ । पचामि पचावः पचामः || 

१०९८ ञीदिदपवदानुपसर्गज्ञः | ||६६ |

 ञितः ईदितः अपवदः अनुपसर्गस्य जानातेर्धातोर्लः कर्तरि फलेशे तङ् भवति || शेषं प्राग्वत् । पचते पचेते पचन्ते । पचसे पचेथे पचध्ये | पचे पचावहे पचामहे ॥ एवं णीञ् प्रापणे । न इत् फलेश तङर्थः ॥ 

१०९९ आदेः ष्णोऽष्वक्कष्ट्याष्ठविः स्नम् || |२६१ |

 धातोरादेः षस्य सो भवति णस्य नः न ष्वकष्ट्याष्ठीवाम् || पूर्ववल्लडादि । ञित्त्वादुभयपदित्वं । नयति नयतः नयन्तीत्यादि । नयते नयेते नयन्ते इत्यादि ॥ 

११०० तस्यागतार्थाधिपर्यर्चास्वत्यतिक्रमात्युप सर्गः प्राक्च | || २५ |

धातोस्सम्बन्धी प्रादिरुपसर्गसंज्ञो भवति ततः प्राक्च नियमेन प्रयोज्यः । गतार्थावधिपरी अर्चायां स्वती अतिक्रमेऽति च वर्जयित्वा ॥ इत्यपपूर्वाद्वदेः अपवदति अपवदते इत्यादि उभयपदिधातवोऽन्येऽपि नेतव्याः । प्र पर अप सम् अनु अव निर दुइ वि आह् नि अधि अपि अति सु उद् अभि प्रति परि उप इति प्रादयो विंशतिः ॥ 

११०१ अनद्यतने लङ् | | | २०७ |

न्यायोत्थानसंवेशनमध्यकालोऽद्यतनः । ततोऽन्यस्मिन्ननद्यतने भूते वर्तमानाद्धातोर्लङ् भवति ॥ इत् ‘ एर्ङितो लुगिति’ विशेषणार्थः । अदित् “श्लेले यगिति । ११७१ | ” विशेषणार्थः । शबादि ॥ 

११०२ लङ्लुङ्लृङयमाङाट् |8| | १३१ |

धातोर्लङि लुङि लृङि च अट् भवति न माङ्योगे || ट इत् विदादिः ॥ 

११०३ ऐर्ङितो लुक् | ||१०५ |

 ङिल्लादेशस्यातङः इतो लुग्भवति ॥ 

११०४ तस्थस्थवस्मस्मेस्तान्तन्तवमां लेटश्च | ||११४|

ङितो लक्ष्य लेटश्च तसादीनां षण्णां यथासङ्ख्यं तामादयो भवन्ति || झोऽन्तस्तस्य पदस्येति लुक् शेषं प्राग्वत् । अभवत् अभवताम् अभवन् । अभवः अभवतम् अभवत | अभवम् अभवाव अभवाम || 

११०५ आरैजाद्यचः ||| १३२ |

अजादेर्धातोर्लङ्लुङ्लृषु आदेरचः आरैचो भवन्ति न माङ्योगे || लङि टित्त्वाभावात् एत्वादि न भवति । ऐधत ऐधेताम् ऐधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् । एधे ऐवावहि ऐधामहि || एवमन्येऽप्यात्मनेपदिनः ॥ अपचत् अपचताम् अपचन् । अपच: अपचतम् अपचत । अपचम् अपचाव अपचाम || अपचत अपचेताम् अपचन्त | अपचथाः अपचेथाम् अपचध्वम् । अपचे अपचावहि अपचामहि ॥ एवमन्येऽप्युभयपदिनः ॥ 

१९०६ प्रादिर्नाप्रत्यये | || २४ |

 प्रादिर्धातुर्न भवति न चेत्ततः प्रत्ययः परो भवति ॥ इत्यधातुत्वात्तं व्युदस्याडादि । अपावदत् अपावदताम् अपावदन् इत्यादि । अपावदत अपावदेताम् अपावदन्त इत्यादि ॥ 

११०७ लिङ्लेडाशिषि | ||१३६ |

 आशिषि धातोर्लिङ्लेटौ भवतः ॥ इति लेट् । ट इत् उक्तार्थः । एकारः लेटश्चेति विशेषणार्थः ॥ 

११०८ सीम्येर्ह्युन्याम् | ||११४ |

लेटस्सेर्हिर्भवति इत उत् मेर्निः एत आम्। 

११०९ तुह्योस्ताद्वाशिषि | ||१२२ |

आशिषि तुह्योस्ताद्वा भवति ॥ 

१११० अतो हः || |३९|

अतः परस्य हेर्ल्लिवर्जितलादेशस्य श्लुलुग्भवति ॥ 

१९११ म्वेनादेष्टाप् | | | ११५ |

लेटो म्वेनादेष्टाप् भवति || टपाघितौ । दीर्घः । भवतु भवताद्वा भवतां भवन्तु । भव भवताद्वा भवतं भवत । भवानि भवाव भवाम || एवमन्येऽपि परस्मैपदिनः || 

१११२ स्वो वाम् |१।४|११७ |

लेटः सात्परस्य एतो वो भवति वात्परस्य अम् || 

१११३ एतोऽगैप् | ||११६ |

लेटो भ्वेनादेरेतः ऐप् भवति न गित् ॥ शेषं प्राग्वत् । एधताम् एधेताम् एधन्ताम् एधस्व एधेथाम् एधध्वम् । एधै एधावहै एधामहै । एवमन्येऽप्यात्मनेपदिनः ॥ पचतु पचताद्वा पचतां पचन्तु । पच पचताद्वा पचतं पचत पचानि पचाव पचाम ॥ पचतां पचेतां पचन्तां । पचस्व पचेथां पचध्वं । पचै पचावहै पन्चामहै । एवमन्येऽप्युभयपदिनः ॥ 

१११४ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थने ४।४।१२३

विधिर्नियोगः । निमन्त्रणं नियमेन कर्तव्यम् । आमन्त्रणं कामचारतः कर्तव्यम् । अधीष्टः सत्कारपूर्वको व्यापारः । सम्प्रश्नः सम्प्रधारणं । प्रार्थना याच्या । एतेषु धातोर्लेङ्लेटौ भवतः ॥ इति लेङ् । एङावितौ अतस्तिबादयः || 

१११५ ङ्याट्क्यासट् | ||१०९ |

लेङोऽतङो ङ्याड् भवति लिङः क्यासट् || ङटका इतः ॥ 

१११६ इय्यः || ||३५ |

अलेर्ल या इत्यस्य अतः परस्य इय् भवति || वलि यलुक् ॥ 

१११७ लेलेः |||१०८।

लेङ्लिङोर्झेर्जुस् भवति ॥ ज इत् शेषं प्राग्वत् । भवेत् भवेतां भवेयुः । भवेः भवेतं भवेत । भवेमं भवेव भवेम || तङि || 

१११८ टीय् | ||१११ |

लेङ्लिङोस्तङ्ष्टीय् भवति ॥ टिदादिः । वलि यलुक् । शेषं प्राग्वत् ॥ 

१११९ रन्नौ झेलोः | ||११० |

लेङ्लिङोर्झस्य रन् भवति इलोऽत् ॥ एधेत एधेयाताम् एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एधेवहि एधेमहि || एवमन्येऽप्यात्मनेपदिनः ॥ पचेत् पचेतां पचेयुः । पचेः पचेतं पचेत । पचेयं पचेव पचेम || पचेत पचेयातां पचेरन् । पचेथाः पचेयाथां पुचेध्वं । पचेय पचेवहि पचेमहि ॥ एवमन्येऽप्युभयपदिनः सार्व- धातुके नेयाः ॥ अद भक्षणे पूर्ववल्लडादयः ॥ 

११२० ह्वादादेःश्लुब्लुक | ||२१|

 ह्वादेः शपः श्लुप् भवति अदादेः श्लुक् ॥ चरिति चर । अत्ति अत्तः अदन्ति । अत्सि अत्थः जत्थ | अद्मि अद्वः अद्मः || शीङ् स्वप्ने || ङ इत् ततो लडादयः || 

११२१ एश्शीङः | || |

 शीङः श्लेले इति शकारेत्प्रत्यये लेटि लेङि लटि लङि च परे एद्भवति || अतः परत्वाभावादात इय् न भवति ११२२ शीङो रत् | || ९१ |

शीङः परस्य झस्य रद्भवति ॥ शेषं प्राग्वत् । शेते शयाते शेरते । शेषे शयाथे शेध्वे । शये शेवहे शेमहे ॥ ब्रूञ् व्यक्तायां वाचि । ञ इत् ततो लडादि । पिति ॥ 

११२३ ब्रुव ईट् | ||२५|

ब्रुञः परस्य अलेर्ल: अक्ङितो हलादेरीट् भवति || ट इत् । टिदादिः । एङ्वौ । तसादौ || 

११२४ श्ल्यब्लौ |||१४७ |

धातोरिशति लादेशे च ङिद्वद्भवति न पिल्लिङ्लिट्सु || इति ङित्त्वान्नेडेङौ । भ्रूहलित्युव् । ब्रवीति ब्रूतः ब्रुवन्ति । ब्रवीषि ब्रूथः ब्रूथ । ब्रवीमि ब्रूवः ब्रूमः ॥ तङि ॥ 

११२५ तेजोऽनतः | |४/९० |

अनतस्तङो झस्य अद्भवति ॥ शेषं प्राग्वत् । ब्रूते ब्रुवाते ब्रुवते । ब्रूषे ब्रुवाथे ब्रूध्वे । ब्रुवे ब्रूवहे ब्रूमहे || 

११२६ ब्रुवस्तिप्पञ्चतो णश्पञ्चद् ब्रुवश्चाहः | | |१०४ |

ब्रूवो लटस्तिपः णश् वा भवति तसोऽतुस् शेरुस् सिपस्थ थसोऽथुस् ब्रुवश्वाह इत्यादेशः ॥ णशावितौ अदुश्चारणार्थः ॥ 

११२७ थ्याहः |||८२ |

 ब्रुव आहस्थे तो भवति । आह आहतुः आहुःआत्थ आहथुः लङि ॥ 

११२८ अदोऽट् |||२८|

अदः परस्य अलेर्लः अक्ङितो हलादेरह भवति || आरैच् । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आद्व आद्म || अशेत अशयाताम् अशेरत । अशेथाः अशयाथाम् । अशेध्वम् । अशयि अशेवहि अशेमहि || अब्रवीत अब्रूताम् अब्हुवन् । अब्रवीः अब्रूतम् अब्रूत । अब्रवम् अब्रूव अब्रूम || अब्रूत अब्रूवाताम् अब्रुवत | अब्रूथाः अब्रुवाथाम् अब्रूध्वम् । अब्रूवि अब्रूहि अब्रूमहि ॥ लेटि || 

११२९ जल्होर्हो धिः | ||३२|

 जलन्ताज्जुहोतेश्व धातोः परस्य अलेर्लः हस्य धिर्भवति ॥ इदुच्चारणार्थः शेषं प्राग्वत् ॥ अत्तु अत्ताद्वा अत्ताम् अदन्तु | अद्धि अताद्वा अत्तम् अत । अदानि अदाव अदाम || शेतां शयातां शेरतां । शेप्व शयाथां शेध्वं । शयै शयावहै शयामहै | 

११३० हि चाप् | ||१२३ |

 हि च ताच्च पिन्न भवति ॥ अपिति इल्यब्लाविति ङिद्वद्भावादेङीटौ न भवतः ब्रवीतु ब्रूताद्वा ब्रूतां ब्रुवन्तु । ब्रूहि ब्रूताद्वा ब्रूतं ब्रूत । ब्रवाणि ब्रबाव ब्रवाम || ब्रूतां ब्रुवतां ब्रुवतां । ब्रूष्व ब्रुवाथां ब्रूध्वं। ब्रवै ब्रवावहै ब्रवामहै | लेङि || 

११३१ श्लुगुसि | ||३७|

उसि आतः श्लुग्भवति || शेषं प्राग्वत् । अद्यात् अद्याताम् अद्युः । अद्याः अद्यातम् अद्यात | अद्याम् अद्याव अद्याम ॥ शयीत शयीयातां शयीरन् । शयीथाः शयीयाथां शयीध्वं । शयीय शयीवहि शयीमहि ॥ ब्रूयात् ब्रूयातां ब्रूयुः । ब्रूयाः ब्रूयातं व्रूयात । ब्रूयां ब्रूयाव ब्रूयाम || ब्रुवीत ब्रुवीयातां व्रुवीरन् । ब्रूवीथाः ब्रुवीयाथां ब्रुवीध्वं । ब्रुवीय ब्रूवीवहि ब्रुवीमहि ॥ हु दानादानयोः ॥ ततो लडादयः । ह्वदादे: श्लुब्लुगिति शपः श्लुप् ॥ 

१९३२ द्विर्धातुः श्लुब्लिड्ङे प्रत्यये प्राक् त्वच्यचः ||४। | ४३

 श्लुपि लिटि ङे च प्रत्यये धातुर्द्विर्भवति । अजादौ तु परे तन्निमित्तात् अच्कार्यात्प्रागेव द्विः || 

१९३३ कुहोश्चुः |||८४ |

 द्विर्भावे पूर्वस्य कुहयोश्चुर्भवति || आसन्न इति घोषवतो महाप्राणस्य तादृशो झः ॥ 

१९३४ आण्जश्रज्झषः | ||७७|

द्विर्भावे पूर्वस्य ऋतोऽद्भवति अचोऽण् झषो जश् ॥ इति झस्य जः पित्योत् ॥ 

१९३५ द्व्युक्तिजक्षपञ्चतोऽत् | ||८९ |

 द्विरुक्ताज्जक्षादिपञ्चकाच्च धातोः परस्य झः अद्भवति || अन्तापवादः ॥ 

१९३६ ह्विणोऽचीकः श्लेले यञ् | || |

हु इण् इत्येतयोरिकः अजादौ किति ङिति च श्लेले यञ् भवति || इयुवपवादः । जुहोति जुहुतः जुह्वति । जुहोषि जुहुभः जुहुथ । जुहोमि जुहुवः जुहुमः ॥ ओहाङ् गतौ ॥ ओङावित पूर्ववल्लडादि ङित्त्वाल्लस्तङ् || 

११३७ पॄभृहाङ्माङामित् ||१।९५।

पॄ ऋ भृ हाङ् माङ् इत्येतेषां श्लुपि द्विर्भावे पूर्वस्याच इद्भवति ॥ 

११३८ हल्यघोरीः || | | ४८ |

श्नाप्रत्ययस्य अज्झेश्च धातोरातः अपिति यि च हलि लिवर्जितलादेशे ईद्भवति न घोः ॥ 

११३९ श्नाज्झेरातः | | |४७ |

श्नाप्रत्ययस्य अज्झेश्च धातोरातः अपिति यि च लिवर्जितलादेशे लुग्भवति ॥ जिहीते जिहाते जिहते । जिहीषे जिहाथे जिहीध्वे । जिहे जिहीवहे जिहीमहे || डुधाञ् धारणे च ॥ ढुञावितौ ततो लडादि शपः श्लुपि द्विर्भावे पूर्वस्य जश्त्वात्त्वे || 

११४० दाधा घ्वब् | ||२३|

दारूपो धारूपश्च धातुर्घुसंज्ञो भवति न पित् ॥ इति घुत्वात् हल्यघोरीरिति ईन्न भवति । आतो लुक् ॥ 

११४१ धाञो जलि च । १।२।७७।

झषन्तस्य धानो बशो भष् भवति जलादौ प्रत्यये परे ॥ शेषं प्राग्वत् । दधाति घत्तः दधति । दधासि धत्थः धत्थ । दधामि दध्वः दध्मः ॥ धत्ते दधाते दधते । धत्से दधाथे धद्ध्वे । दधे दध्वहे दध्महे ॥ लङि || 

१९४२ सिविदज्झेरभ्वः | ||१०७

सिप्रत्ययाद्विदः अज्ज्ञेश्व ङितो लः झेर्जुस् भवति न भुवः ॥ ज इत् ॥ 

११४३ जुस्पक्येङर् || २ | १६ |

धातोरिकः जुसि पकि च एङरो भवन्ति ॥ अजुहोत् अजुहुताम् अजुहवुः । अजुहोः अजुहुतम् अजुहुत । अजुहवम् अजुहुव अजहुम || अजिहीत अजिहाताम् अजिहत । अजिहीथा: अजिहाथाम् अजहीध्वम् । अजिहि अजिहीवहि आजहीमहि || अदधात् अदत्ताम् अदधुः । अदधाः अदत्तम अधत्त | अदधाम् अदध्व अदध्म । अधत्त अदधाताम् अदधत । अधत्थाः अदधाथाम् अधध्वम् । नदधि अदध्वहि अदध्महि ॥ लेटि हेर्धिः शेषं प्राग्वत् । जुहोतु जुहुताद्वा जुहुतां जुह्वतु | जुहुषि जुहुताद्वा जुहुतं जुहुत । जुहवानि जुहवाब जुहवाम ॥ जिहीतां जिहातां जिहतां । जिहीष्व जिहाथां जिहीध्वं । जिहै जिहावहै जिहामहै || 

११४४ घोर्हि |४|१|६८।

 घोर्हौ अच एद्भवति न च द्विः ॥ दधातु धताद्वा धतां दधतु । धेहि धत्ताद्वा धत्तं धत्त । दधानि दधाव दधाम || धत्तां दधातां दधतां । धत्स्व दाधाथां धद्ध्वं । दधै दधावहै दधाम है || लेङि । जुहुयात् जुहुयातां जुहुयुः । जुहुयाः जुहुयातं जुहुयात । जुहुयां जुहुयाव जुहुयाम ॥ जिहीत जिहीयातां जिहीरन् । जिहीथा: जिहीयाथां जिहीध्वं । जिहीय जिहीवहि जिहीमहि ॥ दध्यात् दध्यातां दध्युः । दध्याः दध्यातं दध्यात । दध्यां दध्याव दध्याम || दधीत दधीयातां दधीरन् । दधीथाः दधीयाथां दधीध्वं । दधीय दधीवहि दधीमहि || दिवू क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिमोदमदस्वप्नगतिषु ॥ ऊदित् । ततो लडादि ॥ 

११४५ दिवादेः श्यः | ||२२|

दिवादिभ्यः कर्तरि श्लेले श्यो भवति ॥ श इत् शपोऽपवादः । शित्त्वान्ङिद्वद्भावेन एङरो न भवन्ति । धातोर्व्रीग्दीर्घ इति दीर्घः । दीव्यति दीव्यतः दीव्यन्ति । दीव्यसि दीव्यथः दीव्यथ । दीव्यामि दीव्यावः दीव्यामः ॥ षूङौ प्राणिप्रसवे ॥ औङीवितौ । आदेः ष्ण इति षस्य सः ङित्त्वाल्लस्तङ् | शेषं प्राग्वत् । सूयते सूयेते सूयन्ते । सूयसे सूयेथे सूयध्वे । सूये सूयावहे सूयामहे | णही बन्धने || ईदित् । णस्य नः । नह्यति नह्यतः नह्यन्ति । नासि नाथः नाथ । नह्यामि नावः नह्यामः ॥ नह्यते नह्येते नह्यन्ते । नह्यसे नह्येथे नह्यध्वे । नह्ये नाह्यावहे नह्यामहे | लङि । अदीव्यत् अदीव्यताम् अदीव्यन् इत्यादि || असूयत असूयेताम् असूयन्त इत्यादि ॥ अनाह्यत् अनह्यताम् अनह्यन् । इत्यादि || अनद्यत अनह्येताम् अनन्त । इत्यादि । लेटि । दीव्यतु दीव्यताद्वा दीव्यतां दीव्यन्तु । इत्यादि ॥ सूयतां सूयेतां सूयन्ताम् इत्यादि || नाह्यतु नह्यताद्वा नह्यतां नह्यन्तु । इत्यादि ॥ नह्यतां नह्येतां नह्यन्ताम् इत्यादि ॥ लेङि । दीव्येत् दीव्येतां दीव्येयुः इत्यादि ॥ सूयेत सूयेयातां सूयेरन् इत्यादि ॥ नह्येत् नह्येतां नह्येयुः इत्यादि ॥ नह्येत नह्येयातां नह्येरन् इत्यादि ॥ षुञ् अभिषवे । अ इत् । षस्य सः । लडादिः ॥ 

११४६ स्वादेः ||||२८|

 स्वादिभ्यो धातुभ्यः कर्तरि श्लेले श्नुर्भवति ॥ श इत् । शल्यब्लाविति डिद्वद्भावार्थः । अत एव नैङ् ॥ 

१९४७ म्वि लुग्वा || |४१ |

असंयोगात्परस्य प्रत्ययस्योतः मवययोर्लुग्वा भवति || शेषं प्राग्वत् । सुनोति सुनुतः सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि सुन्वः सुनुवः सुन्मः सुनुमः ॥ अशौङ् व्याप्तौ ॥ औङावितौ पूर्ववल्लडादि । न शादिति श्चुत्वाभावः । संयोगात्परत्वादुतो लुग्न भवति । अश्नुते अश्नुवाते अश्नुवते । अश्नुषे अश्नुवाथे अनुध्वे । अश्नुवे अश्नुवहे अश्नुमहे ॥ चिञ् चयने ञ इत् पूर्ववत्प्रक्रिया | चिनोति चिनुतः चिन्वन्ति । चिनोषि चिनुथः चिनुथ | चिनोमि चिन्वः चिनुवः चिन्मः चिनुमः ॥ चिनुते चिन्वाते चिन्वते । चिनुषे चिन्वाथे चिनुध्वे । चिन्वे चिन्वहे चिनुवहे चिन्महे चिनुमहे ॥ लङि ॥ असुनोत् असुनुताम् असुन्वन् । असुनोः असुनुतम् असुनुत । असुनवम् असुन्व असुनव असुन्म असुनुम || आश्नुत आश्नुवाताम् आश्नुवत | आश्नुथाः आश्नुवाथाम् आश्नुध्वम् । आश्नुवि आश्नुवहि आश्नुमहि | अचिनोत् अचिनुताम् अचिन्वन् । अचिनोः अचिनुतम् अचिनुत । अचिनवम् अचिन्व अचिनुव अचिन्म अचिनुम ॥ अचिनुत अचिन्वाताम् अचिन्वत । अचिनुथाः अचिन्वाथाम् अचिनुध्वम् । अचिन्वि अचिन्वहि अचिनुवहि अचिन्महि अचिनुमहि || लेटि || 

११४८ असंयोगादोः || | |४०|

असंयोगात्परो य उत्ततः परस्य हे : श्लुग्भवति ॥ सुनोतु सुनुताद्वा सुनुतां सुन्वन्तु । सुनु सुनुताद्वा सुनुतं सुनुत । सुनवानि सुनवष सुनवाम || अश्नुताम् अश्नुवाताम् अश्नुवताम् । अश्नुष्व अश्नुवाथाम् अश्नुध्वम् । अश्नवै अश्नवावहै अश्नवामहै || चिनोतु चिनुताद्वा चिनुतां चिन्वन्तु । चिनु चिन्ताद्वा चिनुतं चिनुत । चिनवानि चिनवाव चिनवाम || चिनुतां चिन्वातां चिन्वतां । चिनुष्व चिन्वाथां चिनुध्वं । चिनवै चिनवावहै चिनवामहै | लेङि ॥ सुनुयात् सुनुयातां सुनुयुः । सुनुयाः सुनुयातं सुनुयात । सुनुयां सुनुयाव सुनुयाम || अश्नुवीत अश्नुवीयाताम् अश्नुवीरन् । अश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम् । अश्नुवीय अश्नुवीवहि अश्नुवीमहि ॥ चिनुयात् चिनुयातां चिनुयुः । चिनुयाः चिनुयातं चिनुयात । चिनुयां चिनुयाय चिनुयाम || चिन्वीत चिन्वीयातां चिन्वीरन् । चिन्वीथाः चिन्वीयाथां चिन्दीध्वं । चिन्वीय चिन्वीधहि चिन्वीमहि || डुक्रीञ् द्रव्यविनिमये ॥ दुजावितौ प्राग्वल्लडादि || 

११४९ क्र्यादेः | | ३। ३ |

क्यादिभ्यो धातुभ्यः कर्तरि श्लेले नात्रत्ययो भवति ॥ श इत् । शित्त्वान्नैङ् । हलादौ । हल्यघोरीरिति ईत् अच्यातो लुक् णत्वं । क्रीणाति क्रीणीतः क्रीणन्ति । क्रीणासि क्रीणीथः क्रीणीथ । क्रीणामि क्रीणीवः क्रीणीमः ॥ वृङ् संभक्तौ ॥ ङ इत् लडादि । वृणीते घृणाते वृणते । वृणीषे घृणाथे वृणीध्वे । वृणे वृणीवहे वृणीमहे || ग्रही उपादाने । ईदित् । लडादि ॥ 

वशिव्यचिव्यधिज्याग्रहित्रश्चिप्रच्छिभ्रज्जां क्ङिति |||११६ |

 वश्यादीनां किति ङिति च प्रत्यये परे साचो यञः इग्भवति ॥ शेषं प्राग्वत् । गुह्णाति गृहीतः गृह्णन्ति । गृह्णासि गृहीथः गृहीथ । गृह्णामि गृहीवः गृह्णीमः ॥ गृहीते गृहाते गृहते । गृह्णीषे गृहाथे गृहीध्वे । गृह्णे गृह्णिवहे गृह्णीमहे | लङि ॥ अक्रीणात् अक्रीणीताम् अक्रीणन् । अक्रीणाः अक्रीणीतम् अक्रीणीत । अक्रीणाम् अक्रीणीव अक्रीणीम ॥ अवृणीत अवृणाताम् अवृणत | अवृणीथाः अवृणाथाम् अवृणीध्वम् । अवृणि अवृणीवहि अवृणीमहि || अगृह्णात् अगृह्णीताम् अगृह्णन् । अगृह्णाः अगृह्णीतम् अगृह्णीत । अगृह्णाम् अगृह्णीव अगृह्णीम || अगृह्णीत अगृह्णाताम् अगृह्णत । अगृह्णीथाः अगृह्णीथाम् अगृह्णीध्वम् । अगृह्णि अगृह्णीबहि अगृह्णीमहि || लेटि । क्रीणानु क्रीणीताद्वा क्रीणीतां क्रीणन्तु । क्रीणीहि क्रीणीताद्वा क्रीणीतं क्रीणीत । क्रीणानि क्रीणाव श्रीणाम || वृणीतां वृणातां वृणतां । वृणीष्व वृणाथां वृणीध्वं । वृणै वृणावहै वृणामहै || 

११५१ हलश्श्नो हावाऽनः | | | ३१ |

 हलन्ताद्धातोः परस्य श्नः हौ परे आनो भवति ॥ अतो ह इति हेर्लुक् । गृह्णानु गृहीताद्वा गृहीतां गृहन्तु । गृहाण गृह्णीताद्वा गृहीतं गृह्णीत । गृह्णानि गृह्णाव गृह्णाम || गृह्णीतां गृह्णातां गृह्णतां । गृह्णीष्व गृह्णाथां गृह्णीध्वं । गृह्णै गृह्णावहै गृह्णामहै || लेङि ॥ क्रीणीयात् क्रीणीयातां क्रीणीयुः । क्रीणीयाः क्रीणीयातं क्रीणीयात । क्रीणीयां क्रीणीयाब क्रीणीयाम ॥ वृणीत वृणीयातां वृणीरन् । वृणीथाः वृणीयाथां वृणीध्वं । वृणीय वृणीवहि वृणीमहि || गृह्णीयात् गृह्णीयातां गृह्णीयुः । गृह्णीयाः गृह्णीयातं गृह्णीयात | गृह्णीयां गृह्णीयाव गृह्णीयाम | गृह्णीत गृह्णीयातां गृह्णीरन् । गृह्णीथाः गृह्णीयाथां गृह्णीध्वं । गृहणीय गृह्णीवहि गृहणीमहि ॥ तुदी व्यथने || ईदित् लडादि ॥ 

११५२ तुद्भ्यः शः || |३२|

तुदादिभ्यः कर्तरि श्लेले शो भवति ॥ श इत् ॥  

११५३ ह्रस्वस्थ हलः | || १८ |

हलन्तस्य धातोर्ह्रस्वस्येक एङर्भवति अक्ङिल्लुग्घेतौ प्रत्यये परे ॥ इति प्राप्तौ शिति ङिद्वद्भावादेङर् न भवति । शेषं प्राग्वत् । तुदति तुदवः तुदन्तीत्यादि । मृ प्राणत्यागे ॥ 

११५४ म्रियतेर्लुङ्लिङ्ललेः | | | १६ |

म्रियतेः परेषां लुङ्लिङ्लट्लङ्लेट्लेङां तङो भवन्ति ॥ 

११५५ रि: ||| १५|

धातो ऋतः यङयक्क्याश्शेषु रिर्भवति ॥ भ्रूहलिति इय् । म्रियते म्रियेते म्रियन्ते । म्रियसे इत्यादि ॥ मुच्ऌञ् मोक्ष- णे ॥ ऌञावितौ ॥  

११५६ लिपादितृफहफगुफोभशुभः शे | || १९८ |

लिपादीनां तृफादीनां च धातूनां शे परे नम् भवति || अमावितौ । मित्त्वादन्त्यादचः परः म्नामिति नस्य ञः। मुञ्चति मुञ्चतः मुञ्चन्ति इत्यादि । मुञ्चते मुञ्चेते मुञ्चन्ते इत्यादि । लङि । अतुदत् अतुदताम् अतुदन् इत्यादि । अम्रियत अम्रियेताम् अम्रियन्त इत्यादि । अमुञ्चत् अमुचताम् अमुञ्चन् इत्यादि । अमुञ्चत अमुचेताम् अमुञ्चन्त ॥ लेटि ॥ तुदतु तुदताद्वा तुदतां तुदन्तु इत्यादि । म्रियतां म्रियेतां म्रियन्ताम् इत्यादि । मुञ्चतु मुञ्चताद्वा मुञ्चतां मुञ्चन्तु इत्यादि । मुञ्चतां मुञ्चतां मुञ्चन्ताम् इत्यादि ॥ तुदेत् तुदेतां तुदेवु. इत्यादि । म्रियेत म्रियेयातां प्रियेरन् इत्यादि ॥ मुञ्चेत् मुञ्चे- तां मुञ्चेयुः इत्यादि । मुञ्चेत मुञ्चायातां मुञ्चेरन् ॥ तनूञ् विस्तारे ॥ ऊञावितौ ततो लडादि ॥ 

११५७ कृञ्तनादेरुः || | | ३३ |

 कृञस्तनादिभ्यश्च श्लेले उर्भवति ॥ पित्येङ् । म्विलुग्वेति मवयोरुतो वा लुक । तनोति तनुतः तन्वन्ति इत्यादि || मनूङ् बोधने || ऊङावितौ लडादि ङित्त्वात्तङ् मनुते मन्वाते मन्वते इत्यादि ॥ डुकृञ् करणे । डुञावितौ लडादि अरि ॥ 

११५८ अतःशि चोत् | ||४३|

कृञोऽत उद्भवति शित्यपिति यि च लिवर्जितलादेशे च परतः ॥ अपिति ङित्त्वान्नैङ् || 

११५९ कुर्यि ||| ४२ |

कृञः परस्योतो लुग्नित्यं भवति मवादावपिति यि च लिवर्जितलादेशे परतः ॥ करोति कुरुतः कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि कुर्वः कुर्मः ॥ कुरुते कुर्वते कुर्वते । कुरुषे इत्यादि || लङि । अतनोत् अतनुताम् अतन्वन् इत्यादि || अमनुत अमन्वाताम् अमन्वत इत्यादि || अकरोत् अकुरुताम् अकुर्वन् इत्यादि ॥ अकुरुत अकुर्वाताम् अकुर्वत इत्यादि ॥ लेटि । तनोतु तनुताद्वा तनुतां तन्वन्तु इत्यादि ॥ मनुतां मन्वातां मन्वतां इत्यादि || करोतु कुरुताद्वा कुरुतां कुर्वन्तु इत्यादि । कुरुतां कुर्वतां कुर्वताम् इत्यादि ॥ लेङि ॥ तनुयात् तनुयातां तनुयुः इत्यादि ॥ मन्वीत मन्वीयातां मन्वीरन् इत्यादि ॥ कुर्यात् कुर्यातां कुर्युः इत्यादि ॥ कुर्वीत कुर्वीयतां कुर्वीरन् इत्यादि ॥ रुधृञ् आवरणे ॥ ऋञावितौ । लडादि ॥ 

११६० रुधान्नम् न्लुक् च | | | ३४ |

 रुधादीनां कर्तरि श्लेले नम् भवति तेषां नस्य लुक् च भवति || शपोऽपवादः म इत् ॥ 

११६१ अधः || |८०|

अधाञो झषन्ताद्धातोः परयोस्तस्थयोर्धो भवति || जश्त्वम् ॥ 

१९६२ नर्मस्त्योर्मुक |४| २|४६ |

 नम्विकरणस्य अस्तेश्च धातोरतः शित्यपिति यि च लादेशे परे लुग् भवति ॥ चर्त्त्वं च । रुणद्धि रुन्द्धः रुन्धन्ति । रुणत्सि रुन्द्रः रुन्द्ध | रुणध्मि रुन्ध्वः रुन्ध्मः || भुज पालना- भ्यवहारयोः || अदित् | 

१९६३ शपनाथशिक्षभुजादुपलम्भनाशीर्जिज्ञासात्रा- णे | ||१२|

शपो लस्तङ् भवति उपलम्भने नाथ आशिषि शिक्षो जिज्ञासायां भुजादत्राणे ॥ इत्यपालने त कुत्वादि शेषं प्राग्वत् । भुङ्क्ते भुञ्जाते भुञ्जते । भुङ्क्षे भुञ्जाथे भुङ्ग्ध्वे । भुञ्जे भुञ्ज्वहे भुञ्ज्महे ॥ युजृञ् योगे । ऋञावितौ पूर्ववत्प्रक्रिया । युनक्ति युक्तः युञ्जन्ति । युनक्षि युक्थ युङ्क्थ । युनज्मि युञ्ज्वः युञ्ज्मः ॥ युङ्क्ते युञ्जाते युञ्जते । युङ्क्षे युञ्जाथे युङ्ग्ध्वे । युजे युञ्ज्वहे युज्महे ॥ लङि ॥ 

१९६४ ला || |९४ |

लादेशेन सह यः संयोगस्तदन्तस्य पदस्य लुग्भवति ॥ 

११६५ सिपि दश्व वा । १।२/७३ |

पदान्ते सस्य दस्य च सिपिरिर्वा भवति || रस्य विसर्जनीयः शेषं प्राग्वत् । अरुणत् (द्) अरुन्द्धाम् अरुन्द्धन् । अरुणः अरुणद्वा अरुन्द्धम् अरुन्द्ध | अरुणधम् अरुन्ध्व अरुन्ध्म || अभुङ्क्त अभुञ्जाताम् अभुञ्चत । अभुङ्क्थाः अभुञ्जाथाम् अभुङ्ग्ध्वम् । अभुञ्जि अभुञ्ज्वहि अभुञ्ज्महि || अयुनक् (ग्) अयुक्ताम् अयुञ्जन् । अयुनक् (ग्) अयुङ्क्तम् अयुङ्क्त । अयुनजम् अयुञ्ज्व अयुञ्ज्म | अयुङ्क्त अयुञ्जाताम् अयुञ्जत । अयुक्थाः अयुञ्जाथाम् अयुङ्ग्ध्वम् । अयुञ्जि अयुञ्ज्वहि अयुञ्ज्महि || लटि || रुणध्दु रुन्द्धाद्वा रुन्द्धां रुन्द्धन्तु । रुन्धि रुन्द्धाद्वा रुन्द्धं रुन्द्ध । रुणधानि रुणघाव रुणधाम ॥ भुङ्क्तां भुञ्जातां भुञ्जतां । भुङ्क्ष्व भुञ्जाथां भुङ्ग्ध्वं । भुनजै भुनजावहै भुनजामहै || युनक्तु युङ्क्ताद्वा युतां युञ्जन्तु । युङ्ग्धिः युङ्क्ताद्वा युङ्क्तं युङ्क्त । युनजानि युनजाव युनजाम || युक्तां युञ्जातां युञ्जतां । युङ्क्ष्व युञ्जथां युध्वं । युनजै युनजावहै युनजामहै | लेङि । रुन्ध्यात् रुध्यातां रुन्ध्युरित्यादि ॥ भुञ्जीत भुञ्जीयातां भुञ्जीरन् इत्यादि ॥ युञ्ज्यात् युञ्ज्यातां गुञ्ज्युरित्यादि ॥ युञ्जीत युञ्जीयातां युञ्जीरन् इत्यादि || चुर लुण्ट स्तेये || अदित् ॥ 

१९६६ चुरादिभ्यो णिच् ||||

चुरादिभ्यो धातुभ्यः स्वार्थे णिच् भवति ॥ णचावितौ ह्रस्वस्य हल इत्येङ् । चोरीत्यतो लडादयः । शेषं प्राग्वत् । चोरयति चोरयतः चोरयन्ति । चोरयसि चोरयथः चोरयथ । चोरयामि चोरयावः चोरयामः ॥ च्छदि संवरणे । इदित् । णिचि ॥ 

११६७ ञ्णित्यस्याः ||१।२३०

धातोरुपान्त्यस्यात आद्भवति ञिति णिति च प्रत्यये परे || अवयवे कृतं लिङ्गं समुदायस्य विशेषणं भवति अवयवेऽकृतार्थत्वादिति न्यायेन णिजन्तादेव तङ् । च्छादयते च्छादयेते च्छादयन्ते इत्यादि ॥ लक्षी दर्शनाङ्कनयोः ॥ ईदित् । णिजादि अनुपान्त्यत्वात् नात् । लक्षयति लक्षयतः लक्षयन्ति इत्यादि || लक्षयते लक्षयेते लक्षयन्ते इत्यादि || लङि । अचोरयत् अचोरयताम् अचोरयन् इत्यादि || अच्छादयत अच्छादयेताम् अच्छादयन्त इत्यादि || अलक्षयत् अलक्षयताम् अलक्षयन् इत्यादि || अलक्षयत अलक्षयेताम् अलक्षयन्त इत्यादि । लेटि | चोरयतु चोरयताद्वा चोरयतां चोरयन्तु इत्यादि ॥ च्छादयतां च्छादयेतां च्छादयन्ताम् इत्यादि || लक्षयतु लक्षयताद्वा लक्षयतां लक्षयन्तु इत्यादि ॥ लक्षयतां लक्षयेतां लक्षयन्ताम् इत्यादि ॥ लेङि । चोरयेत् चोरयेतां चोरयेयुः इत्यादि ॥ च्छादयेत च्छादयेयातां च्छादयेरन् इत्यादि ॥ लक्षयेत् लक्षयेतां लक्षमेयुरित्यादि ॥ लक्षयेत लक्षयेयातां लक्षयेरन् इत्यादि ॥ युज पृच संयमने || अदित् ॥ 

११६८ युजादेर्वा | ||८।

युजादिभ्यो धातुभ्यः स्वार्थे णिज्वा भवति ॥ पक्षे शबेव शेषं प्राग्वत् । योजयति योजयतः योजयन्ति इत्यादि || योजति योजतः योजन्तीत्यादि || अर्चि पूजायाम् । इदित् । णिजभावपक्षे सावकाश इति णिजन्तात्तङ न भवति । अर्चयति अर्चयतः अर्चयन्तीत्यादि || अर्च्चते अर्च्चेते अर्च्चन्ते इत्यादि || वृञ् वरणे || न इत् णिच्यरात्त्वे । वारयति वारयतः वारयन्तीत्यादि ॥ वरति वरते इत्यादि || लङि ॥ अयोजयत् अयोजयताम् अयोजयन् इत्यादि || अयोजत् अयोजताम् अयोजन इत्यादि || आर्चयत् आर्चयताम् आर्चयन् इत्यादि || आर्चत आर्चेताम् आर्चन्त इत्यादि ॥ अवारयत् अवारयताम् अवारयन् इत्यादि । अवरत् अवरत इत्यादि ॥ लेटि || योजयतु योजयताद्वा योजयतां योजयन्तु इत्यादि ॥ योजतु || अर्चयतु अर्चयताद्वा अर्चयताम् अर्चयन्तु इत्यादि । अर्चताम् अर्चेताम् अर्चन्ताम् इत्यादि । वारयतु वारयताद्वा वारयतां वारयन्तु । वरतु | वरताम् । इत्यादि ॥ लेङि | योजयेत् योजयेतां योजयेयुः इत्यादि ॥ योजेत । अर्चयेत् अर्चयेताम् अर्चयेयुरित्यादि । अर्चेत अर्चेयाताम् अर्चेरन् इत्यादि ॥ वारयेत् वारयेतां वारयेयुरित्यादि ॥ वरेत् वरेतां वरेयुरित्यादि । वरेत् वरेयातां वरेरन् इत्यादि । एवं तत्तद्गणधातवः सर्वेऽपि नेतव्याः इति कर्तरि श्लेलप्रकरणम् ॥ 

|| कर्मभावविवक्षायाम् ||

११६९ साप्यानाप्याल्लक्तघ्यप्खार्थाः कर्मभावे | | | ५५

सकर्मकाद्धातोः कर्मणि विवक्षिते लडादयो भवन्त्यकर्मकाद्भावे || इति लडादयः ॥ 

११७० कर्मभावे | | | १७|

 कर्मणि भावे च विवक्षिते धातोर्लस्तङेव भवति ॥ 

११७१ श्लेले यक् | | | १९|

 कर्मभावयोर्धातोः श्लेले यक् भवति || क इत् । कित्त्वान्नैङरौ । भावो धात्वत्थः क्रिया तस्यैकत्वात्तसैकवचनं त एव । अत्र लकारेण कर्तुरनभिधानात् अप्राधान्येन कर्तरि तृतीया विभक्तिः भवति । शेषं प्राग्वत् । भूयते देवदत्तेन विदुषा । ताभ्यां भूयते । तैर्भूयते । त्वया भूयते । मया भूयते || 

सन्मात्रं भावलिङ्गं स्यादसंपृक्तं तु कारकैः ॥

धात्वर्थः केवलश्शुद्धो भाव इत्यभिधीयते १ ॥

क्रियापदं कर्तृपदेन युक्तं व्यपेक्षते यत्र किमित्यपेक्षाम् ||

 सकर्मकं तं सुधियो वदन्ति शेषस्ततो धातुरकर्मकस्स्यात् ॥ २

लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् ||

स्वप्नक्रीडाव्रजिदीप्त्यर्था धातव एते कर्मविहीनाः ॥ ३ ॥

 

अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीत्यनुपूर्वत्वे तस्य । तस्यागतार्थेत्युपसर्गसंज्ञायां भवतेः सोपसर्गत्वात्सकर्मकात् कर्मणि लस्तादयो नवापि भवन्ति । शेषं प्राग्वत् । अनुभूयते अनुभूयेते अनुभूयन्ते इत्यादि ॥ एध्यते ॥ पच्यते पच्येते पच्यन्ते ॥ तङि । अभूयत || अन्वभूयत अन्वभूयेताम् अन्वभूयन्त इत्यादि ॥ ऐध्यत || अपच्यत अपच्येताम् अपच्यन्त इत्यादि ॥ लेटि || भूयताम् || अनुभूयताम् अनुभूयेताम् अनुभूयन्ताम् इत्यादि ॥ एध्यतां ॥ पच्यतां पच्येतां पच्यन्ताम् इत्यादि || लेङि । भूयेत । अनुभूयेत || एध्येत ॥ पच्येत पच्येयातां पच्येरन् इत्यादि ॥ अद्यते । आद्यत । अथताम् । अद्येत ॥ 

११७२ य्यय् |||||

शीङः इको ये क्ङित्यय् भवति ॥ शय्यते । अशय्यत । शय्यतां । शय्येत ॥ 

१९७३ अस्तिब्रुवोर्भूवचौ | || ९१ |

अस्तर्ल्यश्लि प्रत्यये भू भवति ब्रुवो वच् ॥ 

१९७४ श्व्यादिस्वब्वचः किति || |११५

शव्यादीनां स्वब्वचोश्च साचो यञ इग्भवति किति परे । उच्यते। औच्यत उच्यताम् उच्येत ॥ यङलेङ्कृति चर्दचोरदीर्घाविति दीर्घः । हूयते । अहूयत । हूयतां । हूयेत || हायते । अहायत | हायतां । हायेत ||  

१९७५ ई हल्यप्ये | ||८७ |

घुसंज्ञानां मास्थागापाहाक्सानां च धातूनां हलादौ क्ङिति ल्यश्लि प्रत्यये परे ईद्भवति न प्ये ॥ दीयते । अदीयत । दीयतां । दीयेत || दीव्यते । अदीव्यत । दीव्यतां । सूयते । असूयत । सूयतां । सूयेत || नाते अनात | नातां । नह्येत ॥ अश्यते । आश्यत । अश्यताम् | अश्येत ॥ यङलेङिति दीर्घः । चीयते । अचीयत । चीयतां । चीयेत ॥ क्रीयते । अक्रीयत । क्रीयतां । क्रीयेत || रिः । व्रीयते। अव्रियत । व्रियतां । व्रियेत गृह्यते । अगृह्यत | गृह्यतां । गृह्येत ॥ तुद्यते। अतुद्यत । तुद्यतां तुद्येत ॥ रिः । म्रियते । अम्रियत म्रियतां । म्रियेत ॥ मुच्यते । अमुच्यत । मुच्यतां । मुच्येत॥ 

११७३ तेनो यकि | |१।२७० |

 तनो धातोराद्वा भवति यकि परे । दीर्घः । तायते तन्यते । अतायत अतन्यत । तायतां तन्यतां । तायेत तन्येत ॥ मन्यते । अमन्यत । मन्यतां । मन्येत || रिः क्रियते । अक्रियत । क्रियतां क्रियत ॥ रुथ्यते । अरुध्यत । रुध्यतां । रध्येत ॥ भुज्यते । अभुज्यत । भुज्यतां । भुज्येत || युज्यते । अयुज्यत । युज्यतां । युज्येत ॥ 

१९७७ णेरिक्तानिडामात्यन्तेन्त्वाय्ये | | |१०१ |

 णेरिडाद्योः क्तयोर्ल्यश्लि प्रत्यये च परे लुग्भवति नेडामात्वन्तेत्न्वाय्येषु ॥ चोर्यते । अचोर्यत । चोर्यतां । चोर्येत || छाद्यते । अच्क्वाद्यत | च्क्वाद्यतां । छायेत ॥ लक्ष्यते । अलक्ष्यत । लक्ष्यतां । लक्ष्येत || योज्यते । अयोज्यत । योज्यतां । योज्येत || युज्यते । अयुज्यत । युज्यतां । युज्येत || अर्च्यते । आर्च्यत । अर्च्यताम् | अर्च्येत । वार्यते व्रियते । अवार्यत । अव्रियत । वार्यतां व्रियतां । वार्येत व्रियेत || एवमन्येऽपि धातवो नेयाः ॥ 

अविवक्षितकर्तृकाणां सकर्मकधातूनां कर्मण एव कर्तृत्वे ॥ 

११७८ कर्मण्यस्रुवादीनां कर्म्मवल्लि | | |३५| कर्मणि कर्तरि धातोर्लः कर्मवत्कार्यं भवति न स्रवत्यादीनामिति यगादि भवति || अनुभूयते कम्बलः स्वयमेव । पच्यते ओदनः स्वयमेव भिद्यते कुसूलः स्व- यमेव । अनुवादीनामिति किं? स्रवति जलं स्वयमेव इत्यादि नेयम् ॥

इति भावकर्मश्लेलपरिच्छेदः

अथ शेषलकाराः कर्तरि नीयन्ते

भू इत्यतः लिङ्लेडाशिषीति लिङ् । इङावितौ । तिबादयः प्राग्वत् । एर्ङ्ङितो लुगिति लुक् । क्यासट् अटका इतः । तिप्सिपोस्संयोगस्येति सुलुक् । झेर्जुस् । शेषं प्राग्वत् ॥ भूयात् भूयास्तं भूयासुः भूयाः भूयास्तं  भूयासं भूयास्व भूयास्म || एवं नन्द्यात् नन्द्यास्तां नन्द्यासुः इत्यादि । एधस्तङि टिय् || 

११७९ सट् सत्थीयां लिङः | ||११२ ।

लिङस्तथयोष्टीयश्च सट् भवति || अटावितौ । टिदादिः । वलि यलुक् ॥ 

११८० वलादेरिडत्रवषुणादेः | || १३४ |

 धातोर्बलादेर्ल्यश्ल इड् भवति न त्रवषुणादेः || ट इत् । षिः ष्टुत्वं । झस्य रन् । इलोऽत् । शेषं प्राग्वत् । एधिषीष्ट एधिषीयास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधिषीय एधिषीवहि एधिषीमहि ॥ पच्यात् पच्यास्तां पच्यासुः इत्यादि ॥ तहि || 

१९८१ मुरिसिविपवाच्चः | || १७७ |

म्वादिपूर्वाच्चान्तादेकाचो धातोर्वलादेरिट् न भवति || शेषं सुगमम् । पक्षीष्ट पक्षीयास्तां पक्षीरन् इत्यादि || अद्यात् अद्यास्ताम् अधासुः इत्यादि ॥ 

१९८२ शक्प्रच्छिविन्द्विद्यहन्वसिघस्यचोऽश्विश्रिशी- ङ्डीङ्रूषट्केद्वॄदत्तः |४।२| १७६ ।

 शकादिभ्यः अजन्तेभ्यश्च एकाजभ्यो वलादेरिड् न भवति श्विश्रिशीङडीङः रुषट्कमूदन्तं वृङ्वृञौ ऋदन्तमदन्तं च वर्जयित्वा ॥ इतीड्प्रतिषेधो न भवति । इजो लिलुङां धो ढः । इत्यधिकृत्य || 

१९८३ वेड्ञेः | ||८२ |

 इञन्तादिटो ञिटश्च परेषां लिड्लिङ्लुङां धस्य ढो वा भवति || शेषं प्राग्वत् । शयिषीष्ट शयिषीयास्तां शयिषीरन् । शयिषीष्ठाः शयिषीयास्थां शयिषीढ्वं शयिषीध्वं । शयिषीय शयिषीवहि शयिषीमहि ॥ उच्यात् उच्यास्ताम् उच्यासुः इत्यादि || तङ्यकित्त्वान्नेक् । मुरिसीतीडभावः । वक्षीष्ट वक्षीयास्तां वक्षीरन् इत्यादि || यशलेङिति दीर्घः । हूयात् हूयास्तां हूयासुः इत्यादि ॥ शकप्रच्क्वीति नेट् हासीष्ट हासीयास्तां हासीरन् इत्यादि ॥ 

१९८४ घुमास्थागापाहाक्सः || |८६ |

 ध्वादीनां क्ङिति लिङ्येद् भवति || धेयात् धेयास्तां धेयासुः इत्यादि ॥ तङ्यकित्त्वान्नैत् धासीष्ट | दीव्यात् ॥ 

११८५ रधाद्यौदिड्धूञः | ४|२| १३|

रधादेरौदितो धूञश्च वलादेरिड्वा भवति ॥ सविषीष्ट । इडभावे || 

१९८६ इञो लिलुङां धो ढः |१२|८१

इञन्ताद्धातोर्लिड्लिङ्लुङां धस्य ढो भवति ॥ सोषीष्ट सोषीढ्वम् इत्यादि ॥ नह्यात् नह्यास्तां नाह्यासुरित्यादि ॥ 

११८७ वनमिदुरुदिलिदाद् हः | ||१८७

वादिपूर्वात् हान्तादेकाचो धातोर्वलादेरिड् न भवति ॥ हस्य धः । नत्सीष्ट नत्सीयास्तां नसीरन् || सूयात् सुयास्तां सूयासुरित्यादि । औदित्त्वाद्वेट् अशिषीष्ट । इडभावे व्रश्चेति शस्य षः॥ 

१९८८ षढः कस्सि | १/२/६६ |

षढयोस्सि को भवति || अक्षीष्ट अक्षीयास्ताम् अक्षीरन् इत्यादि । चीयात् । तङि शक्प्रच्छीति नेट् चेषीष्ट ॥ क्रीयात् ॥ 

११८९ हल्भ्यां चोस्सट्तङ्सेः || |१३८ ।

हल्द्वयात्परऋदन्तात् ऋदन्तात् वृङ्वृञ्भ्यां च परस्य सटस्तङ्परस्य च सेरिड्वा भवति ॥ वरिषीष्ट । इडभावे- 

११९० उः | ||१६३ ।

ऋवर्णान्तस्य धातोस्तङि सकारादौ सिलौ किद्वद् भवति ॥ वृषीष्ट गृह्यात् ॥ 

१९९१ ग्रह एकाचोऽलिटीटः || |१३६ |

एकाचो ग्रहेरिट ईड भवति न लिटि || ग्रहीषीष्ट । तुद्यात् ॥ 

११९२ अक्षुनुतुस्कन्भिच्छिखिशपसहाद्दः | ४।२।१८०।

 अदादिपूर्वाद्दान्तादेकाचो धातोर्वलादेरिड् न भवति ॥ 

११९३ सिलौ तङि | ||१६२ |

 हलन्तस्य धातोरिकस्तङ्परे सादौ सौ लिङि च परे किद्वद् भवति || कित्त्वान्नैङ् । तुत्सीष्ट । मृषीष्ट । मुच्यात् । कित्त्वान्नैङ् मुक्षीष्ट । तन्यात् । मनिषीष्ट । क्रियात् । कृषीष्ट । रुध्यात्  

११९४ वन्रासायुबुक्रुशुरुक्षुव्याद्धः |४| २|१८१|

बनादिपूर्वाद्धान्तात् एकाचो धातोर्वलादेरिड् न भवति ॥ शेषं प्राग्वत् । रुत्सीष्ट ॥ 

११९५ भ्रस्मस्सृयुयविनित्यभुरुभाज्जः |४।२| १७८।

भ्रसादिपूर्वाज्जान्तादेकाचो धातोर्वलादेरिड् न भवति ॥ भुक्षीष्ट । युज्यात् । युक्षीष्ट ॥ णिलुकू चोर्यात् । छदोऽनेकाच्त्वात् इड्निषेधो नास्ति । छादयिषीष्ट । लक्ष्यात् लक्षयिषीष्ट । योज्यात् । युज्यात् । अर्च्यात् अर्चिषीष्ट । वार्यात् । व्रियात् । वरिषीष्ट । वृषीष्ट ॥ एवमन्येऽपि धातवो लिङन्ता नेयाः ॥ 

अत्यन्तापह्नवे लिट् | | |२११९| इत्यधिकृत्य || ” 

११९६ परोक्षे ।४।||२१२

परोक्षे स्वयमसाक्षात्कृते भूतानद्यतनेऽर्थे धातोर्लिड् भवति || इटावितौ । तिबादयः || 

११९७ अतङाणशतुसुस्थाथुसश्णश्वमाः | ||१०१

 लिटस्तिबादीनां नवानां यथासङ्ख्यं णशादयो नव भवन्ति ॥ णशावितौ शित्त्वात्सर्वस्य ॥ 

१९९८ किद्वल्लिटीन्धेश्वासंयोगात् |४। |१४८ ।

असंयोगादिन्धेश्च धातोरपिति लिटि परे कितीव कार्यं भवति ॥ 

१९९९ कित्युक्श्यूर्णुञः | || १८९ |

एकाचः उगन्तात् श्रिञः ऊर्णञश्व कितीड् न भवति ॥ 

१२०० सृभृवृस्तुद्रुश्रस्रोश्च लिटि || |१९३ |

स्रादिभ्यः असकारात् कृञश्चैव विहितस्य लिट इड् न भवति नान्यस्मादिति नियमात् लिटीड् भवत्येव ॥ विध्यन्तरात् प्रागेव द्विर्भावः । आण्जशिति पूर्वस्य बत्वोत्वे।

१२०१ भूव्यथोऽदित् |||१०७ |

 भुवो लिटि द्विर्भावे पूर्वस्योत अद्भवति व्यथोऽत इत् || पित्येङवौ । णित्यात् अपित्युव् ॥ 

१२०२ लुङ्लिटि भुवः ||| २१८|

भुव उपान्त्यस्याचः लुङि लिटि च ऊद्भवति ॥ बभूव बभूवतुः बभूवुः । बभूविथ बभूवथुः बभूव । बभूव बभूचिव बभूविम ॥ एवं ननन्द ननन्दतुः ननन्दुः इत्यादि || 

१२०३ दयायास्कास्गुर्विजाद्यनेकाचोऽनृच्छूर्णोरां कृभ्वस्लिट् चानु |||८३।

 दयादेर्गुर्विजादेरनेकाचश्च परस्य लिट अ भवति न ऋच्छूर्णोतिभ्यां तस्य चादन्तरं लिडन्ताः कृभ्वस्तयः प्रयुज्यन्त एव ॥ 

१२०४ आमः कृञः | ||४७ |

 आमः प्राक्प्रकृतेरिवामः परात् कृञो लस्तङ् भवति || 

१२०५ लिटस्तस्यैशिरे || | ९८ |

लिटस्तस्य एश् भवति झस्य इरे ॥ कित्त्वात् नार् | धस्य ढः । स्रादित्वान्नेट् । द्विर्भावे पूर्वस्य ऋतोऽत् चुत्वम् । आमि विदात्किदिति पृथगारम्भात् न स्थानिवद्भावः । न च द्विः | आमस्तस्वदित्यव्ययत्वम् । एधाञ्चक्रे एषाञ्चक्राते एधाञ्चक्रिरे । एधाञ्चकृषे एधाञ्चक्राथे एधाञ्चकृढ्वे। एधाञ्चक्रे एधाञ्चकृवहे एधाञ्चक्रमहे || एषाम्बभूव एधांबभूवतुः एधाम्बभूवुः इत्यादि ॥ अस भुवि । अदित् लिटि अस् अस् इति द्विः || 

१२०६ हलोऽनादेः |||८२ ।

द्विर्भावे पूर्वस्थानादेर्हलो लुग्भवति ॥ 

१२०७ लिट्यादादेरतः | ||१०५ ।

 लिटि द्विर्भावे पूर्वस्यादेरतः आद् भवति || शेषं प्राग्वत् । स्रादिनियमादिट् । एधामास एधामासतुः एधामासुः । एधामासिथ एधामासथुः एधामास । एवामास एधामासिव एवामासिम || 

१२०८ त्रप्फलभजत्रझट्क्वज्ह्वादिददिशसिकृतस्यातोऽन्तर्हलोः || || ६३ |

 त्रप् फलि भज तृ इत्येतेषां झट्कवर्गाज्हवा- दिददिशसिकृतवर्जितानां च धातूनां द्वयोर्हलोर्मध्ये वर्तमानस्यात एद्भवति इडादाबपिति च लिटि परे न च द्विः ॥ 

१२०९ नित्यानिट्तासोऽत्वदच्सृज्दृशस्थे वावॄव्यात्तेः |||१९० |

 नित्यमनिद् ताम् यस्य तस्मादकारवतः अजन्तात् सृजिदृशिभ्यां च थे परे इड्वा न भवति न वृ ऋ व्या अत्ति इत्येतेभ्यः || 

१२१० मिपोऽश् | ||१००।

 लिटो मिपोऽश् वा भवति ॥ शेषं प्राग्वत् । पपाच पेचतुः पेचुः । पपक्थ पेचिथ पेचथुः पेच । पपाच पपच पेचिव पेचिम || पेचे पेचाते पेचिरे । पेचिषे पेचाथे पेचिध्वे | पेचे पेचिवहे पेचिमहे || 

१२११ लिटि वा | ||१२० |

अदो लिटि घस्ऌ वा भवति ॥ ऌदित् द्विः लुगादि । 

१२१२ गम्हन्जन्खन्घसोऽनङ्यचि लुक् क्ङि ||| २२०।

गमादीनामुपान्त्यस्याचः क्ङित्यजादौ लुग् भवति नाङि ॥ षत्वचर्त्वे । जघास जक्षतुः जक्षुः । जघसिथ जक्षथुः जक्ष । जघास जघस जक्षिव जक्षिम ॥ पक्षे “लिट्यादादेरत” इत्यात् । आद आदतुः आदुः । आदिथ आदधुः आद | आद आदिव आदिम || प्रत्ययेऽसुधीण इति यञ् । वेड्ञेरिति धस्य वा ढः । शिश्ये शिश्याते शिश्यिरे । शिश्यिषे शिश्याथे शिश्यिध्वे शिश्यिवे । शिश्ये शिश्यिवहे शिश्यिमहे ॥ ब्रुवो वचि द्विः ॥ 

१२१३ इग्यञः साचोऽर्याज्यम् | ||१०८ ।

 आ ज्यो इत्यतो वक्ष्यमाणस्य धातोर्लिटि द्विर्भावे पूर्वस्य साचो यञ इग्भवति न रेफयकारपरस्य ॥ अपिति शव्यादीतीक् दीर्घः । उवाच ऊचतुः ऊचुः । उवचिथ उवक्थ ऊचथुः ऊच । उवाच उवच ऊचिव ऊचिम ॥ ऊचे ऊचाते ऊचिरे इत्यादि ॥ पित्यङवौ णित्यात् कित्युव् थे वेट् वस्मसोरिट् । जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ जुहुवयुः जुहुव । जुहाव जुहव जुहुविव जुहुविम || 

१२१४ भीह्रीभृहोः श्लुब्वत् | ||८५।

 भ्यादिभ्यः परस्य लिट आम् वा भवति स च श्लुब्वत् ॥ तस्य चानन्तरं लिडन्ताः कृभ्वस्तयः प्रयुज्यन्त एव ॥ अतो द्वित्वादि । विदात् किदिति नियमादाम्येङवौ || 

१२१५ न |||४८|

आमः परात् कृञो लस्तङ् न भवति शेषं प्राग्वत् । जुहवांचकार जुहवांचक्रतुः जुहवांचक्रुः । जुहवांचकर्थ जुहवांचक्रथुः जुहवांचक्र। जुहवांचकार जुहवांचकर जुहवांचकृव जुहवांचक्म || 

१२१६ इटि चातो लुक | ||८४ |

 आदन्तस्य धातोरिठ्यजादौ च कूङिति ल्यश्लि प्रत्यये लुग् भवति || जहे जहाते जहिरे इत्यादि ॥ 

१२१७ णमेरौशातः | १।४।९९ |

आतो लिटो णश्मिपोरौश् भवति ॥ श इत् ऐच् । दधौ दधतुः दधुः । दधिथ दधाथ दधथुः दध । दधौ दधिव दधिम || दधे दधाते दधिरे इत्यादि ॥ द्वित्वादौ कृते एङ् । दिदेव दिदिवतुः दिदिवुः । दिदेविथ दिदिवथुः दिदिव । दिदेव दिदिविव दिदिविम ॥ सुषुवे सुषुवाते सुषुविरे । सुषुविषे सुषुवाथे सुषुविदवे सुषुविध्वे । सुषुवे सुषुविवहे सुषुविमहे ॥ त्रप्फलीत्यत एत् । ननाह नेहतुः नेहुः । नेहिथ ननद्ध नेहथुः नेह । ननाह नन्ह नेहिव नेहिम || नेहे नेहाते नेहिरे इत्यादि । सुषाव सुषुवतुः सुषुवुः । सुषविथ सुषोथ इत्यादि । 

१२१८ नक् चाश्वृदाद्यनेकहलः | ||१०६ |

अशौङः ऋदादेरनेकद्दलश्च धातोर्लिटि द्विर्भावे पूर्वस्यात आद्भवति नक् चास्य || अकावितौ । आनशे आनशाते आनशिरे । आनशिषे आनशाथे इत्यादि || 

१२१९ चेर्वा | |१२|७३ |

 चिनोतेर्लिट्सनोर्द्विर्भावे पूर्वात्परस्य कुर्वा भवति || चिकाय चिक्यतुः चिक्युः । चिकयिथ चिकेथ इत्यादि || अकुत्वे | चिचाय चिच्यतुः चिच्युः इत्यादि । चिक्ये चिक्याते चिक्यिरे । इत्यादि ॥ चिच्ये चिच्याते चिच्चिरे इत्यादि ॥ अपितीय् शेषं प्राग्वत् । चिक्राय चिकियतुः चिक्रियुः । चिक्रयिथ चिक्रेथ इत्यादि। इत्यादि । यञ् । वव्रे वव्राते वव्रिरे। ववृषे वव्राथे ववृढ्वे । वव्रे ववृवहे ववृमहे | वशीति यञ् इक् । जग्राह जगृहतुः जगृहुः । जग्रहिथ इत्यादि || जगृहे जगृहाते जगृहिरे इत्यादि || तुतोद तुतुदतुः तुतुदुः । तुतोदिथ इत्यादि || 

१२२० ऋतः | || १९१।

ऋत एकाचस्थस्येड् न भवति ॥ ममार मम्रतुः मम्रुः । ममर्थ इत्यादि । मुमोच मुमुचतुः मुमुचुः । मुमोचिथ इत्यादि || मुमुचे मुमुचाते मुमुचिरे इत्यादि । ततान तेनतुः नेनुः । तेनिथ इत्यादि || मेने मेनाते मेनिरे इत्यादि । 

१२२१ कृञोऽसः | || १९२ |

 असट्कात् कृञस्थस्येड् न भवति ॥ चकार चक्रतुः चकुः । चकर्थेत्यादि । चक्रे चक्राते चक्रिरे इत्यादि ॥ तस्यैव सम्पूर्वस्य ‘ सम्पर्युपात् कृञः सड्भूषसमवाये’ इति सटि ॥ 

१२२२ स्कॄच्छॄतः |४।२|१२|

स्कृॠच्छोः ॠदन्तस्य चेको लिट्यर्भवति ॥ 

१२२३ लुक् खयि || | ८१ |

द्विर्भावे पूर्वस्य खयि परे पूर्वस्य हलो लुग्भवति ॥ सञ्चस्कार सञ्चस्करतुः सञ्चस्करुः । संचस्करिथेत्यादि ॥ रुरोध रुरुधतुः रुरुधुः ॥ रुरोधिथेत्यादि ॥ बुभुजे बुभुजाते बुभुजिरे इत्यादि ॥ युयोज युयुजतुः युयुजुः युयोजिथेत्यादि । युयुजे युयुजाते युयुजिरे इत्यादि || चोरयांचकार चोरयाञ्चक्रतुः चोरयाञ्चक्रुः इत्यादि || छादयांचक्रे छादयांचक्राते छादयांचक्रिरे इत्यादि । लक्षयाञ्चकार लक्षयांचक्रतुः लक्षयांचक्रुरित्यादि || लक्षयाञ्चक्रे लक्षयाञ्चक्राते लक्षयाञ्चक्रिरे इत्यादि || योजयाञ्चकार योजयांचक्रतुः योजयांचक्रुः इत्यादि । युयोज युयुजतुः युयुजुः इत्यादि || अर्चयाञ्चकार अर्चयाञ्चक्रतुः अर्चयाञ्चकुः इत्यादि ॥ नक् | आनर्चे आनर्च्चाते आनर्च्चिरे इत्यादि । वारयाञ्चकार वारयाञ्चक्रतुः वारयाञ्चकुः इत्यादि ॥ ववार वत्रतुः वव्रुः || अवॄव्यात्तेरिति निषेधात्थस्येट् । ववरिथ इत्यादि ॥ वव्रे वव्राते वव्रिरे इत्यादि । इति कर्तरि लिट्प्रकरणम् || 

१२२४ लुङ् ||||२०५।

भूतेऽर्थे धातोर्लुङ् भवति । उङावितौ ॥

 १२२५ सिर्लुङि ।४।३।२

धातोर्लुङि सिर्भवति ॥ इदित् लस्तिबादि ||

 १२२६ घुपाभूस्थैतेः श्लुक् | || ७३ |

ध्वादिभ्यः सेरतङाने लुग्भवति । पिति ॥ 

१२२७ भूस्वोऽद्धेः |४।२|२०|

भूस्वारिकः लिवर्जितलादेशे एङ् न भवति न द्र्व्युक्तेः || अभ्व इति निषेधात् न झेर्जुम् । अजादावुवि लुङ्लिटि भुव इत्युत ऊत् अडादि । अभूत् अभूताम् अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम || ऐच् । सेरिडादि || 

१२२८ धि वा | ||७८१।

 धातोर्धकारादौ प्रत्यये सस्य लुग्वा भवति ॥ पक्षे जश् शेषं प्राग्वत् । ऐधिष्ट ऐधिषाताम् ऐधिषत ऐधिष्ठाः ऐधिषाथाम् ऐधिध्वम् ऐषिध्वम् । ऐधिषि ऐधिष्वहि ऐधिप्महि || 

१२२९ हेलाम् ||||६७ |

 हलन्तस्य धातोरकः अतङानपरे सौ आरैचो भवन्ति || 

१२३० स्वस्तेस्सोऽल: |४/२/२७।

 सोरस्तेश्च सात्परस्य अक्ङितो हल: अल्मात्रस्य अलेर्लः ईड् भवति ॥ ट इत् ॥ 

१२३१ जल्ह्रस्वाल्लुक् सस्तौ |४/२/७६ |

जलन्तात् ह्रस्वान्ताच्च धातोः परस्य सेस्तवर्गादौ लुग् भवति || झेर्जुस् । शेषं प्राग्वत् । अपाक्षीत् अपाक्ताम् अपाक्षुः । अपाक्षीः अपाक्तम् अपाक्त । अपाक्षम् अपाक्ष्व अपाक्ष्म || अपक्त अपक्षाताम् अपक्षत | अपक्थाः अपक्षाथाम् अपग्ध्वम् । अपक्षि | अपक्ष्व अपक्ष्महि || 

१२३२ न क्षण्शसिश्विजाग्रेदिन्मह्यश्च | ||७०१।

 क्षणादेरेदितो महयान्तस्य हलन्तस्य च धातोरकः इडादौ सावरचो न भवन्ति

 १२३३ ईटीटः || |७७१

 इटः परस्य सेरीटि लुग् भवति ॥ दीर्घः । अनन्दीत् अनन्दिष्टाम् अनन्दिषुः इत्यादि || 

१२३४ घस्लज्घञ्लुङ्सनि || | ११९ |

अदो घस्ऌ भवत्यज्घञ्लुङ्सन्सु परतः ॥ ऌदित् ॥३५ सर्त्तिशस्तिलिद्द्युत्पुष्यादेः | | | ११ |

सर्त्तिशास्तिभ्यां ऌदितः द्युतादेः पुष्यादेश्च कर्तरि लुङन्यतङि अङ् भवति ॥ सेरपवादः । ङ इत् । अनङीति नाचो लुक् । अघसत् अघसताम् अघसन् इत्यादि ॥ अशयिष्ट अशयिषाताम् अशयिषत इत्यादि || 

१२३६ वक्त्यसूख्यातेः |४।३|१२|

वक्त्यादेः कर्तरि लुङि अङ् भवति || 

१२३७ श्वयत्यस्वच्पतोऽङ्यथगुम्पम् ||२/७/

श्वयतेरङि अद्भवति असस्थक् वच उम् पतः पम् ॥ अकमा इतः । अवोचत् अबोचसाम् अवोचन् इत्यादि || अवोचत अवोचेताम् अवोचन्त इत्यादि || 

१२३८ सावारैचः |४/२/६६ |

 धातोरकः अतङानपरे सौ परतः आरैचो भवन्ति ॥ शेषं प्राग्वत् । अहौषीत् अहौष्टाम् अहौषुरित्यादि ॥ अहास्त अहासाताम् अहासत इत्यादि । धुपेति से: लुक् । अधात् अधाताम् अधुः । अधाः अधातम् अधात । अधाम् अधाव अधाम || 

१२३९ घुस्थोरि || | १६८ |

घुस्थोरात इद् भवति तङि परे सकारादौ सौ परे किद्वञ्च || जल्ह्रस्वादिति सेर्लुक् । अधित अधिषाताम् अधिषत । अधिथाः अधिषाथाम् अधिध्वम् । अधिषि अधिष्वहि अधिष्महि ॥ अदेवीत् अदेविष्टाम् अदेविषुः इत्यादि ॥ रथादीति वेट् । असविष्ट असविषाताम् असविषत इत्यादि ॥ असोष्ट | अनात्सीत् अनाद्धाम् अनात्सुरित्यादि || अनद्ध अनत्साताम् अनत्सत इत्यादि ॥ 

१२४० धुञ्सुस्तुभ्य इट् | ||७१ |

धूञादेरिड् भवति सेरतङाने परे || असावीत असाविष्टाम् असाविषुरित्यादि || आशिष्ट आशिषाताम् आशिषत इत्यादि ॥ इडभावे व्रश्चेति शस्य षः षढः कस्सि षत्वं ष्टुत्वं च । आष्ट आक्षाताम् आक्षत | आष्ठाः आक्षाथाम् आह्वम् | आक्षि आक्ष्वहि आक्ष्महि || अचैषीत् अचैष्टाम् अचैषुरित्यादि । अचेष्ट || अक्रैषीत् अक्रैष्टां । हल्भ्यामित्यादिनेड्विकल्पः ॥ 

१२४१ ॠद्वुर्व्वालतङ्से || || १३७ |

ऋदन्ताद्वृञ्भ्यां व परस्येट ईड्वा भवति न लिङि लिटि अतङ्परे च सौ परतः ॥ अवरीष्ट अवरीषाताम् अवरीषत इत्यादि || अवरिष्ट अवरिषाताम् अवरिषत इत्यादि || अवृत । ग्रह इति इट ईट् न क्षणित्यारैजभावः । अग्रहीत अग्रहीष्टाम् अग्रहीषुरित्यादि || अग्रहीष्ट अग्रहीषाताम् अग्रहीषत इत्यादि || अतौत्सीत् अतौत्ताम् अतौत्सुरित्यादि || अमृत अमृषाताम् अमृषत इत्यादि || ऌदित्त्वादङ्यङः । अमुचत् अमुचताम् अमुचन् इत्यादि || अमुक्त अमुक्षाताम् अमुक्षत इत्यादि || 

१२४२ वोर्णुञ्हलादेर्ल्लघोरिटि || |६९ |

ऊर्णुञः हलादेर्हलन्तस्य च धातोर्ल्लघोरतः अतङाने इडादौ सौ परे आरैचो वा भवन्ति ॥ अतानीत् अतानिष्टाम् अतानिषुः इत्यादि || अतनीत् अतनिष्टाम् अतनिषुरित्यादि । 

१२४३ तन्भ्यस्थास्ते | | |७५ |

तनामिभ्यः सेः लुग्वा भवति थास्तयोः परतः ॥ श्लुचि स्थानिवद्भावाभावात् नेट् । ङित्वात् हन्मन्यमिति नलुक् च । अतत अतनिष्ट अतनिषाताम् अतनिषत । अतथाः अतनिष्ठाः इत्यादि ॥ एवम् अमत अमनिष्ट अमनिषाताम् अमनिषत । अमथाः अमनिष्ठाः इत्यादि || अकार्षीत् अकार्ष्टाम् अकार्षुरित्यादि ॥ अकृत अकृषाताम् अकृषत इत्यादि । 

१२४४ ऋदितोऽतङि | ||१०|

ऋदितो धातोः कर्तर्यतङि लुङि मध्ये अङ्वा भवति ॥ पक्षे सिः ऐच् । अरुधत् अरुधताम् अरुधन् इत्यादि || अरौत्सीत् अरुद्ध । अयुजत् अयौक्षीत् अयुक्त || 

१२४५ कंश्रिद्रुस्रुणेर्ङः कर्तरि | | ||

कमादेर्ण्यन्ताच्च कर्तरि लुङि ङो भवति ॥ ङ इत् ॥ 

१२४६ ङेऽशास्वग्नाश्यृदितः | ||२११|

 धातोरुपान्त्यस्याचो ङपरे णौ परे इस्वो भवति न शासेरग्नाशिनः ॠदितश्च ॥ द्विः ॥ 

१२४७ आद्येकाच् |||४४ |

अनेकाचो धातोर्लिटि ङे च तदादिरेकाच् द्विर्भवति ॥ 

१२४८ लघोर्दीर्घोऽनजादेः | ||१०१ |

अनजादेर्धातोर्भावे पूर्वस्य लघोर्लघौ धात्वक्षरे परे ङपरेऽनग्लुचि णौ च परतो दीर्घो भवति ॥ णिलुक् अचूचुरत् ॥ 

१२४९ सन्वल्लघौ ङेऽनग्लुचि |||१०० |

द्विर्भावे पूर्वस्य लघौ परे सनीव कार्यं भवति ङपरेऽनग्लुचि णौ परतः ॥ 

१२५० सन्यतः |४। | ९६ ।

 द्विर्भावे पूर्वस्यात इद्भवति सनि परे । अन्तरङ्गत्वात्प्रागेव छस्य द्वित्वं ॥ 

१२५१ खरश्चर् ||||७९ |

द्विर्भावे पूर्वस्य खरश्चर्भवति ॥ शेषं प्राग्वत् । अचिच्छदत | अललक्षत् अललक्षत | परस्य गुरुत्वान्न सन्वद्भावः अयूयुजत् अयौक्षीत् ॥ 

१९५२ ततः |||४८|

अजादेरनेकाचो द्विर्भावप्राप्तौ आदेरचः परः एकाच् द्विर्भवति ॥ 

१२५३ न बन्द्रा वलि |||४९ |

 आदेरचः परे बनदरा बलि न द्विर्भवन्ति आर्च्चिचत् आर्चिष्ट । अवीवरत् । अवारीत् । अवृत । अवरीष्ट । अवरिष्ट । एवमन्येऽपि धातवो नेतव्याः || 

१२५४ परिदेवनानद्यतने लुट् | | |२८३ |

 परिदेवने अनद्यतने च भविष्यत्यर्थे धातोर्लट् भवति ॥ उटावितौ ॥ 

१२५५ तास्यौ लुल्रोः | | | |

 धातोर्लुटि तास् भवति लृङ्लृटोः स्यः ॥ इट् लस्तिवादि ॥ 

१२५६ झे: | १/४/९७|

 लुटस्तिपो डा भवति तसौ रौ झे रस् । ङ इत् अन्त्याजादिलुक् ॥ 

१२५७ तासस्त्योः स्नि|| |७९ |

तास्प्रत्ययस्य अस्तेश्च सस्य सरयोर्लुग् भवति ॥ एङवौ । भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । तङि।

१२५८ लोराझाड्डारौरस् | ||९६ |

लुटस्तातांझानां यथासख्यं डारौरसो भवन्ति ॥ ड इत् एत्वादि ॥ 

१२५९ एति हः || |८०|

तासस्त्योः सस्य एति हो भवति || शेषं प्राग्वत् । एधिता एधितारौ एधितारः । एधितासे एधितासाथे एधिताद्ध्वे एधिताध्वे । एधिताहे एधितास्वहे एषितास्महे ॥ पक्ता । अत्ता । शयिता । वक्ता । होता । हाता । धाता । देविता । सविता । सोता । नद्धा । अशिता । अष्टा । चेता। क्रेता । वरिता वरीता । ग्रहीता । तोत्ता । मर्त्ता । मोक्ता । तनिता । मनिता । कर्त्ता । रोद्धा । भोक्ता । योक्ता । चोरयिता । छदायिता । लक्षयिता । योजयिता । योक्ता । अर्च्चयिता । अर्चिता । वारयिता । वरीता । वरिता । एवमन्येऽपि धातवो नेतव्याः || 

१२६० लेङ्निमित्तेऽवृत्तौ भूते च लृङ् | ||१०८

 सति लेङ्निमित्ते क्रियातिपत्तिमति भूते भविष्यति चार्थे धातोर्लृङ् भवति || ऋङावितौ मध्ये स्यः इडादिः प्राग्वल्लस्तिबादयः लुगादि च । अभविष्यत् अभविष्याताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम || ऐषिप्यत ऐधिप्येताम् ऐधिष्यन्त इत्यादि । अपक्ष्यत् अपक्ष्यत । आत्स्यत् अशयिष्यत । अवक्ष्यत् अवक्ष्यत अहोप्यत् अहोष्यत । अधास्यत् अधास्यत । अदेविष्यत् असविष्यत असोष्यत । अनत्स्यत् अनत्स्यत । असोष्यत् । अशिष्यत आक्ष्यत । अचेष्यत् अचेष्यत । अक्रेष्यत् । अवरिष्यत अवरीष्यत । अग्रहिष्यत् अग्रहीष्यत । अतोत्स्यत् ॥ 

१२६१ ऋद्घ्नः स्ये | || १६६ |

 ऋदन्तात् हन्तेश्च स्यप्रत्यये इड् भवति || अमरिष्यत् । अमोक्ष्यत् अमोक्ष्यत । अतनिष्यत् अतनिष्यत । अमनिष्यत । अकरिष्यत् अकरिष्यत । अरोत्स्यत् । अभोक्ष्यत । अयोक्ष्यत् ‘ अयोक्ष्यत । अचोरयिष्यत् । अछादयिष्यत । अलक्षयिष्यत् अलक्षयिष्यत । अयोजयिष्यत् । अयोक्ष्यत् । आर्च्चयिष्यत् आर्चिष्यत । अवारयिष्यत् अवरिष्यत् अवरीष्यत् । अवरिष्यत अवरीप्यत । एवमन्येऽपि धातवो नेतव्याः ॥ गम्यादि वर्त्यतीत्यधिकृत्य ॥ 

१२६२ लृट् |||२८२ ।

 भविष्यत्यर्थे धातोर्लट् प्रत्ययो भवति ऋटावितौ । मध्ये स्यः । इडादि सर्वं पूर्ववत् । भविष्यति भविष्यतः भविष्य- न्तीत्यादि || एधिष्यते एधिष्येते एधिष्यन्ते इत्यादि । पक्ष्यति पक्ष्यते । अत्स्यति । शयिष्यते । वक्ष्यति वक्ष्यते । हाष्यति हास्यते । धास्यति धास्यते । देविष्यति । सविष्यते । सोप्यते । नत्स्यति नत्स्यते । सोष्यति । अशिध्यते । अक्ष्यते । चेष्यति । चेष्यते । क्रेष्यति । वरिष्यते वरीष्यते । महीष्यति ग्रहीष्यते । तोत्स्यति । मरिष्यति । मोक्ष्यति मोक्ष्यते । तनिष्यति । मनिष्यते । करिष्यति करिष्यते । रोत्स्यति । भोक्ष्यते । योक्ष्यति योक्ष्यते । चोरयिष्यति । छादयिष्यते । लक्षयिष्यति लक्षयिष्यते | योजयिष्यति योक्ष्यति । अर्चयिष्यति अर्चिष्यते । वारयिष्यति । वरिष्यति वरीष्यति । एवमन्येऽपि धातवो नेतव्याः ॥ इति कर्त्तरि लिङादिप्रकरणम् || 

१२६३ हन्दृशिग्रहज्भ्यः सितास्स्यसटां ञिड्वा | | | १८|

हनादेरजन्ताच्च परेषां सितामस्यटां कर्मभावयोर्ञिड्वा भवति ॥ ञटावितौ पक्षे इट् । शेषं प्राग्वत् । भाविषीष्ट भविषष्टि देवदत्तेन देवदत्तजिनदत्ताभ्यां देवदत्तजिनदत्तयज्ञदत्तैर्वा । कर्मणि अनुभाविषीष्ट अनुभाविषीयास्ताम् अनुभाविषीरन् । अनुभविषीष्ट अनुभविषीयास्ताम् अनुभविषीरन् । इत्यादि । एधिषीष्ट । पक्षीष्ट । अत्सीष्ट । शायिषीष्ट । शयिषीष्ट । वक्षीष्ट । हाविषीष्ट । होषीष्ट ॥ 

१२६४ आतो यम् | | | २३७ |

 आदन्तस्य धातोर्ञ्णिति कृति ञौ च यम् भवति || अमावितौ । हायिषीष्ट । हासीष्ट । धायिषीष्ट । धासीष्ट । देविषीष्ट । साविषीष्ट । सविषीष्ट । सोषीष्ट । नत्सीष्ट । साविषीष्ट अशिषीष्ट । अक्षीष्ट । चायिषीष्ट चेषीष्ट । कायिषीष्ट क्रेषीष्ट । वारिषीष्ट वरिषीष्ट वृषीष्ट । ग्राहिषीष्ट ग्रहीषीष्ट । तुत्सीष्ट । मारिषीष्ठ । म्रषीष्ट । मुक्षीष्ट । तनिषीष्ट । मनिषीष्ट । कारिषीष्ट कृषीष्ट । रुत्सीष्ट । भुक्षीष्ट । युक्षीष्ट । चोरिषीष्ट चोरयिषीष्ट । छादिषीष्ट छादयिषीष्ट । लक्षिषीष्ट लक्ष – यिषीष्ट । योजिषीष्ट योजयिषीष्ट । युक्षीष्ट । अर्चिषीष्ट अर्श्वयिषीष्ट । वारिषीष्ट वारयिषीष्ट वृवीष्ट । एवमन्येऽपि धातवो नेयाः ॥ 

लिट् । भावे बभूवे तेन ताभ्यां तैर्वा । कर्मणि अनुबभूवे अनुबभूवाते अनुबभूविरे इत्यादि । एधाञ्चक्रे । पेचे । आदे । जक्षे । शिश्ये । ऊचे । जुहवाञ्चके । जुहुवे । जहे । दधे । दिदिवे । सुषुवे | नेहे । आनशे । चिक्ये । चिच्ये । चिक्रिये । वव्रे । जगृहे । तुतुदे । मम्रे । मुमुचे । तेने । मेने । चक्रे । रुरुधे । बुभुजे । युयुजे । चोरयांचक्रे । छादयांचक्रे । लक्षयांचक्रे । योजयांचक्रे युयुजे । अर्चयाञ्चक्रे आन | वारयाञ्चक्रे व । एवमन्येऽपि धातवो नेयाः || लुङि ॥ 

१२६५ कर्मभावे |||१७|

कर्मभावयोर्धातोर्ञिर्भवति लुङि ते परे ॥ ञ इत् ॥ 

१२६६ : ञेः|| |३८|

ञे परस्य लिबर्जितलादेशस्य श्लुग्भवति ॥ एङ्वातः । अभावि तेन त्वया मया । कर्मणि अन्वभावि । ञिटि अन्वभाविषाताम् अन्वभाविषत । इटि अन्वभविषाताम् । ऐधि । अपाचि अपक्षाताम् । अघासि || 

१२६७ तस्सि ल्यश्लि || |८१|

धातोस्सस्य तो भवति शिल्लादेशवर्जिते लिङि लिटि च सादौ प्रत्यये परे ॥ इति सस्य तः । अघत्साताम् । अशायि । अवाचि अवक्षाताम् । अहावि अहाविषाताम् अहोषाताम् । अहामि अहायिषाताम् अहासाताम् । अधायि अधायिषाताम् अधिषाताम् | अदेवि । असावि असाविषाताम् असविषाताम् असोषाताम् । अनाहि अनत्साताम् । आशि आशिषाताम् आक्षाताम् । अचायि अच्चायि- षाताम् अचेषाताम् | अक्रायि अक्रायिषाताम् अक्रेषाताम् । अवारि अवारिषाताम् अवरिषाताम् अवरीषाताम् अवृषाताम् । अग्राहि अप्राहिषाताम् अग्रहीषाताम् । अतोदि अतुत्साताम् । अमारि । अमोचि अमुक्षाताम् । अतानि अतनिषाताम् । अमानि अमनिषाताम् | अकारि अकारिषाताम् अकृषाताम् । अरोधि अरुत्सताम् । अभोज अभुक्षाताम् । अयोजि अयुक्षाताम् । अचोरि अचोरिषाताम् अचोरयिषाताम् । अच्छादि अच्छा- दिषाताम् अच्छादयिषाताम् | अलक्षि अलक्षिषाताम् अलक्षयिषाताम् । अयोजि अयोजिषाताम् अयोजयिषाताम् अयुक्षाताम् | आर्च्चि आर्च्चिषाताम् आर्च्चियिषाताम् । अवारि अवारिषाताम् अवारयिषाताम् अवरीषाताम् अनुषाताम् । एवमन्येऽपि योज्याः || 

लुटि || भावे । भाविता भविता तेन । कर्मणि अनुभाविता अनुभ विता । एषिता । पक्ता । नन्दिता । अत्ता | शायिता । शयिता । वक्ता । हाविता होता । हाथिता हाता । धायिता धाता । देविता । साबिता सविता सोता । नद्वा । अशिता अष्टा । चायिता चेता । क्रायिता क्रेता । वारिता वरिता वरीता । प्राहिता महीता । तोता । मारिता मर्चा । मोक्ता । तनिता । मनिता । कारिता कर्ता । रोद्धा । भोक्ता । योक्ता । चोरिता चोरयिता । च्छादिता च्छादयिता । लक्षिता लक्षयिता । योजिता योजयिता योक्ता । अर्चिता अर्थयिता । वारिता वारयिता वरिता वरीता । एवमन्येऽपि साध्याः ॥ 

लुङि । स्ये । ञिटि । भावे अभाविष्यत तेन । इटि । अभविष्यत तेन । कर्मणि अन्वभाविष्यत अन्वभविष्यत । ऐधिष्यत । अपक्ष्यत । आत्स्यत अशायिष्यत अशयिष्यत । अवक्ष्यत । अहाविष्यत अहोष्यत । अहायिष्यत अहास्यत । अधायिष्यत अधास्यत । अदेविष्यत । असाविष्यत असविष्यत असोप्यत । अनत्स्यत । असाविप्यत असोष्यत । आशिष्यत आक्ष्यत । अचायिष्यत अचेष्यत । अक्रायिप्यत अक्रेप्यत । अवारिप्यत अवरिष्यत अवरीप्यत । अमाहिय्यत अग्रहीष्यत । अतोत्स्यत । अमारिष्यत अमरिष्यत । अमोक्ष्यत । अतनिष्यत । अमनिष्यत । अकारिष्यत अकरिष्यत । अरोत्स्यत । अभोक्ष्यत । अयोक्ष्यत । अचोरिष्यत अचोरयिष्यत । अच्छादिष्यत अच्छादयिष्यत । अलक्षिप्यत अलक्षयिष्यत । अयोजिप्यत अयोजयिष्यत अयोक्ष्यत । आर्च्चिष्यत आर्च्चियिष्यत । अवारिष्यत अवारयिष्यत अवरिष्यत अवरीष्यत । एवमन्येऽपि नेयाः ॥ 

लृटि । अडागमं ङित्कार्यं च वर्जयित्वा शेषं लुङ्वत् । भावे । भाविष्यते भविष्यते तेन । कर्मणि अनुभाविष्यते अनुभविष्यते । एधिष्यते । पक्ष्यते । नन्दिप्यते । अत्स्यते । शायिष्यते शयिष्यते । वक्ष्यते । हाविष्यते होष्यते । हायिष्यते हास्यते । दायिष्यते दास्यते । देविष्यते । साविष्यते सविष्यते सोष्यते । नत्स्यते । साविष्यते सोष्यते । अशिष्यते अक्ष्यते । चायिष्यते चेष्यते । क्रायिष्यते क्रेष्यते । वारिष्यते वरिष्यते वरीष्यते । ग्राहिष्यते ग्रहीष्यते । तोत्स्यते । मारिष्यते मरिष्यते । मोक्ष्यते । तनिष्यते । मनिष्यते । कारिष्यते करिष्यते । रोत्स्यते । भोक्ष्यते । योक्ष्यते । चोरिष्यते चोरयिष्यते । च्छादिष्यते च्छादयिष्यते । लक्षिष्यते लक्षयिष्यते । योजिष्यते योजयिष्यते योक्ष्यते । अर्चिष्यते अर्चयिप्यते । वारिष्यते वारयिष्यते वरीष्यते वरिष्यते । एवमन्येऽपि धातवो नेतव्याः ॥ एवं कर्मकर्त्तर्यपि लिङादिपञ्चके नेयं ॥ लुङि तु ॥ 

१२६८ ञ्यज्दुहः | | |४०|

अजन्ताद्दुहश्च धातोः कर्मकर्त्तरि ञिर्वा न भवति ॥ पक्षे सिर्ञिट् च वा । शेषं प्राग्वत् । अन्वभावि अन्वभाविष्ट अन्वभविष्ट कम्बलस्स्वयमेव । हलन्तान्नित्य एव ञिः । अपाचि भक्तं स्वयमेव । एवं सर्वत्र योज्यः ॥ 

१२६९ रुधः |||४१ |

रुधः कर्मकर्तरि ञिर्न भवति ॥ सिलुगादि । अरुद्ध गौः स्वयमेव ॥ 

॥इति कर्मभावकर्मकर्तृषु लिङादिप्रकरणम्

अथोत्तरप्रकृतेर्लकाराः प्रदर्श्यन्ते । भृशं भवति पुनःपुनर्वा भवतीति विगृह्य || 

१२७० अट्याद्येकाजूहलादिभ्योऽरुचिशुभिभ्यां भृशा- भीक्ष्णे यद् | ||१०|

एकान्हलादेरट्यादेश्च धातोर्भृशाभीक्ष्णयोर्यङ् प्रत्ययो भवति न रुचिशुभिभ्याम् ॥ ङ इत् ॥ 

१२७१ सन्यङश्च |||४५ |

सनन्तस्य यङन्तस्य च आद्यैकाच् द्विर्भवति ॥ भूय् इत्यस्य द्विः । यलुक् । आण्जशिति ऊत उत् । भस्य बः ॥ 

१२७२ ऐङमिदाहाकोः | |१।८६ |

यङन्तस्य द्विर्भावे पूर्वस्याचः आदेङ् चासन्नो भवति न मिदादन्तहाकोः ॥ ततः पूर्ववल्लडादयः । ङित्त्वात्तङ् | शप्येद् इति लुक् । बोभूयते । अबोभूयत । बोभूयतां । बोभूयेत | भावादौ यकि ॥ 

१२७३ अतः।४।२।१००

अदन्तस्य धातोर्ल्यश्लि प्रत्यये लुग्भवति ॥ इत्यतो लुक् बोभूय्यते तेन अनुबोभूय्यते अबोभूय्यत अन्नबोभूय्यत बोभूय्यताम् अनुबोभूय्यतां बोभूय्येत अनुबोभूय्येत । लिङि कर्त्तरि बोभूयिषीष्ट । भावे बोभूयिषीष्ट । कर्मणि अनुबोभूयिषीष्ट । लिट्याम् बोभूयांचक्रे बोभूयाम्बभूव बोभूयामास । भावे बोभूयाञ्चक्रे बोभूयाम्बभूवे । कर्मणि अनुबोभूयांचक्रे । लुङि अबोभूयिष्ट । भावे अबोभूमि तेन । कर्मणि अन्वबोभूयि । लुटि बोभूयिता । भावे बोभूयिता देवदत्तेन । कर्मणि अनुबोभूयिता । लुङि अबोभूयिप्यत । भावे अबोभूयिष्यत । कर्मणि अन्वबोभूयिष्यत ॥ लटि बोभूयिष्यते । भावे बोभूयिष्यते । कर्मणि अनुबोभूयिष्यते । एवं पापच्यते । यकि अत इति लुचि ॥ 

१२७४ हलो यः | ||९८ |

 इलन्ताद्धातोर्यस्य ल्यश्लि प्रत्यये लुग् भवति || पापच्यते अपापच्यत पापच्यतां पापच्येत । पापचिषीष्ट । पापचांचक्रे । अपापचिष्ट । कर्मणि । अपापाचे । पापचिता । अपापचिप्यत । पापचिप्यते । नानन्द्यते । व्यय् शाशय्यते । वावच्यते ॥ दीर्घः ॥ 

१२७५ यङोऽकवतेः |||८५ |

यङन्तस्य द्विर्भावे पूर्वस्य कुहयोश्चुर्भवति न कवतेः ॥ जोहूयते ॥ 

१२७६ गॄलुप्सद्दहजव्जभचर्दशगत्यर्थाभ्यां गर्ह्यकुटिलयोः ||||११|

 ग्रादिभ्यो गर्ह्यर्थे यङ् भवति गत्यर्थेभ्यः कुटिले || कुटिलं जिहीते जाहायते । ई हल्यप्ये इतीत्वे एङ् देधीयते । देदीव्यते । सोषूयते । नानह्यते । सोषूयते । अट्यादित्वात् यङ् || 

१२७७ ततः |||४८ |

सन्यङन्तस्य लिड्ङे पूर्वस्य चानेकाचो धातोरजादेरादेरचः परः एकाच द्विर्भवति ॥ इति श्य इत्यस्य द्विर्भावः यलुगादि अशाश्यते । चेचीयते । चेक्रीयते । यङलेङिति री वेत्रीयते । वशीति यङ इक् ॥ 

१२७८ रीमृत्वाताम् |||१।९३ |

ऋकारवतो धातोर्यङन्तस्य द्विर्भावे पूर्वस्य रीम् भवति ॥ म इत् । जरगृह्यते । तोतुद्यते । मेम्रीयते । मोमुच्यते ॥ 

१२७९ अतोऽनुनासिकस्य मम् |||८८ |

अतः परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्विर्भावे पूर्वस्य मम् भवति || अमावितौ । तन्तन्यते । मंमन्यते । चक्रीयते । रोरुध्यते । बोभुज्यते । योजुज्यते । अट्यादित्वाद्यङि णिलुगादि । सोसूच्यते । एवं सोसूत्र्यते । मोमूत्र्यते । वृञो णिजभावपक्षे यङ् वेत्रीयते । प्राग्वत् सर्वं नेतव्यं ॥ 

श्लुग्बहुलम् ||||१२|

यङः श्लुग्बहुलं भवति ॥ स्थानिवद्भावेन द्विर्भवति । लडादि । चर्करीतञ्चेत्यदादित्वात् शपः श्लुक् । ङिञ्ञीदित इति वचनात् ॥ 

तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।

यच्चैकाज्ग्रहणं किंचित् पञ्चैतानि न युङ्श्लुचि ॥

इति वचनाच्च ङानुबन्धाश्रितस्तङ् न भवति । तिबादयः । पिति ॥ 

१२८१ यङ्तुरुस्तोर्बहुलम् ।४।२।२६।

यङन्तात्तुरुस्तुभ्यश्व परस्याक्ङितो हल: अलेर्ल ईट् बहुलं भवति || एङ्वौ । पक्षे एङ् । द्व्युक्तिजक्षेति झोऽत् । उव् । बोभोति बोभवीति बोभूतः बोभुवति । बोभोषि । बोभवीषि बोभूथः बोभूथ | बोभोमि बोभवीमि बोभूवः बोभूमः ॥ लङ् अबोभोत् अबोभवीत् अबोभूतां । झेर्जुसि एङवौ अवोभवुः । अबोभोः अबोभवीः अबोभूतम् अबोभूत। अबोभवम् अबोभूव अबोभूम | लेटि हितातोरपित्त्वादेङीटौ न भवतः । बोभोतु बोभवीतु बोभूताद्वा बोभूतां बोभुवतु । बोभूहि बोभूताद्वा बोभूतं बोभूत । बोभवानि बोभवाव बोभवाम || लेङि बोभूयात् बोभूयातां बोभूयुरित्यादि । भावकर्मणोः बोभूयते अनुबोभूयते इत्यादि । लेङि बोभूयात् बोभूयास्तां बोभूयासुः । लिटि नेत्यामः परात्कृञो लस्तङ् न भवति बोभवाञ्चकार । लुङि सेरिटि स्यस्तस्सोऽल ईट्। ईटीट इति सेलुक् । सावारैचः आत् झेर्जुस् । अबोभावीत् अबोभाविष्टाम् अबोभाविषुः । लुटि बोभविता । लुङि अबोभविष्यत् । लटि बोभविष्यति । कर्मभावे ञिडादि च । बोभाविषीष्ट अनुबोभाविषीष्ट अनुबोभविषीष्ट इत्यादि । पापचीति पापक्ति । जोहवीति जोहोति ॥ 

 १२८२ द्व्युक्तर्नाचि ल्यलौ| ||१९ |

द्विरुक्तस्य हलन्तस्य धातोरिकः अजादौ लिवर्जितलादेशे परे एङरौ न भवतः ॥ इडभावे एङि वलि वलुक् । देदिवीति देदेति । सोषवीति सोषोति सोषुतः । नानहीति नानद्धि । चेक्रयीति चेक्रेति ॥ 

१२८३ रम्रिम् च  श्लुचि |||९३ |

 यङः श्लुचि ऋत्वतो धातोर्द्विर्भावे पूर्वस्य रम्रिम्रिमो भवन्ति ॥ अमावितौ । वर्वरीति । वरिवरीति । वरीवरीति ववर्तिवरिवर्ति वरीवर्ति । जर्गृहीति जरिगृहीति जरीगृहीति । अनीटि । ह इति ढः । अध इति तस्य धः । ष्टुत्वं । ढे ढलुक् जर्गर्ढि जरिगर्ढि जरीगर्ढि । तोतोत्ति तोतुदीति । मर्मर्ति मरिमर्ति मरीमति मर्मरीति मरिमरीति मरीमरीति । तन्तनीति तन्तन्ति । तिबादिग्रहणनिर्दिष्टेषु यङ्श्लुचि न भवन्तीति वचनात् हन्मन्यमिति नलुग् न भवति।

१२८४ क्किजलि कित्यनुनासिके || | १३६।

 कौ जलि च क्ङिति प्रत्यये परे योऽनुनासिकस्ततः पूर्वस्य धातोरचो दीर्घो भवति ॥ तन्तान्तः तन्तनति । मम्मनीति मम्मन्ति । चर्कर्ति चरिकर्ति चरीकर्ति चर्करीति चरिकरीति चरीकरीति । रोरोद्धि रोरुधीति । बोभोक्ति बोभुजीति । योयोक्ति योयुजीति । एवमन्येऽपि धातवो नेतव्याः || 

|| इति यङ्प्रकरणम् ||

भवति कश्चित्तमन्यः प्रयु । इति विगृह्य || 

१२८५ प्रयुज्याप्याण्णिञ्वा | ||१५|

प्रयुज्याप्यार्थाद्धातोः प्रयुज्यर्थे णिञ्वा भवति ॥ णञावितौ । एङवातः भावीत्यतो लडादयः । भावयति भावयतः भावयन्ति इत्यादि || 

१२८६ धेट्पाद्दमायमायस्परिमुहरुचिनृतिवद्वस्यचल्यद्यर्थेङ्प्रदुस्रु बुधयुधनशजनः फलेशे पदाहते तु वा | १/४/६५ |

 धाडादिभ्यो वस्यन्तेभ्यः चल्यद्यत्र्त्यादिवर्जितेभ्यश्च धातुभ्यो णिञो लः फलेशे कर्तरि तङो भवन्ति पदान्तरात्फलेशत्वे ज्ञाते तु वा ॥ भावयते । कर्मादौ यकि णिलुक् भाव्यते । एधयति एधयते । पाचयति । आदयति । शाययति । वाचयति । हावयति ॥ 

१२८७ ह्रीव्लीरीक्नूयीक्ष्माय्यर्त्यातां पक् |||२०१ |

ह्रियादेरादन्तस्य च णौ पक् भवति || अकावितौ किदन्तः । हापयति दापयति । देवयति । सावयति । नाहयति । आशयति ॥ 

१२८८ चिस्फुरोर्वा | ||१९३ |

चिस्फुरोरेचः णौ आद्वा भवति || पक् । चापयति । चाययति ॥ 

१२८९ क्रीङ्जे: ||१|१८९ |

क्रीङ्जीनां णौ आद्भवति ॥ पक् । क्रापयति । वारयति । ग्राहयति । तोदयति । मारयति । मोचयति । तानयाते मानयति । कारयति । रोधयति । भोजयति । योजयति । णिनि गेर्लुक् । चोरयति । छादयति । लक्षयति । योजयति । अर्च्चयति । वारयति एवमन्येऽपि नेयाः ॥ 

॥ इति णिञ्प्रकरणम् ||

भवितुं कामयते इति विगृह्य || 

१२९० कम्येककर्तृकात्सन्नतत्सनः || | १६ |

कमिनैककर्तृकाद्धातोरिच्छायां सन् भवति न तत्सन्नन्तात् ॥ न इत् ॥ 

१२९९ न किदाद्युग्ग्रहगुहः | || १६५ |

किदादिभ्यः उगन्तात् ग्रहगुहाभ्यां च सनि इड् न भवति || 

१२९२ सीकः | ||१६० |

 इगन्तस्य सादौ सनि किद्वद् भवति || सन्यङश्चेति द्विः शेषं प्राग्वत् । बुभूषति बुभूषतः बुभूषन्ति इत्यादि । भावादौ यकि अत इति लुक् । बुभूष्यते । तेन अनुबुभूष्यते ॥ तत इति द्विः ॥ 

१२९३ प्राग्वत् | ||४६ |

 सनः प्राक् प्रकृतेरिव सनन्ताल्लस्तङ् भवति || एदिधिषते । सन्यत इति इत् । पिपक्षति पिपक्षते । निनन्दिषति । घस्लादेशे । तस्सिल्यश्लीति सस्य तः जिघत्सति । शिशयिषते । विव- क्षति विवक्षते ॥ 

१२९४ सनि | ||१३७ |

अजन्तस्य धातोः सनि दीर्घो भवति ॥ जुहूषति । जिहासते || 

१२९५ घुमीमारभलभशक्पत्पदामिस् || |६०।

घुसंज्ञस्य मीञादेश्चाचः सादौ सनि इस् भवति न च द्विः ॥ धित्सति धित्सते ॥

१२९६ भ्रस्जृधदन्भतन्सन्पतिज्ञपिश्रियूर्णुभरस्वृव्रिवॄतः सनि  || | १६३ |

 भ्रस्जादारवन्तादॄदन्ताच्च सनि इड्वा भवति ॥ दिदेविषति । अनिपक्षे ॥ 

१२९७ हलि | ||१६१|

सनि परे यो हल् तस्मिन् पूर्वस्येकः किद्वद्द् भवतीति नैङ् || 

१२९८ शूच्छ्वोऽनुनासिके च |||१४१ |

धातोश्छस्य अनुनासिकादौ क्विपि जलि च परे शो भवति वस्य ऊच् ॥ च इत् । यञ् पुनर्द्विर्भावादि । दुद्यूषति । न किदादीति इडभावः ॥ 

१२९९ न स्विदिस्वदिसह्यणिस्तोः |||७५॥

ण्यन्तस्तौतिवर्जितानां धातूनां स्विद्यादीनां च सनः षे द्विर्भावे पूर्वात्परस्य सस्य षिर्न भवति ॥ सुसूषते । निनत्सति निनत्सते । सुसूषति ॥ 

१३०० क्राद्यृपूङ्स्म्यञ्जश: || | १६४ |

कॄ इत्यादेः पञ्चात् ऋ इत्यादिभ्यश्च परस्य सनः इड् नित्यं भवति || अशिशिषते । चिकीषति चिकीषते । चिचीषति चिचीषते । चिक्रीपति । भ्रस्जधेत्यादिना वेट् । तस्य ऋदुर्वेति पुनर्वेट् । विवरिषते विवरीषते । इडभावे सनीति दीर्घः ॥ 

१३०१ पुवादुर् | ||१७० |

पवर्गाद्वकाराच्च परस्योपान्त्यस्य च ऋत उर्भवति ॥ दीर्घः । ववर्षते न किदितीडभावः ॥ 

१३०२ रुद्विन्मुषिग्रहिस्वप्प्रच्छां सनि च |||१५९ |

 रुदादीनां सनि क्त्वाप्रत्यये च किद्वद् भवति ॥ वशिव्यचीति यञ इक् हस्य ढः । बशो भष् । दस्य षढः कस्सीति कः द्विर्भावादि । जिघृक्षति जिवृक्षते । तुतुत्सति । सनीति दीर्घे पुवादुर् दीर्घश्व । मुमूर्षति । मुमुक्षते । भ्रस्जृधेति वेट् तितनिषति । अनिट्पक्षे ॥ 

१३०३ तनो वा |||१३९ |

 तनोतेरचः सनि दीग्यो वा भवति ॥ तितांसति तितंसति । मिमनिषते । दीर्घः || 

१३०४ अन्त्योपान्त्यर्त्तामिर् || | १६९ |

धातोरन्त्यस्योपान्त्यस्य च ऋत इर्भवति || दीर्घादि । चिकीर्षति चिकीर्षते । रुरुत्सति । बुभुक्षते । युयुक्षति युयुक्षते । चुचोरयिषति । चिच्छादयिषते । लिलक्ष- यिषते लिलक्षयिषते । युयोजयिषति युयुक्षति । अर्च्चिचयिषात अि च्चिचिषते । विवारयिषति विवरिषति विवरीषति विवरिषते विवरीषते । वुवूर्षति वुवूर्षते । एतत्सर्वं सर्वत्र लकारेषु यथायोगमुन्नेयम् ॥ 

अथ यङाद्यन्ताद्धातोर्णिञ् दर्श्यते || बोभूयते कश्चित्तमन्यः प्रयुङ्क्ते इति विगृह्य प्राग्वण्णिञ् । अल्लुक् । शेषं प्राग्वत् । बोभूययति बोभूययते । एवं सर्वधातूनां सर्वलकारेषु रूपं नेयं ॥ 

यङ्लुगन्ताणिनि । एङादि । बोभावयति बोभावयते एवं सर्वं नेयं ॥ भावयति कश्चित्तमन्यः प्रयुक्ते इति णिञन्ताण्णिञि पूर्वस्य णेर्लुक् शेषं प्राग्वत् । भावयति भावयते इत्यादि सर्वं नेयं । बुभूषति कश्चितमन्यः प्रयुङ्क्ते इति सनन्ताण्णिञि । अलुक् । बुभूषयति बुभूषयते । एवं सर्वे नेयं ॥ 

बोभूयितुमिच्छतीति यङन्तात्सनिडादि । 

१३०५ द्विरेकेषाम् ||||१५० |

द्विरुक्तो धातुर्द्विर्वा भवति ॥ बुबोभूयिषते बोभूयिषते । इत्यादि सर्व नेयं ॥ 

यङश्लुगन्तात्सनि । बुबोभविषति बोभविषति इत्यादि ।

भावयितुमिच्छतीति णिञन्तात् सनि णिञ्कार्यात् प्रागेव द्विः ||

 

१३०६ ओः पुयञ्ज्ये | ||९७|

 सनि द्विर्भावे पूर्वस्योवर्णस्य अवर्णपरे पवर्गे यञि जे च परे इद्भवति ॥ बिभावयिषति । अतत्सन इति वचनात् सनन्तात् सन्नास्ति । यङन्तणिञन्तात्सनि । बुबोभूयायिषति । – ते । बोभूययिषति – ते । यङ्श्लुङ्णिञन्तात्सनि बुबोभावयिषति – ते । बोभावयिषति। ते । णिञ्णिञन्तात् सन्नेष्यते णिञन्तादविशेषात् । सनन्तणिञन्तात् सन्नेष्यते आचार्याणां विसंवादात् । इति पञ्चभ्यः सन्नुदाहृतः ॥ 

पुनरेतदन्तादेव णिञुदाह्रियते ॥ यङन्तसनन्ताण्णिञि । बुबोभूयिषयति। ते । बोभूयिषयति।ते । यङ्लुगन्तसनन्ताण्णिञि । बुवोभविषयति – ते । बोभविषयति – ते । णिञन्तसनन्ताण्णिञि । बिभावयिषयति। ते । यङ्- णिञन्तसनन्ताण्णिञि । बुबोभूयविषयति।  ते । बोभूययिषयति। ते । यङ्श्लुगन्तणिञन्तसनन्ताणिञि । बुबोभावयिषयति – ते । बोभावयिपयति – ते । एवमन्येष्वपि नेयम्॥ 

परमप्रकृतिर्यङ् यङ्श्लुक् णिञ सन् णिञ ततोऽसनस्संश्च ।

 तस्माण्णिञिति प्रकृतिः विज्ञेयैकान्नविंशति

कण्डूञ् गात्रविकर्षणे । न इत् ॥ 

१३०७ धातोः कण्ड्वादेर्यक् ||||

कण्ड्वादिभ्यो धातुभ्यः स्वार्थे यग् भवति ॥ क इत् प्राग्वल्लडादि । कण्डूयति कण्डूयते । भावादौ कण्डूय्यते । एवं सर्वलकारेषु नेयम् । णिञि कण्डूययति कण्डूयते । सनि ॥ 

१३०८ यकस्तृतीयः | | | ५१ |

 यगन्तस्य धातोस्तृतीय एकाच् द्विर्वा भवति ॥ कण्डूयियिषति कण्डूयियिषते । चिकण्डूयिषति चिकण्डूयिषते । एवं सर्वत्र योज्यम् || मन्तु रोषे वैमनस्ये च यकि मन्तूयति ॥ वल्गु माधुर्ये च वल्गूयति । असु मानस उपतापे असूयति । महिङ् वृद्धौ पूजायां च ङ इत् महीयते इत्यादि || 

सुबन्तप्रकृतेर्लकाराः प्रदर्श्यन्ते । पुत्र अम् इति स्थिते पुत्रं कामयते आत्मन इति विगृह्य

१३०९ सुपः कर्तुः काम्यः | ||१७|

 कम्याप्यार्थात् सुबन्तात्कर्तुरात्मन एव सम्बन्धिनः कम्यर्थे काम्यः प्रत्ययो वा भवति || अमः श्लुक् धातुसंज्ञायां लडादि । पुत्रकाम्यति । एवं राजकाम्यति मालाकाम्यति इदङ्काम्यति स्वःकाम्यति ॥ 

१३१० क्यच्चामाव्ययात् |||१८|

सुबन्तात् कम्याप्यार्थात् कर्तुरात्मन एव सम्बन्धिनः कम्यर्थे क्यच् प्रत्ययश्च भवति न मान्तादव्ययान्ताच्च || कचावितौ ॥ 

१३११ च्वौ चास्यानव्ययस्येः | ||४०|

अवर्णस्य क्यचि च्चौ च परे ईद् भवति नाव्ययस्य ॥ पुत्रमिच्छत्यात्मनः पुत्रीयति एवं मालीयति ॥ 

१३१२ नङ् क्ये | ||६३ |

नान्तं क्ये परे पदं भवति || पदत्वान्नलुक् । राजानमिच्छत्यात्मनः राजीयति एवं शर्म्मीयति । यङ्लेङिति दीर्घः । शिखीयति कवीयति इक्षूयति । यङलेङिति री । पित्रीयति कर्त्रीयति ॥ 

१३१३ ओदौतोऽवाव्यि|| २।१।३६ |

ओतः अप्रत्यये अव् भवति औत आव् || गव्यति नाव्यति ।। 

१३१४ क्यच्यसक्सग्लालसायाम् || |३७|

क्यचि परे पूर्वस्यासक् सक् च भवतः लालसायां लाम्पट्ये || अकावितौ । क्षीरस्यति । असक्सात इति प्रतिषेधान्न षिः । दध्यस्यति दधिस्यति ॥ 

१३१५ वृषाश्वयोर्मैथुने || |३८|

वृषाश्वशब्दयोः क्यचि मैथुनलालसायामसक् सक् च भवतः ॥ वृषस्यति गौः । अश्वस्यति वडवा । वाच्यति । स्रज्यति । युष्मद्यति । त्वद्यति । अस्मद्यति । मद्यति । गीर्यति ।  दीव्यति । 

१३१६ क्षुत्तृङ्गर्धेऽशनायोदन्यधनायम् | ||३९|

अशनायादयो यथासङ्ख्यं क्षुदादिष्वर्थेषु क्यजन्ता निपात्यन्ते || अशनायति उदन्यति धनायति  

पुत्रीयितुमिच्छतीति सनि ॥ 

१३१७ सुपः || ||४६ ।

 सुब्धानोः सन्यङन्तस्य लिटि ङे च परे पूर्वस्य एकाच्कोऽवयवो द्विर्वा यथासम्भवं भवति || पुपुत्रीयिषति पुतित्रीयिषति पुत्रीयियिषति पुत्रीयिषिषति || 

१३१८ नाद्यच् |||४७७।

सुब्धातोरादिरच् न द्विर्भवति ॥ अश्वीयितुमिच्छतीति सनि । अशिश्वीयिषति अश्वीयियिषति अश्वियिषिषति || 

प्रासादे इवाचरतीति विगृह्य ॥ 

१३१९ गौणादाधाराच्चाचरि |||१९|

आचरेराप्यादाधाराच्च गौणात् सुबन्तादाचर्यर्थे क्यच् भवति न माव्ययात् ॥ शेषं प्राग्वत् । प्रासादीयति कुड्ये । पुत्रमिवाचरतीति पुत्रीयति छात्रम् । अश्व इवाचरतीति विगृ ॥ 

१३२० कर्तुः क्विप् |||२०|

आचरेः कर्तुः गौणात्सुपः आचर्येर्थे क्विप् भवति ॥ स सर्व इत् । अश्वति खरः । एवं काकति गर्द्दभति । क्विजलीति दीर्घः इदमिवाचरति इदामति कीमति । श्येन इवाचरतीति विगृह्य || 

१३२१ प्क्यङ् |||२२|

आचरेः कर्तुर्गौणात्सुपः आचर्यर्थे प्क्यङ् भवति || पकङा  इतः । यङलेङिति दीर्घः लस्तङादि । श्येनायते | कुमारीवाचरति कुमारयते । पित्त्वादतद्धितेऽपि पुम्भावः त्वद्यते मद्यते ॥ 

१३२२ सो वा लुक् | ||२४ |

 सकारान्तस्य प्क्यङि लुग्वा भवति ॥ पयायते पयस्यते  

१३२३ अप्सरसः |४/२/२५ |

अप्सरसः प्क्यति नित्यं लुग् भवति || अप्सरायते कन्या ॥ 

१३२४ भृशादेश्च्वौ स्तः | || २६ |

 भृशादेः कर्तुः च्व्यर्थे प्क्यङ् भवति सतयोश्च लुक् ॥ अभृशो भृशो भवति भृशायते । शीघ्रायते उन्मनायते वेहायते || 

१३२५ निद्रादिडाज्भ्यो धर्मिणि क्यप् | ||२७।

निद्रादिभ्यो डाजन्तेभ्यश्च धर्म्मिणि च्व्यर्थे क्यष् भवति || कषावितौ । अत एव कृभ्वस्तिभिरयोगेऽपि डाज्विधिः ॥ 

१३२६ क्यषो वा | | | १७ |

क्यषन्ताल्लस्तङ् वा भवति || अनिद्रो निद्रावान् भवति निद्रायति निद्रायते त्रैविद्यः । करुणायति करुणायते धर्म्मायति धर्मायते ॥ 

अपटत् पटद्वद् भवतीति विगृह्य । डाचि द्विः । डचावितौ ॥ 

१६२७ डाच्यादौ | ||१३१ ।

द्विर्भावे पूर्वस्य तस्य लुग् भवति डाचि परे || अन्त्याजादिलुक् ततः क्यष् । पटपटायति पटपटायते । एवं गुमुगुमायति गुमुगुमायते इत्यादि । सूत्रं करोतीति विगृह्य || 

१३२८ णिज् बहुलं कृञादिषु |||२८|

 सुबन्तात् कृञाद्यर्थेषु बहुलं णिच् भवति ॥ णचावितौ सुपः श्लुक् । त्रन्त्याजादेः इत्यतो लुक् । पूर्ववल्लडादि । सूत्रयति एवं मुण्डयति मिश्रयति व्रतयति । कृतं गृह्णाति कृतयति । पाशं विमोचयति विपाशयति । रूपं दर्शयति रूपयति । लोमान्यनुमार्ष्टि अनुलोमयति । पटुमाचष्टे पटयति । मालां ग्रथ्नाति मालयति । तृणान्युल्लुनाति उत्तृणयति । वस्त्रेण समाच्छादयति संवस्त्रयति । वीणया उपगायति उपवीणयति । श्लोकैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति स्थासेनीति षिः वर्म्मणा सन्नति संवर्मयति । वास्या छिनति वासयति । अश्वेनातिक्रामति अत्यश्वयति ॥ 

१३२९ सत्यार्थवेदस्याः | || ३१ |

सत्यादेरतो णिचि आद्धवति ॥ पक् । सत्यं करोति सत्यापयति । अर्थमाचष्टे अर्थापयति । वेदमधीते वेदापयति ॥ 

१३३० निरस्यङ्गेभ्यः कर्म्मणो णिङ् | ||३२|

अङ्गवाचिनः कर्म्मणो निरस्यत्यर्थे णिङ् भवति || णङावितौ । हस्तं निरस्यति हस्तयते । एवं पादयते मूर्धयते || 

१३३१ पुच्छभाण्डादस्समाचौ |||३३|

पुच्छादस्यत्यर्थे णिङ् भवति भाण्डात् समाचिनोत्यर्थे ॥ पुच्छमुदस्यति उत्पुच्छयते । भाण्डं समाचिनोति सम्भाण्डयते || 

१३३२ बाष्पोष्मफेनादुद्वमि | | | ३६ |

 बाप्पादेरुद्रमत्यर्थे क्यङ् भवति || कङावितौ नङ्क्ये इति पदत्वान्नलुक् । बाष्पमुद्वमति बाष्पायते । एवं उष्मायते फेनायते || 

१३३३ सुखादेर्भुजि ||||३७|

सुखादेर्भुज्यर्थे क्यङ् भवति ।। सुखं भुङ्क्ते सुखायते । एवं दुःखायते क्लेशायते || 

१३३४शब्दादेः कृञि वा |||३८|

शब्दादेः कृञ्यर्थे क्यङ् वा भवति || शब्दं करोति शब्दायते शब्दयति वा । कलहायते कलहयति वा ॥ 

१३३५ रोमन्थादुच्चर्वणे | ||३९|

रोमन्थादुच्चर्वणे क्यङ् भवति || रोमन्थमुच्चर्वति रोमन्थायते ॥ 

१२३६ नोवरिवस्तपसः कयच् |||४०|

नमसादिभ्यः कृञ्यर्थे क्यच् भवति ॥ नमस्करोति । नमस्यति । वरिवस्यति । तपस्यति ॥ 

१३३७ चित्रङो विस्मये | || |

विस्मये वर्तमानात् चित्रशब्दात् क्यच् भवति ॥ ङित्त्वात्तङ् । चित्रं करोति चित्रीयते । एवं सर्वत्र योज्यम् || 

॥ इति सुब्धातुप्रकणम् ||

१३३८ सल्लुड्वर्त्स्यल्लृटो वानितौ || |७८ |

सति लटो भविष्यति लटश्च अतङ्वत् शतृ वा भवति तवदानश् नेतौ ॥ ऋशावितौ शेषं प्राग्वत् । ततः स्वादयः नमादि । भवन् भवन्तौ भवन्तः इत्यादि । भविष्यन् भविष्यन्तौ भविष्यन्तः इत्यादि || 

१३३९ मगाने | ||४४ |

अदन्तस्य मग् भवति आने परे ॥ अकावितौ । एधमानः एधमानौ एधमानाः । एधिप्यमाणः एधिष्यमाणौ एधिप्यमाणाः इत्यादि । एवं पचन् पचमानः । अदन् । शयानः । ब्रुवन् ब्रुवाणः । जुह्वत् । जिहानः । दधत् दधानः । दीव्यन् । सूयमानः । नाह्यन् नह्यमानः । सुन्वन् । अश्नुवानः । चिन्वन् चिन्वानः । क्रीणन् । वृणानः | गृह्णन् गृह्णानः । तुदन् । म्रियमाणः । मुञ्चन् मुञ्चमानः । तन्वन् । मन्वानः । कुवन् कुर्वाणः रुन्धन् । भुञ्जानः । युञ्जन् युञ्जानः । चोरयन् । छादयमानः । लक्षयन् लक्षयमाणः। योजयम् योजन् । अर्चयन् अर्द्धमानः । वारयन् वरन् वरमाणः || भावकर्मणोः । भूयमानम् | अनुभूयमानः । एध्यमानं । पच्यमान इत्यादि सर्व योज्यम् । बोभूयमानः । बोभुवत् । भावयन् । भावयमानः । बुभूषन् । एदिधिषमाणः । कण्डूयन् । कण्डूयमानः । इत्यादि सर्वत्र योज्यम् ॥ 

१३४० लिटः क्वसुकानौ | ||७९ |

 लिटः स्थाने अतङ्वत् क्वसुर्भवति तङ्वत कानः ॥ कोतावितौ शेषं प्राग्वत् । क्वसौ स्रादिनियमात् प्राप्तस्येटः || 

१३४१ क्वस्यैकाज्घसः ||| १६७|

अदन्तादेकाचा घसश्च क्वस इड भवति नान्यस्मात् ॥ इति नियमान्नेट् । ततः स्वादयः नमादि । बभूवान् बभूवांसौ बभूवांसः । शसादौ क्वस उसि उवादेशे लुङ्लिटि भुव इति उत ऊत बभूवुषः । बभूवुषा बभूवद्भ्याम् इत्यादि । एधांचक्राणः । त्रप्फलीत्यत एति द्विरुक्तभावादिद् पेचिवान् इत्यादि । क्वस उसि सर्वत्र वलाद्यभावान्नेट् पेचुषः पेचुषा इत्यादि । पेचानः । जक्षिवान् । आदिवान् । शिश्यानः । ऊचिवान् । ऊचानः । जुहुवान् । जिहानः । दधिवान् । दधानः | दिदिवान् । सुषुवाणः । नेहिवान् । नेहानः । सुषुवान् । आनशानः । चि. चिवान् । चिच्यानः । चिक्रीवान् । वत्राणः । जगृह्वान् । जगृहाणः । तुतुद्वान् । ममृवान् । मुमुच्वान् । मुमुचानः । तेनिवान् । मेनानः । चक्रवान् । चक्राणः । रुरुध्वान् । बुभुजानः । युयुज्वान् । युयुजानः । चोरयांचक्रवान्। च्छादयांचक्राणः । लक्षयांञ्चकृवान् । लक्षयाञ्चक्राणः | योजयाञ्चकृवान् युयुज्वान् । अर्चयाञ्चकृवान् । आनचीः । वारयाश्चक्रवान् । ववृवान् । वत्राणः । बोभूयाञ्चक्राणः । बोभयांचकृवान् । भावयांचकृवान् भावयाञ्चक्राणः । बुभूषाञ्चकृवान् इत्यादि सर्वत्र नेयम् ॥ 

॥अथ केषांचिद्धातूनां प्रक्रियाविशेष उच्यते ॥

१३४२ गुपौधूब्विच्छिपन्पणेरायः ||||

 गुपादिभ्यो धातुभ्यः आयप्रत्ययो भवति स्वार्थे || पुनर्लडादि || गुपौ रक्षणे । औदित् गोपायति । धूप तप सन्तापे धूपायति । विच्छ गतौ विच्छायति । पनि स्तुतौ । पणि व्यवहारे च । इदित् । पनायति पणायति ॥ 

१३४३ कसृतेर्णिङीयङ् ||||

कमेः स्वार्थे णिङ् भवति ऋतेरीयङ् || णाङावितौ णित्वात् । कमुङ् कान्तौ । ऋत घृणागतिस्पर्धेषु । कामयते ऋतीयते । 

१३४४ नित्याश्शपि ||| |

एते प्रत्ययाः शपि नित्या भवन्ति अन्यत्र विकल्पिताः ॥ गोपाय्यात् गुप्यात् । गोपायाञ्चकार जगोप इत्यादि ॥ 

१३४५ तपस्तपसि | | | ३६ |

तपेः कर्तरि कर्मवत् कार्यं भवति तपसि कर्मणि ॥ कर्मत्वाद्यगादि । तप्यते तपांसि धीरः करोतीत्यर्थः || 

१३४६ कित्तिज्गुपेर्भिषज्यादिक्षमानिन्द्ये सन् ४| ||

कितेर्भिषज्याविनाशच्छेदनसन्देहेषु सन् भवति तिजेः क्षमायां गुपेर्निन्दायाम् ॥ नकिदिति नेट् शेषं प्राग्वत् । कित निवासे अदित् चिकित्सति । तिजि क्षमानिशामनयोः । इदित् । तितिक्षते । गुपि गोपने जुगुप्सते ॥ 

१३४७ शान्दान्मान्बधान्निशानार्जवजिज्ञासावैरूप्य ईच्चैः ||||

 शानो निशाने सन् भवति दान आर्जवे मानो जिज्ञासाय बधो वैरूप्ये इत ईच्च ॥ शानी तेजने। ईदित् । शीशांसति शीशांसते । दानी अवखण्डने । ईदित् दीदांसति दीदांसते । मानि पूजायाम् इदित् मीमांसते । बधि बन्धने । इदित् बीभत्सते । कृपौङ् सामर्थ्यै । औङावितौ शप्यर || 

१६४८ कृपोऽकृपीटादिषु || |२६० |

कृपो रस्य लो भवति न कुपीटादिस्थस्य || कल्पते । धेट् पा पाने । पा इत्यतो लडादि ॥ 

१३४९ पाघ्राध्मास्थाम्मादाण्दृष्ट्यर्त्तिश्रौतिधिन्वुकृण्वु- शदसदः पिबजिघ्रधमतिष्ठमनच्छपश्यर्छश्टधिकृशीयसीदम् | ||५८ |

 पादीनां शिति प्रत्यये यथासङ्ख्यं पित्रादयो भवन्ति ॥ शेषं प्राग्वत् पिबति पिबतः पिबन्ति इत्यादि । घ्रा गन्धोपादाने जिघ्रति । ध्मा शब्दामिसंयोगयोः धमति । ष्ठा गतिनिवृत्तै तिष्ठति । म्ना अभ्यासे मनति । दाण् दाणे।  ण इत् यच्छति । दृ प्रेक्षणे। ऋदित् पश्यति । ऋ गतौ ऋच्छति । श्रु श्रवणे स्वादित्वात् श्नुः शृणोति । धिषु प्रीणने धिनोति । कृवु हिंसाकरणयोः कृणोति । शद्ऌ शातने ऌदित् शीयते । ङिदिच्छीयेत्यनेन तङ् । षद्ल विशरणगत्यवसादनेषु । ऌदित् । षस्सः । सीदति ॥

 १३५० सर्त्तैर्धौ वेगे |४/२/५९ ।

सर्त्तेर्धौ भवति वेगे गम्यमाने ॥ सृ गतौ । धावति ॥ 

१३५१ यङ्गमिषो शि च्छः || |५७१।

 यमादीनां शिति च्छो भवति ॥ यम उपरमे यच्छति । गम्ऌ सृप्ऌ गतौ ऌदित् गच्छति । इषू इच्छायाम् ऊदित् तुदादित्वात् शः इच्छति । चमू अदने ऊदित् आङ्गपूर्वत्वे ॥ 

१३५२ ष्ठिवूक्लम्वाचमः || |६४ |

 एतेषामकः शिति दीव भवति || आचामति । ष्ठिवू निसरने ऊदित् ष्ठीवति । अप्वक्कष्टयाष्ठीव इति निषेधान्न सत्वं । क्लमू ग्लाने ऊदित् क्लामति । क्रमू पादविक्षेपे ऊदित् ।। १३५३ क्रमोऽताङाने || २/६५ |

क्रमोऽकः शिति दीर्घो भवति न तङानयोः ॥ क्रामति । अतङान इति किम् । 

प्रत्यक्षबुद्धिः क्रमते न यत्र तलिङ्गगम्यं न तदर्थलिङ्गम् ॥

वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमशृण्वतां ते ॥ १

आक्रममाणश्चन्द्रः । धुर्वै हिंसायाम् । ऐदित् धातोर्व्रीति दीर्घः धूर्वति । अक्षौ व्याप्तौ च । औदित् ॥ 

१३५४ अक्षः श्नुः |४/३/२६|

अक्षः श्लेले श्लुर्ब्भवति वा ॥ श इत् । णत्वम् | अक्ष्णोति तक्षू तनूकरणे ॥ 

१३५५ तक्षस्तनूकृतौ |४/३/२७।

 तनूकुतौ तक्षः श्लेले श्नुर्ब्भवति ॥ तक्ष्णोति ॥ 

१३५६ स्तनस्तुन्भूस्कन्भुस्कुन्भूस्कोः श्ना च ।४||२९|

 एतेभ्यः श्लेले श्ना च श्नुश्च भवतः ॥ स्तन्भू स्तम्भे ऊदित् हलो न इति नलुक् । स्तभ्नाति स्तभ्नोति । स्तुभ्नाति स्तुभ्नोति । स्कभ्नाति स्कभ्नोति । स्कुभ्नाति स्कुभ्नोति । स्कुनाति स्कुनोति । दन्श दशने ॥ 

१३५७ दन्शसञ्ज शपि |||२२४ |

अनयोः शपि नस्य लुग् भवति ॥ दशति । षन्ज सङ्गे । षस्सः नलुक् । सजति रन्जी रागे । ईदित् ॥ 

१३५८ रन्जः | ||२२५ |

 रन्जः शपि नस्य लुग् भवति || रजति रजते ॥ गुहौञ् संवरणे । औञावितौ । शप्येङ् ॥ 

१३५९ गोहोऽचि || | २१९ |

 गुहः ओतः अजादौ प्रत्यये परे ऊद्भवति ॥ गूहति गूहते || 

॥अथ अदादिः । विद ज्ञाने || अदित् ॥

१३३० विदो लटो वा | ||१०२

अदादेर्विदो लटस्तिवादीनां नवनां यथासङ्ख्यं णशादयो वा भवन्ति ॥ वेद विदतुः विदुः । वेत्थ विदधुः विद । वेद विद्व विद्य ॥ वेत्ति वित्तः विदन्ति इत्यादि । संपूर्वत्वे संवित्ते संविदाते || 

१३६१ वेत्तेर्वा |||१२|

 वेत्तेस्तङो झेरद्वा भवति || संविद्रते संविदते । लङि । सिविदेति झेर्जुस् । सिपि दश्चेति वा रिः । अवेत् अवित्ताम् अविदुः । अवेः अवेत् अवित्तम् अवित्त | नवेदम् अविद्व अविद्म | लेटि || 

१३६२ लेट: कृलेट् | ||८७

विदो लेटः किद्वदाम् वा भवति लेडन्तश्च कूञनुप्रयुज्यते ॥ विदांकरोतु | वेत्तु ॥ हन हिंसागत्योः ॥ अदित् । ततो लडादि । अपिति ङित्त्वात् ॥ 

१३६३ हन्मन्यंरङ्गन्नम्वनतितनादेर्लुग् जलि | ||२६१|

हनादीनां वनतेस्तनादीनां च जलादौ किति ङिति च प्रत्यये लुग् भवति ॥ झोऽन्ते । गंहन्जनित्यतो लुचि हो घः। हन्ति हतः घ्नन्ति । हंसि हथः हथ । हन्मि हन्वः हन्मः ॥ लङि । अहन् अहताम् अघ्नन् । अहन् अहतम् अहत । अहनम् अहन्व अहन्म | लेटि ॥ 

१२६४ शाध्येविजहि ||| ३ ३

 एते हौ निपात्यन्तेहन्तेर्हो जहि ।  हन्तु हताद्वा हतां घ्नन्तु । जहि हताद्वा हतं हत । हानानि हनाव हनाम || लेङि ॥ हन्यात् हन्यातां हन्युरित्यादि । अस भुवि । अपिति नमस्त्योर्लुगित्यतो लुक् । सिपि । तासस्त्योस्त्रीति सलुक् । अस्ति स्तः सन्ति । असि स्थः स्थ | अस्मि स्वः स्मः ॥ लङि स्यस्तेस्सोऽल इतीट् । औरैच् । आसीत् आस्ताम् आसन् । आसीः आस्तम् आस्त | आसम् आस्व आस्म || लेटि हावेधि अस्तु स्ताद्वा स्तां सन्तु । एधिस्ताद्वा स्तं स्त । असानि असाव असाम || लेङि । स्यात् स्यातां स्युः । इत्यादि ॥ मृजौ शुद्धौ । औदित् पित्यरि ॥ 

१३६५ मृजुः । ४।१।२३२ |

मृज ऋतोऽत आद्भवति  

१३६६ आर्वाचि |||२३३|

 मृज ऋतोऽनादौ प्रत्यये आर् वा भवति ॥ व्रश्चेति षत्वे ष्टुत्वं । मार्ष्टि मृष्टः सृजन्ति मार्जन्ति । मार्क्षि मृष्ठः मृष्ठ । मार्जिम मृज्वः मृज्मः || लङि । लेति पदान्तस्य लुक् । जश्त्वादि || अमार्ट अमृष्टाम् अमृजन् अमार्जन् । अमार्ट् असृष्टम् अमृष्ट | अमार्जम् अमृज्व अमृज्म || लेटि । मार्ष्टु मृष्टाद्वा सृष्टां मृजन्तु मार्जन्तु । मृड्ढि मृष्टाद्वा मृष्टं मृष्ट । मार्जानि मार्जाव मार्जाम | लेङि । मृज्यात् मृज्यातां मृज्युः इत्यादि ॥ वच परिभाषणे । अकित्त्वान्न यञ इक् । वक्ति वक्तः वचन्ति इत्यादि ॥ रुदॄ अश्रुविमोचने । ॠदित् ॥ 

१३६७ वल इद् |||३०|

 रुदादेर्जक्षिपर्यन्तात् परस्य वलादेरलेर्ल इड् भवति || रोदिति रुदितः रुदन्तीत्यादि । लङि ॥ 

१३६८ ईट् चाजक्ष्र्रुद्भ्यः | ||२९|

 रुदादेर्जक्षिपर्यन्तात् परस्य अक्ङितो हलादेरलेर्लः अल्मात्रस्य अडीटौ भवतः ॥ अरोदत् अरोदीद्वा अरुदिताम् अरुदन् । अरोदः अरोदी: अरुदितम् अरुदित | अरोदम अरुदिव अरुदिम || लेट् । रोदितु रुदिताद्वा रुदितां रुदन्तु | रुदिहि रुदिताद्वा रुदितं रुदित | रोदानि रोदाव रोदाम ॥ लेङि । रुद्यात् रुद्यातां रुद्युः इत्यादि || एवं ञिष्वप् शये । ञिदित् । षस्सः । स्वपिति स्वपितः स्वपन्तीत्यादि ॥ अन श्वस प्राणने । अदित् । अनिति श्वसिति ॥ जक्ष भक्षहसनयोः । अदित् झोऽत् । जक्षिति जक्षितः जक्षतीत्यादि ॥ जागृ निद्राक्षये । झोऽत् । जागर्त्ति जागृतः जाग्रति । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः || लाङ झेर्जुम् । अजक्षत् अजक्षीद्वा अजक्षिताम् अजक्षुः इत्यादि ॥ अजागः अजागृताम् अजागरुः इत्यादि ॥ लेटि | जागर्त्तु जागृताद्वा जागृतां जाग्रतु इत्यादि ॥ लेङि | जागृयात् जागृयातां जागृयुरित्यादि || दरिद्रा दुर्गतौ ॥ 

१३६९ इद्दरिद्रः || || ४९ |

दरिद्रातेरातः अपिति यि च हलादौ लिवर्जितलादेशे परे इद्भवति ॥ त इत् झोऽति श्नाज्झेरातः इत्यातो लुक् । दरिद्राति दरिद्रितः दरिद्रति  दरिद्रासि दरिद्रिथः दरिद्रिथ । । दरिद्रामि दरिद्रिवः दरिद्रिमः ॥ लेङि । अदरिद्रात् अदरिद्रिताम् अदरिदुरित्यादि ॥ लेटि । दरिद्रातु दरिद्विताद्वा दरिद्रतां दरिद्रतु । दरिद्रिहि दरिद्रताद्वा दरिद्रितं दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम || लेडि | दारीद्रयात् दरिद्रियातां दरिद्रियुरित्यादि ॥ चकासृ दीप्तौ । ऋदित् झोऽत् । चकास्ति चकास्तः चकासति । इत्यादि ॥ लङि । अन्तलुचि । अतिपीति निषेधान्न सस्य रिः । जश्त्वचर्त्वे अचकात् अचकाद् अचकास्ताम् अचकासुरित्यादि ॥ लेटि । चकास्तु चकाद्धि चकाधि | लेङि । चकास्यात् ॥ शास् अनुशिष्टौ । ऊदित् अपिति ॥  

१३७० शासः क्ङित्यङ्हलीत् | ||२४० |

शास उपान्त्यस्य अङि हलि च किति ङिति च परे इद्भवति ॥ त इत् षत्त्वष्टुत्त्वे || शास्ति शिष्टः शासति । शास्सि शिष्टः शिष्ठ । शास्मि शिष्वः शिष्मः ॥ लङि | अशात् अशिष्टाम् अशासुः । अशाः अशात् अशाद् । सिपि दश्चेति वा रिः । अशिष्टम् अशिष्ट । अशासम् अशिष्व अशिष्म ॥ लेटि । शास्तु शिष्टाद्वा शिष्टां शासतु । सिपि शातिभावः । शाधि शिष्टाद्वा शिष्टं शिष्ट । शासानि तिङन्तम् । शासाव शासाम || लेङि । शिष्यात् शिष्यातां शिष्युः इत्यादि ॥ वश कान्तौ । षत्वष्टुत्त्वे । अपिति । वशिव्यचीत्यादिना यञ इक् सिपि षत्वे कत्वादि । वष्टि उष्टः उशन्ति । वक्षि उष्ठः उष्ठ । वश्मि उश्वः उश्मः ॥ लङि || अन्तलुचि षत्वादि । अपिति इकि ऐच् । अवट् औष्टाम् औशन् । अवट् औष्टम् औष्ट । अवशम् औश्व औश्म | लेटि । हेर्धौ । षत्वं । टापि नेक् । वष्टु उष्टाद्वा उष्टाम् उशन्तु । उड्ढि उष्ठाद्वा उष्टम् उष्ट । वशानि वशाव वशाम || लेङि । उश्यात् उश्याताम् उश्युरित्यादि ॥ द्यु अभिगमने ||

१३७१ हल्योरौत् ||||२१|

 उवर्णस्य अक्ङिति हलि ल्यलौ औद्भवति ॥ द्यौति द्युतः द्युवन्ति इत्यादि || लेङि | अलेङ्कृतीति निषेधान्न दीर्घः । द्युयात् ॥ क्ष्णु तेजने । सम्पूर्वत्वे तङ् संक्ष्णुते संक्ष्णुवाते संक्ष्णुवते इत्यादि ॥ स्तु प्रस्रवणे । स्नौति ॥ णु स्तुतौ । णो नः । नौति ॥ इण गतौ । पित्येङ्  अचि ह्विणोऽचीति यञ् । एति इतः यन्ति । एषि इथः इथ । एमि इव: इमः || लङि ऐच् । अच्याय् । ऐत् ऐताम् आयन् । ऐः ऐतम् ऐत । आयम् ऐव ऐम | लेटि । एतु इताद्वा इतां यन्तु । इहि इताद्वा इतम् इत । अयानि अयाव अयाम | लेङि । इयात् इयाताम् इयुरित्यादि || इक् स्मरणे । क इत् । एति इतः ॥ 

१३७२ वेकः |||२।

 इको धातोः अजादौ श्लेले यञ् वा भवति ॥ पक्षे इय् । यन्ति इयन्तीत्यादि । या प्रापणे। याति यातः यान्तीत्यादि ॥ लङि ॥ 

१३७३ अद्विषो झेर्जुस्वा |||१०६ |

आदन्ताद्द्विषेश्च परस्य ङितो लः झेर्जुस्वा भवति ॥ ज इत् । श्लुगुसीत्यातो लुक् । अयात् अयाताम् अयुः अयान्वा इत्यादि ॥ लेटि । यातु ॥ लेङि । यायात् ॥ एवं वा गतिग- न्धनयोः इत्यादयः आदन्ता नेयाः ॥ चक्षि व्यक्तायां वाचि । इदित् । तङ् । संयोगस्येति कलुक सयि कलुचि षस्य कः सः षः ध्वादौ जश्त्वष्टुत्त्वे । चष्टे चक्षाते चक्षते । चक्षे चक्षाथे चड्ढ्वे । चक्षे चक्ष्वहे चक्ष्महे इत्यादि ॥ ईरि गतौ। ईर्ते । ईडि स्तुतौ || 

१३७४ ईशीड्भ्यां स्ध्वे ||| ३१ |

 ईशीड्भ्यां परस्यालेर्लस्सादेः ध्वादेश्व इड् भवति || ट इत् । ईट्टे ईडाते ईडते । ईडिषे ईडाथे ईडिध्वे | ईडे ईडवहे ईड्महे || ईशि ऐश्वर्ये । इदित् । ईष्टे ईशाते ईशते । ईशिषे ईशाथे इत्यादि ॥ आसि उपवेशने । आस्ते आसाते आसते इत्यादि || शिजुङ् अव्यक्ते शब्दे । उङावितौ । नम् । कुत्वे नस्य ङः । अकुत्त्वे ञः । शिङ्कते शिञ्जाते शिञ्जते इत्यादि ॥ इङ् अध्ययने । अधीते अधीयाते अधीयते इत्यादि । द्विषीं अप्रीतौ । ईदित् । द्वेष्टि द्विष्टे ॥ ऊर्णुञ् आच्छादने || 

१३७५ वोर्णोः|४।|२२|

 ऊर्णुञः अक्ङिति हलि ल्यलौ औद्वा भवति ॥ ऊर्णोति उणौति ॥ ष्टुञ्न् स्तुतौ । यङ्तुर्विति वा ईटू । स्तवीति स्तौति स्तुते ॥ 

॥अथ ह्वादिः || ञिभी भये ञिदित् । ह्वादित्वात् शपः श्लुपि द्विर्भावादि । तसादौ ॥ 

१३७६ भ्यो वा |४/२/५० |

भियोऽपिति यि च हलादौ ल्यलौ इद्वा भवति ॥ बिभेति । बीभतिः बिभ्यतीत्यादि ॥ पृ पालनपूरणयोः । इत्वं पिपर्त्ति पितृतः पिप्रतीत्यादि । ऋ गतौ । इत्वे ॥ 

१३७७ पूर्वस्यास्वेऽचीयुव्योः | ||७६ |

द्विर्भवे पूर्वस्य इवर्णोवर्णयोरस्वेऽचि परे यथासङ्ख्यं इयुवौ भवतः ॥ इयर्ति इयृतः इय्रति || लङि । इयादेशे ऐच् । ऐयः ऐवृताम् ऐयरुः || ओहाक् त्यागे । क इत् ॥ 

१३७८ हाकः || २/५१ |

हाकोऽपिति यि च हलादौ ल्यलौ इद्वा भवति ॥ जहाति जहीतः जहितः जहति || 

१३७९ आ च हौ | |२/५२ |

 हाको हौ इदाच्च वा भवतः ॥ जहिहि जहीहि जहाहि || 

१३८० यि लुक् | ४/२/५३ |

 हाकः यादौ स्थलौ लुग् भवति ॥ जह्यात् ॥ माङ् माने | ङ इत् । इत्वं मिमीते मिमाते मिमते ॥ टुडुभृञ् धारणपोषणयोः ॥ टुडुञ इतः इत्वं । बिभर्ति बिभृतः बिभ्रति ॥ णिजॄञ् शौचपोषणयोः ॥ ॠञावितौ ॥ 

१३८१ निजामेत् || | ९४ |

निजादीनां द्विर्भावे पूर्वस्याच एद्भवति ॥ नेनेक्ति नेनिक्तः नेनिजति । जुसादौ द्व्युक्तेरित्येङरौ न भवतः अनेनिजुरित्यादि । विजॄञ् पृथग्भावे । वेवेक्ति ॥ विषॄञ् व्याप्तौ । वेवेष्टि। 

॥अथ दिवादिः ॥ त्रसै उद्वेजने । ऐदित्

१३८२ भ्राशभ्लाशभ्रमिक्रमित्रसित्रुटिलषो वा | | | २३|

एभ्यो धातुभ्यः श्लेले कर्तरि श्यो वा भवति ॥ पक्षे शप् । त्रस्यति त्रसति । त्रुट्यति त्रुटति । तुदादित्वात् शः । लप्यति लषति । क्राम्यति क्रामति । व्यध ताडने । इक् । विध्यति । शम् दम् उपशमे । ऊदित् ॥ 

१३८३ शर्मं दीर्घोऽष्टानाम् |४/२/६३ |

 शमादीनामष्टानां शिति दीर्घो भवति || शाम्यति दाम्यति । तमू काङ्क्षायां ॥ ताम्यति । श्रमू तपसि । श्राम्यति । भ्रमू अनवस्थाने । भ्राम्यति भ्रमति । क्षमू सहने । क्षाम्यति । क्लमू ग्लाने । क्लाम्यति । मदै हर्षे । माद्यति ॥ 

१३८४ यसोऽनुपसर्गात् | | |२४ |

 अनुपसर्गाद्यसः कर्तरि श्लेले परे श्यो वा भवति || यसू प्रयत्ने । यस्यति यसति वा ॥ 

१३८५ एद्मिदोऽकः || २/६१ |

मिदोऽकः शित्येद्भवति ॥ ञिमिदा स्नेहने । ञिदाच्चेतौ । मेद्यति । जॄष् झॄ वयोहानौ । ष इत् । इर् दीर्घः । जीर्यति । शो तनूकरणे ॥ 

१३८६ ओतः श्ये | || १६ |

ओतः श्ये लुग्भवति ॥ श्यति ॥ च्छो च्छेदने । छ्यति । षो अन्तकर्मणि । स्यति । दो अवखण्डने । द्यति । जनैङ् प्रादुर्भावे । ऐङावितौ ॥ 

१३८७ झाजनो जाः |४/२/६० |

 ज्ञाजनोः शिति जा भवति ।। जायते । रन्जी रागे । ईदित् ॥ 

१३८८ हलो नोऽनर्च्चाञ्च्युदितो: |||२२१।

 हलन्तस्य धातोरुपान्त्यस्य नस्य किति ङिति च प्रत्यये लुग् भवति नार्च्चायामञ्चेः उदितश्च ॥ रज्यति रज्यते  

॥अथ स्वादिः || आप्ऌ व्यप्तौ || ऌदित् । संयोगपरत्वादुतो यञ् लुक् च न भवति । आप्नोति आप्नुतः आप्नुवन्ति इत्यादि । लेटि । मध्यमपुरुषे आप्नुहि शेषं सुगमम्  

॥अथ क्र्यादिः ॥ पूञ् पवने । अ इत् । क्यादित्वात् श्रायां ॥ 

१३८९ प्वां ह्रस्वः |४/२/६२ |

प्वादीनां शिति ह्रस्वो भवति ॥ पुनाति पुनीते ॥ लूञ् छेदने । लुनाति लुनीते । धूञ् कम्पने । धुनाति धुनीते । स्तृञ् छादने । स्तृणाति स्तृणीते ॥ कॄञ् हिंसायां । कृणाति कृणीते इत्यादि । ज्या वयोहानौ । वशीति यञ इक् । जिनाति । ज्ञा अवबोधने । जानाति जानीते । क्षुभ सञ्चलने । अन्तक्षुभ्नादीनाम् इति णत्वाभावः । शुभाति ॥  

॥अथ तुदादिः ॥

भ्रस्जी पाके । तुदादित्वात् शः । वशिव्यचीति यञ इक् श्चुत्वजश्त्वे । भृज्जति भृज्जते । लिपी उपदेहे । लिपादीति नम् । नः परस्वोऽनुनासिकः । लिम्पति लिम्पते । क्षि निवासगत्योः । इय् । क्षियति । कॄ विक्षेपे । इर् किरति । गॄ निगरणे । इर् || 

१३९० ग्रोऽचि |४/२/२५७|

प्रो रस्याजादौ प्रत्यये लो वा भवति ।। गिरति । गिलति । दृङ् आदरे । ङित् । रीयौ । आद्रियते । प्रछ ज्ञीप्सायाम् | अदित् । वशीति यत्र इक् । द्वित्वं पृच्छति ॥ ओत्रसूचौ छेदने । ओदौतावितौ । वशिव्यचीतीक् श्रुत्त्वं वृश्चति । इषू इच्छायाम् । ऊदित् । यङ्गमिति षस्य छः । द्वित्वम् इच्छति । णू स्तवने । णो नः । उव् । नुवति । ष्वन्जि सङ्गे । इदित् । तङ् । हलो न इति लुक् ष्स्सः । स्वजते । 

॥अथ रुधादिः || तृह हिसु हिंसायाम् । अदित् । रुधादित्वान्नम्  

१३९१ तृणेह् || |२४ |

तृहः अक्ङति हलादौ ल्यलौ तृणेहिति निपात्यते ॥ हो ढः अध इति तो धः ष्टुत्वं ढे ढलुक् । तृणेढि तृण्ढः तंहन्ति इत्यादि ॥ 

अथ चुरादिः । लड उपसेवायाम् || अदेत् । णिजादिः || 

१३९२ डश्चर्फडादीनाम् |४/२/२५६ |

ऋफिडादीनां डस्य रस्य च लो भवति || लालयति । भू कृपो अवकल्पने । भावयति । कृपेररि । ऋफिडादित्वाल्लः । कल्पयति । कथं वाक्यप्रबन्धे । अदित् चुरादित्वाण्णिच् ॥ 

१३९३ कथादिपातिस्फायोऽग्लग्वम् | ||१९७।

 कथादेर्णौ अग् भवति पातेर्लक् स्फायो बम् ॥ कित् । अत इति लुक् । ञ्णित्यात्वे प्राप्ते || 

१३९४ परेऽचः प्राचोऽक्विदीर्घयद्व्यासदस्क्लुग्विधौ | | |५१। 

अजादेशः परनिमित्तकः ततः पूर्वविधौ कर्तव्ये स्थानीव भवति न क्विदीर्घद्वित्वविधौ संयोगस्यादिस्कोर्लुग्वर्जिता सदधिकारपर्यन्तविधौ च ॥ इति स्थानिवद्भावत्वादनुपान्त्यत्वेन अत आन्न भवति । कथयति । एवं कथादिगणः ॥ मृगि अन्वेषणे । इदित् कथादित्वादाक भत इति लुक् लुग्वेतौ णौ नार । मृगयते अथ युजादिः । ली द्रवीकरणे । णिचि ॥ 

१३९५ लीलो नग्लक् स्नेहद्रवे |||१९५|

 लीलयोर्णिचि नग्लकौ भवतः स्नेहद्रव्ये || अकावितौ । विलीनयति ॥ धूञ् कम्पने । अ इत् । णिच् ॥ 

१३९६ प्रीञ्धूञोर्नक् | || १९८ |

प्रीञ्धूञोर्णौ नग् भवति || अकावितौ । धूनयति प्रीणयति ॥ 

कर्मभावयोर्यक् । अल्लुगादि । गोपाय्यते गुप्यते इत्यादि । बुध्यते पीयते घ्रायते ध्यायते स्थीयते म्नायते दीयते । दैब् शोधने । ब इत् ॥ 

१३९७ एचोऽश्याः |||१८० |

धातोरेच अश्याद् भवति || दायते । दृश्यते ॥ 

१३९८ यङयक्क्याश्शे | || १४ |

 हलद्वयात्परस्य ऋतोऽर्त्तेश्व यङ्यक्क्याश्शेषु अर्ब्भवति || अर्यते ॥ खनूञ् अवदरणे । ऊञावितौ ॥ 

१३९९ ये वा |||२६९ ॥

जन्सन्खनां क्ङिति ये आद्वा भवति || खायते खन्यते ॥ अथ अदादिः । हन्यते । अस्तेर्भूः । भूयते । उच्यते । सुप्यते ॥ 

१४०० जागुः किति || |१०|

जागर्त्ते ऋतः किति अर्ब्भवति ॥ जागर्यते ॥ 

१४०१ अस्सन्नुण्ण्वने |४/२/९७|

 दरिद्रातेर्ल्यश्लि प्रत्यये लुग् भवति न सादौ सनि उणि ण्वौ अनटि च ॥ दरिद्य्रते । शिष्यते । उश्यते । नूयते । ईयते । यायते । मीयते ॥ 

१४०२ चक्षः ख्शाञ् वाचि | || २२ |

 वाचि वर्तमानस्य चक्षः ल्यश्लि प्रत्यये ख्शाञ् भवति ॥ 

१४०३ शो यः ||२/९४ |

ख्शाञादेशस्य शस्य यो वा भवति ।। व्याख्यायते । चर्त्वं व्याक्शायते । शिञ्ज्यते || अथ ह्वादिः । हीयते । मीयते । म्रियते || 

अथ दिवादिः । विद्यते । जीर्यते । सीयते । दीयते । दीर्घः जायते । जन्यते । नलुक् । रज्यते । स्तृञ् आच्छदने । स्तीर्यते ॥ 

अथ क्रयादिः । पूर्यते । जीयते । ज्ञायते । बध्यते ॥ अथ तुदादिः । सृज्यते विलिप्यते । क्षि निवासगत्योः । क्षीयते । किर्यते । गीर्यते । आद्रियते । पृच्छ्यते । वृश्च्यते । इष्यते । गूर्यते । व्याप्रियते । स्वज्यते ॥ अथ तनादिः । सायते । सन्यते । अथ रुधादिः । रुध्यते । भिद्यते || छिद्यते || अथ चुरादिः । कथ्यते मृग्यते || अथ युजादिः ॥ धून्यते प्रीण्यते ॥ इति भावकर्मप्रकरणं समाप्तं ॥ 

लिङि गोपाय्यात् गोपाय्यास्ताम् इत्यादि । गुप्यात् गुप्यास्तामित्यादि । कामयिषीष्ट कमिषीष्ट । ऋतियिषीष्ट ऋत्यात् । चिकित्स्यात् । तितिक्षिषीष्ट । जुगुप्सिसीष्ट । शीशांसिसीष्ट शीशांस्यात् । मुदि हर्षे । इट्यसादित्वादकित्त्वेन एङ् । मोदिषीष्ट । हदि पुरीषोत्सर्गे । अक्षुन्विति नेट् हत्सीष्ट । त्रपौषि लज्जायाम् । औदित्त्वाद्वेट् । त्रपिषीष्ट त्रप्सीष्ट । क्षमौषि सहने । क्षमिषीष्ट क्षंसीष्ट ॥ ऊहि तर्के ॥ 

१४०४ उपसर्गादुदुहः |४।२||

 उपसर्गादूहेरिकः क्ङिति यादौ प्रत्यये उद्भवति ॥ अभ्युह्यात् अभ्यूहिषीष्ट । गाहौङ् विलोडने । औदित्वाद्वेट् । गाहिषीष्ट । इडभावे ढत्त्वादि घाक्षीष्ट । स्मिङ् ईषद्धसने । अज- न्तत्वान्नेट् । स्मेषीष्ट । श्यैङ् गतौ । एचोऽश्या इत्यात् श्यासीष्ट || धृङ् अविध्वंसने । उरिति किद्वत्त्वान्नार् । धृषीष्ट । पूङ् पवने । अश्विश्रीतीड्निषेधाभावादिट् । पविषष्ट |डीङ् विहायसां गतौ डयिषीष्ट । स्रन्सूङ् भ्रन्सूङ् अवस्रंसने । लिङ्यङित्त्वान्न न्लुक् । स्रंसिषीष्ट भ्रंसिषीष्ट ॥ स्यन्दौङ् स्रवणे | स्यन्दिषीष्ट स्येत्सीष्ट । कृपौङ् सामर्थ्ये । कल्पिषीष्ट । क्ऌप्सीष्ट ॥ स्मृ आध्याने । यङ्यक्येङर् स्मर्यात् ॥ दॄ भये । इर् । दीर्यात् ॥ श्रा पाके ॥

१४०५ हल्भ्यां लिङ्येद्वा || |८५ |

धातोर्हल्द्वयादातः क्ङिति लिङि एद्वा भवति ॥ श्रायात् श्रेयात् । रमि क्रीडायां ॥ 

१४०६ रयनगान्मः ||| १८४ |

रादिपूर्वान्मान्तादेकाचो धातोर्वलादेरिड् न भवति || रंसीष्ट । बुधी बोधने । बुध्यात् | बन्रासेति नेट् । मुत्सीष्ट ॥ धृ स्त्थैर्ये च रिः ध्रियात् ॥ जिज्रि अभिभवे । दीर्घः । जीयात् ॥ धेट् पा पाने । आत्वे । त्वादेत् । धेयात् पेयात् ॥ हल्द्वयात् परत्वाद्वैत् । घ्रायात् घेयात् । ध्मायात् ध्मेयात् । घुमेति नित्यमेत् षत्वनि- वृत्तौ ष्टुत्त्वनिवृत्तिः स्थेयात् म्नायात् म्नेयात् देयात् । दैब् शोधने । आत्वम् अघुत्वान्नैत् । दायात् ॥ ग्लायात् ग्लेयात् । म्लायात् म्लेयात् ॥ द्वै स्वप्ने | द्रायात् द्रेयात् । कै गै रै शब्दे । गेयात् ॥ ऋ प्रापणे च । यङयक्याश्श इत्यर् | अर्थात् क्रम्यात् ॥ 

१४०७ क्रमः | || १७४ |

 क्रमस्तङानयोर्वलादेरिड् न भवति ॥ क्रंसीष्ट । गम्यात् ॥ 

१४०८ गमः || |७० |

गमस्सादेर्वलादेरिड् वा भवति ॥ 

१४०९ गंस्नोरेसुप्तङाने | || १७३ |

रामस्नुभ्यां परस्य वलादेरसुब्धातुसम्बन्धिनोस्तङानयोरिड् न भवति । सम्पूर्वत्वे । सङ्गसीष्ट ॥ 

१४१० गमो वा || | १६४ |

गमस्ताङि सादौ सिलौ किद्वद्वा भवति || हन्मन्येति मलुक्, सङ्गसीष्ट । दृश्यात् । दश्यात् । टु ओ श्वि गतिवृद्ध्योः श्व्यादतीक् । शूयात् ॥ वस निवासे उप्यात् । वद व्यक्तायां वाचि उद्यात् । यजी देवपूजासङ्गतकरणदानेषु । इज्यात् भ्रस्मस्स्रिति नेट् | यक्षीष्ट || टुवपी बीजसन्ताने । उप्यात् ॥ 

१४११ आवलिलुक्षिछुसृस्वतिशतात् पः | ||१८२ |

 आवादिपूर्वात् पान्तादेकाचो धातोर्वलादेरिड् न भवति ॥ वप्सीष्ट वही प्रापणे उह्यात् । वनेति नेट् ढत्वादि वक्षीष्ट वेञ् तन्तुसन्ताने ऊयात् वासीष्ट । व्येञ् संवरणे वीयात् व्यासीष्ट । ह्वेञ् स्पर्धशब्दयोः हूयात् ह्वासीष्ट । भजी सेवायाम् भज्यात् भक्षीष्ट रज्यात् ॥ 

१४१२ रभसस्वान् न्जः । ४/२/१७९ |

 रादिपूर्वान्न्जान्तादेकाचो धातोर्वलादेरिड् भवति || रङ्क्षीष्ट । शपी आक्रोशे शप्यात् शप्सीष्ट । गुहौञ् संवरणे गुह्यात् गूहिषीष्ट घुसीष्ट । श्रिञ् सेवायां श्रीयात् श्रयिषीष्ट । नीयात् नेषीष्ट ॥ 

अथ अदादिः || विद्यात् ॥ 

१४१३ लिङि च || |१२३ |

 हनो लुङि लिङि च वधो भवति ।। वध्यात् || अश्विश्रीतीट् । आवधिषीष्ट । अस्तेर्भूः । भूयात् । मृज्यात्। उच्यात् । रुद्यात् । सुप्यात् । अन्यात् श्वस्यात् । जक्ष्यात् । जागुः कितीत्यर् जागर्यात् । अस्सन्नुण्ण्वन इत्यातो लुक् दरिद्र्यात् । चकास्यात् । शिष्यात् । उश्यात् । रूयात् | अश्विश्रीतीट् संक्ष्णविषीष्ट । स्नूयात् । ईयात् । सम्पूर्वत्वे ॥ 

१४१४ ल्येतेरित् | || |

उपसर्गादिणः क्ङिति यादौ लादेशे इद् भवति || दीर्घापवादः समियात् । पा रक्षणे पायात्। मा माने मेयात् । ख्यासीष्ट । चक्षिषीष्ट । ईशिषीष्ट । षूङौ प्राणिगर्भविमोचने सोपीष्ट । सविषीष्ट । अध्येषीष्ट । द्विष्यात् ॥ 

१४१५ शिशुद्वित्विकृपिवितुदोः षः|| |१८६ |

श्यादिपूर्वात् षान्तादेकाचो धातोर्वलादेरिड् न भवति । द्विक्षीष्ट । दुही प्रपूरणे दुह्यात् धुक्षीष्ट । लिह्यात् लिक्षीष्ट । ऊर्णुञ् आच्छादने । अनेकाच्त्वादिट् ॥ 

 १४१६ वोर्णोः | ||१४६

 ऊर्णोतेरिडादौ ङिद्वद्वा भवति ॥ उव् ऊर्णुविषीष्ट । ऊर्णविषीष्ट । अथ ह्वादिः ॥ अर्यात् । हेयात् । निज्यात् । भ्रस्मस्स्रिति नेट् । निक्षीष्ट । विध्यात् । शिशुद्वीति नेट् विक्षीष्ट ॥ अथ दिवादिः ॥ व्यध ताडने वशि व्यचीति यञ इक् । विध्यात् । सेयात् । देयात् । जनिषीष्ट ॥ पदि गतौ । अक्षुन्विति नेट् । पत्सीष्ट ॥ विदि सत्तायां । शक्प्रच्छीति नेट् । वित्सीष्ट || खिदि दैन्ये । खित्सीष्ट ॥ युधि सम्प्रहारे । बन्रासेति नेट् युत्सीष्ट || बुधि मनि ज्ञाने । भुत्सीष्ट ॥ 

१४१७ स्विद्मन्सिधिश्लिषिपुषः श्यात् | ४|२| १८८ |

स्विदादिभ्यः श्यविकरणेभ्यो वलादेरिड् न भवति ॥ मंसीष्ट || डीङ् गतौ । डयिषीष्ट ॥ अथ स्वादिः ॥ स्तृञ् आच्छादने । यङ्यक्याश्शे इत्यर् । स्तर्यात् । हल्भ्यां चोरिति वेट् स्तरिषष्टि स्तृषीष्ट ॥ क्रियात् कृषीष्ट ॥ वृञ् वरणे । व्रियात् वृषीष्ट वरिषीष्ट धूञ् कम्पने । धूयात् । रधादीति वेट् धविषीष्ट धोषीष्ट ॥ अथ क्र्यादिः ॥ पूङ् पवने । पूयात् अश्विश्रीतीट् पविषीष्ट ॥ स्तॄञ् च्छादने । स्तीर्यात् । हल्भ्यां चोरिति वेट् स्तरिषीष्ट । इडभावे उरिति किद्वत्त्वादिर् स्तीर्षीष्ट वृञ् वरणे । व्रियात् वरिषीष्ट वृषीष्ट ॥ ज्या वयोहानौ । इक् । जीयात् । ज्ञायात् ज्ञेयात् ॥ ॥अथ तुदादिः ॥  दिशी अतिसर्जने । दिश्यात् ॥ 

१४१८ दन्दृलिविस्पृमृदिरुक्रुरेः शः || |१८५।

दनादिपूर्वात् शान्तात् एकाचो धातोर्वलादेरिड् न भवति ॥ दिक्षीष्ट वशिव्यचीतीक् । भृज्यात् भ्रस्मस्रिति नेद् | भ्रक्षीष्ट ॥ प्रच्छ ज्ञीप्सायाम् । इक् पृच्छयात् शक्प्रच्छीति नेट् भ्रक्षीष्ट ॥ विश प्रवेशने । विश्यात् । निपूर्वत्वे दन्हलीसीड् न भवति । निविक्षीष्ट । वृश्च्यात् । व्यच व्याजीकरणे । इक् । विच्यात् । कुङ् कूङ् शब्दे || 

१४१९ गांङ्कुटाङ्ङिद्वदञ्णि | ||१४४ |

गाङगदेशस्य कुटादीनां च अञ्णिति प्रत्यये ङिद्वद् भवति || कुषीष्ट इट्युव् कुविषीष्ट ॥ गुरैङ् उद्यमने । गुरिषीष्ट ॥ ओविजैङ् भयचलनयोः । विजिषीष्ट ॥ रभि राभस्ये ||  

१४२० यरलाद् भः | || १८३ |

 यादिपूर्वाद् भान्तादेकाचो धातोर्वलादेरिड् न भवति || रप्सीष्ट || डुलभिष् प्राप्तौ । लप्सीष्ट ॥ अथ तनादिः || क्षणिषीष्ट ॥ अथ रुधादिः । विदि विचारणे । शक्प्रच्छीति नेट् । वित्सीष्ट || अथ चुरादिः | स्फोट्यात् युषीष्ठ || अथ युजादिः । मृषी तितिक्षायां । मृष्यात् मर्षिषीष्ट ॥ तपी दाहे । तप्यात् तप्सीष्ट ॥ धूञ् कम्पने । धून्यात् निजभावपक्षे ध्यान । रधादीति बेट् धविषीष्ट धोषीष्ट ॥ प्रीञ् तर्पणे। प्रीण्यात् प्रीयात् प्रेषीष्ट ॥ 

लिटि । स्पर्धि सङ्घर्षे । द्विः। 

१४२१ लुक् खयि ||१। ८ १ |

 द्विर्ब्भावे पूर्वस्य खयि परे पूर्वहलो लुग् भवति || शेषं प्राग्वत् ॥ पस्पर्द्धे ॥ बाधृङ् लोटने । बबाधे || अझटिति नैत् दददे । जहदे || ष्वदि ष्वर्द स्वादि आस्वादने । नैत् । सस्वदे ॥ अकुङ् लक्षणे । उदित इति नम् नक् आनङ्के ॥ ऋजि गतिस्थानार्जनोर्जनेषु । आनृजे ॥ त्रपौषि लज्जायां । त्रप्फलीत्येत् त्रेपे । पनायाञ्चकार पेने । पणायाञ्चकार पेणे । कामयाञ्चक्रे चकमे ॥ अयि गतौ । अयाञ्चक्रे ॥ दयि दानगतिहिंसादानरक्षणेषु। दयाञ्चक्रे । ऊयाञ्चक्रे । ईक्षि दर्शने । ईक्षांचक्रे । कासृङ् शब्दकुत्सायां कासांचके ॥ देङ् रक्षणे ॥ 

१४२२ देर्लिटीगि: |||६९ |

 देङोऽचो लिटि इगिर्भवति न च द्विः ॥ दिग्ये दिग्याते दिग्यिरे ॥ स्रन्ससूङ् प्रमादे | असंयोगादित्यकित्त्वान्न न्लुक् सस्रंसे || द्युति दीप्तौ ॥ 

१४२३ द्युतेरिः ||||७८

 द्युतेर्द्विर्भावे पूर्वस्योतः इद् भवति || दिद्युते ॥ व्यथिष् भयचलनयोः । भूव्यथेति इत् विव्यथे ॥ नट अवस्पन्दने ।ननाट | त्रप्फलीत्येत् | नेटतुः नेदुः इत्यादि ॥ 

१४२४ हल्भ्यामृदर्त्ते || | १३ |

हल्द्वयादृदन्तस्य अर्त्तेश्च लिट्यर्ब्भवति ॥ सस्मार सस्मरतुः सस्मरुः । सस्मरिथ सस्मर्थ इत्यादि ॥ श्रा पाके । शश्रौ शश्रतुः शत्रुः । नित्यानिट्तास इति वेट् शश्राथ शश्रिथे- त्यादि ॥ फण गतौ ॥ 

१४२५ फाणदिजॄत्रस्भ्रम्वमां वा|| |६४ |

फणादेर्ज्रादेश्चाच एद्वा भवति इडादावपिति च लिटि परे न च द्विः ॥ पफान फेणतुः पफणतुः फेणुः पफणुरित्यादि । स्वन शब्दे । सस्थान। स्वेनतुः सस्वनतुः ॥ राजॄञ् दीप्तौ रराज रेजतुः रराजतुः । रेजे रराजे रेजाते रराजाते। भ्राजि दीप्तौ । भ्रेजे बभ्राजे इति फणादिः ॥ टुवमू उद्गरणे । फणादीति वैत् । वयाम वेमतुः ववमतुः || 

१४२६ जेर्लिट्सनि ||१/७२ |

 जेर्लिट्सनोः द्विर्भावे पूर्वात्परस्य जस्व कुर्भवति ॥ जिगाय जिम्यतुः जिग्युः । विजिग्ये ॥ घेट आत्यौश् | दधौ दषतुः दधुः । पपौ । हल्भ्यामित्यर्। आर आरतुः आरुः ॥ तॄ प्लवनतरणयोः ॥ त्रप्फलीत्येत् । ततार तेरतुः ॥ ऋतीयांचक्रे । आनर्त्त आनृततुः आनृतुः ॥ चिकित्सांचकार चिकेत || असंयोगादित्यकित्त्वान्न न्लुक् । ससञ्ज ससञ्जतुः ससज्जुः । अत्वत्त्वाद्वेट् । ससङ्क्थ ससञ्जिथ ॥ गोपायांचकार जुगोप | धूपायाञ्चकार दुधूप || जगाम । अपिति गंहन्नित्यतो लुक्। जग्मतुः जग्मुः । नित्यानिडिति वेट् जगमिथ जगन्थ जग्मथुः जग्म । जगाम जगम जग्मिव जग्मिम || सञ्जग्मे सञ्जग्माते सञ्जग्मिरे ॥ बभ्राम। फणादीति वैत् भ्रेमतुः बभ्रमतुः भ्रेमुः । ईर्ष्याञ्चकार । दल त्रिफला विशरणे । ददाल देलतुः ॥ त्रप्फलीत्येत् पफाल पेलतुः । शसू हिंसायाम् । अझटिति नैत् शशास शशसतुः ॥ उषू दाहे । उद् उवोष ऊषतुः 

१४२७ जाग्रुषसमिन्थीवा | १ |४| ८४ |

जाग्रादिभ्यो लिट आम् वा भवति कृभ्वस्लिट् चानुप्रयुज्यते || ओषाञ्चकार ओषाम्बभूव ओषामास ।। ददर्श दहशतुः ददृशुः । थे नित्यानिडिति वेट् ॥ 

१४२८ सृज्दृशोऽम् जल्यकि | || १९४ |

सृज्दृशोरकिति जल्यम् भवति || म इत् यञ् । दद्रष्ठ | ददर्शिथ ददृशथुः ददृश । ददर्श ददृशिव ददृशिम || संददृशे ॥ अर्ह पूजायाम् । आनर्ह ॥ टु ओश्वि गतिवृद्योः ॥ 

१४२९ लिङ्यङि |||१२४ |

श्वेर्लिटि यङि च साचो यञ इग्वा भवति || शुशाव शुशुवतुः शुशुवुः । सेट्तास्त्वादिट् शुशविथ । इगभावे || 

१४३० न ||| १२५

श्वेर्लिङ्यङोः परतो द्विर्भावे पूर्वस्य साचो यञ इग् न भवति || शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वविथ || इग्यञ इतीक् । उवास । इकि दीर्घः ऊषतुः ऊषुः । शक्प्रच्छीत्यनित्वात् वेट् । उवसिथ उवस्थ || उवाद ऊदतुः ऊदुः । उवदिथ || इयाज ईजतुः ईजुः इयजिथ | इयष्ठ | ईजे || उवाप ऊपतुः ऊपुः । उवपिथ उवप्थ | ऊपे उपाते || उवाह ऊहतुः ऊहुः । उबविथ । इडभावे । ढत्वघेत्वादि ॥ 

१४३१ सहिवहोऽस्यौः | ||८ १ |

सहिवहोर्ढ्रलुचि पूर्वस्यात ओद् भवति || उवोढ । ऊहे ऊहाते ॥ 

१४३२ वेर्वय् | || १२१ |

 वेजो लिटि वय् वा भवति ॥ 

१४३३ न वः |||१०९ |

वेञादेशस्य वयो यञः लिटि परे इगादेशो न भवति || 

१४३४ वा | ||११०

वेञादेशस्य वयो यञ इग्वा न भवति पक्षे येन सहेक् उव् । उवाय ऊयतुः ऊयुः । ऊवतुः ऊवुः । उवयिथ ॥ 

१४३५ प्ये च |||१११।

वेञः प्ये लिटि च इग् न आत् । ववौ ववतुः । ऊये ऊयाते । ऊवे ऊवाते । ववे ववाते || 

१४३६ व्योऽलिटि |||१८१ ।

 व्येञ एचः अशि आद्भवति न लिटि || विव्याय । श्व्यादीतीक् । विव्यतुः विव्युः । अवॄव्यात्तेरितीट् । वि- व्ययिथ । विव्ये विव्याते । ह्वेञ् स्पर्धायाम् ॥ 

१४३७ द्व्युक्तौ ह्वः |||१२१

द्विरुक्तनिमित्ते प्रत्यये हेञः साचो यञ इग् भवति || जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ । 

जुहुवे जुहुवीत | भजी सेवायां । बभाज । त्रप्फलीत्येत् भेजतुः । भेजे । संयोगान्तत्वादकित्त्वेन न लुक् । ररञ्ज ररजे । चखान । गहन्नित्यतो लुक् । चख्नतुः चख्नुः । चखनिथ । चख्ने । दीदांसांचकार दादांसांचक्रे । शीशां- सांचकार शीशांसांचक्रे । गुहौञ् संवरणे । औदित् । जुगूह जुगुहतुः जुगुहुः । जुगुहे । शिश्राय शिश्रियतुः । शिश्रिये शिश्रियाते । प्रत्ययेऽसुधीण इति यञ् । निनाय निन्यतुः निन्ये ॥ अथ अदादिः || विवेद ॥ 

१४३८ विदात् कित् | ||८६ |

वेत्तेर्लिटः किद्वदाम् वा भवति कृभ्वस्लिट् चानुप्रयुज्यते ॥ विदात् किद्वचनादामि स्थानित्वेन लिट्कार्य द्विर्वचनादि न भवति । विदाञ्चकार || 

१४३९ हिघ्नोऽङे कुः पूर्वान् | ||७१ |

हिघ्नोर्द्विर्भावे पूर्वस्मात् परस्य कुर्भवति न ङे॥ जघान । गेहन्नित्यतो लुक् । जग्घ्रतुः जघ्रुः । जघनिथ जघन्थ | आजघ्ने || अस्तेर्भूरादेशः । बभूव बभूवतुः । ममार्ज ममार्जतुः ममृजतुः ममार्जुः ममृजुः । ममार्जिथ ॥ श्व्यादीतीक् । उवाच ऊचतुः ऊचुः । उवचिथ उवक्थ ॥ रुरोद सुष्वाप । इक् सुषुपतु, सुषुपुः । सुष्वपिथ सुष्वप्थ ॥ आन अनतुः । शश्वास शश्वसतुः । जजक्ष जजक्षतुः । जजागार जजागरतुः जजागरुः । जजागरिथ ॥ जाग्रुषसमिन्धो वा इति वाऽम् । जागरांचकार । दरिद्रांचकार । चकासांचकार ॥ शशास शशासतुः शशासुः । शशासिथ || उदाश । वशीतीक् 

१४२९ लिङ्यङि |||१२४ |

श्वेर्लिटि यङि च साचो यञ इग्वा भवति || शुशाव शुश्रुवतुः शुशुवुः । सेट्तास्त्वादिट् शुशविथ । इगभावे || 

१४३० न |||१२५ |

श्वेर्लिङ्यङोः परतो द्विर्भावे पूर्वस्य साचो यञ इग् न भवति || शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ ॥ इग्यञ इतीक् । उवास । इकि दीर्घः ऊषतुः ऊषुः । शक्प्रच्छीत्यनिट्त्वात् वेट् । उवसिथ उवस्थ || उवाद ऊदतुः ऊदुः । उवदिथ || इयाज ईजतुः ईजुः इयजिथ | इयष्ठ | ईजे || उवाप ऊपतुः ऊपुः । उवपिथ उबप्थ | ऊपे ऊपाते || उवाह ऊहतुः ऊहुः । उवविध । इडभावे । ढत्वधत्वादि ॥ 

१४३१ सहिवहोऽस्यौः | || |

सहिवहोर्ढ्रलुचि पूर्वस्यात ओद् भवति || उवोढ । ऊहे ऊहाते || 

१४३२ वेर्वय् || |१२१|

 वेञो लिटि वय् वा भवति ॥ 

१४३३ न वः | ||१०९ |

 वेञादेशस्य वयो यञः लिटि परे इगादेशो न भवति ॥ 

१४३४ वा |||११०।

वेञादेशस्य वयो यञ इग्वा न भवति ॥ पक्षे येन सहेक् उत् उवाय ऊयतुः ऊयुः । ऊवतुः ऊवुः । उवायिथ ॥ 

१४३५ प्ये |||१११।

वेञः प्ये लिटि च इग् न भवति ॥ आत् । ववौ ववतुः । ऊये ऊयाते । ऊवे ऊवाते । ववे ववाते || 

१४३६ व्योऽलिटि | ||१८१।

व्येञः एचः अशि आद्भवति न लिटि || विव्याय । श्व्यादीतीक् । विव्यतुः विव्युः । अवॄव्यात्तेरितीट् । वि- व्ययिथ । विव्ये विव्याते । ह्वेञ् स्पर्धायाम् || 

१४३७ द्व्युक्तौ ह्वः|||१२१।

द्विरुक्तनिमित्ते प्रत्यये ह्वेञः साचो यञ् इग् भवति || जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ । जुहुवे जुहुवाते || भजी सेवायां । बभाज । त्रप्फलीत्येत् भेजतुः । भेजे । संयोगान्तत्वादकित्त्वेन न लुक् । ररञ्ज ररञ्जे । चखान । गंहन्नित्यतो लुक् । चख्नतुः चख्नुः । चखनिथ । चख्ने । दीदांसांचकार दादांसांचक्रे । शीशांसांचकार शीशांसांचक्रे । गुहौञ् संवरणे । औदित् । जुगूह जुगुहतुः जुगुहुः । जुगुहे । शिश्राय शिश्रियतुः । शिश्रिये शिश्रियाते । प्रत्ययेऽसुधीण इति यञ् । निनाय निन्यतुः निन्ये ॥ अथ अदादिः || विवेद || 

१४३८ विदात् कित् | ||८६ |

 वेत्तेर्लिटः किद्वदाम् वा भवति कृभ्वस्लिट् चानुप्रयुज्यते ॥ विदात् किद्वचनादामि स्थानित्वेन लिट्कार्यं द्विर्वचनादि न भवति । विदाञ्चकार ॥ 

१४३९ हिघ्नोऽङे कुः पूर्वात् |||७१ |

हिघ्नोर्द्विर्भावे पूर्वस्मात् परस्य कुर्भवति न ङे॥ जघान । गंहन्नित्यतो लुक् | जग्घ्नतुः जघ्नुः । जघनिथ जघन्थ | आजघ्ने || अस्तेर्भूरादेशः । बभूव बभूवतुः । ममार्ज ममार्जतुः ममृजतुः ममार्जुः ममृजुः । ममार्जिथ ॥ इव्यादीतीक् । उवाच ऊचतुः ऊचुः । उवचिथ उवक्थ ॥ रुरोद सुष्वाप । इक् सुषुपतु: सुषुपुः । सुष्वपिथ सुष्वप्थ ॥ आन अनतुः । शश्वास शश्वसतुः । जजक्ष जजक्षतुः । जजागार जजागरतुः जजागरुः । जजागरिथ || जागुषसमिन्धो वा इति वाऽम् । जागरांचकार । दरिद्रांचकार । चकासांचकार ॥ शशास शशासतुः शशासुः । शशासिथ ॥ उवाश | वशीतीक्। ऊशतुः उशुः । उवशिथ || संक्ष्णुवे संक्ष्णुवाते || सुस्राव सुस्रुवतुः ॥ नुनाव नुनुवतुः । इय् । इयाय ईयतुः ईयुः । इययिथ इयेथ । इयाय || वी गतिप्रजनकान्त्यसनखादनेषु || विवाय विव्यतुः । ययौ || 

१४४० लिटि वा | || १२० |

चक्षो लिटि ख्शाञ् वा भवति ॥ चख्ये । चचक्षे । ईराश्चक्रे । ईडाञ्चक्रे । आसाञ्चक्रे । वसि आच्छादने ववसे । आङः शसूङ् इच्छायाम् । आशशासे । षूङौ प्राणिगर्भविमोचने सुषुवे । इङ् अध्ययने ॥ 

१४४१ गाङ् लिटि | || १२७|

 इङो लिटि गाङ् भवति || ङित् । अधिजगे । अनृच्छूर्णोरिति नाम् । ऊर्णुनाव ऊर्णुनुवतुः । ऊर्णुनुवे ॥ तुष्टाव तुष्टुवतुः तुष्टुवुः । स्रादित्वान्नेट् । तुष्टोथ तुष्टुवे || अथ ह्वादिः || भ्रीह्रीति वा श्लुब्वत् । आम् । विदात् किदिति नियमादन्येभ्योऽकित्त्वादेङरः । बिभयांचकार बिभाय || ह्री लज्जायां । जिह्रयाञ्चकार जिह्राय । पपार । आर। जहौ । ममे । बिभराञ्चकार । बिभरांचक्रे । बभार | स्रादित्वान्नेट् बभर्थ । बभ्रे || डुदाञ् दाने । ददौ ददे || अथ दिवादिः । त्रसै उद्वेजने । फणादीति वैत् । तत्त्रास तत्रसतुः त्रेसतुः ॥ राध वृद्धावेव ||  

१४४२ लिटीडप्येत् ||१/६२ |

 वधार्थे राधोऽच इडादावपिति च लिटि एद्भवति न च द्विः || अपरराध अपरेधतुः अपरेधुः । अपरेधिथ || अन्यत्र आरराध अरराधतुः ॥ विव्याध । वशीतीक् । विविधतुः ॥ उच समवाये । पित्युव् । उवोच । दीर्घः ऊचतुः ॥ रध हिंसासं- राद्ध्योः ॥ 

१४४३ रधः |||२००|

रधोऽजादौ प्रत्यये नम् भवति ॥ ररन्ध ररन्धतुः इत्यादि । जजार । स्कॄच्छॄत इत्य्र । फणादीति वैत् । जेरतुः जजरतुः शशौ । गहन्नित्यतो लुक् श्रुत्वं । जज्ञे । पेदे ॥ प्रीङ् प्रीतौअतत्संयोगादिति यजभावे इय् | पिप्रिये ॥ अथ स्वादिः । स्तॄञ् च्छादने । हल्भ्यामित्यर् । तस्तार तस्तरतुः । तस्तरे ॥ वृञ् वरणे । ववार वव्रतुः वव्रुः । वव्रे || धूञ् कम्पने । दुधाव दुधुवतुः दुधुवुः । रथादीति विकल्पितेत्वात् थे नित्यमिट् दुधविथ दुधुवे ॥ शुश्राव शुश्रुवतुः शुश्रुवुः । स्रादित्वान्नेट् शुश्रोथ || हि गतिवृद्ध्योः । हिघ्नोरिति हस्य घःप्रजिघाय || दम्भू दम्भे । ददम्भ || 

१४४४ दन्भः ||१/६६ |

 दन्भः अपिति लिट्यच एद्भवति न च द्विः न्लुक् च ॥ देभतुः देभुः ॥ 

१४४५ थेवा |||६७।

 दन्भस्थे लिट्येद्वा भवति न च द्विः न्लुक् च || देभिथ ददम्भिथ || अथ क्र्यादि: तस्तार । स्कॄच्छ्रॄत इत्यर् । तस्त- रतुः तस्तरुः । सेत्वान्नित्यमिट् तस्तरिथ । तस्तरे ॥ चकार चकरतुः । चकरे || शॄ हिंसायां । शशार || 

१४४६ शॄदॄप्रां लिट्यृ वा || | ११ |

श्रादीनां लिटि ऋद्वा भवति ॥ पक्षे अर् । शशरतुः शश्रतुः || पॄ पालनपूरणयोः । पपार पपरतुः पप्रतुः || भॄ भरणे बभार बभरतुः बभरुः । बभरिथ ॥ दॄ भये ददार दद्रतुः ददरतुः ॥ ॠ गतौ । आर आरतुः आरुः || जिज्यौ । वशि व्यचीतीक् जिज्यतुः । जज्ञौ जज्ञतुः जजुः ॥ श्रन्थ विमोचनप्रतिहर्षणयोः । शश्रन्थ || 

१४४७ श्रन्थग्रन्थो न्लुक् | ||६५ |

 अनयोरिडादावपिति चलियेद्वा भवति न च द्विः लुक् च ॥ श्रेथतुः शश्रन्थतुः । ग्रन्थ सन्दर्भे । जग्रन्थ प्रेथतुः जग्रन्थतुः || अथ तुदादिः ॥ 

१४४८ भ्रस्ज्रसोऽर् |/२/९५ |

भ्रस्जोरसः अर्वा भवति ल्याश्लि परतः ॥ बभर्ज्ज || बभर्ज्जतुः । असंयोगादित्यकित्त्वान्नेक् । बभ्रज्ज बभ्रुज्जतुः । बभर्ज्जे बभ्रज्जे || उज्झ उत्सर्गे । उज्झाञ्चकार ॥ एङि इय् इयेष दीर्घः ईषतुः ॥ व्यच व्याजीकरणे । विव्याच वशीतीक् विविचतुः ॥ 

१४४९ स्वञ्जेर्वा || | १४९ |

स्वञ्जेर्लिटि किद्वद् भवति वा ॥ सस्वञ्जे || अथ रुधादिः ॥ ञि इन्धैङ् दीप्तौ । किद्वत्त्वान्नलुक् । ईधे ईधाते । सम्पूर्वत्वे जाग्रुषेति वाम् । समिन्धांचक्रे । अन्ज गतिव्यक्तिम्रक्षणेषु आनञ्ज आनञ्जतुः ॥ णिजन्तानामाम् । प्राग्वत् प्रक्रिया । लुण्टयाञ्चकार इत्यादि सर्वं योज्यम् ॥ 

लुङि अस्पर्धिष्ट । अपनायीत् । अपनिष्ट | अपणायीत् अपणिष्ट । औदित्वाद्वेट् अक्षमिष्ट | अक्षंस्त । कंश्रीति ङः द्वित्यादि अचकमत || ओप्यायैङ् वृद्धौ ॥ 

१४५० दीप्पूर्जनबुधताय्प्यायस्ते ञिः| | | १५ |

दीपादिभ्यः कर्त्तरि लुङि ते परे ञिर्वा भवति ॥ ञ इत् । रिति तस्य लुक् पक्षे सिः । अप्यायि अप्यायिष्ट अप्यायिषातां ॥ तायृञ् सन्तानपालनयोः वा ञिः। अतायि अतायिष्ट || औदित्त्वाद्वेट् अगाढ अघाक्षाताम् अगाहिष्ट अगाहिषातां । शक्प्रच्छीति नेट् अस्मेष्ट । अतङि सर्तीत्यङ् अद्युतत् अद्योतिष्ट । अशुभत् अशोभिष्ट । अरुचत् अरोचिष्ट अश्वितत् अश्वेतिष्ट । अमिदत् अमेदिष्ट । अस्विदत् अस्वेदिष्ट । अघुटत् अघोटिष्ट | अलुटत् अलोटिष्ट | अलुठत् अलोठिष्ट । अक्षुभत् अक्षोभिष्ट । अस्रभत् अस्रम्भिष्ट | अस्रसत् अस्रंसिष्ट । अभ्रशत् अभ्रंशिष्ट । अध्वसत् अध्वंसिष्ट | अवृतत् अवर्तिष्ट । अवृधत् अवर्धिष्ट | अशृधत् अशर्धिष्ट | अस्यदत् अस्यन्दिष्ट | अकृपत् अकल्पिष्ट || ज्वर रोगे || 

१४५१ वद्व्रज्ल्रोऽतः || |६८ |

वद्रजोर्लरान्तस्य च धातोरतः अतङानपरे सौ आद्भवति || अज्वारीत् । नट नृत्तौ ॥ 

१४५२ वोर्णुञ्हलादेर्लघोरिटि || |६९ |

ऊर्णुञः हलादिहलन्तस्य च धातोर्ल्लघोरतः इडादावतङानपरे सौ आरैज्वा भवति || अनाटीत् अनाटिष्टाम् | अनटीत् अनटिष्टां ॥ कखे हसने । न क्षणिति नारैच् । अकखीत् || ज्वल दीप्तौ वद्रजिति नित्यमात् अज्वालीत् || पत्ॡ गतौ ।अङि श्वयत्यसिति पम् अमावितौ अपप्तत् ॥ शक्पच्छीति नेट् । अस्मार्षीत् ॥ 

१४५३ यंरंनमातां सक् च | ||७२ |

यम्रम्नम्भ्यः आदन्तेभ्यः च परस्य सेरिड् भवति अतङाने परतः स चैतेषाम् || ईटीट इति सेलुक् अश्रासीत् अश्रासिष्टाम् । अरंसीत् अरंस्त || बुधी बोधने । बन्रासेति नेट ऐच् । अभौत्सीत् अबौद्धां । तङि वा ञिः । अबोधि अबुद्ध अभुत्सातां । न क्षणिति नारैच् अवमीत् । सर्त्तीत्यङ् । असदत् अशदत् ॥ द्रु स्रु गतौ । कंश्रीति ङः । अदुद्रुवत् असुस्रुवत् ॥ 

१४२४धेट्श्वेर्व्वा | | | |

धेट्श्विभ्यां कर्त्तरि लुङि ङो वा भवति ॥ ङित्त्वादिटि चातो लुक् । अदधत् अदधताम् ॥ 

१४५५ घ्राधेट्शाच्छासो वा | ||७४ |

 घ्रादिभ्यस्सेरतङाने श्लुग्वा भवति || अश्लुचीट्सकौ । अधात् अधाताम् । अधासीत् अधासिष्टां || घुपेति से: लुक् । अपात् अपातां || घ्राधेडिति वा लुक् । अघ्रात् अघ्रासीत् । अध्मासीत् ॥ सेः श्लुक् । अस्थात् ॥ आत इत् । प्रास्थित प्रास्थिषाताम् । अम्रासीत् | अदात् ॥ दैब् शोधने || अदासीत् ॥ सृ गतौ । सर्त्यीत्यङ् ॥ 

१४५६ ऋदृशोऽर् ६ || ||

 ऋवर्णान्तानां दृशेश्चेकः अङ्यर्भवति ।। असरत् । असरताम् || 

१४५७ लिप्सिज्ह्वार्त्तेः | | | १३ |

 लिपादीनां कर्त्तरि लुङ्न्यङि अङ् भवति || अर् | आरत् आरतां । सेट्त्वात् सिलुक् अतारीत् अतारिष्टाम् । आर्त्तीयिष्ट आर्त्तीत् ॥ ज्युतॄ भासने ॠदित्त्वाद्वाङ् । अज्युतत् अज्योतीत् || ॠदित्त्वाद्वाङ् | अस्कदत् अस्कन्दीत् ॥ व्रज गतौ । वह्व्रजित्यात् । प्राव्राजीत् || रभसेति नेट् । असाङ्क्षीत् असाङ्क्ताम् || अगोपायीत् अगोपीत् । अधूपायीत् अधूपीत् । ऌदित्त्वादङ् । अगमत् ॥ णम प्रह्वत्वे  शब्दे । यंरमितीट्सकौ । अनंसीन् अनंसीष्टाम् || अयंसीत् । न क्षणिति  नारैच् । अशसीत् || कृषि विलेखने ॥ 

१४५८ दृपादेर्वाऽसृपः | | | |

दृपादिभ्यो लुङि सिर्वा भवति न सृपः ॥ शिशुद्वित्वीति नेट् ॥ 

१४५९ दृप्तृप्सृष्कृषिस्पृश्मृशो वा | ||१९५|

 दृपादीनामकिति जल्यम् वा भवति || अक्राक्षीत् अकार्क्षीत् ॥ पक्षे ॥ 

१४६० इकः शलोऽदृशः क्सो नेट् चेत् || ३। |

 इकः परो यः शल् तदन्ताद्धातोर्लुङि क्सो भवति नेट् चेत् न दृशः ॥ अकृक्षत् ॥ ऋदित्त्वाद्वाङ् । पक्षे सौ सृज्दृश इत्यम् | अदर्शत् अद्राक्षीत् अद्राष्टां ॥ दह भस्मीकरणे | दादेरिति हस्य घः। अधाक्षीन् अदाग्धां || मिह सेचने । क्सः | अमिक्षत् ॥ धेट्श्वेर्वेति ङे अशिश्वियत् । पक्षे || 

१४६१ स्तन्भ्रस्रुचूग्रुचूग्लुचूग्लुञ्चूश्विज्रोऽङ् ||||

एतेभ्यः कर्तेरि लुङ्यङ् वा भवति ॥ श्वयत्यसिति इतोऽत् अल्लुक् । अश्वत्। पक्षे सौ न क्षणिति नारैच् । अश्वयीत् ॥ शक्प्रच्छीति नेट् । तस्सीति सस्य तः । अवात्सीत् अवात्ताम् अवात्सुः || बद्व्रजित्यात् । अवादीत् ॥ अयाक्षीत् । अयष्ट । अवाप्सीत् । अवप्त । अवाक्षीत् ॥ सिलुचि ढलुगोत्वं च अवोढ अवाक्षताम् । अवासीत् अवास्त अव्यासीत् अव्यास्त ॥ लिप्सीत्यङ् आतो लुक् आह्वत् ॥ 

१४६२ तङि वा | | | १४ |

लिपादिभ्यः कर्त्तरि लुङि तङि अङ् वा भवति ॥ पक्षे सिः आह्वत आह्वास्त । अदीदांसीत् अदीदांसिष्ट | अशी- शांसीत् अशीशांसिष्ट । ओत ऊत् अगूहीत् अगूहिष्ट । इडभावे । क्सः । अघुक्षत् ॥ 

१४६३ दुहदिहलिहगुहस्तङि तुवि श्लग्वा ।४।२।५५।

दुहादिभ्यः क्सस्य तवर्गादौ वादौ च तङि श्लुग्वा भवति ॥ अगूढ । अघुक्षत ॥ 

१४६४ क्सस्याचि | ४/२/५४ |

क्सस्याजादौ लुग्भवति ॥ अघुक्षाताम् अघुक्षत । अगूढाः । अघुक्षथाः अघुक्षाथाम् अघूढ्वम् अघुक्षध्वम् । अघुक्षि अगुह्वहि अघुक्षावहि अघुक्षामहि || कंश्रीति ङः । आशीश्रियत् अशिश्रियत । अनैषीत् अनेष्ट || अथ अदादिः । अवेदीत् । समवित्त सम वित्सातां ॥ लिङि चेति वधादेशः । अल्लुचः स्थानित्वादनुपान्त्यत्वे नारेच् । अनेकाचत्वादिट् च अवधीत् ॥ 

१४६५ घ्नो वधस्तङि लुङि |||१२२।

 हनस्तङि लुङि वधो वा भवति || आवधिष्ट | पक्षे सिः || 

१४६६ घ्नः |४/२/२४५ ।

 हनस्तङि सादौ सौ किद्वद् भवति ॥ हन्मन्येति न लुकू । आहत आहसाताम् । अभूत || औदित्त्वाद्वेट् अमार्जीत् अमार्क्षीत् || अङि । श्वयत्यसित्युम् | अवोचत् ॥ ऋदित्वाद्वाङ् अरुदत् अरोदित् ॥ अस्वाप्सीत् अस्वाप्ताम् | आनीत् । अश्वसीत् अश्वासीत् । अजक्षीत् || अनेकाच्त्वादिट् अजागरीत् ॥ 

१४६७ लुङि लुग् दरिद्रः |४/२/१६ |

 दरिद्रो लुङि लुग्वा भवति ॥ पक्षे सक् । अदरिद्रीत् अदरिद्रासीत || अचकासीत् । सर्त्तिशास्तीत्यङ् शास इति इत् अशिषत् । वोर्णुञिति वाऽत् । अवशीत् अवाशीत् ॥ रुषट्कत्वादिट् । ऐच् अरावीत् । अक्ष्णावीत् । समक्ष्णविष्ठ । अस्नावीत् । अनावीत् अयावीत् ॥ 

१४६८ गैत्योः || || १२४ |

इणिकोर्लुङि गा भवति ॥ घुपेति से: श्लुक् । अगात् अगाताम् अगुः । अध्यगात् । सक् अयासीत् ॥ ख्या प्रकथने । वक्तीत्यङ् । आतो लुक् । आख्यत् ख्शादेशे अङ् आख्यत ॥ ऐरिष्ट । ऐडिष्ट । ऐशिष्ट । आसिष्ट । अवसिष्ट । आशासिष्ट । असविष्ट । असोष्ट | 

१४६९ लुङ्लृक्ष्णौ सन्‌ङे वा | || १२८ ।

इङो लुङ्ऌङोः सन्ङपरे णौ च गाङ् वा भवति || गाङ्कुटामिति ङिद्वद्भावे ईहल्यप्ये इतीत्वे अध्यगीष्ट । पक्षे ऐच् अध्यैष्ट || क्सः | अद्विक्षत् | अद्विक्षत ॥ अधुक्षत् अदुग्ध अधुक्षत अधुक्षाताम् अधुक्षत | अदुग्धाः अधुक्षथाः अवुक्षाथाम् अधुग्ध्वम् अधुक्षध्वम् । अधुक्षि अदुहहि अधुक्षावहि अधुक्षामहि || दिही उपदेहे । अधिक्षत् अदिग्ध अधिक्षत अधिक्षाताम् अधिक्षत । अदिग्धाः अधिक्षथाः अधिक्षाथाम् अधिग्ध्वम् अधिक्षध्वम् । अधिक्षि अदिह्वहि अधिक्षावहि अधिक्षामहि || लिही आस्वादने । अलिक्षत् अलीढ अलिक्षत अलिक्षाताम् अलिक्षत | अलीढाः अलिक्षथाः अलिक्षायाम् अलीम् अलिक्षध्वम् । अलिक्षि अलिह्वहि अलिक्षावहि चलिक्षामहि ॥ वैच् । प्रौर्णावीत् प्रौणवीत प्रौणुवीत । धूञितीट् । अस्तावीत् अस्तोष्ट || 

अथ ह्वादिः । अभैषीत् ॥ आरत् । तङि वाङ् समारत । पक्षे सिः समार्ष्ट ॥ 

अथ दिवादिः । सर्त्तीत्यङ् । पुष पुष्टौ । अपुषत् । अशुषत् । अतुषत् । एवं पुप्यादयः स्रिहिपर्यन्ता नेयाः ॥ 

१४७०श्लिषः |४।||

 श्लिषो लुङि क्सो भवति नेट् चेत् ॥ आश्लिक्षत् ॥ 

१४७१ नानालिङ्गने | | ||

अनालिङ्गने वर्त्तमानात् श्लिषः लुङि क्सो न भवति || अङि । उपाश्लिषत् जतु काष्ठम् || असू क्षेपणे । लङ् श्वयत्यसिति थक् । निरास्थत् निरास्थत | नश अदर्शने । अङ् ॥ 

१४७२ नशो वेम् | ||८।

नशोऽङीम् वा भवति ॥ म इत् । अनेशत् अनशत् ॥ तृप प्रीणने । दृपादेर्वेति वा सिः । रथादित्वाद्वेद् । दृप्तृति वाम् । अत्राप्सीत् अतार्प्सीत् । इटि अतर्पीत् । पक्षे अङ् अतृपत् ॥ दृप हर्षविमोहनयोः ॥ अद्राप्सीत् अदार्प्सीत् अदृपत् अदर्पीत् ॥ स्तन्भूस्रुचू इति वाङ् । अर् । अजरत् । पक्षे सिः। ऋदन्तत्वादिट् । अजारीत् ॥ घ्राधेडिति सेर्वा श्लुक् । अशात् पक्षे सक् अशासीत् ॥ एवम्। अच्छात् अच्छासीत् असात् असासीत् । नित्यं सेः श्लुक् । अदात् । दीप्पूरिति वा ञिः ॥ 

१४७१ मजन्वधोऽयंरंनंगंवंकंचमः कृञ्ञौ ||१/२३६

मान्तस्य जनेर्वधेश्व धातोरुपान्त्यस्यातः ञ्णिति कृति ञौ च आन्न भवति न यमादेः ॥ अजाने अजनिष्ट । एवमदीपि यदीपिष्ट ।अपूरि अपूरिष्ट ॥ 

१४७४ पदः |||१६|

पदः कर्तरि लुङि ते परे ञिर्नित्यं भवति ॥ उदपादि उदपत्सातां । दीप्पूरिति वा ञिः अबोधि अबुद्ध अबुत्साताम् || स्विद्मनिति नेट् अमंस्त || अश्विश्रीतीट् । अडयिष्ट || शुचॄञै पुतिभावे । ॠदित्त्वादतङ्यङ् । अशुचत् अशोचिष्ट || हलामित्यात् । अराङ्क्षीत् अरङ्क्त || अथ स्वादिः । धूञितीट् । अधावीत् || आप्ऌ व्याप्तौ । ऌदित्त्वादङ्  आपत् एवम् अशकत् ॥ अथ क्यादिः || 

१४७५ निष्कुषः || || १४१ |

निसः कुषेर्वलादेरिड्वा भवति || निरकोषीत् निरकौक्षीत् । अश्विश्रीतीट् अपावीत् अपविष्ट । एवं अलावीत् अलविष्ट || अथ तुदादिः । वार। अभार्क्षीत् अभार्ष्टाम् । अभ्राक्षीत् अभ्राष्टाम् । अभर्ष्ट अभ्रष्ट | अभवम् अम्रड्वम् ॥ दृपादेरिति वा सौ वाम् । अकार्क्षीत् अक्राक्षीत् । अकृष्ट अक्रष्ट | पक्षे क्सः । अकृक्षत् अकृक्षत || लिप्सिजित्यङ् अलिपत् । तङि वा इत्यङ् अलिपत । पक्षे सिः अलिप्त ॥ षिची क्षरणे । असिचत् जसिचत असिक्त | अलुपत् अलुप्त । अविदत् अवित्त । ऋदन्तत्वादिट् अकारीत् अकारिष्टां । शक्प्रच्छीति नेट् अपाक्षीत् ॥ सृज् विसर्गे । सृज्दृश इत्यम् । अस्राक्षीत् ॥ डुमस्जो शुद्धौ । डुशब्दोतावितौ । नेट् ॥ 

१४७६ नश्मस्जसोर्न्नम् | || १९६ |

 नशः मस्जेः सस्य च जल्यकिति नम् भवति || अमावितौ । अमाङ्क्षीत् अमाङ्क्ताम् ॥ रुजो भङ्गे । ओदित् । अरौक्षीत् ॥ छुप स्पृश स्पर्शने । आवलीति नेट् अच्छौप्सीत् || दन्दृलीति नेट् । दृपादेरिति वा सिः । दृप्तृपिति वाम् अस्प्राक्षीत् अस्पार्क्षीत् अस्पृक्षत् || एवं मृश आमर्शने । अम्राक्षीत् अमाक्षत् अमृक्षत् || असदत् । औदित्वाद्वेट् । अव्रश्चीत् अव्राक्षीत् ॥ सेट् । इषु गत्याम् । ऐषीत् ॥ यरलाद्भ इति नेट् । अरब्ध अलब्ध || अथ तनादिः || क्षणूञ् हिंसायां । न क्षणिति नात् अक्षणीत् अक्षणिष्टाम् । थास्तयोस्सेर्वा श्लुक् । हन्मन्येति णलक् । अक्षत अक्षणिष्ट | अक्षथाः अक्षणिष्ठाः ||अथ रुधादिः । भिदॄञ् विदारणे । अक्षुन्विति नेट् । अभैत्सीत् । ॠदन्तत्वाद्वाङ् । अभिदत् अभित्त असेरिति निषेधादिद् ॥ अञ्ज गतिव्यक्तिस्रक्षणेषु आञ्जीत आञ्जीष्टाम् ॥ अथ चुरादिः । ण्यन्तेभ्यः कंश्रीति ङः । अलघुपरत्वान्न दीर्घः । अलुलुण्टत् । अलघुपरत्वादसन्वत्त्वे नेत् ॥ यत्रु चुर्णसंकोचने । उदित्त्वान्नम् । अययन्त्रत । अज्रेफौ मुक्त्वा द्विः ॥ उर्ज बलप्राणनयोः ॥ और्जिजत् । अग्लुच्यसन्वत्त्वान्नेत्वादि ॥ गण सङ्ख्याने ॥ 

१४७७ गणश्चे | ||१०४ |

गणेर्ङे द्विर्भावे पूर्वस्य ईद्वा भवति || अजीगणत् अजगणत् । अग्नाशित्वान्न ह्रस्वः ॥ पार तीर कर्मसमाप्तौ अपपारत् अतितीरत् । एवं कथादयः सर्वेऽपि नेतव्याः || 

लुटि स्पर्द्धिता || मोदिता । तितिक्षिता । तेजिता । त्रप्ता त्रपिता । मीमांसिता पनायिता पनिता । पणायिता पणिता । क्षन्ता क्षमिता । गाढा गाहिता । स्मेता । कुङ् शब्दे । कोता || गाङ् श्यैङ् गतौ श्याता । धर्त्ता | माता । पविता । डयिता । स्यन्ता स्यन्दिता । कल्प्ता कल्पिता । स्मर्त्ता | दरिता दरीता ॥ 

१४७८ सहलुभेच्छरुषरिषस्ति | || १६२ |

 सहादिभ्यः तादेर्ल्यश्ल इड्वा भवति ॥ सोढा सहिता । रन्ता । बोद्धा । क्रोष्टा । रोढा || वा इट ईद तरिता तरीता । ऋतीयिता अर्तिता । त्यक्ता । सङ्क्ता । गोपायिता गोप्ता गोषिता । धूपायिता धूपिता । तप्ता । यब्धा । गन्ता । वा अस् सप्ता सर्प्ता । नन्ता । यन्ता | क्रमिता । तङि प्रक्रन्ता । भ्रमिता । अक्षीता । अनिटे कलुक् । अष्टा । सहलुभेति वेट् । रुष रिष हिंसायाम् । रोषिता रोष्टा । रेषिता रेष्टा । क्रष्टा कर्ष्टा । दंष्टा । दग्धा । मेढा । श्वयिता । वरता । वदिता यष्टा । वप्ता । चोदा । व्याता । ह्वाता । भक्ता । रङ्क्ता । दीदांसिता । शीशांसिता । शप्ता | गूहिता गोढा । श्रयिता । हृञ् हरणे हर्त्ता | भृञ् भरणे भर्त्ता । नेता || अथ अदादिः ॥ वेदिता । हन्ता । भविता । मार्जिता मार्श । वक्ता । रोदिता । स्वप्ता । अनिता । अनेकाच्त्वादिट् जागरिता । अस्सन्नित्यातो लुक् दरिद्रता । चकासिता । शासिता वशिता । रविता । क्षविता | संक्ष्णविता | स्वविता | नविता । यविता । एता । ख्याता | चक्षिता । ईरिता । सोता । सविता । अध्येता । द्वेष्टा । दोग्धा । ऊर्णविता ऊर्णुविता | स्तोता || अथ ह्वादिः । अर्त्ता ॥ अथ दिवादिः । शक्ता वेत्ता । सहेति बेट् लोभिता लोब्धा पोष्टा तोष्टा । रुष रोषणे । रोषिता । रोष्टा । रथादित्वाद्वेद् । नशिता नंष्टा । तर्पिता ऋप्ता तर्मा । दर्पिता द्वप्ता दर्ता | द्रुहमुहस्नुहस्निहो वेति वा घः पक्षे ढः । द्रुह जि- घांसायां । द्रोहिता दोघा द्रोढा । एवं मुह वैचित्ये । मोहिता मोग्धा मोढा । ष्णुe उद्गरणे । स्नोहिता स्नोग्धा स्नोढा । प्णिह प्रीतौ । स्नेहिता स्नेग्धा । स्नेढा। जरिता जरीता । शाता । जनिता ॥ अथ स्वादिः ॥ धविता घोता । वरिता वरीता || अथ क्यादिः || आस्तरिता आस्तरीता । निष्कोष्टा निष्कोषिता ॥ अथ तुदादिः । भ्रस्जी पाके । भ्रष्टा भर्ष्टा । क्रष्टा कर्ष्टा । स्रष्टा । मङ्क्ता । स्प्रष्टा स्पर्ष्टा । भ्रष्टा भर्ष्टा । सहेति बेट् एष्टा एषिता । कुटादेर्ङिद्वत्त्वान्नैङ् कुटिता । पुटिता । कुचिता । घुटिता । स्फुरिता । नुविता । कुविता | स्वङ्क्ता । रब्धा । लब्धा ॥ अथ रुधादिः वेत्ता ॥ 

१४७९ अन्जोऽसेः । ४।२।१४०|

अन्जो वलादेरिड्वा भवति न सेः ॥ अञ्जिता अङ्क्ता || 

१४८० इटि विजः | ||१४५ |

विजेरिडादौ प्रत्यये ङिद्वद् भवति ॥ विजिता शेषं सुगमं || प्रागुक्तप्रक्रियया नेयाः || 

लृङ्लृटोः स्यः । अस्पर्द्धिष्यत स्पर्द्धिष्यते । अबीभत्सिष्यत बीमत्सिष्यते । अवन्दिष्यत वन्दिष्यते । अहत्स्यत हत्स्यते । अतितिक्षिष्यत तितिक्षिष्यते । अजुगुप्सिष्यत जुगुप्सिष्यते । अत्रप्स्यत अत्रपिष्पत । त्रप्स्यते त्रपिष्यते अपनायिष्यत् अपनिष्यत । पनायिष्यति पनिप्यते । अपणायिष्यत् अपणिप्यत । पणायिष्यति पणिष्यते । अक्षंस्थत अक्षमिष्यत । क्षंस्यते क्षमिष्यते । अकामयिष्यत अकमिष्यत । कामयिष्यते कमिष्यते । अघाक्ष्यत अगाहिष्यत । घाक्ष्यते गाहिष्यते । अस्मेप्यत स्मेष्यते । अकोप्यत कोप्यते । अगास्यत गास्यते । अधरिष्यत धरिष्यते । अपविष्यत पविष्यते । अडयिष्यत डयिष्यते । अद्योतिप्यत द्योतिष्यते । अस्रंसिष्यत स्रसिष्यते ॥ 

१४८१ न वृद्धयः | || १७२ |

 वृतादिभ्यो वलादेरिड् न भवति अताङ परे || वृतूङ् वर्तने । अवर्त्स्यत् वर्त्स्यति । अस्यन्त्स्यत् स्यन्त्स्यति । अकल्प्स्यत् कल्प्स्यति । तङीटि अवर्तिष्यत वर्तिष्यते । अस्यन्दिप्यत स्यन्दिष्यते । अकल्पिष्यत कल्पिष्यते । अज्वरिष्यत ज्वरिष्यते । अस्म- रिष्यत् स्मरिष्यति । अदरिष्यत् अदरीष्यत् । दरिष्यति दरीष्यति । अभोत्स्यत् भोत्स्यति । अभोत्स्यत भोत्स्यते । असत्स्यत् सत्स्यति । 

अक्रोक्ष्यत् क्रोक्ष्यति । अरोक्ष्यत् रोक्ष्यति । अजेष्यत् जेष्यति । व्यजेष्यत विजेष्यते । अधास्यत् धास्यति । ध्यै स्मृ चिन्तायाम् । अध्यास्यत् ध्यास्यति । औस्वृ शब्दोपतापयोः । अस्वरिष्यत् स्वरिष्यति । अतरिष्यत् अतरीष्यत् । तरिष्यति तरीष्यति । आर्तीयिष्यत आर्तिष्यत् । ऋतीयिष्यते अर्त्तिष्यति अचिकित्सिष्यत् अकेतिष्यत् । चिकित्सिष्यति केतिष्यति । असङ्क्ष्यत् सङ्क्ष्यति || यभ जभ मैथुने । अयप्स्यत् यप्स्यति ॥ 

१४८२ अतङः ।४।२।१७१ |

 गमेः परस्य सादेर्ल्यश्ल: अतङीट् नित्यं भवति ॥ अगमिष्यत् गमिष्यति । समगंस्यत संगस्यते । अयंस्यत् यंस्यति । अक्रमिष्यत् क्रमिष्यति । तङि प्राक्रंस्यत प्रक्रंस्यते । अभ्रमिष्यत् भ्रमिष्यति । अक्रक्ष्यत् अकर्क्ष्यत् । क्रक्ष्यति कर्क्ष्यति । अदङ्क्ष्यत् दङ्क्ष्यति । अधक्ष्यत् धक्ष्यति । रह त्यागे । अरहिष्यत् रहिष्यति । अश्वयिष्यत् श्वयिष्यति । अवत्स्यत् वत्स्यति । अवदिष्यत् वदिष्यति । अयक्ष्यत् अयक्ष्यत । यक्ष्यति यक्ष्यते । अवास्यत् अवास्यत । वास्यति वास्यते । अशोशांसिष्यत् अशीशांसिष्यत । शीशांसिष्यति शीशांसिध्यते । अदीदासिष्यत् अदीदांसिष्यत । दीदांसिप्यति दीदांसिष्यते । त्विषी दीप्तौ । अत्वेक्ष्यत् अवेक्ष्यत । त्वेक्ष्यति त्वेक्ष्यते । अधोक्ष्यत् अधोक्ष्यत । अगूहिष्यत् अगूहिप्यत । घोक्ष्यति घोक्ष्यते । गृहिप्यति गृहिप्यते । अश्रयिप्यत् अश्रयिष्यत । श्रायेष्यति श्रयिष्यते ॥ अथ अदादिः || अवेदिष्यत् वेदिष्यति । अहनिष्यत् हनिष्यति । अभविष्यत् भविष्यति । अमार्क्ष्यत् अमीजिप्यत् । मार्क्ष्यति मार्जिष्यति । अवक्ष्यत् वक्ष्यति । अरोदिष्यत् रोदिष्यति । अस्वप्स्यत् स्वप्स्यति । अस्सन्नित्यातो लुक् अदरिद्विष्यत् दरिद्रिष्यति । अशासिष्यत् शासिष्यति । अरविष्यत् रविष्यति । ऐप्यंत् एष्यति । लृङि वा गाङ् । इङ् अध्ययने । अध्यगीष्यत अध्यैष्यत । लृटि न गाङ्ग अध्येष्यते अयास्यत् । यास्यति । आख्यास्यत आख्यास्यते । आचक्षिष्यत आचक्षिष्यते । ऐरिष्यत ईरिष्यते । असविष्यत असोष्यत । सविष्यते सोष्यते । अद्वेक्ष्यत् अद्वेक्ष्यत । द्वेक्ष्यति द्वेक्ष्यते । और्णविष्यत् और्णुविष्यत् । और्णविप्यत औणुविष्यत । ऊर्णविष्यति ऊर्णुविष्यति । ऊर्णविष्यते ऊर्णुविप्यते ॥ अथ ह्वादिः । अभेष्यत् भेष्यति । अपरिष्यत् अपरीप्यत् । परिष्यति परीष्यति । आरिष्यत् आरिष्यति । अहास्यत् हास्यति । अवेक्ष्यत् अवेक्ष्यत । वेक्ष्यति वेक्ष्यते ॥ अथ दिवादिः ॥ नृतै गात्रविक्षेपणे ॥ 

१४८३ कृत्तृन्नृच्चृच्छृदस्स्यसौ ||| १६९ |

कृत् तृद् नृत् चृत छृद् इत्येतेभ्यः स्स्यादेर्ल्यश्ल इड्वा भवति न सेः || अनर्त्स्यत् अनर्तिष्यत् । नर्त्स्यति नर्त्तिष्यति ॥ क्षिप प्रेरणे || आक्षेप्स्यत् क्षेपयति । अरात्स्यत् रात्स्यति । अव्यत्स्यत् व्यत्स्यति । सिद्मनिति नेट् अपोक्ष्यत् पोक्ष्यति । अशोक्ष्यत् शोक्ष्यति । अतोक्ष्यत् तोक्ष्यति । अदोक्ष्यत् दोक्ष्यति । अश्लेक्ष्यत् श्लेक्ष्यति । शक मर्षणे । अशक्ष्यत् शक्ष्यति । अस्वेत्स्यत् स्वेत्स्यति । अक्रोत्स्यत् क्रोत्स्यति । अक्षोत्स्यत् क्षोत्स्यति । अशोत्स्यत् शोत्स्यति । असेत्स्यत् सेत्स्यति । अशमिष्यत् शमिष्यति । अक्लेत्स्यत् अक्लेदिष्यत् । क्लेत्स्यति क्लेदिष्यति । अमेदिष्यत् मेदिष्यति । रधादित्वाद्वेट् । अनङ्क्ष्यत् अनशिष्यत् । नङ्क्ष्यति नशिष्यति । अत्रप्स्यत् अतर्प्स्यत् । अतर्पिष्यत् त्रप्स्यति तर्प्स्यति तर्पिष्यति । अद्रप्स्यत् अदर्प्स्यत् अदर्पि- ष्यत् । द्रप्स्यति दर्प्स्यति दर्पिष्यति । अद्रोक्ष्यत् अद्रोहिष्यत् । द्रोक्ष्यति द्रोहिष्यति । अमोक्ष्यत् अमोहिष्यत् । मोक्ष्यति मोहिष्यति । अनोक्ष्यत् अस्त्रोहिष्यत् । स्नोक्ष्यति स्नोहिष्यति । अस्नेक्ष्यत् अस्नेहिष्यत् । स्नेक्ष्यति स्नेहिष्यति । अजरिष्यत् अजरीष्यत् । जरिष्यति जरीप्यति । अशास्यत् शास्यति । अजनिष्यत जनिष्यते । अपत्स्यत पत्स्यते । अवेत्स्यत वेत्स्यते । सृजि विसर्गे । सज्दृशोऽम् जल्यकि इत्यम् । भ्रस्मस्सृ इति नेट् । अस्रक्ष्यत स्रक्ष्यते । दूङ् परितापे । अदविष्यत दविष्यते || अथ स्वादिः ॥ अस्तरिष्यत् अस्तरिष्यत । स्तरिष्यति स्तरिष्यते । अवरिष्यत् अवरीष्यत् । अवरिष्यत अवरीष्यत । वरिष्यति वरीष्यति । वरिष्यते वरीप्यते । अभविष्यत् अधोप्यत् । अधविष्यत अघोष्यत । धविष्यति धोष्यति । धविष्यते घोप्यते । आप्स्यत् आप्स्यति । राध साध संसिद्धौ । असात्स्यत् सात्स्यति || अथ क्र्यादिः । अप्रेष्यत् अप्रेष्यत । प्रेष्यति प्रेप्यते । अपविष्यत् अपविष्यत । पविष्यति पविध्यते । आरिष्यत् आरी- व्यत् । अरिष्यति अरीष्यति । अभरिष्यत् अभरीप्यत् । भरिष्यति भरीष्यति । अज्ञास्यत् अज्ञास्यत । ज्ञास्यति ज्ञास्यते । अभन्त्स्यत् भन्त्स्यति ॥ मन्थ विलोडने । अमन्थिष्यत् मन्थिष्यति । निरकोक्ष्यत् निरकोषिष्यत् । निष्कोक्ष्यति निष्कोषिष्यति ॥ अथ तुदादिः ॥ अदेक्ष्यत् अदेक्ष्यत | देक्ष्यति देक्ष्यते । अभ्रक्ष्यत् अभत् । श्रक्ष्यति भर्क्ष्यति । अवेत्स्यत् अवेत्स्यत । वेत्स्यति वेत्स्यते । कृतै छेदने । वेट् । अकर्त्स्यत् अकर्तिष्यत् । कर्त्स्यति कर्तिष्यति । अप्रक्ष्यत् प्रक्ष्यति । अमक्ष्यत् मक्ष्यति । अस्प्रक्ष्यत् अस्पर्क्ष्यत् । स्प्रक्ष्यति स्पर्क्ष्यति । अम्रक्ष्यत् अमर्क्ष्यत् । म्रक्ष्यति मर्क्ष्यति । अकुटिष्यत् कुटिप्यति । अस्फुटिष्यत् स्फुटिष्यति । अनुविष्यत् नुविष्यति । अद्रुष्यत् दुष्यति । उदविजिष्यत् उद्विजिष्यते । अस्पङ्क्ष्यत स्पङ्क्ष्यते । अरप्स्यत रप्स्यते । अलप्स्यत लप्स्यते ॥ अथ रुषादिः ॥ अभेत्स्यत् अभेत्स्यत । भेत्स्यति भेत्स्यते । भन्जो अवमर्दने । अभक्ष्यत् भक्ष्यति | आक्ष्यत् आनिष्यत् अक्ष्यति अभिष्यति । ण्यन्तानां प्राग्वत् ॥ 

कर्म्मभावकर्मकर्तृषु प्राग्वत्तङादि ॥ 

लिङि || स्पर्द्धिषीष्ट बीभत्तिषष्टि वन्दिषीष्ट तितिक्षिषीष्ट तेजिषीष्ट । कुङ् शब्दे । वा ञिट्। काविषीष्ट कोषीष्ट । धारिषीष्ट धृषीष्ट । मेङ् प्रतिदाने । आत् आतो यम् मायिषीष्ट मासीष्ट । पाविषीष्ट पविषीष्ट । डायिषीष्ट डयिषीष्ट । ज्वरिषीष्ट । हल्भ्यामिति वेट् । स्मारिषीष्ट स्मरिषीष्ट स्मृषीष्ट । भुत्सीष्ट धायिषीष्ट धासीष्ट । स्थायिषीष्ट स्थासीष्ट । तारिषीष्ट तरिषीष्ट तीर्षीष्ट । ऋतीयिषीष्ट अर्त्तिषीष्ट । चिकित्सिषीष्ट । केतिषीष्ट । सङ्क्षीष्ट । गोपायिषीष्ट गोपिषीष्ट । धूपायिषीष्ट धूपिषीष्ट । गंसीष्ट सीष्ट । कंसीष्ट । अक्षिषीष्ट अक्षीष्ट । तक्षिषीष्ट तक्षीष्ट । कृक्षीष्ट । दर्शिषीष्ट दृक्षीष्ट । दङ्क्षीष्ट धक्षीष्ट । श्वायिषीष्ट श्वायषीष्ट । वत्सीष्ट वदिषीष्ट । यक्षीष्ट । वप्सीष्ट वक्षीष्ट । वायिषीष्ट वासीष्ट । दीदांसिषीष्ट । शीशांसिषीष्ट । श्रायिषीष्ट श्रयिषीष्ट । हारिषीष्ट हृष्टीष्ट । नायिषीष्ट नेषीष्ट ॥ अथ अदादिः ॥ वेदिषीष्ट | वा ञिट् ॥ 

१४८४ हो घः |||२३९|

हनो ञिति णिति च हस्य घो भवति || घानिषीष्ट । वधिषीष्ट । भाविषीष्ट । मार्जिषीष्ट मर्जिषीष्ट मृक्षीष्ट । वक्षीष्ट । रोदिषीष्ट । दरिद्रिषीष्ट । राविषीष्ट रविषीष्ट स्नाविषीष्ट । गंस्नोरिति नेट् । स्नोषीष्ट । आयिषीष्ट एषीष्ट । यायिषीष्ट यासीष्ट । साविषीष्ट सविषीष्ट सोषीष्ट । ऊर्णाविषीष्ट ऊर्णविषीष्ट ऊर्णुविषीष्ट ॥ अथ ह्रादिः ॥ भायिषीष्ट भेषीष्ट ॥ अथ दिवादिः ॥ कृत्तृदिति वेट् । नर्त्तिषीष्ट नृत्सीष्ट । रधावित्वाद्वेट् नशिषीष्ट नङ्क्षीष्ट । त्रप्सीष्ट तर्पिषीष्ट तृप्सीष्ट । द्रप्सीष्ट दर्पिषीष्ट दृप्सीष्ट । द्रोहिषीष्ट । ध्रुक्षीष्ट । जनिषीष्ट दीपिषीष्ट ॥ अथ स्वादिः || सायिषीष्ट सेसीष्ट । क्र्यादिः । ज्ञायिषीष्ट ज्ञासीष्ट ॥ तुदादिः । कर्त्तिषीष्ट कृत्सीष्ट । मङ्क्षीष्ट । एषिषीष्ट इत्यादि सर्वं प्रागुक्तप्रक्रियया नेयं ॥ 

लिटि || पस्पर्द्धे । पनायांचक्रे पेने पणायाञ्चक्रे पेणे । सस्मरे । शश्रे | स्वेने सस्वने । रेजे रराजे । वेमे ववमे । जिग्ये । दधे । पपे । आरे । तेरे ऋतीयाञ्चक्रे आनृते । चिकित्सांचक्रे चिकिते । गोपायांचक्रे जुगुपे । धूपायाञ्चक्रे दुधूपे । जग्मे । बभ्रमे । भ्रेमे । फेले । शशसे । ऊषे । ददृशे । आनहे । शुशुवे । शिश्विये । ऊषे । ऊहे । ऊदे । ईजे । ऊपे । ऊहे ! ऊवे । ऊये । ववे । विव्ये । जुहुवे । भेजे । ररञ्जे । चख्ने। दीदासांचक्रे । शीशासांचके । जुगुहे । शिश्रिये । निन्ये ॥ अथ अदादिः ॥ विविदे विदांचक्रे । जघ्ने । बभूवे । ममार्जे ममृजे । ऊचे । सुषुपे । आने । शश्वसे । जजक्षे । जजागरे । जागराञ्चक्रे । दरिद्राञ्चक्रे । चकासांचक्रे । शशासे । ऊशे । चुक्ष्णुवे | सुस्नुवे | नुनुवे । ईये । यये । चख्ये । चचक्षे । ईरांचक्रे । अधिजगे । ऊर्णुनुवे । तुष्टुवे || अथ ह्वादि: ॥ बिभयांचक्रे बिभ्ये। जिह्रयांचक्रे जिह्रिये । पप्रे । जहे । ममे । बिभराञ्चक्रे बभ्रे । ददे || अथ दिवादिः || तत्रसे से । अपरेधे । आरराधे । विविदे । ऊचे । जजरे ॥ जेरे || अथ स्वादिः || तस्तरे । वव्रे । दुधुवे । शुश्रुवे । जिघ्ये । देभे ॥ अथ क्यादिः || तस्तरे । चकरे । शशरे । शश्रे । पपरे पप्रे । बभरे । ददरे दद्रे | जिज्ये । जज्ञे । श्रेथे शश्रन्थे ग्रेथे जग्रन्थे || अथ तुदादिः || बभर्जे बभ्रज्जे । उज्झाञ्चक्रे ईषे । व्यच व्याजीकरणे | विविचे || अथ रुधादिः || आनञ्जे || अथ चुरादिः || लुण्टयाञ्चक्रे । इत्यादि सर्वं 

योज्यं ॥ लुङि अस्पर्द्धि । अपनायि अपानि अपनिषाताम् । अपणायि अपाणि अपणिषातां । मजन्निति नात् । अक्षमि अक्षमिषाताम् अक्षंसाताम् । अयंरमित्यनिषेधादात् । अकामि । णिञिटि। अकमिचमीति न ह्रस्वः । णिलुक् । अकामिषाताम् । अकामयिषाताम् । अप्यायि । अतायि । अगाहि अगाहिषाताम् । अघाक्षाताम् । अस्मायि अस्मायिषाताम् अस्मेषाताम् । अद्योति । अशोभि । अरोचि । अश्वेति । अमेदि । आस्वेदि । अघोटि । अलोटि । अलोठि । अक्षोभि । अस्रम्भि । अस्रसि । अभ्रंशि । अध्वंसि । अवर्त्ति । अवर्द्धि | अशर्द्धि । अस्यन्दि | अकल्पि | अज्वारि अज्वरिषाताम् | अनाटि | अज्वालि । अस्मारि अस्मारिषाताम् अस्म- रिषाताम् अस्मृषाताम् । अश्रायि अश्रायिषाताम् अश्रासाताम् । अरामि । अबधि अभुत्साताम् । अवामि अवमिषाताम् । असादि अशादि । अद्रावि अद्राविषाताम् अद्रोषाताम् । एवं अस्रावि अस्राविषाताम् अस्रोषाताम्। अधायि अधायिषाताम् अधासाताम् । एवमादन्तानाम् अघ्रायि । अध्मायि । अस्थायि । अम्नायि । अदायि । असारि । आरि । आरिषाताम् । अतारि अतारिषाताम् अतरिषाताम् अतररीषाताम् अतीर्षाताम् । आर्त्तीयि आर्त्ति । अज्योति । अस्कन्दि | अस्कन्साताम् । प्राव्राजि । असञ्जि असङ्क्षाताम् । अगोपायि अगोपि । अधूपायि अधूपि । आगामि अगसाताम् । असर्पि असृप्साताम् । अनामि अनंसाताम् । अयामि । अशासि । अकर्षि अकृक्षाताम् । अदर्शि अदर्शिषाताम् अदृक्षाताम् । अ- दाहि अधक्षाताम् । अमेहि । अश्वायि अश्वायिषाताम् अश्वयिषाताम् । अवासि । अवादि अवदिषाताम् । अयाजि । अवापि । अवाहि । अवायि अव्यायि अव्हायि । अदीदांसि । अशीशांसि । अगूहि अगूहिषाताम् अघुक्षाताम् । अश्रायि । अनायि || अथ अदादिः ॥ अवेदि । अघानि अघानिषाताम् । अहसाताम् । स्थानिवद्भावेन अनुपान्त्यत्वात् नात् अवधि अवधिषाताम् । अभावि । अमार्जि अमार्जिषाताम् अमृक्षाताम् । अवाचि । अरोदि । अस्वापि । आनि । अश्वासि । अजाक्ष । अजागारि । अदरिद्रि । अचकासि । अशासि । अवाशि । अरावि अराविषाताम् अरविषाताम् । अक्षावि अक्षाविषाताम् अक्षविषाताम् | अक्ष्णावि । अस्नावि अस्नाविषाताम् अस्नोषाताम् । अनावि । अयावि । अगावि । अयायि | आख्यायि । ऐरि । ऐडि । ऐशि । आसि । अवासि अवसिषाताम् । आशासि । असावि । अध्यगायि अध्यायि । अद्वेषि । प्रौर्णावि । अस्तावि || अथ ह्वादिः ॥ अभायि । आरि || अथ दिवादिः ॥ अपोषि अपुक्षाताम् | अशोषि । अतोषि । अश्लेषि अश्लिक्षातां । रधादिस्वाद्वेट् ॥ 

१४८५ नेट्यलिटि | || २०१।

 रध इडादौ प्रत्यये नम् न भवति न लिटि || अरन्धि अरधिषाताम् अरत्साताम् । अनाशि । अतर्पि । अदर्पि । अजारि । अशायि । अच्छायि । असायि । अदायि । मजन्वध इति नात् । अजनि । अदीपि । अपूरि । उदपादि । अबोधि । अमानि । अडायि । अशोचि । अरञ्जि ॥ अथ स्वादिः ॥ अधावि । आपि ॥ अथ क्र्यादिः ॥ अश्रायि । अपाचि । अलावि । निरकोषि || अथ तुदादिः || अभर्जि अभ्रज्जि । अकर्षि । अलेपि । असेचि । अलोपि । अवेदि । अकारि । अप्रच्छि । अमज्जि अमङ्क्षाताम् | अरोजि । अच्छोपि अस्पर्शि । अमर्शि । असादि । अव्रश्वि ऐषि || 

१४८६ रभः || ||२०२ |

 रभोऽजादौ प्रत्यये नम् भवति न लिटि ॥ अरम्भि || 

१४८७ लभः | ||२०३ |

 लभोऽजादौ प्रत्यये नम् भवति न लिटि || अथ तनादिः । अक्षाणि ॥ अथ रुधादिः ॥ अभेदि । भन्जे अवमर्दने ॥ 

१४८८ भन्जेर्ञौ वा | ||२२३|

 भन्जो नस्य लुग्वा भवति ञौ परे ॥ अभाजि अभञ्जि || अथ चुरादिः ॥ अलुण्डि । अयन्त्रि । ओर्जि । अकथि । अगणि । अपारि । अतीरि । एवं सर्वं नेयं शेषं प्राग्वत् ॥ लुटि || स्पर्धिता मोदिता हर्ता इत्यादि प्राग्वत् । स्मेता स्मायिता । कोता काविता । श्याता श्यायिता । धर्त्ता धारिता । पविता पाविता।

डयिता डायिता । दारिता दरिता दरीता । क्रन्ता । दर्शिता द्रष्टा । श्वयिता श्वायिता वाता वायिता । श्रयिता श्रायिता । हर्त्ता हारिता । नेता नायिता || अथ अदादिः ॥ घानिता । हन्ता । भाविता भविता । जागारिता जागरिता । राविता रविता । क्षाविता क्षविता | क्ष्णाविता क्ष्णविता | स्नाविता स्नोता । नाविता नविता । याविता यविता । आयिता । एता । यायिता याता । इत्यादि सर्व ञिड्भावाभावाभ्यामभ्यूह्यम् ॥ लृङ्लुटोः || अस्पर्धिष्यत स्पर्धिष्यते । अकामिष्यत अकामयिष्यत अकमिष्यत कामिष्यते कामयिष्यते कमिष्यते । अस्मायिष्यत अस्मेष्यत स्मायिष्यते स्मेष्यते । अकाविष्यत अकोष्यत काविष्यते कोष्यते । अधारिष्यत अधरिष्यत धारिष्यते धरिष्यते । अपाविष्यत अपविष्यत पाविष्यते पविष्यते । अडायिष्यत अडयिष्यत डायिष्यते डयिष्यते । अज्वरिष्यत ज्वरिष्यते । अस्मारिष्यत अस्मरिष्यत स्मारिष्यते स्मरिष्यते । अदारिष्यत अदरीप्यत अदरिष्यत दारिप्यते दरिप्यते दररीप्यते । अभोत्स्यत भोत्स्यते । अगंस्यत गंस्यते । अक्रंस्यत क्रंस्यते । अभ्रमिष्यत श्रमिष्यते । अदशिष्यत अद्रक्षत । दर्शिष्यते द्रक्ष्यते || अथ अदादिः || अघानिष्यत अहनिष्यत । घानिष्यते हनिष्यते । एवं ञिड्भावाभावाभ्यां सर्वमभ्यूह्यम्॥ 

यङि । पास्पर्द्धते । वावन्द्यते । मम् पम्पन्यते । पम्पण्यते । अकवतेरिति चुत्वाभावः कोक्रूयते ॥ स्रन्सूङ भ्रन्सूङ् अवस्रंसने | 

१४८९ वन्चस्रन्सध्वन्सभ्रन्शकसपत्पदिस्कन्दान्नीम् |||८७|

वन्चादीनां यङन्तानां द्विर्भावे पूर्वस्य नीम् भवति म इत । नलुक् सनीस्रस्यते बनीभ्रश्यते । ध्वन्सूङ् गतौ । दनीध्वस्यते । घटिष् चेष्टायाम् । जाघट्यते । ञित्वरिष् सम्भ्रमे । तात्वर्यते । श्लुचि ॥ 

१४९० त्वर्ज्वर्मव्यविस्रिवोऽचश्च |||१४२|

त्वरादीनां वस्य साचः क्विपि जलि चानुनासिकादो प्रत्यये ऊच् भवति । तातूर्ति तातूर्त्त: तात्त्वरति । तातूर्षि तातूर्त्थ तातूर्त्थ । तातूर्मि तातूर्वः तातूर्मः ॥ जाज्वर्यते । श्लुच्यूच् जाजूर्ति जाजूर्त्तः जाज्वरति । सास्मर्यते । ध्वन शब्दे । दध्वन्यते । रंरम्यते । सासद्यते। कस गतौ । नीम् विचनीकस्यते देधीयते । पेपीयते ॥ 

१४९१ घ्राध्मोर्यङि |४।|८९ |

घ्राध्मोर्यङि ईद्भवति ॥ जेघ्रीयते । देध्मीयते । सल्लुक् तेस्थीयते । माम्नायते । देदीयते । दादायते । जेगीयते । अरार्यते । तेतीर्यते । चनीस्कद्यते । बन्चू गतौ च । वनीवच्यते । हुच्छ कौटिल्ये । जोहूर्छ्यते ॥ श्लुचि || 

१४९२ राल्लुक | ||१४३ |

राच्छवयोरनुनासिके क्विपि जालि लुग् भवति || जोहूर्ति जोहूर्तः जोहूर्च्छति ॥ मुर्च्छा मोहसमुच्छ्राययोः । मोमूच्छते । श्लुचि मोमूर्ति मोमूर्तः मोमूर्च्छति । सासज्यते सामञ्जीति सासङ्क्ति अट गतौ । अटाट्यते । जप मानसे च ॥ 

१४९३ जब्जभदहदशभञ्जपसाम् ||१।८९।

 जपादीनां यङि द्विर्भावे पूर्वस्य मम् भवति || जञ्जप्यते । श्रुचि जञ्जप्ति जञ्जपीति । जभ मैथुने | जञ्जभ्यते । जङ्गम्यते जङ्गमीति जङ्गन्ति । हन्मन्येति मलुक् जङ्गतः जङ्गमति । जङ्गमपि जङ्गसि जङ्गथः जङ्गथ । जङ्गमीमि । म्वोश्चेति मो निः जङ्गन्मि जङ्गन्वः जङ्गन्मः || सरीसृप्यते । भण शब्दे । बम्भण्यते नन्नम्यते । नन्नमीति । नन्नन्ति नन्नतः नन्नमति । नन्नमीषि नन्नंसि नन्नथः नन्नथ । नन्नमीमि नन्नन्मि नन्नन्वः नन्नन्मः । एवं यंयम्यते यंयमीति । चङ्क्रम्यते चङ्क्रमति । बम्भ्रम्यते बम्भ्रमीति ॥ दल ञिफला विशरणे ||

१४९४ चर्फलां | ||१०|

चर्फलां यङि द्विर्भावे पूर्वस्य मम् भवति || 

१४९५ ति चातोर्ल्युत् |||११|

 चर्फलां यङि तादौ प्रत्यये रेफलकारपरस्य अत उद् भवति || पम्फुल्यते पम्फुलीति । चर भक्षणे । चञ्चूर्यते चञ्चुरीति । दरीदृश्यते दरीदृशीति । दन्दश्यते दन्दशीति दन्दष्टि दन्दह्यते दन्दहीति ।  दादित्वाद घः दन्दग्धि ॥ वा सम्प्रसारणं । शोशूयते शेश्वीयते । वावस्यते ॥ 

१४९६ स्वब्व्यास्यमः |||११९ |

स्वपादीनां यङि साचो यञ इग् भवति || वेबीयते वेवेति । द्युव्युक्तौ ह्व इति इक् । जोहूयते । धावूञ् शुद्धौ च । दाधाव्यते । वस्य उच्यैच् । दाधावीति दाधौति दाधौतः ।दाधावति । चायृञ् पूजायां च ॥ 

१४९७ चायः की | ||१२० |

चायो यङि की भवति ॥ चेकीयते । नेनीयते । अथ अदादिः । जङ्घन्यते जङ्घनीति जङ्घन्ति जङ्घतः जङ्घनति ॥ 

१४९८ घ्नो घ्नी हिंसायाम् ||२/९०|

 हिंसायां हनो यङि घ्नी भवति || जेघ्नीयते शत्रून् । बोभूयते । सोषुष्यते । इत् शेशिष्यते || 

१४९९ वशो यङि | ||११८ |

वशो यङि यञ इग् न भवति ॥ वावश्यते । मेमीयते । चाख्यायते । चाचक्ष्यते । तोष्ट्यते तोष्टवीति तोष्टोति । अट्यादित्वाद्यङ् । ऊर्णोनूयते । जेहीयते मेमीयते । अथ दिवादिः ॥ 

१५०० नृतेर्यङः | १/२/५५ ॥

यङन्तस्य नृतेः ष्रात्परस्य नस्य णो न भवति ॥ नरीनृत्यते । वेविध्यते । जेजीर्यते । पनीपद्यते । मम्मन्यते मम्मनीति मंमन्ति मंमतः मम्मनति । वेव्रीयते || अथ स्वादिः । हस्य घः । प्रजेघीयते ॥ अथ क्र्यादिः । उर् । मोमूर्यते पोपूर्यते । गॄ शब्दे । जेगीर्यते जेजीयते जाज्ञायते । अश भोजने इत्यस्य अट्यादित्वं केचिदिच्छन्ति अशाश्यते ॥ अथ तुदादिः । बरीभृज्ज्यते ॥ षिची क्षरणे ॥ 

१५०१ सिचो यङि | |२/६२ |

सिचो यङि सस्य षिर्न भवति ॥ सेसिच्यते । लुप्ऌञ् छेदने । लोलुप्यते । गॄ निगरणे ॥ 

१५०२ यङि ।४।२।२५८।

 ग्रो यङि रस्य लो नित्यं भवति ॥ जेगल्यते । इक् । परीपृच्छ्यते वरीवृश्च्यते । इक् । वेविच्यते । कुङ् शब्दे | अनेधादित्वात् चुत्वं चोकूयते । मम् बंभज्यत इत्यादि सर्वेषु लकारेषु प्रागुक्तप्रक्रियया नेयम् ॥ 

णिञि । स्पर्द्धयति । लिङि णिलुक् स्पर्द्ध्यात् स्पर्द्धयिषीष्ट । लिटि स्पर्द्धयांचक्रे । लुङि ङे द्वित्वादि अलघुपरत्वान्न सन्वद्भावः अलघुपरत्वात् पूर्वस्य न दीर्घः अपस्पद्धत् अपस्पर्द्धत । लुटि स्पर्द्धयिता । लृङि अस्पर्द्धयिष्यत् अस्पर्द्धयिष्यत । लुटि स्पर्द्धयिष्यति स्पर्धयिष्यते । एवं सर्वत्र योज्यं । बाधृङ् लोडने । ऋदित् लुङि अशास्वग्नाश्यृदित इति न ह्रस्वः अबबाधत । अमूमुदत् । अकुङ् लक्षणे । उङावितौ नम् आञ्चिकत् । क्नूयैड् शब्दे । ह्रीव्लीति पक् यलुक् जुस्पकीत्येङ् । क्नोपयति अचुक्नुपत् । क्ष्मायैङ् विधूनने । क्ष्मापयति अचिक्ष्मपत् । स्फायैङ् वृद्धौ । कथादीति वम् । स्फावयति अपिस्फवत् । भाषि व्यक्तायां वाचि । भाषयति ॥ 

१५०३ भ्राज्भास्भाष्दीप्पीड्मील्जीवकण्ण्श्रण्वण्लुटां वा | ||२१२ |

भ्राजादेरुपान्त्यस्याचो ङपरे णौ ह्रस्वो वा भवति || ह्रस्वे सन्वत् कार्यम् । अबीभषत् अवभाषत् । भासि दीप्तौ । भासयति अबीभसत् । अबभाषन् अतीतृपत् । अचीकमत । आजि वर्चि दीप्तौ । भ्राजयति अबिग्रजत् अबभ्राजत् । चेष्टि चेष्टायां । चेष्टयति ॥ 

१५०४ वेष्टिचेष्टो वा | ४|१|१०३।

वेष्टिचेष्टयोर्ङपरे णौ द्विर्भावे पूर्वस्य अद्वा भवति || अचचेष्टत् अचिचेष्टत् । एवं वेष्टि वेष्टने । वेष्टयति अववेष्टत् अविवेष्टत् || 

१५०५ प्रयोक्तः स्मिङः |||१९१|

प्रयोक्तृनिमित्तकस्य स्मिङो णौ आद्वा भवति || जटिलो विस्मापयते व्यसिस्मपत । नान्यनिमित्तकस्य । कुञ्चिकया विस्माययति व्यसिस्मयत् । लुटि प्रतिघाते लोटयति | भ्राज्भासिति वा ह्रस्व: अलूलुटत् अलुलोटत् । वर्त्तयति ॥ 

१५०६ उरृत् |||२१२ ।

 धातोरुपान्त्यस्य ऋवर्णस्य ङे णौ ऋद्वा भवति ॥ पक्षे अर् अवीवृतत् अववर्तत् । कल्पयति अचीक्ऌपत् अचकल्पत् ॥ घटिष् चेष्टायां ॥ 

१५०७ घटादिकगेवनूजनैङ्जुष्क्नसूरञ्ज्य मोऽकमिचम्यम्यपपरिस्खदउपान्त्यस्याचोऽणम्ञौ तु दीर्घो वा | ||२०२ |

घटादीनां कगेषट्कस्य अमन्तानां च धातूनाम् उपान्त्यास्याचो णौ परे अ‍ण् हृम्वो भवति अम्ञिपरे तु णौ दीर्घो वा भवति न कम्यादीनाम् || घटयति अजीघटत् । व्यथयति अविव्यथत् । प्रथिष् प्रख्याने । प्रथयति ॥ 

१५०८ स्मृदॄस्तॄत्वर्म्रदप्रथस्पशोऽत् | ||१०२ |

स्म्रादीनामनग्लुचि ङपरे णौ द्विर्भावे पूर्वस्य अद्भवति ॥ सन्वत्त्वापवादः । अपप्रथत् । प्रदिषु मर्दने । म्रदयति अमम्रदत् । त्वरयति अतत्वरत् । क्रपि कृपायां । क्रपयति अचिक्रपत् । ज्वरयति अजिज्वरत् । नट नृत्तौ । नटयति अनी- नटत् । कण रण चण गतौ । कणयति रणयति चणयति । भ्राज्भासिति वा ह्रम्व: अचीकणत् अचकाणत् । अरीरणत् अरराणत् । श्रण दाने । श्रणयति अशिश्रणत् अशश्राणत् । ज्वल दीप्तौ ॥ 

१५९० 

वाऽनुपसर्गाज्ज्वलह्वलह्मलवनूवमनमग्लानाम् ॥४ ||२०७।

अनुपसर्गस्य ज्वलादेरुपान्त्यस्याचो णौ ह्रस्वो वा भवति ॥ ज्वलयति ज्वालयति अजिज्वलत् । स्मरयति असस्मरत् । दॄ भये । दरयति अददरत् । चल कम्पने । चलयति अचीचलत् ध्वनयति अदिध्वनत् । ह्रस्वः रमयति अरीरमत् । चालयति अचीचलत् । वामयति वमयति अवीवमत् । सोपस र्गस्य प्रवमयति || 

१५१० वाशद्योर्विधूननागत्योर्ज्जक्तौ | ||१९९ |

बायाः णौ विधूनने जक् भवति भगतौ शदस्तादेशः फलानि शातयति ॥ 

१५११ रुहः पः |||१९६|

रुहो णौ पादेशो वा भवति || रोपयति रोहयति । क्रीङ्जेरित्यात्वे पक् । जापयति । ह्रीव्लीति पक् । धापयति ॥ 

१५१२ वेव्यापाह्वशाच्छासो यिक् |||२००|

 वेञादीनां णौ यिक् भवति || इकावितौ पगपवादः । पाययति ॥ 

१५१३ पिबस्येब् ङे||| ७० |

पाधातोरचः ङे परे णौ ईप् भवति न च द्विः ॥ अपीप्यत् । घ्रापयति ॥ 

१५१४ जिघ्रतेरि: ||| २१४ |

घ्र उपान्त्यस्याचो के णौ इद्वा भवति || अजघ्रिपत् अजिघ्रपत् । ध्मपयति अदिध्मपत् ॥ 

१५१५ तिष्ठतेः | ४। |२१५ |

 स्थ उपान्त्यस्याचो ङे णौ नित्यमिद्भवति ॥ स्थापति अतिष्ठिपत् । ग्लै हर्षक्षये । वा ह्रस्वः । ग्लपयति ग्लापयति अजिग्लपत् । ध्ये स्मृ चिंतायां । ध्यापयति अदिध्यपत् स्मार- यति असस्मरत् । पक् । अर्पयति आर्पिपत् । अर्च्चयति आर्च्चिचत् । मूर्च्छयति अमुमूर्च्छत् । सञ्जयति अससञ्जत् नाटयति अनीनटत् । लड विलासे । डो लः । लालयति अलीललत् ॥ 

१५१६ जभोऽचि | || १९९ |

 जभोऽजादौ ल्यश्लि प्रत्यये नम् भवति ॥ जम्भयति । अजजम्भत् । गमयति अजीगमत् । सर्पयति। असीसृपत् अससर्पत् । वण शब्दे । वाणयति अवीवणत् अववाणत् । नामयति नमयते अनीनमत् ॥ 

१५१७ यमोऽपरिवेषे णिचि च । । १ । २०४ ।

अपरिवेषे यमः उपान्त्यस्याचो णौ ह्रस्वो भवति अमञि परे तु णौ दीर्घः ॥ यमयति अयीयमत् । परिवेषे चन्द्रं यामयति अयीयमत् । आचामयति आचीचमत् । क्रमयति अचिक्रमत् । भ्रमयति । मील निमेषणे । मीलयति । भ्राजभासिति वा ह्रस्वः । अमीमिलत् अमिमीलत् । जीव प्राणधारणे । जीवयति । वा ह्रस्वः । अजिजीवत् अजीजिवत् । दर्शयति अदीदृशत् अददर्शत् । चह परिकल्कने ॥ 

१५१८ चहः शाठ्ये | ||१०६ ।

शाठ्ये चहोऽचो णौ ह्रस्वो भवति अम्ञौ तु दीर्घो वा ॥ चहयति अचीचहत् अन्यत्र चाहयति । अर्ह पूजायाम् | अर्हयति आर्जिहत् । श्वाययति ॥ 

१५१९ श्वेर्वा | ||१२३

 श्वेस्सान ङे च णौ यञः इग्वा भवति ॥ अशूशवत् अशिश्वयत् । यिक् वाययति अवीवयत् । व्याययति अविव्ययत् । ह्वाययति ॥ 

१५२० णौ सन्ङे |||१२२|

ह्वेञः सनि ङे च णौ यञ इग् भवति || अजूहवत् । रञ्जयति अररञ्जत् || 

१५२१ णौ मृगरमणे | || २२६ |

मृगाणां क्रीडायां रञ्जो णौ नस्य लुग् भवति || घटादीति ह्रस्वः । रजयति मृगान् अरीरजत् । ऊत् गूहयति अजूगुहत् । श्राययति अशिश्रयत् । हृञ् हरणे । हारयति अजीहरत् । नाययति अनीनयत् || अथ अदादिः ॥ 

१५२२ घ्नो नस्तोऽञिणे | ||२३८|

हनो नस्य ञ्णिति तो भवति न ञौ णशि च ॥ घातयति । अङे इति निषेधात् न हस्य घः । अजीहतत् । भावयति अबीभवत् । मार्जयति अमीसृजत् अममार्जत् । स्वापयति । अच्कार्यात् प्रागेव द्विः ॥ 

१५२३ स्वपेर्णावुः | |१।९९ |

 स्वपेर्णौ द्विर्भावे पूर्वस्य यञ उद्भवति ॥

१६२४ स्वापेर्ङे | ४|१|११७|

 स्वापः ङे साचः यञः इग् भवति ॥ असूपुपत् । 

१२२५ जागुर्ञिणे ||| २३१ |

जगुरतः ञिणशोरेवाद्भवति । नियमादत्र न दीर्घः ॥ जागरयति अजजागरत् । अस्सनित्यातो लुक् । दरिद्रयति अददरिद्रत् । शासयति । अशास्विति न ह्रस्वः । अशशासत् ॥ 

१५२६ णौ गमज्ञाने ||| १२५ |

 अज्ञाने ऐत्योर्णौ गम् भवति ॥ गमयति अजीगमत् । ज्ञाने प्रत्याययति प्रत्यायियत् । वा गतिगन्धनयोः । विधूनने जक् । वाजयति अवीवजत् । ष्णा शौचे । वा ह्रस्वः । रूपयति स्वापयति असिष्णपत् । कथादीति लक् । पालयति अपीपलत् । ईरयति ऐरिरत् । सावयति असूषवत् । क्रीङरित्याति पक् अध्यापयति अध्यापिपत् । ङे वा गाङ् अध्यजीगपत् । ऊर्णावयति औणुनवत् ॥ अथ ह्वादिः ॥ 

१५२७ बिभेतेर्भीष् च |||१९२ |

 कर्तृनिमित्तकस्य भियो णौ आच्च भीष् च पर्यायेण भवतः ।। आति पक् । जटिलो भापयते मुण्डो भीषयते । अन्यनिमित्तस्य न भवति कुञ्चिकया भाययति । ह्री लज्जायां । पक् । जुस्पकीत्येङ । ह्रेपयति अजिह्रिपत् । अथ दिवादिः । दुष वैकृत्ये ॥ 

१५२८ ऊद् दुषो णौ | || २१६ |

दुषोऽचो णौ ऊद् भवति ॥ दूषयति अदूदुषत् ॥ षिधू संराद्धौ ॥ 

१५२९ सिद्ध्यतेरज्ञाने | ||१९० |

अज्ञाने सिज्यतेरचो णावाद् भवति ॥ साधयत्यन्नम् । असीसधत् । ज्ञाने सेधयति मुनिं तपः ॥ 

१५३० शमोदर्शने | || २०३ |

अदर्शनेऽर्थे शमोऽचो णौ ह्रस्वो भवति अम्ञि परे तु वा दीर्घः ॥ शमयति रोगं अशीशमत् । दर्शने निशामयति कन्यां । रध इति नम् रन्धयति अररन्धत् । घटादीति ह्रस्वः । जरयति । यिक् शाययति अशीशयत् । छाययति अचिच्छयत् । साययति असीसयत् । दापयति अदीदपत् । जनयति अजीजनत् । दीपयति । श्राजुमामिति वा हस्वः | अदीदिपत् अदिदीपत् । लीङ् लेषणे ॥ 

१५३१ पूजाप्रलम्भाभिभवे णौ|||१८८।

पूजाप्रलम्भाभिभवेषु लीङ्लिनात्योरचो णौ आद् भवति || जटाभिरालापयते स्वं पूजां प्रापयतीत्यर्थः । लोकमुल्लापयते वञ्चयतीत्यर्थः । श्येनो वर्तिकामपलापयते अभिभवतीत्यर्थः । अन्यत्र लाययति श्लेषयतीत्यर्थः । अथ स्वादिः । अङे इति न घः । प्रहाययति प्राजीयत् । आपयति आपिपत् । अथ क्र्यादिः । प्रीञ् कान्तितर्पणयोः || नक् धूनयति अदूधुनत् । स्तारयति अतस्तरत् । जारयति अजीजरत् ॥ व्ली वरणे । पक् व्लेपयति अविव्लिपत् । री रेषणे च । रेपयति अरीरिपत् ॥ 

१५३२ मारणतोषणनिशाने ज्ञश्च | ||२०५।

मारणादिषु जानातेरचो णौ ह्रस्वो भवति अम्ञौ तु दीर्घो वा ॥ ज्ञपयति मृगान् व्याधः । ज्ञपयति गुरुं शिष्यः । ज्ञपयति शरान् व्याधः । अन्यत्र ज्ञापयति धर्म गुरुः ॥ अथ तुदादिः । वार् । भर्ज्जयति अबभर्जन् भ्रज्जयति अबभ्रज्जत् । अञ्णिति निषेधान्न ङिद्वत्वं । कोटयति अचूकुटत् । स्फुर स्फुरणे । चिस्फुरोर्वेति वात् । स्फारयति अपिस्फरत् स्फोरयति अपुस्फुरत् । रभ इति नम् । आरम्भयति आररम्भत् । लम्भयति अललम्भत् ॥ अथ तनादिः ॥ घटादीति ह्रस्वः । वनयति अवीवनत् । अथ चुरादिः । पीड गहने । पीडयति अपिपीडत् अपीपिडत् । एवं प्रागुक्तप्रक्रियया शेषं योज्यम् ॥ 

भावकर्मकर्मकर्तृषु लिङि || वा ञिटि णिलुक् । स्पर्द्धिषष्टि | पक्षे इट् । स्पर्द्धयिषीष्ट । लिटि स्पर्द्धयांचक्रे । लुङि ञिः अस्पार्द्धि । सौ वा ञिट् । अस्पर्द्धिषाताम् अस्पर्द्धयिषाताम् । लुटि वा ञिट् स्पर्द्धिता स्पर्द्धयिता । लृङ्लृटोः अस्पर्द्धिष्यत अस्पर्द्धयिप्यत स्पर्द्धिष्यते स्पर्द्धयिष्यते एवं सर्वत्र योज्यम् ॥ 

ञौ केषांचिद्विशेषोऽस्ति । अघटि अघाटि । अव्यथि अव्याथि । अप्रथि अप्राथि । अम्रदि अम्रादि । अत्वरि अत्वारि । अक्रपि अक्रापि । अज्वरि अज्वारि । अनटि अनाटि । अकणि अकाणि । अरणि अराणि । अश्रणि अश्राणि । अज्वलि अज्वालि । अस्मरि अस्मारि । अदरि अदारि । अध्वनि अध्वानि । अरभि अरामि । अवमि अवामि । अगमि अगामि । अनमि अनामि । अयमि अयामि । अक्रमि अक्रामि । अभ्रमि अभ्रामि । अकमीति न ह्रस्वः । अचामि । अग्लपि अग्लापि । अस्नपि अस्नापि । अथ दिवादिः ॥ अशर्मि अशामि । अरन्धि अरन्धिषाताम् अरन्धयिषाताम् । अजरि अजारि । अजाने अजानि । अज्ञपि अज्ञापि ॥ अथ तुदादिः || अरम्भि अलम्भि | अवनि अवानि । शेषं सुगमम् । इति णिञ्प्रकरणम् ॥ 

अथ सन् प्रपञ्च्यते । सनीटि द्विर्भावादि । विवन्दिषते || 

१५३३ यौ हेलादे रलः संस्त्वोः |||१५२ ।

 इदुदुपान्त्यस्य रलन्तस्य हलादेर्धातोरिडादौ सनि क्त्वाप्रत्यये च किद्वद्वा भवति ॥ मुमुदिषते । मुमोदिषते । जिहत्सते । अञ्चिकिषत । तितिजिषते तितेजिषते । अट्टि हिंसातिक्रमणयोः । अट्टिटिषते । स्फुटि विकसने पुस्फुटिषते पुस्फोटिषते । जुगुप्सिषते जुगोपिषते । तित्रप्सते तित्रपिषते । चिक्षंसते चिक्षमिषते । षेवृङ् सेवने । न स्विदीति न षिः सिसेविषते । जिघाक्षते जिगाह्रिषते। क्रादीतीट् । सिस्मयिषते । न किदिति नेट् । चुकूषते । घुमीतीस् । मेङ् प्रतिदाने प्रतिमित्सते । दित्सते । पिप्यासते । ओः पुयञ्ज्ये इति इत् पिपविषते । डिडयिषते । दिद्योतिषते दिद्युतिषते । न वृद्भ्य इति नेट् । चिवृत्सति । तङीट् । विवर्तिषते विवृत्सति । विवर्धिषते । चिक्लृप्सति चिकल्पिषते । जिज्वरिषति । सनीति दीर्घे कित्त्वा सुस्मूर्षते । रिरंसते । बुभुत्सति बुभुत्सते । भ्रस्जृधेति वेट् पिपतिषति । अनिटीस् न च द्विः सस्य लुक् पित्सति । सिषत्सति । क्रुश आह्वानरोदनयोः चुक्रुक्षति । रुरु- क्षति जिगीषति । घुत्वादिम् । धित्सति । पिपासति । जिघ्रासति । तिष्ठा सति । दित्सति । दिदासति । इट्यकित्त्वादर् । अरिरिषति । तितरिषति । वा इट ईट् । तितरीषति तितीर्षति । चितै संज्ञाने । चिचितिषति चिचेति- षति । न स्विदीति न षिः सिसंङ्क्षति । यियप्सति । अतङीट् जिगमिषति सञ्जिगंसते । निनंसति । यियंसति । चिक्रमिषति प्रचिक्रंसते । बिभ्रमिषति । जिजीविषति । अचिक्षति अचिक्षिषति । दिदृक्षते दिदङ्क्षति । दिधक्षति | शिश्वयिषति । विवत्सति विवदिषति । यियक्षति यियक्षते । विवप्सति विवप्सते । विवक्षति विवक्षते । विवासति विवासते । विव्यासति विव्यासते । जुहूषति जुहूषते । बिभक्षति बिभक्षते । रिरङ्क्षति रिरङ्क्षते । चिखनिषति चिखनिषते । न किदादीति नेट् । जुघुक्षति जुघुक्षते । भ्रस्जृघेति वेट् । शिश्रयिषति शिश्रयिषते । शिश्रीषति शिश्रीषते । जिही- र्षति जिहीर्षते । भ्रस्जृधेति वेट् । भृञ् भरणे । बिभरिषति । बुभूर्षति । निनीषति । अथ अदादिः ॥ रुद्विन्मुषीति किद्वत्त्वान्नैङ् । विविदिषति ॥ 

१५३४ इघ्नः | ||१३८ ।

 इणिगिङादेशस्य गमो इनश्वाचः सनि दीर्घो भवति || जिघांसति आजिघांसते । मिमार्जिषति मिमृक्षति । रुरुदि- षति । रुद्विन्मुषीति किद्वत्त्वान्नैङ् सुषुप्सति । अनिनिषति । शिश्वसिषति । सुसूषते । जिजागरिषति । अस्सन्निति वचनसामर्थ्याद्वेट् दिदरिद्रिषति दिदरिद्रासति । शिशासिषति । विवशिषति । रुरूषति । युयूषति । भ्रस्जृधेति वेट् । यियविषति ॥ 

१५३५ सनीङश्च |४/२/१२६|

इङः एत्योश्च सनि गम् भवति न ज्ञाने || अतङ इतीट् । जिगमिषति अधिजिगमिषति । ज्ञाने । प्रतीषिषति । यियासति । अदादित्वान्नेम् मिमासति । चिख्यासति । ईरिरिषते । सुसू- पति । गम् गंस्नोरिति नेट् इघ्न इति दीर्घः । अधिजिगांसते । दिद्विक्षति | दिद्विक्षते । अस्जृधेति वेद् । ऊर्णुनविषति ऊर्णुनविषते ऊर्णुनुविषति ऊर्णुनुविषते ऊर्णुनूषति ऊर्णुनूषते । तुष्टृषति तुष्टृषते ॥ अथ ह्वादिः । बिभीषति । षुपूर्षति । जिहासते । माङ् माने मित्सते । बुभूर्षति । डुदाञ् दाने । दित्सति दित्सते । विविक्षति विविक्षते । अथ दिवादिः । षिवू तन्तुसन्ताने । सिसेविषति सुस्यूषति । निनृत्सति निनर्तिषति । चिक्षिप्सति ॥ 

१५३६ राधेर्वर्धे ||||६१ |

 वधे राधोऽचः सनीस् भवति न च द्विः ॥ अपरित्सति । विव्यत्सति । पुपुक्षति । शक मर्षणे शिक्षति । ष्विदौ गात्रप्रक्षरणे । सिष्वित्सते । जिह्वासति । शिशमिषति । ऋधू वृद्धौ ॥ 

१५३७ सीर्दोप्ज्ञीप् सन्यृधाब्ज्ञपेर्न च |||५७ |

 ऋधः सकारादौ सनीर्द् भवति आपः ईप् ज्ञपेर्ज्ञीप् न च द्विः ॥ इति । अर्दिधिषति । रिरत्सति रिरधिषति । निनङ्क्षति निनशिषति । जिजीर्षति जिजरिषति । शिशासति । जिजनिषते । पित्सते । दीङ् क्षये ॥ 

१२३८ दीङः सनि | ||१८||

 दीङः सनि आद्वा भवति ॥ दिदासते दिदीषते । मीङ् हिंसायां मित्सते । पिप्रीषते ॥ अथ स्वादिः || वुवूर्षति वुवूर्षते । विवरिषति विवरिषते विवषिति विवरीषते । दुधूषति दुधूषते । प्रजिघीषति । ईप्सति ॥ 

१५३९ दिब्दीब् दन्भः | ४|१| ५८ |

दन्भस्सदौ सनि दिब्दीपौ वा भवतः न च द्विः ॥ धिप्सति धप्सिति । दिदम्भिषति || अथ क्र्यादिः ॥ मीञ् हिंसायां । मित्सति मित्सते लुलूषति लुलूषते । तिस्तरिषति तिस्तरिषते तिस्तीर्षति तिस्तीर्षते । जिज्ञासति जिज्ञासते || क्लिशौ विबा- धने || चिक्लिक्षति चिक्लिशिषति चिक्लेशिषति । मुष स्तेये । मुमुषिषति ॥ अथ तुदादिः । विभ्रक्षति विवर्क्षति बिभ्रज्जिषति बिभर्जिषति । चिकृत्सति । चिकर्तिषति ॥ कॄ विक्षेपणे || क्रादीतीट् । चिकरिषति । जिगरिषति ॥ दृङ् आदरे । दिदरिषते । पिपृच्छिषति । मिमङ्क्षति । विव्रक्षति विव्रश्चिषति । उब्जिजिषति । एषिषिषति । चुकुटिषति । पुस्फु- रिषति । आरिप्सते । लिप्सते ॥ अथ तनादिः ॥ षणूञ् दाने । वेट् । सिसनिषति सिसनिषते ॥ 

१५४० सनि || |२६८|

 षणः सनि अनिट्याद् भवति ॥ सिषासति सिषासते । अथ रुधादिः । विभित्सति बिभित्सते । अञ्जिजिषति । एवं सर्वे योज्यं ॥ 

णिञः सनि । पिस्पर्धयिषतीत्यादि । न स्विदीति न पिः । सिस्वादयिषति । सिसाहयिषति ॥ 

१५४१ श्रुस्रुद्रुप्रुप्लुच्योर्वा | | १।९८ |

श्र्वादीनां सनि द्विर्भावे पूर्वस्योवर्णस्य अवर्णपरे यञि परे इद्वा भवति ॥ च्युङ् ज्युङ् प्रुङ् पूल्लङ् गाङ् श्यैङ् गतौ || चिच्यावयिषति चुच्यावयिषति पिप्रावयिषति पुप्रावयिषति । पिप्लावयिषति पुप्लावयिषति । दिद्रावयिषति दुद्रावयिषति । सिस्रावयिषति सुस्रावयिषति ॥ 

१५४२ संञ्जविष्वाण | ४|१|७४ |

 सोर्णौ सनि द्विर्भावे पूर्वात् परस्य सस्य षिर्भवति वा । सिषञ्जयिषति सिसञ्जयिषति । णौ सन्ङे इति इक् । जुहावयिषति । वेक् । शुशावयिषति शिश्वाययिषति ॥ अथ अदादिः || स्वपेर्णावुरित्युत् सुष्वापयिषति । लुङ्लृणाविति वा गाङ् । अधिजिगापयिषति । अध्यापिपयिषति ॥ अथ स्वादिः || शिश्रावयिषति शुश्रावयिषति ॥ अथ क्र्यादिः ॥ ज्ञीप्सति । ओः पूयञ्ज्ये इतीत् पिपावयिषति । लिलावयिषति ॥ अथ रुधादिः || अञ्जिजयिषति ॥ शेषं सुगमं ॥ यङः सनि पूर्ववदेव प्रक्रिया न विशेषः । पास्पर्द्धिषते इत्यादि । यङो णिञि पास्पर्द्धयतीत्यादि । सनादीनां भाव – कर्मकर्मकर्तृष्वविशेषः ॥ किञ्च ॥ 

२५४३ वन्मुचोनाप्येऽचः |||५९ |

 मुचः सादौ सन्यचः ओत् वा भवति न च द्विः कर्मकर्तरि ॥ मोक्ष्यते वत्सः स्वयमेव । मुमुक्ष्यते वत्सः स्वयमेव || 

लट्लृटोरतङ्तङ्वच्छत्रानशौ । मगादि प्राग्वत् । स्पर्द्धमानः स्पर्द्धमाना स्पर्द्धमानं स्पर्द्धिष्यमाणः स्पर्द्धिष्यमाणा स्पर्द्धिष्यमाणं । बीभत्समानः बीभत्सिष्यमाणः । वन्दमानः । नन्दिष्यमाणः । तितिक्षमाणः तितिक्षिष्यमाणः । पनायन् पनायन्ती पनायत् पनायिष्यन् पनायिष्यन्ती पनायिष्यती पनायिष्यत् पनिष्यमाण इत्यादि । एवं पणायन् पणायिष्यन् पाणेष्यमाणः । स्मयमानः स्मेष्यमाणः । कवमानः कोष्यमाणः । शित्त्वान्नात् । श्यायमानः । लृट्यात् श्यास्यमानः | धरमाणः धरिष्यमाणः । मयमानः मास्यमानः । दयमानः दास्यमानः । पवमानः पविष्यमाणः । डयमानः डयिष्यमाणः । द्योतमानः द्योतिष्यमाणः । वर्तमानः वर्त्स्यन् वर्तिष्यमाणः । कल्पमानः कल्प्स्यन् कल्पिष्यमाणः । घटमानः घटिष्यमाणः । ज्वरन् ज्वरिष्यन् । स्मरन् स्मरिष्यन् । श्रान् श्रास्यन् राजन् राजमानः । राजिष्यन् राजिष्यमाणः । सीदन सत्स्यन् । शीयमानः शत्स्यन् । धयन् धास्यन् । पिबन् पास्यन् । जिघ्रन् घ्रास्यन् । धमन् ध्मास्यन् । तिष्ठन् स्थास्यन् । मनन् म्नास्यन् । यच्छन् दास्यन् । ऋच्छन् अरिष्यन् । तरन् तरिष्यन् तरीष्यन् । ऋतीयमानः ऋतीयिप्यमाणः अर्तिष्यन् । चिकित्सन् चिकित्सिष्यन् । स्कन्दन् स्कन्त्स्यन् । गोपायन् गोपायिध्यन् गोपिष्यन् गोप्स्यन् । धूपायन् धूपायिष्यन् धूपिष्यन् । गच्छन् गमिष्यन् । संगच्छमानः सर्गस्यमानः । सर्पन् स्रप्स्यन् । सर्प्स्यन् । नमन् नंस्यन् यच्छन् यंस्यन् । क्रामन् क्रममाणः क्रमिष्यन् । प्रक्रंस्यमानः | भ्रमन् भ्रमिष्यन् । अक्ष्णुवन् अक्षन् अक्ष्यन् अक्षिष्यन् पश्यन् । द्रक्ष्यन् । दशन् दङ्क्ष्यन् । दहन् धक्ष्यन् । श्वयन् श्वयिष्यन् । वसन् वत्स्यन् । वदन् वदिष्यन् । यजन् यजमानः । यक्ष्यन् यक्ष्यमाणः । रज- न् रजमानः । रङ्क्ष्यन् रक्ष्यमाणः । दीदांसन् दीदांसमानः । दीदांसिष्यन् । दीदांसिष्यमाणः । शीशांसन् शीशांसिष्यमाणः । गूहन् गूहमानः । गूहिष्यन् गूहिष्यमाणः । घोक्ष्यन् घोक्ष्यमाणः । श्रयन् श्रयमाणः । श्रयिष्यन् श्रयिष्यमाणः । नयन् नयमानः । नेष्यन् नेष्यमाणः || 

अथ अदादिः || 

१५४४ शतुः क्वसुः | ||१०३ |

विदो लटः शतुः क्वसुर्वा भवति || कोतावितौ विदन् विद्वान् वेदिष्यन् । घ्नन् घ्नती । अनदन्तत्वान्न मक् । आघ्नानः । हनिष्यन् आहनिष्यमाणः । सन् भविप्यन् । मृजन् मार्जन् । मार्क्ष्यन्ती मार्क्ष्यती । मार्जिष्यन्ती मार्जिष्यती । वचन् वक्ष्यन् । रुदन् रोदिष्यन् | स्वपन् स्वप्स्यन् । अनन्। जक्षत् जक्षिष्यन् । जाग्रत् जागरिष्यन् । दरिद्रत् दरिद्रिष्यन् । चकासत् चकासिष्यन् । शासत् शासिष्यन् । उशन् वशिष्यन् । रुवन् रविष्यन् । क्षुवन् क्षविष्यन् । संक्ष्णुवानः संक्ष्णविष्यमाणः । स्नुवन् स्नविष्यन् । युवन् यविष्यन् । यन् एष्यन् । यन् इयन् एष्यन् । यान् यास्यन् । आचक्षाणः आख्यास्यमानः । ईराणः ईरिप्यमाणः ॥ 

१५४५ आसीनः || |४५|

आसेरानस्यासीन इति निपात्यते ॥ आसीनः आसिष्यमाणः । वसानः वसिष्यमाणः । शिञ्जानः शिञ्जिष्यमाणः । सुवानः सविष्यमाणः सोष्यमाणः । अधीयानः अध्येष्यमाणः । द्विषन् द्विषाणः । द्वेक्ष्यन् द्वेक्ष्यमाणः || 

अथ ह्वादिः । बिभ्यत् भेष्यन् । जिह्रियत् ह्रेष्यन् । इय्रत् अरिष्यन् । मिमानः मास्यमानः । बिभ्रत् बिभ्राणः । भरिष्यन् भरिष्यमाणः । नेनिजत् नेनिजान: । नेक्ष्यन् नेक्ष्यमाणः ॥ अथ दिवादिः ॥ नृत्यन् नर्त्स्यन् नर्तिष्यन् । विध्यन् व्यत्स्यन् । पुष्यन् पोक्ष्यन् । शाम्यन् शमिष्यन् । रध्यन् रधिष्यन् । रत्स्यन् । नश्यन् नङ्क्ष्यन् नशिष्यन् । तृप्यन् त्रप्स्यन् तर्प्स्यन् तर्पिष्यन् श्यन् शास्यन् । जायमानः जनिष्यमाणः । विद्यमानः वेत्स्यमानः । रज्यन् रज्यमानः । रङ्क्ष्यन् रङ्क्ष्यमाणः ॥ अथ स्वादिः ॥ वृण्वन् वृण्वानः । वरिष्यन् वरीष्यन् वरिष्यमाणः वरीष्यमाणः । शृण्वन् श्रोष्यन् । आप्नुवन् आप्स्यन् ॥ अथ क्र्यादिः || प्रीणन् प्रीणानः । प्रेष्यन् प्रेष्यमाणः । पुनन् पुनानः । पविष्यन् पविष्यमाणः । जनन् जानानः ज्ञास्यन् ज्ञास्यमानः ॥ 

अथ तुदादिः || भृज्जन् भृज्जमानः भ्रक्ष्यन् भर्क्ष्यन् भ्रक्ष्यमाण: भर्क्ष्यमाणः । कृन्तन् कर्त्स्यन् कर्तिष्यन् कृषन् क्रक्ष्यन् कर्क्ष्यन् । सृजन् स्रक्ष्यन् । मज्जन् मङ्क्ष्यन् । मृशन् म्रक्ष्यन् मर्क्ष्यन् । इच्छन् एषिष्यन् । कुटन् कुटिष्यन् । कुवमानः कुविष्यमाणः । उद्विजमानः उद्विजिष्यमाणः । लभमानः लप्स्यमानः ॥ अथ रुधादिः ॥ भिन्दन् भिन्दानः भेत्स्यन् भेत्स्यमानः । इन्धानः इन्धिष्यमाणः । अञ्जन् अञ्जिष्यन् । अञ्जोऽसेरिति वा इट् । इत्यादि सर्वं प्रागुक्तप्रक्रियया योज्यं ॥ 

पूर्ववल्लिट: अतङ्वत् तङ्वत् क्वसुकानौ ॥ पस्पर्द्धानः पस्पर्द्धाना पस्पर्द्धानं । बबाधानः । ववन्दानः | जहदानः । सेहानः । आनृजानः । त्रेपाणः । पनायांचक्रवान् । ङयामुम् । पनायांचक्रुषी । पनायांचकृवत् पेनानः । एवं पणायांचकृवान् पेणानः । कामयाञ्चक्राणः चकमानः । अयांचक्राणः । दयांचक्राणः । ऊयांचक्राणः । ईक्षांचकाण: कासांचक्राणः । सस्रसानः । दिग्यानः । दिद्युतानः । विव्यथानः । एकाचत्वादिट् । नेटिवान् । सस्मृवान् । आदन्तत्वादिट् । शश्रिवान् । फेणिवान् । पफण्वान् । खेनिवान् सस्वन्वान् । रेजिवान् रराज्वान रेजानः रराजानः । भ्रेजानः बभ्राजानः । वेमिवान् । ववन्वान् । जिगिवान् विजिग्यानः । ऋ आरिवान् । पुनः किद्वद्वचनान्नार्। तितीर्वान् । ऋतीयांचकाणः आनृत्वान् । चिकित्सांचकृवान्, चिकित्वान् । गोपायांचकृवान् जुगुप्वान् । धूपायांचकृवान् दुधूप्वान् ॥ 

१५४६ गहन्विदृश्विशो वा | || १६८ |

गमादिम्य: क्वस इड्वा भवति | जग्मिवान् जगन्वान् | सञ्जग्मानः । भ्रेमिवान् बभ्रण्वान् । ईर्ष्यांचक्रवान् देलिवान फेलिवान् । शशस्वान् । वेट् ददृशवान् ददृश्वान् । आनर्ह्वान् । वेक् । शुशुवान् शिश्विवान् । ऊषेवान् । ऊदिवान् । ईजिवान् ईजानः । ऊपिवान् ऊपानः । ऊहिवान ऊहानः । ऊयिवान् ऊविवान् चविवान् ऊयानः ऊवानः ववानः । भेजिवान् भेजानः । ररञ्ज्वान् ररञ्जानः । चखन्वान् चख्नानः । दीदांसांचकृवान दीदांसांचक्राणः । शीशांसांचकृवान् शीशांसांचक्राणः । जुगुहान् जुगुहानः । शिश्रिवान् शिश्रियाणः । निनीवान् निन्यानः ॥ अथ अदादिः । विविदिवान् विदांचकृवान् विविद्वान् । जघ्निवान् जघन्वान् आजघ्नानः । बभूवान् । ममृज्वान् । ऊचिवान् ॥ 

१५४७ श्र्विण्वस्सदोऽनुवचश्च कर्तरि भूते || |८१|

 श्र्वादिभ्य: कर्तरि भूतसामान्ये लिटः क्वसुर्भवति अनुवचः कानः ॥ अनूचानः साङ्गे प्रवचनेऽधीती । रुरुद्वान् । सुषुप्वान् | आनिवान् । शश्वस्वान् । जजक्ष्वान् । जजागृवान् । जागरांचकृवान् । दरिद्रांचकृवान् । चकासांचकृवान् । शिशिष्वान् । ऊशिवान् । संचुक्ष्णुवानः । सुष्णुवान् । नुनुवान् । ईयिवान् । ययिवान् । चख्यानः चचक्षाणः । ईरांचक्राणः । आसांचकाणः । सुषुवाणः । अधिजगानः । ऊर्णुनुवान् ऊर्णुनुवानः । तुष्टुवान् तुष्टुवानः ॥ 

अथ ह्वादिः || बिभयांचकृवान् बिभीवान् । जिह्रयांचकृघान् जिह्नीवान् । पपृवान् पुपूर्व्वान् । आरिवान् । जहिवान् । ममानः । बिभरांचक्रवान् बिभरांचक्राणः । बभृवान् बभ्राणः । दधिवान् दधानः || अथ दिवादिः ॥ त्रेसिवान् तत्रस्वान् । ऊचिवान् । जिजीर्वान् । शशिवान् । जज्ञानः । पिप्रियाणः || अथ स्वादिः ॥ तिस्तीर्वान् तिस्तिराणः । ववृवान् वव्राणः । दुधूवान् दुधुवानः । शुश्रुवान् । प्रजिघिवान् । देभिवान् ॥ अथ क्र्यादिः ॥ चिकीर्वान् चिकिराणः । शिशीर्वान् शशृवान् । पुपूर्वान् पप्टवान् । दिदीर्वान् ददृवान् । जिजीवान् जज्ञानः । श्रेथिवान् शश्रथ्वान् । ग्रेथिवान् जग्रथ्वान् । अश भोजने । नञ्पूर्वत्वे ॥ 

१५४८ अनाश्वान् | ||८२ |

नञ्पूर्वादश्नातेः अनाश्वान् इति निपात्यते ॥ अथ तुदादिः । बभ्रुज्ज्वान् बभ्रुज्जानः । विश प्रवेशने । वेट् । विविशिघान् विविश्वान् उज्झांचकृवान् । ईषिवान् । विविच्वान् । सस्व- जानः ॥ अथ रुधादिः । ईधानः । समिन्धांचक्राणः । अनज्वान् ॥ अथ चुरादिः || लुण्टयांचकृवान् । इत्यादि सर्वं नेयम् ॥ 

अथोपसर्गाधिकारा उच्यन्ते ॥ 

१५४९ क्रीञ्तन्यवस्यादेर्लुग्बहुलम् || |२०९ |

क्रीञ्तनोः परतः अवस्यादेरतो लुग् बहुलं भवति ॥ वक्रीणीते अवक्रीणीते । वतनोति अवतनोति || 

१५५० धाञ्नाह्यपेः || |२१० |

 धाञ्नह्यो परतः अपेरतो लुग्वा भवति ॥ पिदधाति अपिदधाति । पिनह्यति अपिनह्यति || 

१५५१ सम्पर्युपात् कृञः सड् भूषसमवाये | || २११।

 सम्पर्युपेभ्यः परस्य कृञः सड् भवति भूषसमवाययोः ॥ परिष्करोति । उपस्करोति । संस्करोति दध्नौदनमित्यादि ॥ 

१५५२ उपाद्विकारप्रतियत्नवाक्याध्याहारे |४/२/२१२

उपात् परस्य कृञः सड् भवति विकारप्रतियज्ञवाक्याध्याहारेषु ॥ गच्छन्नुपस्कुरुते । एधो दकस्योपस्कुरुते । पदमुपस्कुरुते || 

१५५३ किरतेर्लबने |४/२/२१३ |

उपात् किरतेः सड् भवति लवने सति || उपस्किरन् लुनाति ॥ 

१५५४ प्रतेश्च वधे | || २१४ |

प्रतेरुपाच्च परस्य किरतेस्सड् भवति हिंसायाम् || प्रतिस्कीर्णं ह उपस्कीर्णं ह ते वृषल भूयात् । हिंसानुबन्धी विक्षेपस्ते भूयादित्यर्थः ॥ 

१५५५ चतुष्पद्यपाद्धर्षात् |४/२/२१५ |

अपात् किरतेः सड् भवति हर्षाच्चतुष्पदि कर्तरि ॥ अपस्किरते हृष्टो गौः ॥ 

१५५६ विशुनि भक्षाश्रयाय |४/२/२१६ |

अपात् किरतेस्सड् भवति भक्षाय वौ कर्तरि आश्रयाय च शुनि च ॥ अपस्किरते कुक्कुटः । अपस्किरते श्वा || 

१५५७ प्रात्तुम्पतेर्गवि | || २१८ |

प्रात्परस्य तुम्पतेः सड् भवति गवि कर्तरि ॥ प्रस्तुम्पति गौः ॥ 

अथ षत्वविधिरुच्यते ॥ 

१५५८ प्रादुसश्चाच्यस्तेष्षिः ||| २१९ |

उपसर्गात् प्रादुसश्च परस्यास्तेः सस्य अचि ये च परे षिर्भवति । अत्रापि क्विञः सः षिः । शर्न्नम इति परिभाषाऽऽश्रीयते । अभिषन्ति अभिष्यात् । प्रादुष्षन्ति प्रादुष्ष्यात् ॥ 

१५५९ सुञ्सूसोस्तुस्तुभोऽव्यप्यद्धे |४।२/२२०।

उपसर्गात् परेषां अद्विरुक्तानां सुञादीनां सस्य षिर्भवति मध्ये अटि सत्यपि असत्यपि ॥ अभिषुणोति अभ्यषुणोत् । अभिषुवति अभ्यषुवत् । परिष्यति पर्यष्यत् । अभिष्टौति अभ्यष्टौत् ॥ ष्ठुभूञ् स्तम्भे । अभिष्टोभते अभ्यष्टोभत । द्विरुक्तानां न भवति । अभिसुसूषति षो अन्तकर्मणि । अभिसिषासति ॥ 

१५६० स्थासेनिषेधसिच्सञ्जां द्व्यटि |४/२/२२१।

उपसर्गात स्थादीनां सस्य षिर्भवति द्विर्भावे अटि च सत्यपि ॥ अधिष्ठास्यति अधितष्ठौ अध्यष्ठास्यत् । अभिषेणयति अभिषिषेणयिषति अभ्यषेणयत् । प्रतिषेधति प्रतिषिषेध प्रत्यषेधत । अभिषिञ्चति अभिषिषेच अभ्यषिञ्चत् । अभिषजति अभिषिषङ्क्षति अभ्यषजत् ॥ 

१५६१ स्तम्भोऽङप्रतिस्तब्धनिस्तब्धे |४।२/२२२ उपसर्गात् स्तम्भेः षिर्भवति ङप्रत्ययं प्रतिस्तब्धनिस्तब्धौ च वर्जयित्वा द्विर्भावे अटि च सत्यपि ॥ विष्टभ्नाति वितष्टम्भ व्यष्टभ्नात् । अङेत्यादि किं? व्यतस्तम्भत् प्रतिस्तब्धो देवदत्तः । निस्तब्धः चैत्रः || 

१५६२ अवाच्चालम्बनाविदूर्योर्क्षु | || २२३ |

अवात् स्तम्भेः सस्य विर्भवति आलम्बनाविदूर्यौर्जित्येष्वर्थषु द्व्यटि सत्यपि न ङे॥ अवष्टभ्नाति दुर्गम् अवतष्टम्भ अवाष्टभ्नात् । अवष्टभ्नाति शरत् अवतष्टम्भ अवाष्टभ्नात् ।  अवष्टभ्नाति वृषलः अवतष्टम्भ अवाष्टभ्नात् । अवातस्तम्भत् ॥ 

१५६३ वेश्च स्वनोऽशने | || २५४ |

वेरवाच्च परस्य स्वनतेः सस्य षिर्भवति अशने अर्थे द्व्यटि सत्यपि ॥ विष्वणति विषष्वाण व्यष्वणत् अवष्वणति अवषष्वाण अवाष्वणत् । अभोजने। विस्वनति मृदङ्गः । अवस्वनति घण्टा || 

१५६४ सदोऽप्रतेर्लौ त्वादेः |४।२/२२५ |

अप्रतेरुपसर्गात् सदः सस्य षिर्भवति द्व्यटि सत्यपि लिटि तु द्वयोरादेरेव भवति ॥ निषीदति निषापद्यते न्यषीदत् निषसाद । अप्रतेरिति किं । प्रतिसीदति ।। 

१५६५ स्वन्जेश्च | || २२६ |

उपसर्गात् स्वन्जेः सस्य षिर्भवति द्व्यटि सत्यपि लिटि तु द्वयोरादेः ॥ परिष्वजते । परिषिष्वङ्क्षते पर्यष्वजत परिषस्वजे || 

१५६६ पारीनिवेः सेवः |४/२/२२७|

परिनिविभ्यः सेवः सस्य षिर्भवति द्व्यटि सत्यपि ॥ षेवृङ सेवने । परिषेवते परिषिषेविषते पर्यषेवत निषेवते निषिषेविषते न्यषेवत विषेवते विषिषेविषते व्यषेवत | 

१५६७ सट्स्तुस्वञ्जां वा त्वटि || |२२९|

परिनिविभ्यः सडादीनां सस्य षिर्भवति अटि तु वा ॥ परिष्करोति पर्यष्करोत् पर्यस्करोत् । परिष्टौति पर्यष्टोत् पर्यस्तौत् । निष्टौति न्यष्टोत् न्यस्तौत् । विष्टौति व्यष्टौत् व्यस्तौत् । परिष्वजते पर्यष्वजत पर्यस्वजत । निष्वजते न्यष्वजत न्यस्वजत । विष्वजते व्यष्वजत व्यस्वजत ॥ 

१५६८ सीवूसहोऽङेऽसोः | ||२३० |

परिनिविभ्यः परस्य सीवूसहोः सस्य अङे षिर्भवति वा त्वटि न सोभावे ॥ परिषीव्यति पर्यषीव्यत् पर्यसीव्यत् । निषीव्यति न्यषीव्यत् न्यसीव्यत् । विषीव्यति व्यषीव्यत् व्यसीव्यत् । परिषहते पर्यषहत पर्यसहत । निषहते न्यषहत न्यसंहत । विषहते व्यषहत व्यसहत । अङ इति किं? पर्यसीषिवत् न्यसीषिवत् व्यसीषिवत् पर्यसीषहत् न्यसीषहत् व्यसीषहत् । असोरिति किं? परिसोढव्यः निसोढा विसोढा ॥ 

१५६९ स्यन्दतेर्वाऽभ्यनोश्चाप्राणिनि | || २३१ | अभ्यनोः परिनिविभ्यश्च स्यन्दतेः सस्य षिर्भवति वा अप्राणिनि कर्तरि सति ॥ अभिष्यन्दते अभिस्यन्दते । अनुष्यन्दते अनुस्यन्दते । परिष्यन्दते परिस्यन्दते । निष्यन्दते निस्यन्दते । विष्यन्दते विस्यन्दते तैलं । प्राणिनि अभिस्य- न्दते मत्स्यः ॥ 

१५७० वेः स्कन्दोऽक्तयोः ||४/२/२३२ |

 षेः स्कन्दः सस्व षिर्भवति वा न क्तयोः || वष्कन्दति विस्कन्दति । अक्तयोरिति किं । विस्कन्नः विस्कन्नवान् ॥ 

१५७१ परेः || |२३३ |

 परेः स्कन्दः सस्य षिर्वा भवति || परिष्कन्दति परिस्कन्दति परिष्कन्नः परिस्कन्नः ॥ 

१५७२ स्फुरस्फुलोर्निर्ने |४/२/२३४ |

निर्निभ्यां स्फुरस्फुलोः सस्य षिर्वा भवति ॥ निःष्फुरति निःस्फुरति निष्फुरति निस्फुरति । निःष्फुलति निःस्फुलति निष्फुलति निस्फुलति ॥ 

१५७३ वेः || |२३५ |

वेः स्फुरस्फुलोः सस्य षिर्वा भवति || विप्फुरति विस्फुरति । विष्फुलति विस्कुलति || 

१५७४ स्कभ्नः |४।२/२३६ |

 वेः स्कभ्नातेः सस्य विर्नित्यं भवति ॥ विष्कम्नाति । नावचनान्नैधादेः । विस्कम्भते || 

१५७५ निर्दुस्सुवेस्समसूतिस्वपोऽवः || |२३७|

 निसादिभ्यः समसूत्योरवकारस्य स्वपेर्धातोश्च सस्य षिर्भवति ॥ निष्षमः दुष्षमः सुषमः विषमः निष्षूतिः दुष्षूतिः सुषूतिः विषूतिः निष्षुप्यते दुष्षुप्तः सुषुप्तिः विषुप्तिः । अव इति किं? दुःस्वप्नः सुस्वप्नः ॥ 

               अथ णत्वविधिर्दश्यते

१५७६ हिनुमीनानिणोऽदुरोऽन्तरश्च णः |४/२/२३८ |

ष्रान्नो ण इति परिभाषोपतिष्ठते । अदुर उपसार्गादन्तरश्च परस्य हिनु मीना आनि इत्येतेषां णादेशस्य च नस्य णो भवति || प्रहिणोति प्रमीणाति प्रभवाणि प्रणयति अन्तर्णयति अन्तर्भवाणि । अदुर इति किं? दुर्नयति ॥ 

१५७७ शः ।४।२।२३९

अदुर उपसर्गादन्तरश्च परस्य शकारान्तस्य धातोर्नस्य णो भवति ॥ प्रणश्यति अन्तर्णश्यति । अदूर इति किं । दुर्नश्यति । अशान्तत्वे णो न भवति । प्रनष्टः || 

१५७८ नेर्घुमानद्गत्पत्पदिस्यतियातिवातिद्रातिप्साति- हन्तिवपिवहिशमूचिञ्देग्धौ || |२४० |

अदूर उपसर्गादन्तरश्व परस्य नेर्घ्वादौ धातौ परे णो भवति ॥ प्रणिदधाति प्रणिददाति । प्रणिमयते प्रणिमिमीते । णद अव्यक्ते शब्दे । प्रणिनदति प्रणिगदति । 

। प्रणिपतति प्रणिपद्यते । प्रणिष्यति । प्रणियाति । प्रणिवाति । प्रणिद्राति । प्रणिप्साति । प्रणिहन्ति । प्रणिवपति । प्रणिवहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणिदेग्धि । अन्तर्णिदधाति इत्यादि । अदुर इति किं? दुर्निदधाति दुर्निदेग्धि || 

१५७९ शेषेऽषान्तकखपाठे वा |४।२।२४१|

अदुरं उपसर्गादन्तरश्च परस्य नेः शेषे घ्यादिभ्योऽन्यस्मिन् धातुपाठे निर्दिष्टे परे णो वा भवति न षान्ते कखादौ च ॥ प्रणिपचति प्रनिपचति । अन्तर्णिपचति अन्तर्निपचति । प्रणियोजति प्रनियोजति । अन्तर्णियोजति अन्तर्नियोजति । अषान्तकखेति किं? प्रनिपिनष्टि । प्रनिकिरति । प्रनिखनति । पाठ इति किं । प्रनिसासाति प्रनिपापचीति ।। 

१५८० परेरनितेः | || २४२ |

परेरनितेर्नस्य णो वा भवति ॥ पर्यनिति पर्यणिति ॥ 

१५८१ अन्ते || |२४३ |

 अदुर उपसर्गादन्तरश्च परस्थानितेर्नस्य णो वा भवति पदान्ते अपदान्ते च प्राणिति अन्तरणिति । हे प्राण् हे परान् । अदुर इति किं? दुरनिति ॥ 

१५८२ द्वयोः | ||२४४ |

 अदुर उपसर्गादन्तरश्च परस्यानितेर्द्विर्भावे द्वयोर्णो भवति ॥ प्राणिणिषति प्राणिणत् । अन्तरणिणिषति अन्तराणिणत् ॥ 

१५८३ घ्नः || |२४५ |

 अदुर उपसर्गादन्तरश्च परस्य हनो नस्य णो भवति ॥ प्रहण्यते अन्तर्हण्यते ॥ 

१५८४ म्वि वा | ||२४६ |

 अदुर उपसर्गादन्तरश्च परस्य हनो नस्य मवयोर्णो वा भवति || प्रहण्मि प्रहन्मि । महण्वः प्रहन्वः । अन्तर्हण्मि अन्तर्हन्मि । अन्तर्हण्वः अन्तर्हन्व || 

१५८५ निंसनिक्षनिन्दः कृति वा | ||२४८|

अदुर उपसर्गादन्तरश्च परस्य निंसादीनां नस्य णो वा भवति कृति परे ॥ णिसुङ् चुम्बने । णिक्ष चुम्बने । णिदु कुत्सायां । प्रणिंसनं प्रनिंसनम् । प्रणिक्षणं प्रनिक्षणम् । प्रणिन्दनं प्रनिन्दनम् । अन्तर्णिसनमित्यादि ॥ 

१५८६ अषोऽचोऽभाभूपूञ्कंगंप्यायिवेपः |||२४९|

अषकारान्ताददुर, उपसर्गादन्तरश्च पराद्धातोः परस्य कृतः अचः परस्य नस्य णो भवति न भादेः ॥ प्रयाणं महाणम् अन्तर्याणं । अष इति किं । निष्पानम् | अच इति किम्? प्रभग्नः । अभादेरिति किं । प्रभानं प्रभवनं प्रपवनं प्रकमनं प्रगमनं प्रप्यायनं । टुवेपृङ् चलने । प्रवेपनं ॥ 

१५८७ नमीजादेरेव | || २५० |

अषकारान्ताददुर उपसर्गादन्तरश्च परस्य इजादेरेव धातोर्नमि सति अचः परस्य कृतो नस्य णो भवति ॥ इखु गतौ । प्रेङ्खणं परेङ्गणम् । इजादेरिति किं । मकुङ् मण्डने । प्रमङ्कनं ॥  

१५८८ णिहलिजुपान्त्याद्वा | || २५१ |

अषकारान्ताददुर उपसर्गादन्तरश्च परात् ण्यन्तात् हलः परो य इच् तदुपान्त्याश्च धातोरचः परस्य कृतो नस्य णो भवति वा न भादेः ॥ प्रयापणं प्रयापनं । कुप क्रोधे । प्रकोपणं प्रकोपनं । न भादेः। प्रभावना प्रभावना प्रपावना प्रकामना प्रगमना प्रप्यायना प्रवेपना ॥ 

१५८९ रो लोऽयौ || |२५३ |

उपसर्गस्य रेफस्य अयिधातौ परे लो भवति । पलायते ॥ 

१५९० निष्प्रतेर्वा || |२५४ |

 निष्प्रत्यो रेफस्य अयिधातौ परे लो वा भवति ॥ निलयते निरयते । प्लत्ययते प्रत्ययते इत्यादि । शेषं शास्त्रे ज्ञातव्यम् ॥ 

॥अथ तङ्विधिरभिधीयते

१५९१ ऊह्यसोर्वोपसर्गात् | १।४ | |

 उपसर्गात् पराभ्यामूहि असु इत्येताभ्यां परस्य लस्तङ् वा भवति ॥ समूहति समूहते । असू क्षेपणे । निरस्यति निरस्यते ॥ 

१५९२ युजोऽजुदः | |||

 अजन्तादुदश्चोपसर्गात् परात् युजृञो लस्तङ् भवति || प्रयुङ्क्ते उद्युङ्क्ते ॥ 

१५९३ परिव्यवात् क्रियः | || |

परिव्यवेभ्यः क्रीञो लस्तङ् भवति || परिक्रीणीते विक्रीणीते अवक्रीणीते || 

१५९४ परावेर्जेः | |||

 पराविभ्यां जेर्लस्तङ् भवति ॥ पराजयते विजयते ॥ 

१५९५ समस्तृतीयया | |||

तृतीयया युक्तात् समश्चरेर्लस्तङ् भवति ॥ अश्वेन संचरते || 

१५९६ क्रीडोकूजे | ||१०|

समः क्रीडो लस्तङ् भवति न कूजने ॥ क्रीडृ विहारे संक्रीडते । कूजने संक्रीडति रथः ॥ 

१५९७ पर्यन्वाङः | ||११ ।

पर्यन्वाङ्भ्यः क्रीडो लस्तङ् भवति ।। परिक्रीडते अनुक्रीडते आक्रीडते ॥ शपनाथ इति तङ् ॥ शपि आक्रोशे । देवदत्ताय शपते । अन्यत्राक्रोशे शपति चैत्रम् । नाथृङ् णाथृङ् याच्ञाशीरुपतापैश्वर्येषु । सर्पिषो नाथते । याच्ञादौ नाथति । कलासु शिक्षते । अन्यत्र शिक्षति । ओदनं भुङ्क्ते । त्राणे भुवं भुनक्ति ॥ 

१५९८ हृञो गतिताच्छील्ये | ||१३ |

गतिताच्छील्ये हृञो लस्तङ् भवति || पैतृकमनुहरते अश्वः । पितुरागतं गमनं स्वभावतो गच्छतीत्यर्थः ॥ 

१५९९ न्यः सम्माननाचार्यकभृत्युत्सञ्जनज्ञानव्ययवि गणने |||१४|

सम्माननादिष्वर्थेषु णीञो लस्तङ् भवति || सम्मानने नयते वैद्ये। आचार्य के माणवकमुपनयते । भृतौ कर्मकरानुपनयते । उत्सञ्जनमुत्क्षेणम् । तत्र दारकमुदानयते । ज्ञाने नयते विद्वान् स्याद्वादे । व्यये शतं विनयते । विगणने वृषलः करं विनयते ॥ 

१६०० लोः कृपः | ||१८ |

कृपेर्लुटस्तङ् वा भवति ॥ कल्प्तासि कल्पितासे || 

१६०१ द्युद्भ्यो लुङः | || १९|

द्युतादिभ्यो लुङस्तङ् वा भवति ॥ अद्युतत् अद्योतिष्ट । अक्ऌपत् अकल्पिष्ट अक्ऌप्त || 

१६०२ वृद्भ्यः सस्यात् | ||२०|

वृतादिभ्यः सन्स्याभ्यां तङ् वा भवति।  विवृत्सति विवर्तिषते । वर्त्स्यति वर्तिष्यते । अवर्त्स्यत् अवर्तिष्यत । चिक्ऌप्सति चिकल्पिषते चिक्ऌप्सते । कल्प्स्यति कल्पिष्यते कल्प्स्यते अकल्प्स्यत् अकल्पिष्यत अकल्प्स्यत || 

१६०३ क्रमोऽनुपसर्गात् | ||२१|

अनुपसर्गात् क्रमो लस्तङ् वा भवति ॥ क्रमते क्रामति । उपसर्गात् । संक्रामति ॥ 

१६०४ वृत्तिसर्गतायने | || २२ |

वृत्त्यादिषु क्रमो लस्तङ् नित्यं भवति ॥ वृत्तौ शास्त्रे बुद्धिः क्रमते । सर्गे तात्पर्ये सूत्राय क्रमते । तायने क्रमन्ते गुणाः । क्रमते राजा भुवनं ॥ 

१६०५ पेरोपात् | || २३

परोपाभ्यां क्रमो लस्तङ् भवति || पराक्रमते उपक्रमते || 

१६०६ वेः पादविक्षेपे | |४/२४ |

 वेः क्रमो लस्तङ् भवति पादविक्षेपे || सुष्ठु विक्रमते अश्वः अन्यत्र विक्रामति राजा || 

१६०७ प्रोपाभ्यां समर्थाभ्याम् | ||२५|

 प्रोपाभ्यां समर्थाभ्यां क्रमो लस्तङ् भवति । भोक्तुं प्रक्रमते उपक्रमते । प्रारभत इत्यर्थः || 

१६०८ ज्योतिरुद्गतावाङः | १/४/२६ |

आङः क्रमो लस्तङ् भवति ज्योतिषामुदये ॥ आक्रमते चन्द्रः । अन्यत्र आक्रामति शैलम् ॥ 

१६०९ नुदाञ्प्रच्छः | ||२७|

 आङ नुदाञ्प्रच्छिभ्यो लस्तङ् भवति ॥ आनुते सृगालः । धनमादत्ते । आपृच्छते गुरुम् ॥ 

१६१० गमेः प्रतीक्षायाम् | ||२८|

 आङो ण्यन्तात् गमेः लस्तङ् भवति प्रतीक्षायाम् || आगमयते गुरुम् । अन्यत्र आगमयति विद्याम् ॥ 

१६११ ह्वः स्पर्धे |||२९|

आङो ह्वेञो लस्तङ् भवति स्पर्धे || मल्लो मल्लमाह्वयते । अन्यत्र आह्वयति मित्रम् ॥ 

१६१२ संनिवेः | | | ३० |

 सन्निविभ्यो ह्वेञो लस्तङ् भवति || संहृयते निह्वयते विह्वयते ॥ 

१६१३ उपात् | || ३१

 उपात् ह्वेञो लस्तङ् भवति ॥ उपह्वयते ॥

१६९४ यमो विवाहे | ||३२|

उपायमो लस्तङ् भवति विवाहे ॥ उपयच्छते कन्याम् । अन्यत्र उपयच्छति शकटम् । गृह्णातीत्यर्थः ॥ 

१६१५ स्थः पथिमैत्रीदेवार्चासङ्गममन्त्रकरणे | ||३३|

उपात्तिष्ठतेर्लस्तङ् भवति पथ्यादिष्वर्थेषु ॥ अयं पन्थाः सुन्नमुपतिष्ठते । मैत्र्यां चैत्रमुपतिष्ठते । देवाचीयां जिनेन्द्रमुपतिष्ठते । सङ्गमे गङ्गा यमुनामुपतिष्ठते । मन्त्रकरणे मृत्युञ्जयेनोपतिष्ठते ॥ 

१६१६ लिप्सौ वा || | |

 उपात्तिष्ठतेर्लस्तङ् वा भवति लिप्सौ कर्तरि || भिक्षुर्गृहं गृहमुपतिष्ठते ॥ 

१६१७ उदोऽनूर्ध्वेहे || | ३५ |

उदस्तिष्ठतेर्लस्तङ् भवति अनूर्ध्वे ईहे चेष्टायाम् || शास्त्रे उत्तिष्ठते । उद्युङ्क्ते इत्यर्थः । अन्यत्र आसनादुत्तिष्ठति । ग्रामे शतमुपतिष्ठति ॥ 

१६१८ संविप्रावात् | | | ३६ |

संविप्रावेभ्यः तिष्ठतेः लस्तङ् भवति ॥ सन्तिष्ठते वितिष्ठते प्रतिष्ठते अवतिष्ठते ॥ 

१६१९ स्थेयप्रकाशने | ||३७|

 स्थेये प्रमाणभूते विषये प्रकाशने च तिष्ठतेर्लस्तङ् भवति ॥ तिष्ठते प्रमेयमकलङ्के । तिष्ठते कन्या च्छात्रेभ्यः ॥ 

१६२० प्रतिज्ञाने || | ३८ |

प्रतिज्ञाने अभ्युपगमे तिष्ठतेर्लस्तङ् भवति सर्वमनेकान्तात्मकमातिष्टते जैनः। 

१६२१ समो गिरात् | | | ३९ |

प्रतिज्ञाने समो गिरतेर्लस्त भवति || उपयोगलक्षणमात्मानं सहिरते जैनः

१६२२ अवात् | ||४०|

अवाद् गिरतेर्लस्तङ् भवति ॥ अवगिरतेऽन्नम् ॥ 

१६२३ संप्रतेर्ज्ञस्मृतौ | ||११|

 संप्रतिभ्यां जानातेर्लस्तङ् भवति न स्मृतौ ॥ सञ्जानीते प्रतिजानीते । स्मृतौ मातरं सञ्जानाति ॥ 

१६२४ निह्नवे | ||४२ |

 निह्नवे अपलापे जानातेर्लस्तङ् भवति || शतमुपजानीते । अन्यत्र चैत्रमुपजानाति ॥ 

१६२५ सनोऽननोः | ||४३|

 सनन्ताज्जानातेर्लस्तङ् भवति नानोः ॥ धर्मं जिज्ञासते । अनोः शिष्यमनुजिज्ञासति ॥ 

१६२३ श्रुवोप्रत्याङः | || ४४ |

सनन्तात् शृणोतेर्लस्तङ् भवति न प्रत्याङ्भ्याम् || धर्मं शुश्रूषते । प्रत्याङ्भ्यां तत्त्वं प्रतिशुश्रूषति । आशुश्रूषति ॥  

१६२७ स्मृदृशः | || ४५ |

सनन्ताभ्यां स्मृदृशिभ्यां लस्तङ् भवति || सुमूर्षते दिदृक्षते ॥ 

१६२८ गन्धानावक्षेपसेवासाहसप्रतियत्नप्रकथाव्यये | | | ४९ |

गन्धनादिषु कृञो लस्तङ् भवति ॥ गन्धने सूचने कार्यमुत्- कुरुते । अवक्षेपे दुर्वृत्तानपकुरुते । सेवायां गणकान् प्रकुरुते । साहसे परदारान् प्रकुरुते । प्रतियत्ने एधो दकस्योपस्कुरुते । प्रकथायां व्याख्यानं प्रकुरुते । व्यये शतं प्रकुरुते ॥  

१६२९ प्रसहनेऽधेः | ||५०|

प्रसहने अभिभवे अधेः कृञो लस्तङ् भवति || चैत्रमधिकुरुते । अन्यत्र ग्रामे अधिकरोति । स्वामिनं करोतीत्यर्थः ॥ 

१६३० दीप्तिज्ञानेहाविमत्युपसम्भाषोपमन्त्रणे वदः | ||५१ |

दीप्त्यादिषु वदेः लस्तङ् भवति || दीप्तौ स्याद्वादे वदते विद्वान् । ज्ञाने वैद्ये वदते । ईहायां धर्मे वदते । विमतौ तत्त्वे विवदते । उपसम्भाषायां कर्मकरानुपवदते । उपमन्त्रणे रहसि वधूमुपवदते ॥ 

१६३१ व्यक्तवाचां सहोक्तौ |||५२ |

व्यक्तवाचां सहोक्तौ वदेर्लस्तङ् भवति || संवदन्ते जैनाः । व्यक्तवाचामिति किम् ? सम्प्रवदन्ति कुकुटाः ॥ 

१६३२ विप्रलापे वा || | ५३ |

विप्रलापे वदेर्लस्तङ् वा भवति ।। विप्रवदन्ते विप्रवदन्ति कुतीर्थ्याः ॥ 

१६३३ कर्मण्यसत्यनोः | ||५४ |

अनोर्वदेर्लस्तङ् भवति कर्मण्यसति || गुरोरनुवदते शिष्यः । कर्मणि वाद्युक्तमनुवदति ॥ 

१६३४ शोपस्थः | |४।५५ |

 कर्मण्यसति जानातेरुपात्तिष्ठतेश्व लस्तङ् भवति ॥ सर्पिषो जानीते। योगी योगे उपतिष्ठते । कर्मणि स्वरेण पुत्रं जानाति । राजानमुपतिष्ठति ॥ 

१६३५ समोऽर्तिस्वरतिश्रुदृश्विद्गंप्रच्छ्रच्छः | ||५६ |

कर्मण्यसति समोऽर्त्यादिभ्यो लस्तङ् भवति ॥ समियृते संस्वरते संशृणुते सम्पश्यते संवित्ते संगच्छते सम्पृच्छते समृच्छते । कर्मणि रूपं सम्पश्यतीत्यादि ||

१६३६ यङ्घ्नः स्वेऽङ्गे चाङः | ||५८ |

कर्मण्यसति स्वाङ्गे कर्मणि च आङो यमिहनिभ्यां लस्तङ् भवति || आयच्छते आहते । आयच्छते पाणिम् । आहते शिरः । अस्वाङ्गे आयच्छति रज्जुम् । आहन्ति चोरम् ॥

१६३७ व्युदस्तपः | ||५९ |

 कर्मण्यसति स्वाङ्गे कर्मणि च व्युद्भ्यां तपेर्लस्तङ् भवति ॥ वितपते उत्तपते राजा । वितपते उत्तपते पाणिम् । अस्वाङ्गे वितपति भुवं सविता || 

१६३८ न प्राणिन्यणिञो णिञस्तस्य | ||६० |

अकर्मकादणिञन्ताण्णिञो लस्तङ् न भवति प्राणिनि कर्तरि || आस्ते देवदत्तः आसयति देवदत्तम् । एवं शाययति बालम् । अप्राणीति किम्? शोषयते व्रीहीन् ॥ 

१६३९ भीष्मिल्यां षाकारे | ||६२ |

 णिजन्तानां भीष्मिलीनां षाकारयोर्लस्तङ् भवति ॥ मुण्डो भीषयते । जटिलो विस्मापयते । श्येनो वर्तिकामपलापयते || 

१६४० गृधिवञ्च्योर्विप्रलम्भे |१।४/६३ ।

विप्रलम्भे गृधिवञ्चिभ्यां णिञो लस्तङ् भवति || माणवकं गर्धयते । माणवकं वञ्चयते । प्रतारयतीत्यर्थः ॥  

धेट्पादिति वा तङ् फलेशत्वे । धापयते शिशुं । पाययते आदयते दमयते आयामयते आयासयते परिमोहयते रोचयते नर्तयते वादयते वासयते । चल्यद्यर्थादिवर्जितेभ्यः । एषयते वेधयते । अफलेशत्वे । धापयतीत्यादि । पदान्तरात् ज्ञाते फलेशत्वे वा तङ्। स्वं पुत्रं धापयते धापयतीत्यादि । चल्यद्यर्थादिप्रतिषेधः किम्? चालयति शाखां । कम्पयति गमयति । आशयति निगारयति भोजयति । अध्यापयति भावयति द्रावयति स्रावयति बोधयति योधयति नाशयति जनयति || 

१६४१ यमः समुदाङोऽग्रन्थे |||६७ |

समुदाङ्भ्यो यमो लस्तङ् भवति फलेशे कर्तरि पदान्तरात् फलेशत्वे ज्ञाते तु वा न ग्रन्थे || संयच्छते वीहीन् । उद्यच्छते भारम् । आयच्छते रज्जुम् । अन्यत्र संयच्छतीत्यादि । अग्रन्थ इति किम् ? । उद्गच्छति व्याकरणं । व्याकरणविषये उद्योगं करोतीत्यर्थः । 

१६४२ न पर्याङ्के रमः | | | ६८ |

पर्याङ्विभ्यो रमतेर्लस्तङ् न भवति || परिरमति आरमति विरमति || 

१६४३ उपात् | ||६९ |

उपाद्रमेर्लस्तङ् न भवति || उपरमति चैत्रम्।

 १६४४ वाऽकर्मकात् | ||७० |

 अकर्मकादुपाद्रमतेर्लस्तङ् वा न भवति || उपरमति उपरमते दोषात् ॥ 

१६४५ व्यादाञोऽपराङ्गे || |७१।

 व्यादाञो लस्तङ् न भवति अपराङ्गे कर्मणि ॥ व्याददाति मुखं व्याघ्रः । पराङ्गे व्याददते पिपीलिकाः पतङ्गमुखं ॥ 

१६४६ परानोः कुः | || ७२ |

परानुभ्यां कृञो लस्तङ् न भवति ॥ पराकरोति अनुकरोति ॥ 

१६४७ प्रत्यत्यभेः क्षिपः | | | ७३ |

प्रत्यत्यभिभ्यः क्षिपेर्लस्तङ् न भवति || प्रतिक्षिपति अतिक्षिपति अभिक्षिपति ॥ 

१६४८ प्राद्वहः | ||७४ |

प्राद्वहेर्लस्तङ् न भवति ॥ प्रवहति ॥

१६४९ परेर्मृषेश्च | |४/७५ |

 परेर्मृषेर्वहेश्व लस्तङ् न भवति ॥ परिमृष्यति । परिवहति ॥ 

१६५० व्यतिहृतेऽगतिहिंसाशब्देऽहृवहश्चापरस्परान्योन्येतरेतरे | ||७६

व्यतिहारे गतिहिंसाशब्दार्थवर्जिताद्धातोर्हरतिवहतिभ्यां च लस्तङ् भवति न परस्परादिप्रयोगे || व्यतिभवन्ते ग्रामाः । व्यतिलुनते वृषलाः सम्प्रहरन्ते राजानः । व्यतिवहन्ते नद्यः । गत्यर्थस्य व्यतिगच्छन्ति । हिंसार्थस्य व्यतिघ्नन्ति | शब्दार्थस्य जल्प रप लप व्यक्तायां वाचि । व्यतिजल्पन्ति । परस्परादिप्रयोगे व्यतिलुनन्ति परस्परस्य अन्योन्यस्य इतरे- तरस्य वा । इति सर्वे योज्यम् || 

अथ लकारार्था निर्दिश्यते

सतीति वर्तमानार्थे लट् । पचति ॥ 

१६५१स्मे च लट् | | | २१५ |

 पुरास्मशब्दयोरुपपदयोर्भूतानद्यतनेऽर्थे लड् भवति || पचति स्म । पचति पुरा । पुरास्म पचति ॥ 

१६५२ ननौ पृष्टोक्तौ | | |२१६ |

 पृष्टोक्तौ प्रतिवचने भूतार्थे धातोर्लड् भवति ननुशब्दे उपपदे || किमकार्षीः देवदत्त । ननु करोमि ||

१६५२ किंवृत्तेऽर्थित्वे | | |२८६ |

प्रष्टुरर्थित्वे सति किंवृत्ते उपपदे भविष्यति लड्वा भवति ॥ को भवतां भिक्षां ददाति दास्यते । कतमो भवतो भोजयति भोजयिष्यति ।। 

१६५४ अर्थ्यसिद्धौ |४।|२८७ |

 अर्थ्यस्य दातुः फलसिद्धौ विवक्षितायां भविष्यति लड् वा भवति || यो भक्तं ददाति स स्वर्गं गच्छति । यो भक्तं दास्यति स स्वर्गं गमिष्यति ॥ 

१६५५ लेटि हेतौ | |३।२८८ |

 लेडन्ते उपपदे लेटो लेडन्तार्थस्य हेतौ निमित्ते वर्त्स्यत्यर्थे धातोर्लट् प्रत्ययो वा भवति ॥ उपाध्यायश्चेदागच्छति अगमिष्यति अथ सूत्रमधीष्व ॥ 

१६५६ लेङ् चोर्ध्वमौहूर्तिके ।४।३।२८९ |

लेडन्ते उपपदे तद्धेतौ ऊर्ध्वमौहूर्तिके भविष्यति लेङ् लट् च वा भवतः ॥ ऊर्ध्वं मुहूर्तादुपाध्यायश्वेदागच्छेत् आगच्छति आगमिष्यति अथ त्वं सूत्रमधीष्व ॥ 

१६५७ गर्हेऽपिजातोर्लट् | ||११०

अपिजात्वोरुपपदयोर्गर्हे गम्यमाने धातोर्लड् भवति ॥ अपि संयतो भवानादाय कृतं सेवते । जातु तत्रभवान् हिनस्ति || 

१६५८ कथमि लेङ् च वा | ||१११|

 कथंशब्दे उपपदे गर्हे लट् लेङ् च वा भवतः कथं तत्रभवान् भूतानि हिनस्ति हिंस्यात् हिंसि- ष्यतीत्यादि || अनद्यतने लङ् ॥ अपचत् ॥ 

१६५९ लङ् च स्मेन | ||१३८ ।

 स्मेन सह माङि उपपदे धातोर्लङ्लुङौ भवतः ॥ मास्म करोत् मास्म कार्षीत् ॥ आशिषि लेट् ॥ पचतु  

१६६० इच्छार्थे लेङ् लेट् |||१२५ |

इच्छार्थे धातावुपपदे धातोर्लेङ्लेटौ भवतः ॥ इच्छामि भुञ्जीत भुङ्कां भवान् ।। विधिनिमन्त्रणेति विध्यादिषु लेङ्लेटौ भवतः । विधौ नियोगे पचेत् पचतु भवान् ॥ निमन्त्रणे नियमतः कर्तव्ये । सन्ध्यासु भवान् वन्दनां कुर्यात् करोतु ॥ आमन्त्रणे कामचारतः कर्तव्ये । देवदत्त इह भवानासीत आस्ताम् ॥ अधीष्टे सत्कारपूर्वक व्यापारे । भगवान्नः प्रसीदेत् प्रसीदतु ॥ सम्प्रश्ने सम्प्रधारणे । किं नु खलु व्याकरणमधीयीय अध्ययै उत धर्मशास्त्रं ॥ प्रार्थने याच्ञायाम् । अङ्ग पुत्र अधीयीथाः अधीष्व ॥ 

१६६१ प्रैषानुज्ञावसरे लेट्घ्यप् |||१२७|

 प्रैषादिषु धातोर्लेड्घ्यपौ भवतः ॥ प्रैषे चैत्रौदनं पच । अनुज्ञायां साधो वन्दनां करु । अवसरे सम्प्रति सङ्गच्छ ॥ 

१६६२ अधीष्टे | ||१३० |

स्मशब्दे उपपदे अधीष्टे लेट् भवति ॥ अङ्ग राजन्नणुव्रतानि रक्षस्म || 

१६६३ भृशाभीक्ष्णे लेट् तस्मिन् तथार्थे |||१३९ ॥

 भृशाभीक्ष्णयोर्लेड् भवति तस्मिन्नेव धातौ तथार्थे साधनोपग्रहविशिष्टे उपपदे सति ॥ 

१६६४ भृशादौ हिः | ||११८ |

भृशादौ लेटो हिर्भवति ॥ लुनीहि लुनीहि इत्येवं लुनाति लुनीतः लुनन्तीत्यादि सर्वलकारवचनसाधनस्थानीयम् १६६५ प्रचये वा सामान्यार्थे |||१४०।

 सामान्यार्थे धातौ उपपदे प्रचये नानाधात्वर्थसमुच्चये गम्यमाने धातोर्लेड् वा भवति ॥ व्रीहीन् वप लुनीहि पुनीहि इत्येवं यतते चेष्टते इत्यादि । पक्षे यथासम्भवं लकारो वेदितव्यः  

१६६६ क्षिप्राशंसार्थे लृड्लेङ् | ||१०४ |

 क्षिप्राशंसार्थयोरुपपदयोर्धातोर्यथासङ्ख्यं लृड्लेङौ भवतः ॥ उपाध्यायश्वेदागच्छति क्षिप्रमध्येष्ये । सम्भावये अधीयीय || 

१६६७ किंवृत्ते लेङ्लृटो | ||११२ ॥

किंवृत्ते उपपदे गर्हे लेङ्लृटौ भवतः ॥ किं तत्रभवान् अनृतं ब्रूयात् वक्ष्यति || 

१६६८ अमर्षाश्रद्धेऽन्यत्रापि |||११३ ॥

 किंवृत्ते अकिंवृत्तेऽप्युपपदे अमर्षे अश्रद्धायां लेङ्लृटौ भवतः ॥ न क्षमे न श्रद्दधे किं तत्रभवान् अदत्तं गृह्णीयात् ग्रहीष्यति । न क्षमे न श्रद्दधे तत्रभवान्नाम अदत्तं गृह्णीयात् ग्रहीष्यति || 

१६६९ येद्यदियदाजातौ ले | ||११५ |

यदादिषु उपपदेषु अमर्षाश्रद्धयोर्लेङ् भवति ॥ न क्षमे न श्रद्दधे यत्तत्रभवान् अकल्प्यं सेवेत । यदि गुरुरसत्यं ब्रूयात् । यदा संयतो हिंस्यात् । जातु धर्मः सुखं व्यभिचरेत् ॥ 

१६७० गर्हे च यच्चयत्रे | ||११६ |

यच्चयत्रयोरुपपदयोः गर्हे अमर्षाश्रद्धयोश्च लेङ् मवति ॥ धिग्गर्हं न क्षमे न श्रद्दधे यच्च तत्रभवानाक्रोशेत । यत्र गुरुरसत्यं ब्रूयात् ॥ 

१६७१ चित्रे | ||११७।

यच्च यत्रयोरुपपदयोश्चित्रे विस्मये लेङ् भवति ॥ चित्रमिदं यच्च तत्रभवान् अकल्प्यं सेवेत । यत्र गुरुं प्रतारयेत् ॥ 

१६७२ बाढेऽच्युते लेङ् | ||११९ ।

बाढार्थयोरप्युतयोरुपपदयोर्लेङ् भवति ।। अपि कुर्यात् उत कुर्यात् 

१६७३ सम्भाव्येऽलभ्यर्थात् | ||१२० |

 सम्भाव्येऽर्थे धातोर्लेङ् भवति अलम्यर्थाच्छक्तौ गम्यमानायाम् ॥ अपि पर्वतं शिरसां भिन्द्यात् ॥ 

१६७४ सतीच्छार्थात् | ||१२२ ।

इच्छार्थाद्धातोस्सति वर्तमाने लेङ् वा भवति || पक्षे लट् । इच्छेत् इच्छति । उश्याद्वष्टि ॥ 

१६७५ वर्त्स्यति फलकारणे | ||१२३ ।

भविष्यति फले कारणे चार्थे वर्तमानाद्धातोर्लेङ् वा भवति ॥ पक्षे लृट् । यदि गुरून् उपासीत उपासिष्यते शास्त्रान्तं गच्छेत् गमिष्यति ॥ 

१६७६ कामाविष्कारेऽकच्चिति | ||१२४ |

कामाविष्कारे इच्छाप्रकाशने धातोर्लेङ् भवति न कच्चित्युपपदे || इच्छामो भुञ्जीत भवान् । कश्चिति । कञ्चिज्जीवति ते पिता ॥ विध्यादौ लेङ प्रागेव दर्शितः ॥ 

१६७७ लेङ्यदि |||१३२ |

 यदि सति कालवेलासमयेषूपपदेषु अवसरे धातोर्लेङ् भवति || कालो बेला समयो यद् भुञ्जीत भवान् ॥ 

१६७८ तृघ्यप् चार्हे | ||१३३ |

अर्हे धातोर्लेङ् तृध्यपौ च भवन्ति भवान् खलु कन्यां विवहेत् ॥ 

१६७९ शक्तौ लेङ्घ्यप् |||१३५ ।

शक्तो गम्यमानायां धातो- र्लेङ्घ्यपौ भवतः ॥ भवान् खलु भारं वहेत् || आशिषि लिङ् पच्यात् ॥ परोक्ष इति लिट् ॥ पपाच किल ॥ 

१६८० अत्यन्तापह्नवे लिट् |४।|२११|

अत्यन्तापह्नवे सर्वथापलापे भूतानद्यतने लिड् भवति ॥ किं त्वं कलिङ्गेषु स्थितोऽसि नाहं कलिज्ञान् जगाम भूते लुङ् अपाक्षीत्  

१६८१ माङि लुङ् | ||१३७ |

माङयुपपदे धातोर्लुङ् भवति ॥ अमाङेति नाट् । मा भवान् पाक्षीत् || परिदेवने लुट् पक्ता ॥ लेङ्निमित्ते इति लृङ् यद्यपक्ष्यत् तदा अभोक्ष्यत || 

१६८२ वा शेषात् |||१०९ ।

लृट्च्छेषेऽयदाविति सूत्रं यावत् येर्था वक्ष्यन्ते तेषु लृङ् वा भवति ॥ कथं नाम तत्रभवान् भूतान् अर्हिसिप्यत् । किं तत्रभवान् अनृतमवक्ष्यत् । न क्षमे न श्रद्दधे तत्रभवान् नामादत्तमग्रहीष्यत् । यतत्रभवानकल्प्यमसेविष्यत । यत्तत्रभवानाक्रोक्ष्यत् ॥ भविष्यति लृट् पक्ष्यति || 

१६८३ स्मृत्यर्थेऽयदि लृट् |||२०९ |

स्मृत्यर्थे उपपदे भूतानद्यतने लृड् भवति न यदि || अभिजानासि देवदत्त काश्मीरेषु वत्स्यामः । यदि । अभिजानासि देवदत्त यत्कलिङ्गेष्ववसाम || 

१६८४ साकांक्षे वा | | |२१० |

 साकाङ्क्षे वाक्यान्तरे सति स्मृत्यर्थे उपपदे भूतानद्यतने लृट् वा भवति । स्मरसि देवदत्त काश्मीरेषु वत्स्यामस्तत्र भोजनं च भोक्ष्यामहे स्मरसि देवदत्त काश्मीरष्ववसाम तत्रौदनं च अभुञ्ज्महि ॥ 

१६८५ किंकिलास्त्यर्थयोर्लृट् | ||११४

 किंकिलशब्दसमवाये अस्त्यर्थे चोपपदे अमर्षाश्रद्धयोर्धातोर्लृट् भवति । न क्षमे न श्रद्दधे किंकिल नाम तत्रभवानकल्प्यं सेविष्यते । अस्ति नाम तत्र भवानकल्प्यं सेविष्यते ॥ 

१६८३ लृट् छेषेऽयदौ | ||११८ |

शेषे यच्चयत्राभ्यामन्यस्मिन् उपपदे चित्रे धातोर्लृट् भवति न यदौ । आश्चर्यं नाम पङ्गुः पर्वतमारोक्ष्यति । यदौ आश्चर्यं यदि पङ्गुः पर्वतमारोहेत् ॥ 

|| इति तिङन्तसङ्ग्रहः

जयति जगदीशमस्तकमणिकिरणकलापकल्पितार्घ्यविधि ।

जिनचरणकमलयुगलं गणधरगणनीयनखरकेशरकम् ॥

॥ श्रीरस्तु ॥

अथ कृत्संग्रहः

प्रणम्रजनतापुण्यकृतं प्रहतदुष्कृतम् ।

श्रीवर्धमानमाराध्य कृत्संग्रहमहं ब्रुवे ||

अथ धातुभ्यः कृत्प्रत्ययाः प्रदर्श्यन्ते || 

१६८७ घ्याद्यतिङ् कृत् | ||४३|

घ्याणादिप्रत्ययरूपं कृत्संज्ञं भवति न तिङ् ॥ 

१६८८ कृद् बहुलम् | | |५८ |

 कृत्प्रत्यया निर्दिष्टे अनिर्दिष्टे चार्थे बहुलं प्रयोगानुसारेण भवन्ति ॥ 

१६८९ घ्यण् | ||६०।

धातोर्घ्यण् प्रत्ययो भवति ॥ साप्यानाप्यादिति सकर्मकात् कर्मण्यकर्मकाद् भावे । घणावितौ । अर्हे शक्तौ वा । एध्यं देवदत्तेन । अनुपान्त्यत्वान्नात आत् । वन्द्यः । स्वाद्यः । लोचृञ् दर्शने । लोच्यं त्राप्यं पान्यः पाण्यः सेव्यः । शिक्षि विद्योपादाने । शिक्ष्यः आशंस्यः ॥ 

१६९० जनाल्वापतो घ्यण् |||५१ |

जनादिभ्यो घ्यण्प्रत्ययो भवति कर्तरि वा || आप्लाव्योऽयम् आप्लाव्यमनेन आपात्योऽयम् आपात्यमनेन । धार्यं द्योत्यं सार्यं तार्यं निगाद्यं नाट्यं । जल्प रप लप व्यक्तायां वाचि । राप्यं लाप्यम् आचाम्यं वाप्यं ॥ 

१६९१ क्तेऽनिट्चजः कुर्घिति | ||१७१ ।

 क्तेऽनिटश्वजान्तस्य धातोर्घिति प्रत्यये कुर्भवति ॥ आसन्नः पाक्यं ॥ 

१६९२ घ्यण्यावश्यके || | १७६ |

आवश्यके घ्यणि चजोः कुर्न भवति ॥ 

१६९३ लुग्घ्यप्यवश्यमः | २।२।६८|

अवश्यमो घ्यपि लुक् भवति || अवश्यपाच्यं । त्यज हानौ । घ्यणि || 

१६९४ त्यज्यजः || |१७९ |

 त्यज्यजोर्घ्यणि कुर्न भवति ॥ त्याज्यः । अत एव यजो वो घ्यग् । याज्यः । भाग्यः रङ्ग्यः याच्यः हार्यम् ॥ अथादादिः । आद्यं वेद्यं घात्यः ॥ 

१६९५ वाक्यार्घनिदाघावदाघं नाम्नि | ||१७२।

वाक्यादयो यण्घञन्ता निपात्यन्ते नाम्नि विषये || वाक्यं पदसमुदायः । अन्यत्राकुत्वं । वाच्यं । जागर्यं याव्यम् आशास्यं || दीव्यं बोध्यं । जन्योऽयं । मजन्वध इति नात् जन्यमनेन । कार्यं शार्यं सेक्यं मोक्यं मार्यम् ॥ 

१६९६ पाणिसमवात् सृजः | | |६१|

पाणेः समवाच्च सृजेर्घ्यण भवति ॥ क्यपोऽपवादः पाणिना सृज्यत इति पाणिसर्ग्या रज्जुः । स्वकृतास्युक्तमिति समासः समवसर्ग्यं संसृज्यः । अञ्णीति अङित्त्वादेङ् । कोट्यं । तान्यः मान्यं रोध्यं रेक्यं वेक्यं योग्यं ॥ 

१६९७ निप्राद्युजः शकि | ||१७७ |

निप्राभ्यां युजो घ्यणि कुर्न भवति शक्यर्थे ॥ नियोक्तुं शक्यो नियोज्यः प्रयोज्यः । अन्यत्र । योग्यः प्रयोग्यः ॥ 

१६९८ भुजोऽदौ | || १७८ |

 भुजो घ्यण्यद्यर्थे कुर्न भवति ॥ भोज्यमन्नम् । अन्यत्र | भोग्यो देशः । पाल्यः व्यङ्ग्यः ॥ 

१६९९ वाधारेमावस्या | | |६३ |

 आधारे अमावस्येति वा निपात्यते ॥ पक्षे घ्यण् । अमा वसतोऽस्यां तिथौ सूर्याचन्द्रमसौ इति अमावस्या अमावास्या || 

१७०० प्राक्स्त्रि प्राप्तोऽसमः |४/३/५९ |

 स्त्रियां क्तिन्नित्यतः प्राक् यः प्रत्ययो वक्ष्यते स एकस्मिन्नर्थे असरूपो विसदृशः प्राप्तो भवति नापवादी || 

१७०१ तव्यानीयौ | | |६७॥

धातोस्तव्यानीयौ प्रत्ययौ पर्यायेण भवतः || एधितव्यम् एधनीयं देवदत्तेन । बीभत्सितव्यं बीभत्सनीयं । वन्दितव्यो वन्दनीयः । हतव्यं हदनीयं । तितिक्षितव्यं तितिक्षणीयं । तेजितव्यं तेजनीयं । जुगुसितव्यं जुगुप्सनीयं गोपितव्यं गोपनीयं । त्रप्तव्यं त्रपितव्यं त्रपणीयं । मीमांसितव्यं मीमांसनीयं । पनायितव्यं पनितव्यं पनायनीयं । पणायितव्यं पणितव्यं पणायनीयं पणनीयं । क्षन्तव्यं क्षमितव्यं क्षमणीयं । कामयितव्यं कामनीयं । कमितव्यं कमनीयं । सेवितव्यं सेवनीयं । गाढव्यं गाहितव्यं गाहनीयं । स्मेतव्यं स्मयनीयं । कोतव्यं कवनीयं धर्तव्यं धरणीयं । मातव्यं मानीयं । पवितव्यं पवनीयं । ढयितव्यं डयनीयं । वर्तितव्यं वर्तनीयं । स्यन्तव्यं स्यन्दितव्यं स्यन्दनीयं कल्प्तव्यं कल्पितव्यं कल्पनीयं । स्मर्तव्यं स्मरणीयं । सोढव्यं सहितव्यं सहनीयं । रन्तव्यं रमणीयं । बोद्धव्यं बोधनीयं । सतव्यं सदनीयं । क्रोष्टव्यं कोशनीयं । रोढव्यं रोहणीयं । भवितव्यं भवनीयं । स्रोतव्यं स्रवणीयम् || 

१७०२ प्रब्रूपस्थोऽनीयः | | | ५० |

प्रब्रूपस्थाभ्यामनीयः कर्तरि वा भवति ॥ पक्षे कर्मणि । उपस्थातव्यो गुरुः शिष्येण । उपस्थानीयो गुरोश्शिष्यः । उपस्थानीयो गुरुश्शिष्येण । ध्यातव्यं ध्यानीयं । तरितव्यं तरीतव्यम् तरणीयम् । ऋतीयितव्यम् ऋतीयनीयम् । अर्तितव्यम् अर्तनीयम् । चिकित्सितव्यं चिकित्सनीयम् । नन्दितव्यं नन्दनीयम् । सङ्क्तव्यं सञ्जनीयम् । गोपायितव्यं गोपायनीयम् । गोप्तव्यं गोपितव्यं गोपनीयम् । धूपायितव्यं धूपायनीयम् । धूपितव्यम् धूपनीयम् । गन्तव्यं गमनीयम् । स्रप्तव्यं सर्प्तव्यं सर्पणीयम् । नन्तव्यं नमनीयम् । यन्तव्यं यमनीयम् । क्रमितव्यं क्रमणीयम् दर्शनीयम् । श्वयितव्यं वयनीयम् । वस्तव्यं वसनीयं । यष्टव्यं यजनीयं । वोढव्यं वहनीयं । पक्तव्यं पचनीयं । रङ्कव्यं रञ्जनीयं । दीदांसितव्यं दीदांसनीयं । शीशांसितव्यं शिशांसनीयं । शप्तव्यं शपनीयं । गोढव्यं गूहितव्यं गूहनीयं । श्रयितव्यं श्रयणीयं । हर्तव्यं हरणीयं । कर्तव्यं करणीयं । नेतव्यं नयनीयम् ॥ 

अथ अदादिः । अत्तव्यम् अदनीयं । वेदितव्यं वेदनीयं । हन्तव्यं हननीयं । मार्ष्टव्यं मार्जितव्यं मार्जनीयं । वक्तव्यं वचनीयं । रोदितव्यं रोदनीयं । स्वप्तव्यं स्वपनीयं । जागरितव्यं जागरणीयं । दरिद्रितव्यं दरिद्रणीयं । रवितव्यं रवणीयम् । एतव्यम् अयनीयम् । ईशितव्यम् ईशनीयं । सोतव्यं सवितव्यं सवनीयं । शयितव्यं शयनीयं । दोग्धव्यं दोहनीयम् ॥ 

अथ ह्वादिः || होतव्यं हवनीयम् || अथ दिवादिः || देवितव्यं देवनीयं । नर्तितव्यं नर्तनीयं । शोष्टव्यं शोषणीयं । शक्तव्यं शकनीयं । शमितव्यं शमनीयं । रोष्टव्यं रोषितव्यं शेषणीयं । लोब्धव्यं लोभितव्यं लोभनीयं । रद्धव्यं रचितव्यं रन्धनीयं । नंष्टव्यं नशितव्यं नशनीयं । त्रप्तव्यं तर्तव्यं तर्पितव्यं तर्पणीयं । द्रोग्धव्य द्रोढव्यं द्रोहितव्यं द्रोहणीयं । बहुलवचनात् कर्तृकरणयोरप्यनीयः || मोहयत्यात्मानं मुह्यत्यनेनात्मेति वा मोहनीयं कर्म । एवं ज्ञानावरणीयादयः । मन्तव्यं मननीयं । स्रष्टव्यं सर्जनीयम् || अथ स्वादिः || सोतव्यं सवनीयम् । अष्टव्यम् अशितव्यम् अशनीयम् ॥ अथ क्र्यादिः || केतव्यं क्रयणीयं । ग्रहीतव्यं ग्रहणीयं । ज्ञातव्यं ज्ञानीयं । वरितव्यं वरीतव्यं वरणीयम् || अथ तुदादिः || तोत्तव्यं तोदनीयं । भ्रष्टव्यं भर्ष्टव्यं भ्रज्जनीयं भर्जनीयं । क्रष्टव्यं कर्ष्टव्यं कर्ष- णीयं । कर्तितव्यं कर्तनीयं । करितव्यं करीतव्यं करणीयं । मङ्क्तव्यं मज्जनीयम् । एष्टव्यम् एषितव्यम् एषणीयं । कुटितव्यं कुटनीयं । कुवितव्यं कुवनीयम् । उद्वेजितव्यम् उद्वेजनीयम् । आरब्धव्यं रम्भणीयं । लब्धव्यम् लम्भनीयम् || अथ तनादिः ॥ तनितव्यं तननीयं । मनितव्यं मननीयम् ॥ अथ रुधादिः ॥ रोद्धव्यं रोधनीयं । भङ्क्तव्यं भञ्जनीयम् । अङ्क्तव्यं अञ्जितव्यम् अञ्जनीयम् ॥ अथ चुरादिः || चोरयितव्यं चोरणीयम् ॥ 

१७०३ प्वच्चत्तकिशक्शसियत्सहियजोऽय्वासुंवपंरप- लपापत्रपडिपदभचमुर्यः | | | ६८ |

पवर्गान्तादजन्ताच्चतादेश्च धातोर्यो भवति न य्वादेः ऋवर्णान्ताश्च ॥ घ्यणोऽपवादः । बीभत्स्यं । यतैङ् प्रयत्ने । यत्यं । गोप्यं । लबुङ् अवस्रंसने । लग्ब्यं । वल्भि भोजने वल्भ्यं । क्षम्यं काम्यं कम्यं स्मेयम् । एङवौ। कव्यम् ॥ 

१७०४ ये ४/२/८८|

आदन्तस्य यप्रत्यये ईद्भवति ॥ एङ् भेयं देयं । पव्यं क्षोभ्यं सह्यं वम्यं ॥ 

१७०५ भूगो यो वा | | | ४९ |

भूगाम्यां यः कर्तरि वा भवति ॥ भव्यो देवदत्तः । भव्यं देवदत्तेन । स्रव्यं जेयं धेयं पेयं घ्रेयं ध्मेयं स्थेयं म्रेयं देयं । गेयं। गेयो गाधानां चैत्रः । गेया गाधा चैत्रेण । देयं गोप्यं धूप्यं तप्यं गम्यं  नम्यं क्रम्यं भ्रम्यं शस्यं श्वेयं यज्यं वेयं ह्वेयं । चतेङ् याचने ॥ चत्यं शप्यं श्रेयं नेयं ॥ अथ अदादिः ॥ स्वप्यं दरिद्र्यं रव्यम् आख्येयं सव्यं शेयम् अध्येयम् ऊर्णव्यम् || अथ ह्वादिः || हव्यं हेयं हेयं मेयं धेयम् देयं ॥ अथ दिवादिः ॥ क्षेप्यं शक्यम् शम्यं दम्यं तम्यं श्रम्यं क्षम्यं सेयं सव्यम् || अथ स्वादिः ॥ श्रव्यं ॥ क्र्यादिः ॥ क्रेयं प्रेयं लव्यं ज्ञेयम् । णू स्तवने । कुटादित्वान्नैङ् । प्रणूयः आरभ्यं लभ्यम् ॥ 

१७०६ य्याङः ।४।२।२०४ |

आङो लभो यादौ प्रत्यये नम् भवति ॥ आलम्भ्यः क्रोधः  

१७०७ स्तुतावुपात ४/२/२०५ |

उपाल्लभः यादौ प्रत्यये स्तुतौ नम् भवति || उपलम्भ्यो देवः । अन्यत्र उपलभ्यं धनं । चोर्यं मृग्यम् इत्यादि ॥ 

१७०८ गन्मद्यमोऽनुपसर्गात् | | |६९ |

अनुपसर्गेभ्यो गदादिभ्यो यो भवति ॥ गद्यं मद्यं यम्यम् । अनुपसर्गादिति किं? निगाद्यं प्रमाद्यं नियाम्यम् ॥ 

१७०९ चरः | | |७० |

अनुपसर्गाच्चरो यो भवति ॥ चर्यं व्रत्तम् | उपसर्गात्सञ्चार्योऽक्षः || 

१७१० आङोऽगुरौ | | |७१ |

आङ्श्चरेर्यो भवति न गुरौ ॥ आचर्यो धर्मः । गुरौ आचार्यः समन्तभद्रः ॥ 

१७११ पणोपसृव्रवदाद्विक्रयेर्तुमत्युपेयागर्ह्ये | | ३।७२ 

पणादिभ्यो यथासङ्ख्यं विक्रेयादिष्वर्थेषु यो भवति ॥ पण्यं विक्रेयम् । उपसर्या ऋतुमती । वर्या उपेया वेश्या । अवद्यं गर्ह्यं पापम् । अन्यत्र | पाण्यो गुरुः । उपसार्यस्साधुः वृत्या गौः । अवाद्यो जनवादः ॥ 

१७१२ स्वामिवैश्येऽर्ते || |७३ |

अनुपर्गादर्तेर्यो भवति स्वामिवैश्ययोः || अर्यः स्वामी । अर्यो वैश्यः । अन्यत्र आर्यः || 

१७१३ क्षय्यजय्यो शक्तौ ||| १०७]

 एतौ यान्तौ शक्तौ निपात्येते || क्षेतुं शक्यः क्षय्यः । जेतुं शक्यः जय्यः ॥ 

१७१४ ऋय्यः क्रयार्थे || |१०८ |

 क्रयविषये क्रय्य इति निपात्यते ॥ 

१७१५ सङ्गतेर्जर्यम् |४।|४७ |

सङ्गते विशेष्ये अजर्यमिति कर्तारि निपात्यते || अजर्यं सङ्गतम् ॥ 

१७१६ ओरावश्यके | | |६२ ।

उवर्णान्तादावश्यके द्योत्ये घ्यण् भवति ॥ भाव्यम् अवश्यभाव्यं काव्यम् अवश्यकाव्यं । पाव्यम् अवश्यपाव्यं । लाव्यम् अवश्यलाव्यं । साव्यम् अवश्यसाव्यं । धाव्यम् अवश्यधाव्यम् ॥ 

१७१७ वदः सुपः क्यप् | ||७४ |

 सुबन्तादनुपसर्गाद् वदः क्यप् यश्च भवतः कपावितौ क्यपीक् । ब्रह्मोद्यं ब्रह्मवद्यं ॥ 

१७१८ हत्याभूयं भावे | | |७५ |

 सुपोऽनुपसर्गात् हत्या मूयमिति भावे निपात्यते || ब्रह्मणो हननं ब्रह्महत्या स्त्रियामेव । बन्धोर्भावः बन्धुभूयं नपुंसक एव || 

१७१९ अग्निचित्या | | |७६ |

स्त्रियां भावे इदं निपात्यते ॥ अग्नेश्चयनमग्निचित्या | 

१७२० खेयमृषोद्यम् | | | ७७ |

 खनः क्यपि खेयमिति निपात्यते मृषाद्वदो मृषोद्यमिति । न भावे || 

१७२१ कुप्याज्यभिद्योद्ध्यसिध्ययुग्यं नाम्नि | | |७८ |

 एते नाम्नि क्यबन्ता निपात्यन्ते ॥ कुप्यं धनम् । आज्यं घृतं । भिद्योद्ध्यौ नदौ । सिध्यः पुष्यनक्षत्रं । युग्यं यानम् ॥ 

१७२२ शास्वृञ्दृजुषस्त्वेत्यृदुपान्त्यादनृच्कृप्चृतः | | ७९ |

शासादिभ्यः ऋदुपान्त्येभ्यश्च क्यप् भवति न ऋच्कृप्वृद्भ्यः ॥ शिष्यं ॥ 

१७२३ ह्रस्वस्य तक् पिति कृति | ||४२।

 ह्रस्वान्तस्थ धातोः पिति कृति तग् भवति || अकावितौ । आवृत्यं जुष्यं स्तुत्यम् इत्यम् अधीत्यं वृत्यं वृध्यं नृत्यं कृत्यं कृष्यमित्यादि । ऋचादेः । अर्च्यं कल्प्यं चर्त्यम् ॥ 

१७२४ ग्रहः पदास्वैरिबाह्यापक्ष्ये || |८१|

पदादिष्वर्थेषु ग्रहः क्यप् भवति ॥ प्रगृह्यं पदं । कर्मगृह्यः आत्मा कर्मपरतन्त्रः । कुलगृह्या स्त्री कुलबाला । बाह्येति स्त्रीनिर्देशात् न पुंनपुंसकयोः । धर्मगृह्यः साधुः । धर्मपक्ष्यः ॥ 

१७२५ भृञोऽनाम्मि | ||८२ |

भृञः क्यप् भवति न नाम्न्नि || भृत्योऽनुजीवी । भृत्यं कुलं । नाम्नि भार्या वधूः । 

१७२६ समो वा | | | ८३ ।

समो भृञः क्यप् भवति वा ॥ सम्भृत्यः सम्भार्यः || 

१७२७ कृमृज्षशन्सगुहदुहजपः | | |८४ |

क्रादिभ्यो वा क्यप् भवति | कृत्यं कार्यं मृज्यं मार्ग्यम् । वृषू सेवने । वृष्यं वर्ष्य शस्यं शंस्यं गुह्यं गोह्यं दुह्यं दोह्यं जप्यं जाप्यम् 

१७२८ रुच्याव्यथ्यौ || |४८ |

एतौ क्यबन्तौ कर्तरि निपात्येते ॥ रोचत इति रुच्य: मोदकः । न व्यथते इति अव्यथ्यश्चैत्रः || 

१७२९ ण्वुत्रज्लिहादिभ्यश्च || ३।८५|

धातोर्लिहादिभ्यश्च ण्वु तु अच् प्रत्यया भवन्ति ॥ णचावितौ । वोरकः । एधत इति एधकः एधिता एधः । बीभत्सकः बीमत्सिता बीभत्सः । बन्दकः वन्दिता वन्दः | हादकः हत्ता हदः । तितिक्षकः तितिक्षिता तितिक्षः । तेजकः तेजिता तेजः । जुगुप्सकः जुगुप्सिता जुगुप्सः । गोपकः गोपिता गोपः । त्रापकः त्रपिता त्रप्ता त्रपः । मीमांसकः मीमांसिता मीमांसः । पनायकः पनायिता पनायः । पानक: पनिता पनः । मजन्वध इति नात् । क्षमकः क्षन्ता क्षमिता क्षमः । कामकः कामयिता कमिता कामः क्रमः । सेवकः सेविता सेवः । गाहकः गाढा गाहिता गाहः । स्मायकः स्मेता स्मयः । कावकः कोता कवः । धारकः धर्ता धरः । मायकः माता मायः । पावकः पविता पवः । वर्तकः वर्तिता वर्तः । स्यन्दकः स्यन्दिता स्यन्ता स्यन्दः । कल्पकः कल्प्ता कल्पिता कल्पः । स्मारकः स्मर्ता स्मरः । साहकः सोदा सहिता सहः । रामकः रन्ता रमः । बोधकः बोद्धा बोधः । क्रोशकः क्रोष्टा कोशः । रोहकः रोढा रोहः । भावकः भविता भवः | स्रावकः स्रोता स्रवः । तारकः तरिता तरीता तरः । चिकित्सकः चिकित्सिता चिकित्सः । नन्दकः नन्दिता नन्दः । सञ्जकः सङ्क्ता सञ्जः । गोपायकः गोपायिता गोपायः । गोपकः गोप्ता गोपिता गोपः । गामकः गन्ता गमः । सर्पकः स्रप्ता सर्प्ता सर्पः । नामकः नन्ता नमः । क्रमकः क्रमिता क्रमः । भ्रमकः अमिता भ्रमः । अक्षकः अष्टा अक्षिता अक्षः । दर्शकः द्रष्टा दर्शः । श्वायकः श्वयिता श्वयः । वासकः वस्ता यसः । याजकः यष्टा यजः । वाहकः वोढा वहः । पाचक: पक्ता पचः । रञ्जकः रङ्क्ता रञ्जः । शापकः शप्ता शपः । गूहकः गोढा गूहिता गूहः । श्रायकः श्रयिता श्रयः । हारकः हर्ता हरः । कारकः कर्ता करः । नायक: नेता नयः || 

अथ अदादिः || आदकः अता घसः । वेदक: वेदिता देव । घातकः हन्ता हनः । मार्जकः मार्ष्टा मार्जिता मार्जः । वाचकः वक्ता वचः । स्वापकः स्वप्ता स्वपः । जागरकः जागरिता जागरः । दरिद्रायकः दरिद्रता दरिद्रः । रावकः रविता रवः । आमकः एता अयः । ईशकः ईशिता ईशः । सावकः सोता सविता सवः । शायकः शमिता शयः । दोहकः दोग्धा दोहः । लेहकः लेढा लेहः ॥ 

अथ ह्वादिः॥ हावकः होता हवः ॥ अथ दिवादिः || देवकः देवित देव: । नर्तकः नर्तिता नर्तः । शोषकः शोष्टा शोषः । श्लेषकः श्लेष्टा श्लेषः । शाककः शक्ता शकः । शमकः शमिता शमः । रोषकः रोष्टा रोषिता रोषः । कोपकः कोपिता कोषः । लोभकः लोकधा लोभिता लोभः । रन्धकः रक्षिता रद्धा रन्धः । नाशकः नेष्टा नशिता नशः । तर्पकः तर्पिता त्रप्ता तर्प्ता तर्पः । द्रोहक : द्रोग्धा द्रोढा द्रोहिता द्रोहः । मानकः मन्ता मनः । योधक: योद्धा योधः । सर्जकः स्रष्टा सर्जः । अथ स्वादिः || सावकः सोता सवः । आशकः अष्टा अशिता अशः ॥ अथ क्यादिः ॥ क्रायकः क्रेता क्रयः । ग्राहकः ग्रहीता ग्रहः । ज्ञायकः ज्ञाता ज्ञः । वारकः वरिता वरीता वरः || अथ तुदादिः ॥ तोदकः तोत्ता तोदः । भ्रज्जकः भर्जकः भ्रष्टा भर्ष्टा भ्रज्जः भर्जः । कर्षकः क्रष्टा कर्ष्टा कर्षः । कारकः करिता करीता करः । मज्जकः मङ्क्ता मज्जः । एषकः एष्टा एषिता एषः । कोटकः कुटिता कुटः । कावकः कुविता कुवः । उद्वेजकः उदेजिता उद्वेजः । आरम्भकः आरब्धा आरम्भः । लम्भकः लब्धा लम्भः ॥ अथ तनादिः ॥ तानकः तनिता तनः । मानकः मनिता मनः ॥ अथ रुधादिः || रोधकः रोद्धा रोधः । भञ्जकः भङ्क्ता भञ्जः । अञ्जकः अङ्क्ता अञ्जिता अञ्जः ॥ अथ चुरादिः || चोरकः चोरयिता चोरः इत्यादि ॥ 

१७३० मन्यादिभ्योऽनः | | |८६ |

नन्द्यादिभ्यः अनप्रत्ययो भवति कर्तरि ॥ नन्दयतीति नन्दनः वासनः वामनः दूषणः भूषण: साधनः वादन: शोभनः रोचनः सहनः तपनः मदनः जनार्दनः मधुसूदनः वित्तनाशनः कुलदमन इत्यादयः शिष्टप्रयोगानुसारेण नेयाः ॥ 

१७३१ ग्रहादिभ्यो णिन् | ४ | ३ |८७ |

ग्रहादिभ्यो णिन् भवति कर्तरि ॥ गृह्णातीति ग्राही उत्साही उद्वाही उद्भासी स्थायी मन्त्री सम्मर्दी विसारीत्यादयः प्रयोगगम्याः || 

१७३२ नेर्वपश्रुशाविशरक्षः | | |८८ |

 नेर्वपादिभ्यो णिन् भवति कर्तरि || निवापी निश्रावी निशायी निवेशी निरक्षी || 

१७३३ नञो याचृव्याहृसंव्याहृव्रजवदवसः |४।|८९ |

नञो यात्रादिभ्यो णिन् भवति || अयाची अव्याहारी असंव्याहारी अव्राजी अवादी अवासी || 

१७३४ अचोऽचिन्ते | | |९० |

 नञोऽजन्तेभ्यो णिन् भवत्यचित्ते कर्तरि ॥ अकारी परशुः । अहारी गन्धः । सचिते । अकर्ता चैत्रः ॥

१७३५ रुधराधोऽपात् |||११|

अपाद्रुधराधिभ्यां णिन् भवति || अपरोधी अपराधी ॥ 

१७३६ इन्च परिभ्वः | | | १२ |

परेर्भुवः इणिनौ भवतः ॥ परिभवी परिभावी || 

१७३७ ज्ञाकृगॄप्रीगुपान्त्यात् कः | | | |

ज्ञादिभ्यः इगुपान्त्येभ्यश्च कर्तरि को भवति || अचोऽपवादः । क इत् । इटि चातो लुगित्यातो लुक् । प्रज्ञः किरः अवकिरः गिरः निगिरः गिलः निगिलः प्रियः विलिखः बुधः युधः विकृषः || 

१७१८ उपसर्गादातोऽनिक् | | |९५

 उपसर्गादादन्तात् को भवति के च यञो नेक् ॥ प्रस्थः ॥ 

१७३९ प्रष्ठोऽग्रगामी | || १४६ |

अग्रगामिन्यर्थे प्रष्ठ इति निपात्याते || सुग्लः सुम्लः सुत्रः सुरः व्यालः | अनिगिति किम् । आह्वः प्रह्वः प्रज्यः ॥ 

१७४० पाघ्राध्माधेड्दृशश्शः | | |९६ |

उपसर्गात् पादिभ्यः शो भवति ॥ कापवादः । श इत् । शित्त्वात् पिबादि । उत्पिबः उज्जिघ्रः विधमः विधयः उत्पश्यः ॥ 

१७४१ धारिपारिवेद्युदेजिचेतिसातिसाहिलिम्पवि न्दोऽनुपसर्गात् || |९७|

अनुपसर्गेभ्यो धार्यादिभ्यो ण्यन्तेभ्यो लिम्पविन्दाभ्यां च शो भवति || धारयः पारयः वेदयः उदेजयः चेतयः सातयः साहयः लिम्पः विन्दः । उपसर्गात् । सन्धारयिता प्रलिपः प्रविदः || 

१७४२ धुन्यो णः | | | १८|

अनुपसर्गाभ्यां धुनीभ्यां णो भवति ।। धावः नायः । उपसर्गात् । प्रधवः प्रणयः ॥ 

१७४३ सहादिग्रहाद्वा | | | ९९ |

अनुपसर्गेभ्यस्सहादिभ्यो ग्रहेश्व णो वा भवति ॥ साहः सहः रामः रमः बोधः बुधः ज्वालः ज्वलः चाल: चल: हाल: हल: पातः यतः पादः पदः मादः मदः वामः वमः क्षारः क्षरः सादः सदः शादः शदः भावः भवः ग्राहः ग्रहः । उपसर्गात् । विबुधः उज्ज्वलः प्रभवः इत्यादि || 

१७४४ श्यात्तन्व्यधास्रुसंस्ववसावह्रतीण्श्वसः | | | १००

श्यैङः आदन्तात्तनादिभ्यश्च णो भवति ॥ प्रतिश्यायः धायः दायः ग्लायः म्नायः तानः उचानः व्याधः आस्रावः संस्रावः अवसाय: अवहारः अत्यायः श्वासः उच्छ्वासः ॥ 

१७४५ नृत्खवजो वुट् च्छिल्पनि | | | १०१। नृतादिभ्यो वुड् भवति शिल्पिनि कर्तरि || टित्त्वात् स्त्रियां ङी । नर्तकः नर्तकी खनकः खनकी । अत एव निपातनात् न्लुक् । रजकः रजकी ॥ 

१७४६ पाणिघट् ताडघट् | | | १०२

 एतौ शिल्पिनि कर्तरि निपात्येते ॥ पाणिना इन्तीति पाणिघः पाणिघी मार्दङ्गिकादि । तालं हन्तीति तालघः तालघी ॥ 

१७४७ गस्थकः | | |१०३ |

गायतेः शिल्पिनि कर्तरि थको भवति । गाथकः ॥ 

१७४८ टनण् | | | १०४ |

गायतेः शिल्पिनि कर्तरि टनण् भवति । टणावितौयम् । गायनः गायनी ॥ 

१७४९ हो व्रीहिकाले | | | १०५ |

जहातेष्टनण् भवति व्रीहौ काले चार्थे | हायना त्रीहयः । हायनः कालः ॥ 

१७५० प्रसृल्वः साधौ वुच् | | |१०६ |

प्रवादिभ्यः साधुत्वविशिष्टेऽर्थे वुच् भवति || च इत् । साधु प्रवते प्रवकः एवं सरकः लवकः । अन्यत्र ण्वुः । प्रावकः सारकः लावकः ॥ 

१७५१ आशिषि वुन् | ||१०७ |

आशिषि धातोर्वुन् भवति ॥ न इत् । जीवतादित्याशास्यमानो जीवकः जीवका । नित्त्वान्नेत् । एवं भवकः शयकः ॥ 

१७५२ नाम्नि क्तिः | | |१०८ ।

 आशिषि धातोः क्तिर्भवति नाम्नि ॥ शमयतात् पापानीत्याशास्यमानः शान्तिः । क्विजलीति दीर्घः । ग्रहादिनियमान्नेट् । भूतिरित्यादि ॥ 

१७५३ कर्मणोऽण् | | | १०९ ।

कर्मणः पराद्धातोरण् भवति ॥ अजाद्यपवादः || कुम्भं करोतीति कुम्भकारः काण्डलावः वेदाध्यायः चर्चापाठः छत्रधारः द्वारपाल : भारवाहः गोदोहः । स्त्रियां कुम्भकारी इत्यादि ॥

१७५४ सत्यागदास्तोः कारे | २/२/७३ |

सत्यादीनां कारशब्दे मम् भवति ॥ सत्यं करोतीति सत्यंकारः । अगदं करोतीत्यगदंकारः । अस्तुंकारः ॥ 

१७६५ भ्राष्यग्न्योरिन्धे | ||७४ |

भ्रष्ट्राग्न्योरणन्ते इन्धशब्दे परे मम् भवति || भ्रष्ट्रमिन्धः अग्निमिन्धः || 

१७५६ शीलिकामिभक्ष्याचरीक्षिक्षमो णः | | | ११० |

 कर्मणः शील्यादिभ्यो णो भवति || धर्मशीलः धर्मशीला धर्मकामः पायुभक्षः कुशलाचारः परापेक्षः । क्लेशक्षमः ॥ 

१७५७ गोऽनुपसर्गात् टक् | | | १११ |

कर्मणोऽनुपसर्गात् गायतेष्टक् भवति || टकावितौ । इटि चातो लुक् । वक्त्रगः वक्त्रगी ॥ 

१७५८ सुराशीधोः पिबात् | | |११२।

 सुराशीधुभ्यामनुपसर्गात् पिबतेष्टक् भवति ॥ सुरापः सुरापी शीधुपः शीधुपी || 

१७५९ आतोऽह्वावामोऽड् | | | ११३ |

कर्मणोऽनुपसर्गादादन्ताद्वातोरड् भवति न ह्वावामाभ्यः ॥ ड इत् । अन्त्याजादिलक् । धनदः तनुत्रमित्यादि । ह्वावामाभ्योऽण | जिनह्वायः तन्तुवायः धान्यमायः || 

१७६० दाज्ञः प्रे | | | ११४ |

कर्मणः प्रपराभ्यां दाज्ञाभ्यामड् भवति ॥ सुखप्रदः वचनप्रज्ञः ॥ 

१७६१ क्लेशतमसोऽपे | | | ११७ |

क्लेशतमोभ्यामपाद्धन्तेरड् भवति || क्लेशापहः तमोऽपहः  

१७६२ अमनुष्ये टक् | | |११९ |

कर्मणो हन्तेष्टक् भवति अमनुष्ये कर्तरि ॥ वातघ्नमाविकं क्षीरं पित्तघ्नं माहिषं पयः । पतिघ्नी पाणिरेखा । मनुष्ये कर्तरि । आखुघातः वृषलः । पापघातः मुनिः ॥ 

१७३३ जायापतेर्लक्षणे | | | १२० |

जायापतिभ्यां हन्तेष्टक् भवति मनुष्ये कर्तरि लक्षणे गम्यमाने ॥ जायाघ्नो वरः । पतिघ्नी कन्या ॥ 

१७६४ राजधः | | | १२२

राजानं हन्तीति राजघ इति निपात्यते ॥ 

१७६५ अर्होऽ: |४।|१२३|

कर्मणोऽर्हः अप्रत्ययो भवति ॥ अणोऽपवादः । पूजार्हो जिन: । पूजार्हा प्रतिमा || 

१७६६ शक्तिलाङ्गलाङ्कुशयष्टितोमरधनुर्घटाद् ग्रहः | | |१२४ |

शक्त्यादिभ्यो ग्रहेरड् भवति ॥ शक्तिग्रहः लाङ्गलग्रहः अङ्कुशग्रहः यष्टिग्रहः तोमरग्रहः धनुर्ब्रहः घटग्रहः । अन्यस्मात् । पाशग्राहः ||

१७६७ सूत्रद्धारणे | | | १२५ |

सूत्राद् ग्रहेरड् भवति धारणेऽर्थे ॥ सूत्रग्रहः ॥ 

१७६८ हृञो वयोऽनुद्यमे | | | १२६ |

कर्मणो हृञोऽद् भवति वयस्यनुद्यमे च कर्तरि ॥ कवचहरः कुमारः । विषहरो मणिः । उद्यमे भारहारः  

१७६९ आङि शीले | | | १२७ |

कर्मणः आङो हृञोऽद् भवति शीले स्वभावे द्योत्ये || पुष्पाण्याहर्तुं शीलमस्य पुष्पाहरः सुखाहरः ॥

 १७७० दृतिनाथात् पशाविः | | | १२८ |

 दृतिनाथाभ्यां हृञ इद् भवति पशावर्थे ॥ दृतिहारिः नाथहरिः पशुरित्यर्थः 

१७०१ फलेग्राह्यात्मम्भरिकुक्षिम्भरि | | | १२९ ।

 फलेग्रह्यादयः इदन्ता निपात्यन्ते ॥ फलेग्रहिः वृक्षः । आत्मम्भरिः कुक्षिम्भरिः । एतौ स्वोदरपूरके ॥ 

१७७२ शकृत्स्तम्बाद्वत्सव्रीहौ कृञः | | | ११०।

 शकृत्स्तम्बाभ्यां कृञ इद् भवति यथासङ्ख्यं वत्से व्रीहौ चार्थे ॥ शकृत्करिर्वत्सः । स्तम्बकरिर्व्रीहिः । अन्यत्र कर्तरि । शकृत्कारः स्तम्बकारः ॥ 

१७७३ किंयत्तद्सबहोरः | | | १३१ |

किमादिभ्यः कृञोऽद्भवति ॥ किंकरः यत्करः तत्करः बहुकरः । स्त्रियां किंकरेत्यादि । 

१७७४ दिवाविभानिशाप्रभाभास्कारारुष्कर्त्रन्तान- न्तादिनान्दीलिपिलिषिषलिचित्रक्षेत्रजङ्घाबाह्वहर्धनुर्भ 

क्तसङ्ख्याट्टः |||१३२|

दिवादिभ्यः कृञष्टो भवति । दिवाकरः विभाकरः निशाकरः प्रभाकरः भास्करः कारकरः अरुष्करः कर्तृकरः अन्त- करः अनन्तकरः आदिकरः नान्दीकरः लिपिकरः लिबिकरः बलिकर: चित्र- करः क्षेत्रकरः जङ्घाकरः बाहुकरः अहस्करः धनुष्करः भक्तकरः एककरः द्विकरः इत्यादि । स्त्रियां चित्रकरीत्यादि ॥ 

१७७५ हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाधावैर- चाटुसूत्रमन्त्रपदात् || | | १३३ |

कर्मणः कृञः हेतौ तच्छीलेऽनुकूले च कर्तरि टो भवति न शब्दादेः || यशस्करी विद्या । पूजाकरः प्रैषकरः । शब्दादेः । शब्दकारः श्रोककारः कलहकारः गाधाकारः वैरकारः चाटुकारः सूत्रकारः मन्त्रकारः पदकारः ॥ 

१७७६ भृतौ कर्मण: || | १३४ |

कर्मणः कृञष्टो भवति भृतौ द्योत्यायाम् || कर्मकरः । अन्यत्र | कर्मकारः || 

१७७७ क्षेमप्रियमद्रात् खाण | | | १३५।

 क्षेमादिभ्यः कृञः खाणौ भवतः ॥ 

१७७८ खित्यरुर्द्विषतश्चानव्ययस्य || |७८ |

 अजन्तस्यारुद्विषतोश्च खिदन्ते उत्तरपदे मम् भवति नाव्ययस्य ॥ अमावितौ क्षेमंकरः क्षेमकारः प्रियकरः प्रियकारः मद्रंकरः मद्रकारः || 

१७७९ मेघर्ते खच् || | १३६

 मेघर्तिभ्यां कृञः खच् भवति ॥ खचावितौ । मेघंकरः ऋतिंकरः ॥ 

१७८० भयात् | ||१३७ |

भयात् कृञः खच् भवति || भयंकरः अभयंकरः || 

१७८१ प्रियवशाद्वदः | | | १३८

प्रियवशाभ्यां वदः खच् भवति || प्रियंवदः वशंवदः ॥ 

१७८२ द्विषत्परातस्तापैः | | | १३९ |

द्विषत्पराभ्यां तापेः खच् भवति || 

१७८३ खचि ||११२०८ |

ण्यन्तस्य खचि ह्रस्वो भवति ॥ मम् द्विषन्तपः परन्तपः || 

१७८४ मितनखपरिमाणात् पचः | | | १४०।

 मितनखाभ्यां परिमाणवाचिनश्च पचः खच् भवति || मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । प्रस्थम्पचं कुलं ॥ 

१७८५ ह्रस्वः | २/२/७९ |

अनव्ययस्याजन्तस्य खिदन्ते उत्तरपदे ह्रस्वो भवति ॥ खारिंपचं कुलम् ॥ 

१८८६ करीषाभ्रकूलात् कषः | | | १४१ |

करीषादेः कषः खच् भवति || करीषंकषः अभ्रंकषः कूलंकषः || 

१७८७ सर्वात् सहश्च | | | १४२ |

सर्वात् कषः सहश्च खच् भवति ॥ सर्वंकषः सर्वंसहः || 

१७८८ भृतॄवृधारिजिदमितपश्च नाम्नि | | | १४३ |

कर्मणो भ्रादिभ्यः सहश्च खच् भवति नाम्नि | विश्वम्भरा भूः । रथन्तरं साम । पतिंवरा कन्या । वसुन्धरा भूः । शत्रुञ्जयो गिरिः । अरिन्दमः शत्रुतपः शत्रुंसहः इत्येते क्षत्रियाः || 

१७८९ वाचंयमो व्रती | | | १४४ |

 वाचंयम इति निपात्यते व्रतिन्यर्थे ॥ 

१७९० मन्याण्णिन् | | | १४५ |

कर्मणो मन्यतेर्णिन् भवति ॥ पण्डितं मन्यते इति पण्डितमानी || 

१७९१ कर्तुः श्खः | | | १४६ ।

कर्मणो मन्यतेः श्खो मवति कर्तरि कर्मणि ॥ शित्त्वात् श्यः । पण्डितमात्मानं मन्यते पण्डितंमन्यः विद्वन्मन्यः । अनव्ययस्येति न मम्ह्रस्वौ । दोषामन्यो दिवसः || 

१७९२ एजेः || | १४७|

कर्मण एजेर्ण्यन्तात् श्खो भवति ॥ अङ्गमेजयः || 

१७९३ शुनीस्तनाड्वेटः | | | १४८ |

शुनीस्तनाभ्यां धेटः श्खो भवति || शुनिन्धयः स्तनन्धयः ॥ 

१७९४ कूलादुदि रुज्वहः | | | १५१ |

कूलादुदो रुजिवहिभ्यां श्खो भवति || शित्त्वान्नेङ् । कूलमुद्रुजः कूलमुद्वहः ॥ 

१७९५ वहाभ्राल्लिहः | | | १५२ |

 वहाभ्राभ्यां लिहः श्खो भवति || बहलिहः अभ्रंलिहः || 

१७९६ विध्वरुस्तिलात्तुदः | | | १५३ |

 विध्वरुस्तिलेभ्यस्तुदः श्खो भवति ॥ विधुन्तुदः । सस्य जश्त्वचर्त्वे । अरुन्तुदः तिलन्तुदः ॥ 

१७९७ शर्धललाटवातात् हाक्तपाजः | ||१५४ |

शर्षात् हाकः श्खो भवति ललाटात्तपः वातादजः || शर्धंजहः ललाटंतपः वातमजः ॥ 

१७९८ पुरन्दर भगन्दरेरम्मदोग्रंपश्यासूर्यपश्याः ||| | १५५

एते श्खान्ता निपात्यन्ते || पुरन्दरः शक्रः । भगन्दरो व्रणम् । इरस्मदो मेघाग्निः । उयंपश्यः शत्रुः । असूर्यम्पश्याः राजदाराः ॥ 

१७९९ सुभगाठ्पस्थूलपालितनग्नान्धप्रियात् सुपोऽच्वे- शच्वौ खस्नुखुकञ्भुवः | | | १५६ |

अच्व्यन्तेभ्यः सुभगादिभ्यः सुबन्तेभ्यो भुवश्च्व्यर्थे खस्नुखुकञौ भवतः ॥ स्वञावितौ स्नाविट् ञित्यात् । असुभगः सुभगो भवतीति सुभगंभविष्णुः सुभगम्भावुकः । आढ्यंभविष्णुः आत्मम्भावुकः । स्थूलम्भविष्णुः स्थूलम्भावुकः पलितम्भविष्णुः पलितम्भावुकः । नमम्भविष्णुः नमम्भावुकः । अन्धम्भविष्णुः अन्धम्भावुकः । प्रियम्भविष्णुः प्रियम्भावुकः || 

१८०० कञः करणे खनट् || | १५७॥

अच्व्यन्तेभ्यः सुभगादिभ्यः कृञः च्व्यर्थे खनट् भवति करणे वाच्ये ॥ असुभगं सुभगं करोति अनेनेति सुभगंकरणं धनं । सुभगंकरणी विद्या । आढ्यं स्थूलकरणं स्थूलंकरणं पलितंकरणं नग्नंकरणम् अन्धंकरणं प्रियंकरणम् || 

१८०१ भावे चाशितंभवः | | | १५८ ।

भावे करणे चाशितंभव इति निपात्यते || आशितस्य भवनं आशितो भवत्यनेनेति वा आशितंभवः ओदनः ॥ 

१८०२ गमः खखड्डाः || |१५९ |

सुबन्ताद्गमः खखड्डा भवन्ति || डित्यन्त्याजादिलुक् । भुजङ्गमः तुरङ्गमः भुजङ्गः तुरङ्गः दूरगः सर्वगः इत्यादि बहुलं योज्यम् || 

१८०३ विहायसो विहश्च | | | १६० |

विहायसो गमः खखड्डा भवन्ति विहायसो विहश्चादेशः । विहङ्गमः विहङ्गः विहगः ॥ 

१८०४ उरगः । ४।३।१६१ ।

उरसा गच्छतीत्युरग इति शिष्टम् ॥

 १८०५ सुगदुर्गमाधारे | | | १६२ |

आधारे एतौ निपात्येते ॥ सुखेन गम्यते अस्मिन्निति सुगः देशः । दुःखेन गस्यते अस्मिन्निति दुर्गः ॥

 १८०६ नाम्न्यः शमः | | | १६४ |

शमोऽव्ययाद्धातोरद् भवति नाम्नि || शम्भवः शङ्करः शंवदः इत्यादि || 

१८०७ आधारात् || | १६५|

आधारात् सुपः शीङोऽद् भवति ॥

१८०८ तत्पुरुषे कृति बहुलम् | || १४ |

हलन्ताददन्ताच्च सप्तम्याः कृदन्ते उत्तरपदे श्लुग् बहुलं भवति तत्पुरुषसमासे ॥ बिले शेते बिलशय: बिलेशयः । खे शेते खशयः खेशयः इत्यादयः ॥ 

१८०९ भिक्षासेनादायाच्च चरष्टः | | | १६८ |

भिक्षादेराधाराच्च चरष्टो भवति ॥ भिक्षां चरतीति भिक्षाचरः सेनाचर: आदायचरः । आदायेति प्यान्तः । कुरुषु चरतीति कुरुचरः || 

१८१० कृदन्ते वा मम् रात्रेः २/२/७२ |

रात्रेः कृदन्ते उत्तरपदे मम् वा भवति ॥ रात्रिं चरतीति रात्रिचरः रात्रिचरः । स्त्रियां भिक्षाचरीत्यादि । 

१८११ पुरोऽग्रतोऽग्रेः सर्त्तेः | | | १५९ |

 पुरसादिभ्यः सर्त्तेष्टो भवति || पुरस्सरः अग्रतस्सरः अग्रेसरः । पुरस्सरीत्यादि ॥ 

१८१२ स्थः कः | ||१७१ |

सुपस्तिष्ठतेः को भवति ॥ कित्त्वादातो लुक् । समे तिष्ठतीति समस्थः एवं विषमस्थः स्वस्थः  

१८१३ गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निमञ्जिपुञ्जिशेकु- शङ्कुक्वङ्गुबर्हिर्दिविपरमेः ष्ठः | ||१४५|

गवादिभ्यः स्थस्य षत्वष्टुत्वे निपात्येते || गोष्ठम् अम्बाष्ठः अम्बष्ठः सव्यष्ठः अपष्ठः द्विष्ठः त्रिष्ठः भूमिष्ठः अमिष्ठः मञ्जिष्ठः पुञ्जिष्ठः शेकुष्ठः शङ्कुष्ठः कुष्ठः अङ्गुष्ठः बर्हिष्ठः दिविष्ठः परमेष्ठः 

१८१४ दुहो घश्च | | | १७२ |

सुपो दुहः को भवति । हो घश्च ॥ कामदुधा ॥ 

१८१५शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपास्सुखा- हरालस्य हस्तिसूचकाः | | | १७३ |

शोकापनुदादयः कान्ता यथासङ्खयं सुखाहराद्यर्थेषु निपात्यन्ते || शोकापनुदः सुखहरः । तुन्दपरिमृजोऽलसः । स्तम्बेरमो हस्ती | कर्णेजपः सूचकः ॥ 

१८१६ मूलविभुजादयः | | | १७४ |

 मूलविभुजादयः कान्ताः शिष्टप्रयोगानुसारेण साधवो वेदितव्याः || मूलानि विभुजतीति मूलविभुजो रथः । नखान् मुञ्चन्तीति नखमुचानि धनूंषि । कौ मोदते कुमुदं । द्वाभ्यां पिवतीति द्विपः । एवमनेकपः कच्छपः पादपः मधुपः इत्यादयः ॥ 

१८१७ विण् भजः |४।|१७५ |

सुपो भजो विण् भवति ॥ स सर्वोऽप्रयोगी | गुणभाक् देहभाक् कर्मभाक् शोभाविभाजि ॥ 

१८१८ स्पृशोऽनुदकात् क्विप् | | | १७६ |

 सपः स्पृशः क्विप् भवति नोदकात् ॥ स सर्वोऽप्रयोगी | घृतस्पृक् । उदकात् उदकस्पर्शः ॥ 

१८१९ अदोऽनन्नात् | | | १७७ |

 सुपोऽदः क्विप् भवतिनान्नात् ॥ प्रासुकमत्तीति प्रासुकात् भक्तात् । अनन्नादिति किम् | अन्नादः ॥ 

१८२० क्रव्यात्क्रव्यादावामपक्वादौ | | | १७८|

क्रव्याददः आममांसभक्षे क्रव्यादिति क्विबन्तो निपात्यते । पक्वमांसभक्षे क्रव्याद इति अण् निपात्यते || 

१८२१ मंन्वन्क्वनिब्विच्च दृश्यते | | | १७९ |

 सुबन्ताद्धातोः मन् वन् क्वनिप् विच् क्विप् च प्रत्ययो दृश्यते || मनि । शर्म वर्म कर्म हेम धाम दामेत्यादि । वनि ॥ 

१८२२ वन्यनुनासिकस्याः ||१/२६६ |

धातोरनुनासिकस्य आद् भवति वनि प्रत्यये परे || विजावा अग्रेगावा सुखावा अतिक्रावा । क्वनिपि ह्रस्वस्येति तक् । कृत्वा परिकृत्वा । ईहल्यप्ये इतीत् । धीवा पीवा स्त्रियां ङी ।। 

१८२३ ङ्यां वनो रः | ||७७|

 बनो रो भवति ङ्यां परतः ॥ कृत्वरी धविरी पीवररीत्यादि । विचि । विश प्रवेशने । वेट् । जागः शुभंयाः । सोमं पिबतीति सोमपाः । क्विपि । अन्तरिक्षसत् दिविषत् द्युसत् सुकृत् शतसूः मित्रद्विट् द्विद् मित्रध्रुक् मित्रध्रुट् ॥ 

१८२४ नहिवृतिवृषिव्यधिसहितनिरुचि क्वौ तिकारकस्य | || १० |

अजन्तस्य तेः कारकस्य च क्विबन्ते नाह्यादावुत्तरपदे दीर्घो भवति || उपानत् नीवृत् प्रावृट् मर्मावित् जलासट् ॥ 

१८२५ गमादीनां क्वौ ||| २६४ |

 हनादीनां गमादीनां च क्विपि लुग् भवति ॥ परीतत् नीरुक् । गोधुक् कामधुक् अश्वयुक् । युङ् तत्त्ववित् काष्ठभित् भित् छित् भवच्छित् शत्रुजित् प्रजित् अनन्तजित् अग्रणीः । ग्रामं नयतीति ग्रामणीः । नीः पक् । विराट् सम्राट् स्वाराट् मित्रभूः प्रतिभूः स्वयम्भूः । उखायाः स्रंसते उखाखत् पर्णध्वत् विभ्राट् प्राङ् प्रत्यङ् सम्यङ् सध्यङ् ऋत्विक् इत्यादयः दृश्यत इति वचनात् यथासम्भवं केवलादपि धातोः शिष्टप्रयोगेषु लक्षणीयाः ॥ बहुलाधिकारात् कर्तृकर्मकरणा- दिकारकविशिष्टार्थाः प्रयोज्याः || 

१८२६ त्यदाद्यन्यसमानाद् गौणाद् दृशेराप्ये क्विकट्क्साः | | | १८० |

उपमानवाचिनस्त्यदादेरन्यसमानाभ्यां च दृशेः कर्मणि क्विकट्क्सा भवन्ति ॥ क्विः सर्वोऽप्रयोगी । कटावितौ । स इव दृश्यत इति विगृह्य आत्वादि । तादृक् तादृशः तादृशी तादृक्षः तादृक्षा यादृक् यादृशः यादृक्ष: अमूहक् अमूदृशः अमूदृक्षः ईदृक् एतादृक् युष्मादृक् त्वादृक् भवादृक् मादृक् कीदृक् अन्यादृक् सदृक् ॥ 

१८२७ शीलेऽजाते: | | | १८२ |

सुबन्ताद्धातोः शीले णिन् भवति न जातेः ॥ उष्णं भोक्तुं शीलमस्य उप्णभोजी । प्रस्थायी प्रबोधी प्रयायी । जातेः । ब्राह्मणानामन्त्रयिता ॥ 

१८२८ व्रताभीक्ष्ण्ये | | | १८३।

 सुपो धातोव्रताभीक्ष्ण्ययोर्णिन् भवति ॥ स्थण्डिलशायी अम्बुपायी || 

१८२९ साधौ | | |१८४ |

सुपो धातोस्साधौ णिन् भवति ॥ साधुकारी साधुदायी ॥ 

१८३० ब्रह्मवादी |४।|१८५ ।

साधु ब्रह्माणं वदतीति ब्रह्मवादी ॥

१८३१ व्यभेर्भुवो भूते | | | १८६ |

 व्यभिभ्यां भुवो भूतेऽर्थे णिन् भवति ॥ विभूतवानिति विभावी । अभिभूतवान् अभिभावी ॥ 

१८३२ करणाद्यजः | | | १८७

 करणाद्यजो भूते णिन् भवति ॥ महामहेनायाक्षीत् महामहयाजी | 

१८३३ घ्नो णिन् | | | १८९ ।

कर्मणो हन्तेर्भूते णिन् भवति कुत्सायाम् || मातृघाती ॥ 

१८३४ ब्रह्मभ्रूणवृत्रात् क्विप् | | | १९० |

 ब्रह्मादिभ्यो हन्तेर्भूते क्विप् भवति || ब्रह्माणं हन्तिस्म ब्रह्महा । एवं भ्रणहा वृत्रहा || 

१८३५ सुकर्मपापमन्त्रपुण्यात् कृञः | | | १९१ |

स्वादिभ्यः कृञो भूते क्विप् भवति | सुष्ठु अकार्षीत् सुकृत् । कर्मकृत् पापकृत् मन्त्रकृत् पुण्यकृत्  

१८३६ दृशः कनिप् | | | १९५ |

 भूते कर्मणो दृशः क्वनिप् भवति ॥ कपेत इतः । विश्वं दृष्टवान् विश्वदृश्वा ॥ 

१८३७ राजसहात् कृञ्युधिभ्याम् | | | १९६|

 राजसहाभ्यां कृञो युधेश्व भूते क्वनिप् भवति ॥ राजानं कृतवान् राजकृत्वा । एवं राजयुध्वा सहकृत्वा सहयुध्वा ॥ 

१८३८ जनोऽनौ डः | | | १९७ |

 कर्मणोऽनौ जनो भूते डो भवति ॥ ड इत् । पुमांसमनुजाता पुमनुजा । एवं स्त्र्यनुजः 

१८३९ सप्तम्याः || ||१९८ |

 सप्तम्यन्ताज्जनो भूते डो भवति ॥ तनौ जातः तनुजः  

१८४० ययोनिमतिचरजेऽपः | || १५ |

 अपशब्दात् सप्तम्याः यप्रत्यये योनिमतिचरजे च श्लुग् न भवति तत्पुरुषे ॥ अप्सुजं सरसिजं । बहुलाधिकारादब्जं सरोजम् इत्यादि || 

१८४१ अजातेः पञ्चम्याः | | |१९९ |

पञ्चम्यन्तात् जनो भूते डो भवति न जातिवाचिनः ॥ ज्ञानाज्जातं ज्ञानजं सुखम् । इन्द्रियजम् इत्यादि । जातेः । अश्वाज्जात इत्येव || 

१८४२ क्वचित् | | |२०० |

अन्यस्मादपि सुपो जनो भूते अन्यस्मिन्नपि विषये डो भवति ॥ किं जातेन किंजः । द्विजतो द्विज : न जातः अजः । परिजाः केशाः । प्रजायते प्रजा । अनुजः स्त्रीजमनृतं । पुंसानुजाता पुंसानुजा । ब्राह्मणाच्छंसीत्यश्लुक् ॥ 

१८४३ जॄषोऽतु | | |२०१९ |

 जॄषो भूते अतृ भवति ॥ ऋदित् । जरन्  

१८४४ सुयजो ङ्वनिप् | | |१०२ ।

 षुञ्यज्भ्यां भूते ङ्वनिप् भवति || ङपावितौ । सुत्वा यज्वा || 

१८४५ भस्मादयः | | | २०३ |

भस्मन्नित्यादयो भूते मन्नन्ताः साधवः || भसितं भस्म । एवं चर्म वर्त्म कर्म इत्यादयः प्रयोगगम्याः || 

१८४६ क्तक्तवतू | ||२०४ |

धातोर्भूते क्तक्तवतू भवतः ॥ कोतावितौ । साप्यानाप्यादिति सकर्मकात् कर्मण्यकर्मका भावे क्तः । तवतुः पुनः कर्तर्येव । एध्यते स्म एधितमनेन । एधते स्म एधितवान् । एवं स्पर्धितं स्पर्धितवान् वन्दितः वन्दितवान् || 

१८४१ उति शपः क्तयोर्भावारम्भे |||१५३ |

शप्भाजो धातोरुकारे उपान्त्ये सति भावारम्भविहितयोरिडाद्योः क्तक्तवत्वोः परतः कित्कार्यं वा भवति ॥ मुदितमनेन मोदितमनेन प्रमुदितः प्रमुदितवान् प्रमोदितः प्रमोदितवान् ॥ 

१८४८ क्तयोर्द्रश्यौदित्सूयत्यादेर्दस्य चामन्मूर्छः || | २४६ |

दान्तात् रान्तात् श्यैङ: ओदितः सूयत्यादेश्व तकाराद्योः क्तक्तवत्वोरादेस्तस्य नो भवति पूर्वस्य दस्य च नः न मन्मूछो: || हन्नमनेन हन्नवान् । ह्लादैङ् सुखे || 

१८४९ न डीयश्व्यैदिद्वेटोऽपतः |४। | १४३ |

डीयश्विभ्यामैदितो विकल्पितेटश्च क्तयोरिड् न भवति न पतः ॥ नत्वं ॥ 

१८५० ह्लादोऽ:क्ति | ||२४४ |

 ह्लाद आतस्तादी कित्यद् भवति || ह्लन्नमनेन ह्लन्नवान् । यतैङ् प्रयत्ने । प्रयत्तः प्रयत्तवान् । स्फुटितं स्फोटितममेन स्फुटितवान् स्फोटितवान् । त्रप्तः त्रप्तवान् ॥ क्षीबृङ् मदे ॥ 

१८५१ अनुपसर्गाः क्षीबोल्लाघकुशपरिकृशफुल्लोत्फु- ल्लसंफुल्लाः |||२५८|

अनुपसर्गाः क्षीबादयः क्तान्ता निपात्यन्ते || क्षीबः । मीमांसितः मीमांसितवान् । पनायितः पनायितवान् । क्विजलीति दीर्घः । क्षान्तः क्षान्तवान् कामितः कामितवान् । त्व्युदित इति वेटत्वान्नेट् । कान्तं कान्तवान् । ऊयैङ् तन्तुसन्ताने || ऐदित्त्वान्नेट् । यलुक् । ऊतः उतवान् । स्फायैङ् ओप्यायैङ् वृद्धौ ॥ 

१८५२ स्फाय: || | १२९ |

स्फायः क्तयोः साचो यञ इग् भवति ॥ 

१८५३ दीर्घोऽचोऽवः | ||१३५ |

अजन्तस्य साचो यञ इग् दीर्घो भवति प्रत्यये परतः न वेञः । स्फीतः स्फीतवान् ॥ 

१८५४ तयोरनुपसर्गस्य |||१२७|

अनुपसर्गस्य प्यायः क्तयो: साचो यञ इग् भवति || पीनः पीनवान् ॥ 

१८५५ आङोऽन्धूधसोः |४।१।१२८|

आङः प्यायः क्तयोस्साचो यञ इग् भवति अन्धूधसोरर्थयोः || आपीनोऽन्धुः आपीनवान् आधीनमापीनवदूधः । अन्यत्रोपसर्गाच्च क्तयोर्यलुक् । प्रप्यानः प्रप्यानवान् । शिक्षितः शिक्षितवान् । स्रस्तः स्रस्तवान् । गाढः गाढवान् । स्मितं स्मितवान् ॥ 

१८५६ द्रवमूर्तौ श्यः | ||१३१ |

श्यैङः क्तयोस्साचो यञ इग् भवति द्रवमूर्तौ काठिन्येऽर्थे ॥ शीनं शीनवद् घृतम् । अन्यत्र | संश्यानो वृश्चिकः । शीतमिति निपातनात् सिद्धं । धृतः धृतवान् ॥ 

१८५७ दोसोमास्थांङ्क्ति | | | १०९ |

द्यत्यादीनां क्तादौ इद्भवति || विनिमितः विनिमितवान् ॥ 

१८५८ दद् घोर्दः ||| ११२ ॥

घुसंज्ञस्य दः क्तादौ दद् भवति ॥ दत्तः दत्तवान् ॥ प्यैङ् वृद्धौ ॥ आवे || 

१८५९ हलो यञ आतोऽध्याख्यः |||२४७|

हलः पराद्यञः आतस्ताद्योः क्तयोस्तस्य नो भवति न ध्याख्याभ्याम् || प्यानः प्यानवान् ॥ त्रैङ् पालने ॥ 

१८६० हीत्राद्राघ्रोन्दनुद्विन्तेः |४। | २५४ |

ह्रियादिभ्यः क्तयोस्वस्य नो वा भवति पूर्वस्य दस्य च नः ॥ त्राणः त्राणवान् त्रातः त्रातवान् || क्लिशौ विबाधने ॥ 

१८६१ पूङ्क्लिशो वा | || १६० |

पूङ्क्लिशिभ्यां क्तयोः क्त्वायाश्च इड्वा भवति ॥ पूतः पूतवान् ॥ 

१८६२ शीङ्डीङ्पूङ्स्विद्मिदिक्ष्विद्धृषो न |४।१ | १५४ |

 शीङादीनां इडाद्योः क्तयोः किद्वन्न भवति || पवितः पवितवान् । डयितः डयितवान् । द्युतितमनेन द्योतितमनेन प्रद्युतितवान प्रद्योतितवान् । शुभितमनेन शोभितमनेन शुभितवान् शोभितवान् ॥ ञिमिदाङ् स्नेहने || 

१८६३ आदितः || ||१५१ |

आदितोः धातोः क्तयोरिड् न भवति || मिन्नः मिन्नवान् । ञिष्विदाङ् मोचने च ॥ स्विन्नः स्विन्नवान् ॥ 

१८६४ भावारम्भे वा ||| १५२ |

आदितः क्तयोरिड् वा भवति भावारम्भयोः ॥ स्विन्नमनेन स्वेदितमनेन प्रस्विन्नवान् प्रस्वेदितवान् । क्षुभि सञ्चलने || 

१८६५ क्षुब्धस्वान्तध्ध्वान्तपरिबृढलग्नाम्लिष्टविरिब्धफा- ण्टबाढं मन्थमनस्तमःप्रभुसक्तास्पष्टस्वरानायासभृशे || ४।२/१५० |

क्षुब्धादयः क्तान्ता अनिट्का निपात्यन्ते यथासङ्ख्यं मन्थादिष्वर्थेषु || क्षुब्धः समुद्रः मथित इत्यर्थः । अन्यत्र क्षुभितः क्षुभितवान् समुद्रः सञ्चलित इत्यर्थः । विस्रब्धः विस्रब्धवान् । भ्रष्टः भ्रष्टवान् । ध्वस्तः ध्वस्तवान् । वृत्तः वृत्तवान् । क्ऌप्तः क्ऌप्तवान् ॥ 

१८६६ वमरुष्यमत्वरसङ्घुषास्वनः |४। |१५६ |

 वमादिभ्यः क्तयोरिड् वा भवति || त्वरितः त्वरितवान् । अनिट्यूच् । तूर्णः तूर्णवान् । स्मृतः स्मृतवान्  

१८६७ ऋल्वादेः क्तक्तिनाम्नोऽप्रः || | २४५

ॠदन्तात् स्वादिभ्यश्च तयोः क्तिनश्च तस्य नो भवति न पॄ इत्यतः ॥ दीर्णः दीर्णवान् । श्राणः श्राणवान् । अमन्मुर्छ इति न नः मत्तः मत्तवान् । क्षुब्धादित्वात् ध्वान्तं तमः । अन्यत्र ध्वनितवान् । स्वान्तं मनः । अन्यत्र स्वनितं स्वनितवान् । आङ्पूर्वत्वे । वमरुषीति वेट् । आस्वान्तं आस्वनितं । फाण्टमनायासकषायः । अन्यत्र फणितं फणितवान् । सोढः सोढवान् । हन्मन्येति मलुक् रतः रतवान् । बुद्धः बुद्धवान् । चलितः चलितवान् । अपत इति वचनात् इट् पतितः पतितवान् । वान्तः वान्तवात् । वमितः वमितवान् । आसन्नः आसन्नवान् । क्रुष्टः कुष्टवान् ॥ 

१८६८ श्लिषशीङ्स्थाजॄषास्वसजन्रुहारम्भात् क्तः ।४। ३।५२ |

 श्लिषादिभ्यः आदिकर्मार्थेभ्यश्च यः क्तः स कर्तरि वा भवति ॥ आरूढो वृक्षं चैत्रः । आरुढो वृक्षचैत्रेण । आरूढवान् वृक्षं चैत्रः ॥ 

१८६९ गत्यकर्मण्याधारे | | |५३ |

 गत्यर्थादकर्मकाच्च धातोः क्तः कर्तर्याधारे च वा भवति ॥ भूतः भूतवान् चैत्रः । भूतं चैत्रेण । जितः जितवान् । पीतः पीतवान् । प्रातः घ्रातवान् । घ्राणः घ्राणवान् । ध्मातः ध्मातवान् । स्थितः स्थितवान् । इदमस्य स्थितं । स्थितमनेन । दत्तः दत्तवान् | अवदातः अवदातवान् । ग्लानः ग्लावान् । म्लानः म्लानवान् । निद्राणः निद्राणवान् । द्रातः द्रातवान् द्राणः द्राणवान् । गीतः गीतवान् । स्त्यानः स्त्यानवान् ॥ 

१८०० स्त्यः प्रपूर्वस्य || | १३०

प्रपूर्वस्य स्त्यायतेः क्तयोः साचो यञ् इग् भवति ॥ 

१८७१ प्रस्त्यो मः |||२५५ |

 प्रात् स्त्यः क्तयोस्तो मो वा भवति ॥ प्रस्तीमः प्रस्तीमवान् । प्रस्तीतः प्रस्तीतवान् ॥ 

१८७२ क्षः |||२५६ ।

क्षायतेः क्तयोः स्तो मो भवति ॥ क्षामः क्षामवान् । ओवै शोषणे । वानः वानवान् । आध्यरूय इति वचनात् न नः । ध्यातः ध्यातवान् स्मृतः स्मृतवान् । ऋतः ऋतवान् । तीर्णः तीर्णवान् । चिकित्सितः चिकित्सितवान् । चित्तः चित्तवान् | सिद्धः सिद्धवान्।

१८७३ अविदूरेऽभेः |४। | १४५ |

अभेरर्दः क्तयोरिड् न भवते अविदूरे समीपे || अभ्यर्णम् । अन्यत्र अभ्यर्दितः अभ्यर्दितवान् । वन्दितः चन्दितवान् । स्कन्नः स्कन्नवान् ॥ शुच शोके । शुचितः शुचितवान् ॥ 

१८७४ लुभ्यञ्चेर्विमोहार्चे | || १५९ |

 लुभ्यश्चिभ्यां तयोः क्त्वायाश्च इड् भवति क्रमेण विमोहे अर्चायां च ॥ अञ्चितः अञ्चितवान् । अन्यत्र उदक्तं जलम् । उदक्तवान् कूपात् । म्लेच्छ अव्यक्तायां वाचि । क्षुब्धेति निपातनात् म्लिष्टमविस्पष्टम् । अन्यत्र म्लेच्छितं । मूर्तः मूर्तवान् । मूर्तमनेन मूच्छितमनेन प्रमूर्तः प्रमूर्तवान् प्रमूर्च्छितः प्रमूर्च्छितवान् । सक्तः सक्तवान् । गोपायितः गोपायितवान् | गुप्तः गुप्तवान् || 

१८७५ जप्तश्वस्तापचितम् | || १५५ |

 जप्तादयः क्तयोरनिट्का वा निपात्यन्ते || जप्तः जप्तवान् जपितः जपितवान् । गतः गतवान् । सृप्तः सृप्तवान् । इदमहेः सृतं । सृप्तमनेन । कनै दीप्तिकान्तिगतिषु ॥ कान्तः कान्तवान् । यतः यतवान् । आचान्तः आचान्तवान् । क्रान्तः क्रान्तवान् । भ्रान्तः प्रान्तवान् । त्रिफला विशरणे || तिचातोदित्युत् । प्रपुल्तः प्रफुल्तवान् । फुल्ल विकसने । अनुपसर्गा इति निपातनात् फुल्लः उत्फुल्लः सम्फुल्लः। चरितः चरितवान् । ऊच् ष्ठ्य्तः ष्ठ्यूतवान् । धुर्वै हिंसायाम् । वो लुक् । धूर्तप्रशंसारूढैरिति निपातनान्न नः । धूर्तः धूर्तवान् । कष हिंसायाम् || 

१८७६ कषः कृच्छ्रगहने | || १४७|

कषः क्तयोरिड् न भवति कृच्छ्रे गहने चार्थे ॥ कष्टं याचितं । कष्टं विपिनम् अन्यत्र निकषितं स्वर्णम् ॥ 

१८७७ शसिधृषः प्रगल्भे |||| १४६ |

शसिधृषिभ्यां तयोरिड् न भवति प्रगल्भेऽर्थे ॥ शस्तः प्रगल्भः । अन्यत्र शसितः शसितवान् । धृष्टः धृष्टवान् । मृषू सहने च ॥ 

१८७८ मुषः क्षन्तौ |||१५५ |

मृषः इडाद्योः क्तयोः किद्वन्न भवति क्षान्तौ ॥ मर्षित: मर्षितवान् । अन्यत्र अपमृषितं वक्ति । अनिटि मृष्टं मृष्टवान् । कृष्टं कृष्टवान् । हृषू अलकि || 

१८७९ हृषेर्लोमविस्मयप्रतिघाते | || १५४।

हृषेः क्तयोरिड्वा भवति लोमविस्मयप्रतिघातेषु ॥ हृष्टानि हृषितानि लोमानि । हृष्टो हृषितः विस्मितः । हृष्टाः हृषिताः दन्ताः प्रतिहता इत्यर्थ । अन्यत्र हृष्टोऽलीके || घुषृ शब्दे || 

१८८० घुषोऽविशब्दे ||| १४८|

घुषः क्तयोरिड् न भवति न विशब्दे ॥ घुष्टौ पादौ सम्बद्धावित्यर्थः । विशब्दे विधुषितानि वाक्यानि । दृष्टः दृष्टवान् । शस्तः शस्तवान् । दग्धः दग्धवान् | मीढः मीढवान् । रहितः रहितवान् । दृह दृहु पूष बृह वृद्धौ ॥ 

१८८१ दृढः स्थूलबलिनो : ||| १४९ |

स्थूले बलिनि चार्थे दृढो निपात्यते ॥ अन्यत्र। दृहितः दृहितवान् दृंहितः । क्षुब्धेति निपातनात् परिवृढः प्रभुः । अन्यत्र परिबृहितः । बृहु शब्दे च । परिबृंहितः । इग्दीर्घौ शूनः शूनवान् ॥ 

१८८२ क्तक्त्वां क्षुध्वसः | || १५८ |

क्षुधिवसिभ्यां क्तयोः क्त्वायाश्चेड् भवति || उषितः उषितवान् । उदितः उदितवान् । इष्टः इष्टवान् । उप्तः उप्तवान् । ऊढः ऊढवान् । अव इति न दीर्घः । उतः उतवान् । वीतः वीतवान् । आहूतः आहूतवान् । ऊच्चैच् धौतः धौतवान् ॥ 

१८८३ शुष्पचः क्वम्| ||२५७ |

शुषः तयोस्तः को भवति पचो वः ॥ पक्वः पक्ववान् । भक्तः भक्तवान् । रक्तः रक्तवान् । जप्तेति निपातनात् । चायृञ् पूजायां च । अपचितः अपचितवान अपचायितः अपचायितवान् ॥ 

१८८४ जन्सन्खनाम् ।४/१/२६७ |

 जनादीनां क्ङिति जलादौ नस्य आद् भवति || खातः खातवान्दीदांसितः दीदांसितवान्गूढः गूढवान् । श्रितः श्रितवान् । हृतः हृतवान् । कुतः कृतवान् । नीतः नीतवान् ॥ 

॥अथादादिः ||

१८८५ जग्धदः प्ये च || |११८|

अदः तादौ किति प्ये च जग् भवति || जग्धः जग्धवान् । अदोऽनन्नादिति निपातनादन्नामित्यपि ॥

१८८६ वित्तं धनप्रतीतम् | || २६० |

 धनप्रतीतयोर्वित्तमिति निपात्यते ॥ वित्तः प्रख्यातः । वित्तं धनम् । अन्यत्र विदितः विदितवान् । हतः हतवान् । सृष्टः सृष्टवान् । उक्तः उक्तवान् । सुप्तः सुप्तवान् । प्राणितः प्राणितवान् । विश्वस्तः विश्वस्तवान् । विश्वसितः विश्वसितवान् । जागरितः जागरितवान् । दरिद्राणः दरिद्राणवान् । शिष्टः शिष्टवान् । उशितः उशितवा । कित्युगिति नेट् रुतः रुतवान् । इतः इतवान् यातः यातवान् ॥ 

१८८७ निर्वाणोवाते |||२५० |

अवाते कर्तरि निर्वाण इति निपात्यते || निर्वाणो मुनिः । बाते निर्वातोऽवातः । दातं बर्हिः । ख्यातः ख्यातवान् । मितः मितवान् । ईशितः ईशितवान् | आसितः आसितवान् । अध्यासितो ग्रामम् । इदमध्यासितं । वसितः वसितवान् । पृचै सम्पर्चने । संपृक्तः सम्पृक्तवान् । सूतः सूतवान । शक्तिः शयितवान् । अतिशयितो गुरुम् | अधीतः अतिवान् । द्विष्टः द्विष्टवान् । लीढः लीढवान् । उक्तः उक्तवान् || अथ ह्रादिः ॥ हुतः हुतवान् । हृतिः ह्रीतवान् । ह्रीण: हीणवान् । हीनः हीनवान् | हानः हानवान् । मितः मितवान् । भृतः भृतवान् दत्तः दत्तवान् ||

१८८८ श्तोऽच् उपसर्गात् | || ११३ |

अजन्तादुपसर्गात् घुसंज्ञकस्य दस्तादौ किति इतो भवति || अशावितौ शित्त्वात्सर्वस्य । आत्तः आत्तवान् ॥ 

१८८९ धाञो हिः || |११६ |

धाञस्तादौ किति हिर्भवति ॥ हितः हितवान् । निक्तः निक्तवान् ॥ अथ दिवादिः ॥ ऊच् । द्यूतः द्यूतवान् । स्यूतः स्यूतवान् नृतं नृतवान् | त्रस्तः लस्तवान् । क्षिप्तः क्षिप्तवान् । विद्धः विद्धवान् । पुष्टः पुष्टवान् । शुष्कः शुष्कवान् । तुष्टः तुष्टवान् । दुष्टः दुष्टवान् । आश्लिष्टः कन्यां देवदत्तः । आलिष्टा कन्या देवदत्तेन । आश्लिष्टवान् ॥ 

१८९० शकेः कर्मणि | || १५३ |

शकेः कर्मणि तस्येड्वा भवति ॥ शक्तः । शक्तिः कटः कर्तुं चैत्रेण । अन्यत्र शक्तः शक्तवान् । क्रुद्धः क्रुद्धवान् । क्षुधितः क्षुधितवान् । शुद्धः शुद्धवान् । सिद्धः सिद्धवान् । शान्तः शान्तवान् । अस्तः अस्तवान् । उचितः उचितवान् । भ्रष्टः भ्रष्टवा- न् । अनुपसर्गादिति निपातनात् परिकुशः परिकृशवान् । तृषितः तृषितवान् । रुष्टः रुष्टवान् । कुपितः कुपितवान् । लुभिताः केशाः । अन्यत्र लुब्धो देवदत्तेन । क्लिन्नः क्लिन्नवान् । रद्धः रद्धवान् । मुग्धः मुग्धवान् । मूढः मूढवान् । अनुजीर्णो वृषलीं वृषलः || 

१८९१ शो व्रते | || ११० |

शस्तादौ कितीड् भवति व्रतशब्दे उत्तरपदे || संशितव्रतः ॥ 

१८९२ छश्च वा | || १११।

शश्छश्च तादौ कितीड्वा भवति ॥ शितः शितवान् । शातः शातवान् । छितः छितवान् । छात: छातवान् । सितः सितवान् । दितः दितवान् । जातः जातवान् । दीप्तः दीप्तवान् । पूर्णः पूर्णवान् । जूर्णः जूर्णवान् । क्लिरी उपतापे । क्लिष्टः क्लिष्टवान् । क्लि शितः क्लिशितवान । पक्षः पन्नवान | विन्नः विन्नवान | खिन्नः खिन्नवान | 

मतः मतवान् । युक्तः युक्तवान् । सृष्टः सृष्टवान् । सूनः सूनवान् । दूनः दूनवान् । दीनः दीनवान् । मीनः मीनवान् । रीणः रीणवान् । लीनः लोनवान् | नद्वः नद्धवान् ॥ अथ स्वादिः || सुतः सुतवान् । स्तृतः स्तृतवान् । वृतः वृतवान् । धूतः धूतवान् । टुदु उपतापे ॥ 

१८९३ दुग्वोर्दीर्घश्च |४। | २५१

 दुगुभ्यां क्तयोस्तो नो भवति दीर्घश्च धातोरचः ॥ दूनः दूनवान् । श्रुतः श्रुतवान् । हितः हितवान् । रामः राषान् । प्रगरभे । पृष्टः पृष्टवान् । अन्यत्र घर्षितः धर्षितवान् । अष्टः अष्टवान् || अथ श्यादिः ॥ क्रीतः क्रीतवान् । गृहीतः गृहीतवान् । लूनः लूनवान् । धूनः धूनवान् । स्तर्णिः स्तीर्णवान् । शीर्णः शीर्णवान् । कीर्णः कीर्णवान् । अप्र इति वचनात् न नः । पूर्तः पूर्तवान् । चीर्णः चीर्णवान् । उदीर्णः उदीर्णवान् । गीर्णः गीर्णवान् । जीनः जीनवान् । ज्ञातः ज्ञातवान् । बद्धः बद्धवान् । मृदितः मृदितवान् || 

१८९४ क्तयोः ।४।२।१४२ ।

निष्कुषः क्तयोरिड् भवति ॥ निष्कुषित: निष्कुषितवान् । अशितः अशितवान् । मुषितः मुषितवान् ॥ अथ तुदादिः ॥ तुन्नः तुन्नवात् । भृष्टः भृष्टवान् । क्षि निवासगत्योः ॥ 

१८९५ क्षेरघ्ये | |१/२५२।

 क्षेः क्तयोः तो नो भवति धातोश्व दीर्घः न घ्यणाद्यर्थे भावे कर्मणि च ॥ क्षीणः क्षीणवान् । मृतः मृतवान् । आदृतः आहतवान् । पृष्टः पृष्टवान् । मग्नः ममवान् । रुग्णः रुग्णवान् । भुमः भुग्नवान् । स्पृष्टः स्पृष्टवान् । नुनः नुन्नवान् नुतः नुत्तवान् । वृक्णः वृक्णवान् | उज्झितः उज्झितवान् । लुभितः लुभितवान् । दृब्धः दृब्धबान् । इष्टः इष्टवान् । लिखितः लिखितवान् । स्फुरितः स्फुरितवान् । नूतः नूतवान् । गु पुरीषोत्सर्गे । गूनः गूनवान् । कूतः कृतवान् । गुरैङ् उद्य- मने । आगूर्णः आगूर्णवान् । जुष्टः जुष्टवान् । विद्मः विद्मवान् । लग्नः लग्नवान् । स्वक्तः स्वक्तवान् । रब्धः लब्धवान् । लब्धः लब्धवान् ॥ अथ तनादिः ॥ ततः ततवान् । सातः सातवान् । क्षतः क्षतवान् । धृतः घृतवान् । मतः मतवान् ॥ अथ रुधादिः ॥ रुद्धः रुद्धवान् । भिन्नः भिन्नवान् ॥ 

१८९६ भित्तं शकलम् |||२५९ |

 शकले खण्डे भित्तमित्ति निपात्यते ॥ छिन्नः छिन्नवान् । रिक्तः रिक्तवान् । क्षुण्णः क्षुण्णवान् । युक्तः युक्तवान् । इद्ध: इद्धवान् । वित्तः वित्तवान् । विन्नः विन्नवान् । शिष्टः शिष्टवान् । भग्नः भगवान् । भुक्तः भुक्तवान् || उन्दै क्लेदने । उत्तः उत्तवान् । उन्नः उन्नवान् | अक्तः अक्तवान् ॥ अथ चुरादिः ॥ णेरिकेति णिलुक् । चोरितः चोरितवान् । कथितः कथितवान् इत्यादि ॥ णिञन्तेभ्योऽप्येवम् ॥ 

१८९७ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञसा वा |४।| १०२ ।

एते ण्यन्ताः क्ते वा निपात्यन्ते ॥ दान्तः दमितः । शान्तः शमितः । पूर्णः पूरितः । दस्तः दासितः । स्पष्टः स्पासितः । छन्नः छादितः । ज्ञप्तः ज्ञापितः ज्ञापितः । शेषं सर्वे चुरादिवत् । भावितः भावितवान् | कारितः कारितवान् | आदितः आदितवानित्यादि || 

१८९८ वयःशक्तिशीले | | | २१९ |

 धातोः सति वर्तमानेऽर्थे शानो भवति वयःशक्तिशीलेषु गम्येषु || शित्त्वाच्छबादि । वयसि शिखण्डं वहमानः । शतौ द्विपमभिभवमानः । शीले वितरमाणः इत्यादि नेयम् ॥ 

१८९९ धारीङः शत्रकृच्छ्रे | ४/३/२२० |

धारीङ्भ्यां सति कर्तरि शतृ भवति अकृच्छ्रे अक्लेशे गम्ये ॥ व्याकरणं धारयन् । प्रवचनमधीयन् ॥ 

१९०० तु साधुधर्मशीलेषु |||२२२|

 धातोः सति तृप्रत्ययो भवति साधुधर्मशीलेषु || साधौ दानं कर्ता । धर्मे जिनमचिता । शीले हसिता इत्यादि नेयम् ॥ 

१९०१ भूवृतूवृधृभ्राजसहचररुचापत्रपालङ्कृञ्निरा- कृञ्प्रजनोत्पचोत्पतोत्पदोन्मदादिष्णुः |४।|२२३।

 भूवादिभ्यः सति इष्णुर्भवति साधुधर्मशीलेषु || भविष्णुः वर्तिष्णुः वर्धिष्णुः भ्राजिष्णुः सहिष्णुः चरिष्णुः रोचिष्णुः अपत्रपिष्णुः अलङ्करिष्णुः निराकरिष्णुः प्रजनिष्णुः उत्पचिष्णुः उत्पतिष्णुः उत्पदिष्णुः उन्मदिष्णुः || 

१९०२ भूजेः स्नुक् | | | २२४ |

भूजिभ्यां सति स्नुक् भवति साधुधर्मशीलेषु || कित्त्वान्नैङ् | भूष्णुः जिष्णुः || 

१९०३ ग्लास्थः स्नुः | | |२२५ |

 ग्लास्याभ्यां सति स्नुर्भवति साध्वादिषु || ग्लास्नुः स्थास्नुः || 

१९०४ गृधिधृषिक्षिप्त्रसः क्नुः |४।|२२६ ।

गृधादिभ्यः सति क्नुर्भवति साध्वादिषु ॥ क इत् । गृध्नुः धृष्णुः क्षिः त्रस्नुः ॥ 

१९०५ सन्भिक्षाशनस्विन्दिच्छादुः |४।|२२७|

सनन्तात् भिक्षादिभ्यश्च सत्युर्भवति साध्वादिषु ॥ बुभूषुः चिकीर्षुः भिक्षुः आशंसुः वेत्तीति विन्दुः निपातनान्नम् । इच्छुः || 

१९०६ शॄवन्दादारुः |४।|२२८|

शॄवन्दिभ्यां सत्यारुर्भवति साध्वादिषु || शरारुः वन्दारुः || 

१९०७ निद्रातन्द्राश्रद्धास्पृहिगृहिपतिशीङ्दयादालुः  | | २३०|

 निद्रादिभ्यः सत्यालुर्भवति साध्वादिषु ॥ निद्रालुः तन्द्रालुः श्रद्धालुः स्पृहयालुः गृहयालुः पतयालुः शयालुः दयालुः ॥ 

१९०८ भूवृषस्थाशॄहन्कम्गमादुकण् | ||२३३|

भूवादिभ्यः सत्युकण् भवति साध्वादिषु ॥ ण इत् । भावुकः वर्षुकः स्थायुकः शारुकः धातुकः कामुकः गामुकः ॥ 

१९०९ लषपत्पदः |४/३/२३४ |

लषादिभ्यः सत्युकण् भवति साध्वादिषु || लापुकः पातुकः पादुकः ॥ 

१९१० क्रुद्भूषार्थसृगृधज्वलजुशुभश्चानः | | |२३५|

क्रोधार्थात भूषार्थात् स्रादिभ्यो लषादिभ्यश्च सत्यनो भवति साध्वादिषु ॥ क्रोधनः कोपनः भूषणः मण्डनः सरणः गर्धनः ज्वलनः जवनः शोभनः लषण: पतनः पदनः ॥ 

१९११ हलायन्ताद् ङिदितः |४।|२३७|

 हलादिहलन्तादकर्मकात् ङितः इदितश्च सत्यनो भवति साध्वादिषु || वर्तनः स्पर्धनः मीमांसनः चेतनः । अविवक्षितकर्मकस्याकर्मकत्वम् || 

१९१२ यज्वद्दशजपादूकः | ||२४०|

 यङन्तेभ्यो यजादिभ्यरसत्यूको भवति साध्वादिषु || यायजूकः वावदूक दन्दशूकः जजपूकः ॥ 

१९१३ जागुः |||२४१ |

जागुः सत्यूको भवति साध्वादिषु ॥ जागरूकः ॥ 

१९१४ शमष्टकदुषद्विषहद्रुहयुजत्यजरजभजाभ्याह- नानुरुधो घिनञ् |४।| २४२ ।

शमष्टकाद्दुषादिभ्यश्च सति घिनञ् भवति साध्वादिषु ॥ अद्घञ इतः ॥ शमी दमी तमीश्रमी भ्रमी क्षमी मी मादी दोषी द्वेषी द्रोही दोही योगी त्यागी रागी भागी अभ्याघाती अनुरोधी || 

१९१५ समः पृच्सृजज्वरोऽकर्मकात् | | |२४४।

अकर्मकेभ्यः समः पृचादिभ्यस्सति घिनञ् भवति साध्वादिषु || सम्पर्की संसर्गी संज्वारी || 

१९१६ वौ विचकषकत्थस्रन्भलसः |४।|२४५॥

 वेर्विचादिभ्यः सति विनञ् भवति साध्वादिषु ॥ विवेकी विकाषी विकत्थी विस्रम्भी विलासी ॥ 

१९१७ लपोऽपे च || |२४||

अपविभ्यां लपः सति घिनञ् भवति साध्वादिषु || अपलापी विलापी ॥ 

१९१८ चरोऽतौ ||३। २४७ |

 अत्यपाभ्यां चरस्सति घिनञ् भवति साध्वादिषु ॥ अतिचारी अपचारी || 

१९१९ लप्सृद्रुमथवदवसः प्रे| | |२४८|

प्राल्लपादिभ्यः सति घिनञ् भवति साध्वादिषु || प्रलापी प्रसारी प्रद्राबी प्रमाथी प्रवादी प्रवासी || 

१९२० परेः सृवद्दहमुहः | | |२४९ |

 परेः स्रादिभ्यस्सति घिनञ् भवति साध्वादिषु || परिसारी परिवादी परिदाही परिमोही ॥ 

१९२९ क्षिपरटः |४।|२५१।

परेः क्षिपरटाभ्यां सति धिनन् भवति साध्वादिषु || परिक्षेपी परिराटी || 

१९२२ वादेश्च वुञ् |४/३/२५२ |

परेर्वादेः क्षिपरटाभ्यां च सति वुञ् भवति साध्वादिषु || परिवादकः परिक्षेपकः परिराटकः ॥ 

१९२३ निन्दहिंसक्लिशखादविनाशिव्याभाषासूयात् | | |२५३ |

निन्दादिभ्यस्सति वुञ भवति साध्वादिषु || निन्दकः हिंसकः क्लेशकः खादकः विनाशकः व्याभाषकः असूयकः  

१९२४ कुट्टिलुण्टिबृङ्जल्पिभिक्षादाकट् |४/३/२५५ |

 कुट्टादिभ्यः सत्याकट्प्रत्ययो भवति साध्वादिषु ॥ ट इत् । कुट्टाक: लुण्टाकः वराक: जल्पाकः भिक्षाकः । स्त्रियां कुट्टाकीत्यादि ॥ 

१९२५ वृक्षीण्वमज्यव्यथाभ्यम्परिभूविश्रेरिन् | ||२५६॥

 द्रादिभ्यस्सतीन् भवति साध्वादिषु || आदरी क्षयी उदयी वमी जयी अव्यथी अभ्यमी परिभवी विश्रयी ॥ 

१९२६ प्रात् सूजोः | | | २५७|

प्रात् सूजुभ्यां सतीन् भवति साध्वादिषु । प्रसवी प्रजवी ॥ 

१९२७ मरक् स्रद्घसः | | | २५८ |

स्रादिभ्यः सति मरक् भवति साध्वादिषु ॥ क इत् । सृमरः अक्षरः घस्मरः || 

१९२८ भञ्जभासमिदो घुरः | | | २५९ |

 भञ्जादिभ्यस्तति घुरो भवति साध्वादिषु ॥ 

१९२९ घुरकेलिमकृष्टपच्यं कर्मणि | | | ४६ |

घुरकेलिमौ प्रत्ययौ कृष्टपच्यश्च कर्मणि कर्तरि भवति ॥ भज्यते स्वयमेव भङ्गुरं वपुः । अत एव वचनाद्धातोः केलिमः पचेलिमः उद्भिदेकिम इत्यादि । भासादेः कर्तरि भासुरः मेदुरः || 

१९३० वेत्तिच्छिद्भिदः कित् | | |२६० |

विदादिभ्यः सति घुरो भवति साध्वादिषु स च कित् ॥ बहुलाधिकार त् कर्तर्यपि । विदुरः कर्मच्छिदुर: भिदुरः || 

१९३१ सर्तीण्नश्जेष्ट्वरप् | | | २६ १ |

सर्त्यादिभ्यः सति ट्वरप् मवति साध्वादिषु स च कित् ॥ टपावितौ । तक् । सृत्वरः इत्वरः नश्वरः जित्वरः । स्त्रियां सृत्वरी ॥ 

१३९२ गत्वरः |४/३/२६२ ।

 सति साध्वादिषु गत्वर इति निपात्यते ॥ 

१९३३ नंकम्यजस्कम्पस्मिहिंसदीपो रः |४।|२६३।

नमादिभ्यस्सति रो भवति साध्वादिषु || नम्रः कम्रः अजस्रं कम्प्रः स्मेरः हिंस्रः दीपः ॥ 

१९३४ स्वप्तृषिधृषो ङ्नज् | | |२६४ |

स्वपादिभ्यः सति नज् भवति साध्वादिषु ॥ ङ इत् । स्वप्नक् तृष्णक् धृष्णक् ॥ 

१९३५ भ्यःक्रुक्रुक्लुकाः |४।|२६५ |

बिभेतेस्सति क्रुक्रुकक्लुका भवन्ति साध्वादिषु ॥ क इत् । भीरुः भीरुकः भीलुकः ॥ 

१९३६ स्थेशभासपिसकसो वरः |४।|२६६ |

 स्थादिभ्यः सति वरो भवति साध्वादिषु || स्थावरः ईश्वरः भास्वरः पेस्वरः विकस्वरः ॥

१९३७ घायावरश्च |४/३/२६७।

सति साध्वादिषु यायावर इति निपात्यते ॥ 

१९३८ संविप्राद् भुवोऽनाम्न्युड् | ||२६८ |

चानुकृष्टत्वात् साधुधर्मशीलेष्विति निवृत्तम् । संविप्रेभ्यो भुवः उड् भवति न नाम्नि ॥ सम्भुः विभुः प्रभुः । नाम्नि | विभूरित्यादि । 

१९३९ मितद्र्वादयः || | | २६९ |

सति मितद्रु इत्यादयो निपात्यन्ते || मितद्रुः शम्भुः इत्यादयः शिष्टप्रयोगेषु लक्ष्याः || 

१९४० इत्र प्वो दैवते | | | १७० |

प्व इत्रो भवति दैवते कर्तरि ॥ पूयात् पवित्रो भगवान् मनो मे || 

१९४१ संज्ञर्षो करणे | | |२७१ ।

 पुवः करणे इत्रो भवति संज्ञायाम् ऋषौ चाभिधेये || पवित्रा नदी । पवित्रो जिनमुनिः ॥ 

१९४२ लूधूसूखनसहचरर्ते || |२७२ |

स्वादिभ्यः करणे इत्रो भवति || लूयते अनेनेति लवित्रम् । एवं धवित्रं सवित्रं स्वनित्रं सहित्रं चरित्रम् अरित्रम् ॥ 

१९४३ प्वो हलक्रोडमुखे त्रट् | | |२७६ |

 प्वस्त्रद् भवति हलमुखे क्रोडमुखे च करणे || ट इत् । अत्रवपुणादेरिति नेट् । पोत्रम् ॥ 

१९४४ दाब्नीनीशस्युज्युसिच्सिस्तुतुद्मिहनहदंशपतः ॥४ | |२७७ |

दाबादिभ्यः करणे त्रट् भवति || दात्रं नेत्रं शस्त्रं योक्तं योत्रं सेक्तं सेवं स्तोत्र तोत्रं मेडूः नी । दंष्ट्रा अजादित्वादाड् | पत्नम् ॥ 

१९४५ धात्री | ||२७८ |

 धेटो धाञश्च कर्मणि त्रुटि धात्रीति  निपात्यते || 

१९४६ मतिपूजार्थञीच्छील्यादिभ्यः क्तः |||२७९ |

इच्छार्थभ्यः ज्ञानार्थेभ्यः पूजार्थेभ्यः ञीद्भ्यः शील्यादिभ्यश्च सत्यर्थे क्तो भवति ॥ सतां मतः । सतामिष्टः । सतां ज्ञातः । सतां विदितः । सतां पूजितः । सतामंर्चितः । मिन्नः स्विन्नः इद्धः || 

शीलितो रक्षितः क्षान्तः आकृष्टो जुष्ट उद्यतः ।

संयतश्शयितस्तुष्टो रुष्टो रुषित आशितः ॥

क्रान्तोऽभिव्याहतो हृष्टो दृप्तस्रृप्तो मृतस्तथा । 

लिप्तस्स्निग्धश्च दयित इत्याद्याः सति लक्षिताः || 

 

१९४७ उणादयः || | २८० |

धातोः सत्यर्थे उणादयो बहुलं भवन्ति ॥ कारुः चायुः करण्डः वरण्ड इत्यादयः उणादिवृत्तौ ज्ञातव्याः  

१९४८ गम्यादिर्वर्त्स्यति | | ३। २८१|

वर्त्स्यति भविष्यति गम्यादयो निपात्यन्ते ॥ गमिष्यतीति गमी आगमी भावी प्रस्थायी प्रतिबोधी प्रयायी  

॥इति घ्यणादिपरिच्छेदः

१९४९ पद्रुजो घञ्| |||

पदिरुजिभ्यां कर्तरि घञ् भवति ॥ घञावितौ । पद्यत इति पादः । रुजतीति रोगः ॥ 

१९५० सुः स्थिरव्याधिमत्स्यबले ||४। |

स्थिरव्याधिमत्स्यबलेषु कर्तरि सर्तेर्धन् भवति || स्थिरे । चन्दनसारः वज्रसारः ॥ 

१९५१ घञ्युपसर्गस्य च || |८८ |

उपसर्गस्याचो घञन्ते परे बहुलं दीर्घो भवति || अतिसारः अतीसारः । मत्स्ये विसारः वीसारः । बले सारः ॥ 

१९५२ अकर्तरि |||||

 अकर्तरि कारके भावे च धातोर्घञ् भवति ॥ भवनं भावः । पचनं पाकः । श्रायः । एवं त्यागः । प्रास्यत इति मासः । दायः लाभः आहारः  

१९५३ घञि भावकरणे | ||२२७

 रजो नस्य भावकरणयोर्घञि लुग् भवति || रञ्जनं रज्यते अनेनेति वा रागः । अन्यत्र रज्यत इति रङ्गः ॥ 

१९५४ स्यदो जवे | ||२२८|

स्यन्दतेर्घञि जवे स्यद इति निपात्यते || अन्यत्र | स्यन्दः ॥ 

१९५५ प्रश्रथहिमश्रथैधावोदौद्मदशनम् | |१/२२९ ।

 एते घञद्यन्ता निपात्यन्ते ॥ श्रन्थेर्घञि प्रश्रथः । हिमश्रथः । इन्धेरेथः । अवादुन्देरवोदः । उन्देर्मनि ओद्म । दंशेरनटि दशनम् || 

१९५६ विश्रमो घञि| || २३४ |

 विश्रमो घञ्याद्वा भवति ॥ विश्रमः विश्रामः || 

१९५० नोद्यमोपरमः |||२३५ |

 उदो यम उपाद्रमश्च घञ्याद् न भवति || उद्यमः उपरमः । अन्यत्र नियामः विरामः । मजन्निति नात् । शमः जनः वधः । यमादेरात् । नाम: वामः कामः चामः प्रसादः प्रासादः अतिचारः अतीचारः ॥ 

१९५८ घञखे चोपसर्गात् |४/२/२०७।

 उपसर्गाल्लभो घञि खे ञ्यमि च नम् भवति || प्रलम्भः उपलम्भः । वाक्येति नान्नि कुत्वम् अर्घः निदाघः अवदाघः । अनाम्नि अर्हः निदाहः अवदाहः । अदो घस् घासः ||

१९५९ स्फुरस्फुलोर्घञि | ||२८२

 स्फुरत्फुलोर्धात्वोरचो घञ्याद् भवति || विस्फारः विस्फालः || 

१९६० इङः | |||

इङोऽकर्तरि घञ् भवति ॥ अध्यायः उपाध्यायः || 

१९६१ पूलूनीरोर्निरभ्यवोपसर्गे | || |

निसः प्वः अभेवर्ल्व अवान्नियः उपसर्गसामान्याद्रोश्चाकर्तरि घञ् भवति || निष्पावः अभिलाव: अवनायः विरावः संरावः ॥ 

१९६२ भूश्र्यदोऽच् ||| | |

 उपसर्गात् भूश्र्यदिभ्योऽकर्तरि अच् भवति ॥ च इत् । प्रभवः परिभवः विभवः प्रश्रयः परिश्रयः प्रघसः विघसः ॥ 

१९६३ नौ णश्चादः | |||

नेरदो णोऽच्च भवति || न्यादः निघसः ॥ 

१९६४ स्वन्नद्गत्क्वण्पठो वा | |||

 नेः स्वनादिभ्योऽकर्तरि अज् वा भवति ॥ पक्षे घञ् । निस्वनः निस्वानः । निगदः निगादः । निनदः निनादः । निकण: निकाणः । निपटः निपाठः || 

१९६५ यमः सन्निव्युपे | ||१०|

 सन्निव्युपेभ्यो यमोऽकर्तर्यज्वा भवति || संयमः संयामः । नियमः नियामः । वियमः वियामः ।उपयमः उपयामः || 

१९६६ क्वणो वैणे | ||११|

उपसर्गात् क्वणो वैणेऽर्थे अज्वा भवति || प्रकणः प्रकाणः || 

१९६७ घोः किः | ||१२|

घुसंज्ञादकर्तरि किर्भवति ॥ कित्त्वादातो लुक् | आदिः प्रधिः विधिः सन्धिः | असमत्वात् घञपि । आदायः ॥

१९६८ आप्यादाधारे ||||१३ |

 आप्याद् घोराधारे किर्भवति ॥ जलानि धीयन्तेऽस्मिन्निति जलधिः इषुधिः ॥ 

१९६९ य्वॄगंवश्वृरणदृग्रहोऽच् |||१४ |

इवर्णान्तादुवर्णान्ताहृदन्तात् गमादिभ्यश्च अकर्तर्यच् मवति || अयः प्रत्ययः नयः प्रणयः जयः प्रजवः आस्रवः लवः पवः दरः तरः गमः अधिगमः वशः वरः संवरः रणः आदरः ग्रहः प्रतिग्रहः || 

१९७० समुद्यजः पशौ | ||१५|

समुद्भ्यामजोऽकर्तर्यच् भवति पशुसम्बन्धे || समजः उदजः पशूनाम् । अन्येषां । समाजः उदाजः ॥ 

१९७१ प्रमदसम्मदौ हर्षे | ||१७ |

एतौ हर्षे अजन्तौ निपात्येते ॥ प्रमदः सम्मदः हर्ष इत्यर्थः । अन्यत प्रमादः सम्मादः ॥ 

१९७२ प्रघणप्रघाणौ कोष्टकांशे |||१९|

एतौ कोष्ठकांशे निपात्येते । प्रघणः प्रमाणः । अन्यत्र प्रघातः ॥ 

१९७३ घनोद्घनापघनोपघ्ननिघोद्घसङ्घामूर्त्यत्याधा- नाङ्गासन्ननिमितप्रशस्तगणाः | ||२०|

 घनादयो यथासङ्ख्यं मूर्त्यादिषु निपात्यन्ते || घनो मूर्तिः उदधनोऽत्याधानं तक्षणे आधारकाष्ठम् । अपघनोऽङ्गम् । उपन्नः आसनः । निधः निमितः परिणाहः । उषः प्रशस्तः । सङ्घो गणः । अन्यत्र उद्घातः अपघातः इत्यादि ॥ 

१९७४ ह्वो वश्चोभ्विन्यभ्युपे | ||२१|

विन्यभ्युपेभ्यो ह्वयते रच् भवति वा इत्यस्य च उश् || विहवः निहवः अभिहवः उपहवः | अन्यस्मात् संह्वायः ॥ 

१९७५ आङि युद्धे | ||२२|

आङो ह्वयतेरज् भवति बश्च उश् युद्धेर्थे || आहवः । अन्यत्र आह्वायः || 

१९७६ निपानमाहावः || | २३ |

निपाने आहाव इति निपात्यते || पश्वादीनां पानार्थो जलाधार आहावः ॥ 

१९७७ भावेऽनुपसर्गात् ।४।४। २४ |

अनुपसर्गात् ह्वेञो भावे अच् भवति वश्चोश् ॥ ह्वानं हवः ॥ 

१९७८ मद्व्यधजपः |४।| २५ |

अनुपसर्गेभ्यो मदादिभ्योऽकर्तर्यच् भवति || मदः व्यथः जपः । उपसर्गाद्धन् । उन्मादः अनुव्याधः । उपजापः || 

१९७९ क्वण्यंहस्स्वन्न्यो वा | || २६ |

अनुपसर्गेभ्योऽकर्तर्यज्वा भवति || क्वणः क्वाणः । यमः यामः हसः हासः । स्वनः स्वानः । नयः नायः । उपसर्गात् । प्रकाण: प्रयामः प्रहासः विष्वाणः प्रणयः ॥ 

१९८० आङि रुप्लोः | ||२७|

आङो रुप्लुभ्याम् अकर्तर्यज्या भवति ॥ आरवः आरावः आप्लवः आप्लावः । अन्यस्मात् । विरावः विप्लवः ॥

 १९८१ ग्रहोऽवे वर्षे | ||२८|

अवाद् ग्रहोऽज्वा भवति वर्षसम्बन्धे || अवग्रहः अवग्राहः । वर्षस्य विघात इत्यर्थः । अन्यत्र अवग्रहः ॥ 

१९८२ प्रे युग्यतुलासूत्रे | ||२९|

प्राद् ग्रहोऽकर्तर्यज्वा भवति युग्यसूत्रतुलासूत्रयोः ॥ प्रग्रहः प्रग्राहः । अन्यत्र | प्रग्रहः ॥ 

१९८३ वुर्वस्त्रे | ||३०|

प्रादृञोऽकर्तर्यज्वा भवति वस्त्रेऽर्थे ॥ प्रवरः प्रावारः वस्त्रविशेषः । अन्यत्र । प्रवरो मुनिः ॥ 

१९८४ उदि नीश्रिञः | ||११ |

उदो नीश्रिभ्यां अकर्तर्यज्वा भवति ॥ उन्नयः उन्नायः । उच्छ्रयः उच्छ्रायः ॥ 

१९८५ पूद्रुयौतेर्घञ् || |३२|

 उदः पूद्रुयौतिभ्योऽकर्तरि घञ् भवति || उत्पावः उद्दावः उद्यावः ॥ 

१९८६ ग्रहः || ||३३|

उदो ग्रहोऽकर्तरि घन् भवति ॥ उद्ग्राहः ॥

१९८७ समि मुष्टौ || | ३४ ।

 समो ग्रहोऽकर्तरि घञ् भवति मुष्टिविषयेऽर्थे || अहो मल्लस्य सङ्ग्राहः । मुष्टेर्दार्ढ्यमित्यर्थः । अन्यत्र सङ्ग्रहः ॥ १९८८ युद्रुदोः || | ३५ ।

समो युद्रुदुभ्योऽकर्तरि घञ् भवति संयावः संद्रावः सन्दावः ॥ 

१९८९ स्तोर्यज्ञे || | ३६ |

समस्स्तोर कर्तरि घञ् भवति यज्ञविषये ॥ संस्तावो यागभूमिः । अन्यत्र संस्तवः ॥ 

१९९० दुस्तुस्नोः | ||१०|

प्राद्दुस्तुस्रुभ्योऽकर्तरि घञ् भवति ॥ मद्भावः प्रस्तावः । प्रस्रावः || 

१९९१ स्त्रोऽयज्ञे | ||११|

प्रात् स्तॄञोऽकर्तरि घञ् मवति न यज्ञविषये || नयप्रस्तारः विगानप्रस्तारः । यज्ञे शान्तिप्रस्तरः || 

१९९२ वौ प्रथनेऽशब्दे |४।४।४२।

वेः स्तॄञोऽकर्तरि प्रथन विशालत्वे घञ् भवति न शब्दविषये ॥ विस्तारः षटस्य | विस्तरः प्रवचनस्य || 

१९९३ क्षुभोः || ||४३|

वेः क्षुश्रभ्यां अकर्तरि घञ् भवति ॥ विक्षावः विश्रावः ॥ 

|| 

१९९४ व्युपे शीङः क्रमे |||४४ |

व्युपाभ्यां शीङोऽकर्तरि घञ् भवति || क्रमविषये ॥ विशायः उपशायः क्रमप्राप्तं शयनम् । अन्यत्र विशयः उपशयः || 

१९९५ हस्तादेयेऽस्तेयेऽनुदश्चेः |४।४।४५ |

अनुदश्चिञोऽकर्तरि घञ् भवति हस्तादेयविषये न स्तेये ॥ पुष्पप्रचायः क्रियते वधूभिः । स्तेये पुष्पप्रचयः क्रियते चोरेण । उदः पुष्पोच्चयः ॥ 

१९.६ चित्युपसमाधानावासदेहे कश्वादेः |||१६

चित्यादिविषयेऽर्थे चिञोऽकर्तरि घञ् भवति आदेश्वस्य कश्च ॥ चितौ आकायः । उपसमाधाने गोमयनिकाय: । आवासे सुनिनिकायः । देहे कायः ॥ अन्यत्र चयः ॥ 

१९९७ सङ्घेऽनुपरौ | ||१७|

सङ्घेऽर्थे चिञोऽकर्तरि घञ् भवति आदेश्च कःनापरिभावे || देवाश्चतुर्निकायाः । उपरिभावे सूकरनिचयः ॥ 

१९९८ माने | ||१८|

माने सङ्ख्यापरिमाणयोरकर्तरि घञ् भवति ॥ एको निघासः । द्वौ निघासौ । तण्डुलसंग्राह इत्यादि || 

१९९९ न्युदि ग्रः || | ४९ |

न्युद्च्यां गिरतेरकर्तरि घञ् भवति || निगार : उद्गारः । न्युदीति किं । गरः सङ्गरः || 

२००० क्रो धान्ये || |५० |

 न्युद्भ्यां किरतेरकर्तरि घञ् भवति धान्यविषये || निकारस्तण्डुलानामुत्कारः राशिरित्यर्थः । अन्यत्र फलानां निकरः । गुणोत्करैः । करैः ॥ 

२००१ नौ वुः | ||११|

नेर्वृञोऽकर्तरि घञ् भवति धान्ये ॥ नीवारः । अन्यत्र निवरः || 

२००२ ईणोऽभ्रेषे ||४/५ ।२ |

 नेरिणोऽकर्तरि घञ् भवति न भ्रैषे || न्यायः । भ्रेषे न्ययो नाशः ॥ 

२००३ परौ क्रमे || |५३ |

 परोरिणोऽकर्तरि घञ् भवति क्रमेऽर्थे । पर्यायः ऋतूनाम् | अन्यत्र पर्ययः ॥ 

२००४ भ्वोऽवज्ञाने वा । ४/४/५५ |

 परेर्भुवोऽकर्तरि घञ् वा भवत्यवज्ञाने || परीभावः परिभावः । अवज्ञाने असति । परितो भवः परिभवः || 

२००५ स्थादिभ्यः कः || |५६ |

 स्थादिभ्योऽकर्तरि को भवति || सन्तिष्ठतेऽस्यामिति संस्था । एवं व्यवस्था प्रपिबन्त्यस्यामिति प्रपा । विहन्यते अनेन अस्मिन्निति वा विघ्नः । आयुध्यते अनेन इत्यायुधम् इत्यादयः प्रयोगगम्याः । बहुलाधिकारात् विघात इत्याद्यपि || 

२००६ टुड्वितोऽछुक्त्री ।४||५७ |

ट्वितोऽधातोरकर्तरि अथुर्भवति ड्वितः क्त्रिः॥ क इत् । वेपथुः श्वयथुः स्फूर्जथुः नन्दथुः भरथुः वमथुः ॥ 

२००७ क्त्रिरिमे |३।२|२०

 क्त्रिरिमपर एव प्रयोज्यः ॥ पाकेन निर्वृत्तं पक्त्रिमम् | उप्त्रिमिं कृत्रिमं विहित्रिमं याचित्रिमं भृत्रिमं दत्रिमं मक्त्रिमं ॥ 

२००८ यज्यत्प्रच्छस्वब्रक्षो मः | ||१८ |

यजादिभ्यो ऽकर्तरि नो भवति || यज्ञः यत्नः छस्य शः । प्रश्नः स्वप्नः रक्षणः ॥ 

२००९ विच्छेर्नङ् | ||५९ |

 विच्छेरकर्तरि नङ् भवति ॥ विश्नः ॥

 २०१० व्याप्तौभावेऽन ञिन् ।४।४।६०।

धातोर्भावे अनो ञिन् च भवतः व्याप्तौ गम्यमानायाम् ॥ 

२०११ ञञिनोऽण् | | | १३९ |

ञान्तात् ञिनन्ताच्च स्वार्थे अण् भवति ॥ सङ्कुटनं साङ्कोटिनमेषां । संरवणं सांराविणं सेनायाः ॥ 

२०१२ स्त्रियां क्तिन् ४/४/६१|

धातोरकर्तरि स्त्रीलिङ्गे क्तिन् भवतिकनावितौ ॥ 

२०१३ तेर्ग्रहादिभ्यः | || १३५ |

 ग्रहादिभ्य एव क्तेरिड् भवति || इति नियमादन्येभ्यो न भवति । हत्तिः यत्तिः । पचुङ् व्यक्तीकरणे । पङ्क्तिः भ्राष्टिः गुप्तिः || 

२०१४ लभादिभ्यः | | | ६२ |

लभादिभ्योऽकर्तरि क्तिन् भवति ॥ लब्धिः क्षान्तिः कान्तिः । यलुक् । ऊतिः पूतिः तातिः स्रस्तिः ऊढिः गादिः स्मितिः कृतिः च्युतिः धृतिः मितिः दत्तिः प्यातिः मित्तिः स्वित्तिः क्षुब्धिः अष्टिः ध्वस्तिः वृद्धिः स्यत्तिः क्लप्तिः तूर्तिः जूर्तिः स्मृतिः । ऋत्वादेरिति तस्य नः । दीर्णिः मात्तः राष्टिः रतिः बुद्धिः । ग्रहादित्वादिट् । निपतितिः वान्तिः सत्तिः कृष्टिः । ग्रहादित्वादिट् । निकुचितिः रूढिः भूति: सुतिः द्रुतिः जितिः श्रीतिः पीतिः प्रातिः स्थितिः । लभादित्वात् व्यवस्थितिः दातिः || 

२०१५ ग्लाज्याहो निः | ||७४ |

 ग्लादिभ्योऽकर्तरि स्त्रियां निर्भवति || ग्लानिः ज्यानिः गीतिः घ्यातिः सृतिः ऋतिः तीणिः चित्तिः । ग्रहादित्वादिट् । अर्चितिः । छलुक् । हूर्तिः मूर्तिः स्फूर्तिः सक्तिः । ग्रहादि – त्वादिट् । निपठितिः तप्तिः जप्तिः यब्धिः गतिः सृप्तिः भणितिः कान्तिः नतिः यतिः आचान्तिः भ्रान्ति फुल्तिः क्ष्यूतिः ष्ठ्यूतिः ऊतिः वृष्टिः पुष्टिः हृष्टिः प्रष्टिः पृष्टिः दृष्टिः दृष्टिः शस्तिः दग्धिः शूतिः उषितिः उदितिः ईष्टिः उप्तिः ऊढिः उतिः वीतिः हूतिः धौतिः पक्तिः भक्तिः ॥ 

२०१६ क्तिन्यपचाय: | ||२४३ |

 अपाच्चाय उपान्त्यस्य क्तिनीद् भवति || यलुक् । अपचितिः । न आत् । खातिः माढिः गूढिः श्रितिः हृतिः भृतिः कृतिः नीतिः ॥ अदादिः ॥ जग्धिः वितिः सृष्टिः उक्तिः सुप्तिः उष्टिक रुतिः इतिः ख्यातिः मितिः ईर्तिः आशास्तिः (शिष्टिः ) पृक्ति: सूतिः शीतिः अधीतिः न्हुतिः द्विष्टिः ॥ 

ह्वादिः || हुतिः भीतिः हानिः मितिः दत्तिः हितिः निक्तिः ॥ दिवादिः। द्यूतिः स्यूतिः नृत्तिः क्षिप्तिः विद्धिः शुष्टिः दुष्टिः श्लिष्टिः शक्तिः शुद्धिः सिद्धिः शान्तिः दान्तिः श्रान्तिः क्लान्तिः भ्रष्टिः कृष्टिः रुष्टिः लुब्धिः ऋद्धिः गृद्धिः रद्धिः नष्टिः तृप्तिः दृसिः मुग्धिः सूढिः जीर्णिः शितिः शांतिः छितिः छातिः सितिः दितिः जातिः दीप्तिः पूर्तिः किष्टिः पति: वित्तिः युक्ति: सृष्टिः प्रीतिः नद्धिः शतिः ॥ 

स्वादिः ॥ सुतिः विस्तृतिः वृत्तिः घूतिः दुतिः श्रुतिः प्रहितिः आप्तिः राद्धिः साद्धिः धृष्टिः || क्यादिः ॥ क्रीतिः गृहीतिः । तो नः लुनिः धूनिः स्तीर्णिः कीर्णिः वर्णिः शीर्णिः मूर्णिः पूर्तिः चीणिः ईर्णिः गोर्णिः ज्यानिः लीनिः ज्ञातिः अष्टिः वृत्तिः ॥ तुदादिः ॥ तुतिः दिष्टि: लितिः सिक्तिः मुक्तिः लुतिः कृत्तिः क्षितिः मृतिः धृतिः पृष्टिः मक्तिः स्पृष्टिः सृष्टिः दृब्धिः इष्टिः मूर्तिः पृतिः जुष्टिः स्वक्तिः रब्धिः लब्धिः || तनादिः || ततिः सातिः क्षतिः मतिः ॥ रुधादिः ॥ रुद्धिः छित्तिः इद्धिः शिष्टिः पिष्टिः भक्तिः भुक्तिः अक्तिः || ण्यन्तात् || पाक्तिः याष्टिः इत्यादि शिष्टप्रयोगानुसारेण ज्ञातव्यम् || 

२०१७ स्व्रिष्यजस्तोः करणे | ||६३ |

स्व्रादिभ्यः करणे स्त्रियां क्तिन् भवति || अनटोऽपवादः । स्रवन्त्यनयेति स्रुतिः । इच्छन्ति यजन्ति वा अनयेति इष्टिः । स्तुवन्त्यनयेति स्तुतिः ॥ 

२०१८ गापापचो भावे | ||६४ |

 गादिभ्यो भावे स्त्रियां क्तिन् भवति || अङोऽपवादः । सङ्गीतिः प्रपीतिः पक्तिः || 

२०१९ स्थो वा ||४/६५ |

स्थो भावे स्त्रियां क्तिन् भवति वा ॥ व्यवस्थितिः । पक्षे अङ् । व्यवस्था || 

२०२० व्यतिहारे ञः| ||६६ |

 व्यतिहारे भावे धातोः स्त्रियां ञो वा भवति ॥ व्याकोशी व्याकुष्टिर्वर्तते । व्यावलेपी व्यावलिप्तिः ॥ 

२०२१ ण्युक्षः |||६७।

 ण्यन्तादुक्षश्च व्यतिहारे भावे स्त्रियां ञो वा भवति || व्यातिचोरी व्यातिचर्ची व्यात्युक्षी ॥ 

२०२२ व्रज्यजः क्यप् | ||१८|

व्रज्यजिभ्यां भावे स्त्रियां क्यप् भवति || व्रज्या इज्या || 

२०२३ कृञः शक्तिन् च | |||

कृञोऽकर्तरि स्त्रियां शः क्तिन् क्यप् च भवति ॥ क्रिया कृतिः कृत्या ॥ 

२०२४ सम्पदादिभ्यः क्तिन्क्विप् | | | ७२ |

सम्पदादिभ्योऽकर्तरि स्त्रियां क्तिन्क्विपौ भवतः ॥ संपत्तिः विपत्तिः आपत्तिः प्रपत्तिः संवित्तिः । किप् । सम्पत् विपत् आपत् प्रतिपत् आशीः । आङश्शासूङ् इच्छायाम् । शासᳲ क्ङिति इतीत् | संवित् परिषत् ।

२०२५ यूतिजतिसातिहेतिकिर्त्यटाट्यामृगयेच्छायाच्ञा- कृपाः || |७३ |

यूत्यादयः स्त्रियामकर्तरि निपात्यन्ते ॥ यूतिः जूतिः सातिः हेतिः कीर्तिः आटाट्या मृगया इच्छा याच्ञा कृपा || 

२०२६ णिवेत्त्यासश्रन्थघट्टवन्दो नः |४।४/७५ |

 ण्यन्तेभ्योऽवेत्त्यादिभ्यश्च स्त्रियामकर्तरि अनो भवति || एधना भावना पाचना कारणा हापना चोरणा लक्षणा योजना वेदना आसना श्रन्थना घट्टना वन्दना || 

२०२७ सृचरो यः | ||७८ |

परेः सृचरिभ्यां स्त्रियामकर्तरि यो भवति || परिसर्या परिचर्या ॥ 

२०२८ जागुरश्च |||७९ |

जागर्तेरकर्तरि नियामद् भवति यश्व || जागरा जागर्या ॥ 

२०२९ प्रत्ययात् ||||८०|

प्रत्ययान्तात् स्त्रियामकर्तरि अद् भवति ॥ गोपाया चिकित्सा तितिक्षा चिकीर्षा कण्डूया लोलूया पुत्रीया पुत्रकाम्या ॥ 

२०३० गुरोर्हलः ||||८१

 गुरुमतो हलन्ताद्धातोस्कर्तरि स्त्रियामद् भवति ॥ स्पर्द्धा बाधा ईक्षा भिक्षा ईहा चेष्टा ईडा सेवा इत्यादय: ।

२०३१ षिच्चिन्तिपूजिकथिकुम्भिचर्च्यन्तर्धोऽङ् | ४। |४८२ |

षितश्चिन्त्यादिभ्यश्च स्त्रियामकर्तरि अङ् भवति ॥ ङ इत् । घटा व्यथा प्रथा म्रदा त्वरा । ऋदृशोऽरित्पर । जरा शिया चिन्ता पूजा कथा कुम्भा चर्च्चा अन्तर्धा || लिङ्गान्तरे प्रत्ययान्तरमपि । चर्च: अन्तधिरित्यादि ॥ 

२०३२ उपसर्गादातः || ||८३ |

 उपसर्गादादन्तत् धातोः त्रियामकर्तरि अङ् भवति || प्रज्ञा प्रदा उपधा । 

२०३३ भिदादयः क्वचित् | | | ८४ |

 भिदादयः स्त्रियामकर्तीर निपात्यन्ते क्वचिदर्थविशेषे || भिदा विदा खिदा छिदा आरा धारा द्वारा गुहा इत्यादयः प्रयोगगम्याः || 

२०३४ संज्ञाभावे ण्वु |||८५ |

धातोरकर्तरि संज्ञायां भावे त्रियां ण्वुर्भवति ॥ प्रच्छर्दिका प्रवाहिका प्रस्कन्दिता बिचर्चिका एवंनामानो व्याधयः । भावे । आसिका शायिका इत्यादि ॥ 

२०३५ प्रश्नाख्याने वेञ्च | ||८६|

प्रश्ने प्रतिवचने च धातोरकर्तरि स्त्रियामिञ् ण्वुश्च वा भवतः ॥ पक्षे यथा प्राप्तं च । कां कारी कां कारिकां कां क्रियां कां कृतिं कां कृत्यां वा अकार्षीः । सर्वाः कारीः कारिकाः क्रियाः कृतीः कृत्याः अकार्षम् । एवं पाठी पाठिका पठितिः पाचो पाचिका पक्तिः गणी गणिका गणना इत्यादि ॥ 

२०३६ पर्यायोतपत्त्यर्हर्णे ण्वुः| ||८७ |

धातोरकर्तरि स्त्रियां ण्वुर्भवति पर्यायादौ || भवतः आसिका । भवतः शायिका । भवतो गामिका आसनादिपर्याय इत्यर्थः । घृतभोजिका उदपादि । गोपालिकामर्हति भवान् । इक्षुभक्षिकां धारयसि || 

२०३७ नञोऽनिः शापे | ||८८ |

 नञो धातोरकर्तरि स्त्रियामनिर्भवति शापे || अगमनिस्ते वृषल भूयात् इत्यादि || 

२०३८ नब्भावे क्तोऽभ्यादिभ्यः | ||८९ |

धातोर्नपुंसके भावे क्तो भवति न भ्यादिभ्यः ॥ हसितं जल्पितं शयितम् आसितं नृत्तं स्फुरितं भाषितम् इत्यादि । भ्यादिभ्यः । भयं वर्षमित्यादि ॥ 

२०३९ करणाधारे चानट् | ||१०|

करणे आधारे नब्भावे च धातोरनड् भवति न भ्यादिभ्यः ॥ ट इत् । विचयनी हध्मव्रश्चनः फलशातनः श्मश्रुकर्तनः । आधारे शयनम् अधिकरणं गोदोहनी तिलपीडनी राजधानी दशनं । प्रश्रथेति नलुक् । नब्भावे भवनं हसनं जल्पनं शयनं कथनं तक्षणमित्यादि । निष्ठीवनं निष्ठेवनं सीवनं सेवनम् इति बहुलाधिकारात् ॥ 

२०४० पुन्नाम्नि घः प्रायः | ||११|

पुन्नाम्नि पुल्लिङ्गे नम्नि करणाधारयोर्धातोर्घो भवति ॥ 

२०४१ घेऽद्व्याद्युपसर्गस्य ||| २१० |

एकोपसर्गस्य छदेरुपान्त्यस्य घपरे णौ ह्रस्वो भवति ॥ प्रच्छाद्यते अनेनेति प्रच्छदः उरश्छदः दन्तच्छदः सितच्छदः प्लवः करः । अधिकरणे । आलीयते अस्मिन्नित्या लय: आकरः प्रायोग्रहणादनडादिरपि ॥ 

२०४२ गोचरसञ्चरकषनिकषखलभगवहव्रजव्यजाप- णनिगमम् ||||१२|

गोचरादयः करणाधारयोः पुन्नाम्नि घान्ता निपात्यन्ते ॥ गावश्चरन्त्यस्मिन् इति गोचरः सञ्चरः कषः निकषः खलः भगः वहः व्रजः व्यजः आपणः निगमः ॥ 

२०४३ हलो घञ् |||९३ |

 हलन्तात् पुन्नानि करणाधारयोर्घञ् भवति || लेखः वेष्टः बन्धः वेगः अपामार्गः मार्गः आरामः प्रासादः ॥ 

२०४४ तॄस्त्रोऽवात् | ||१४|

अवात् तॄस्तॄञ्भ्यां पुन्नाम्नि करणाधारयोर्घञ् भवति || अवतारः अवस्तारः || 

२०४५ समश्च हृञः | ||१५|

 समवाम्यां हनः पुन्नाम्नि करणा- धारयोर्घञ् भवति || संहारः अवहारः ॥ 

२०४६ 

जारदाराध्यायन्यायोद्यावानायाधारावायाः 

|||९६

जारादयः पुन्नाम्नि घञन्ता निपात्यन्ते || जारः दाराः अध्यायः न्याय: उद्यावः आनायः आवारः आवायः ॥ 

२०४७ दुस्स्वीषतः कृच्छ्राकृच्छ्रे खः | ||१९ |

कृच्छ्रे दुःखे दुसः अकृच्छ्रे स्वीषद्भ्यां च धातोः खो भवति ॥ स च सकर्मकात् कर्मणि अकर्मकाद् भावे ॥ ख इत् । दुःखेन भूयते अनेन दुर्भवं । सुखेन भूयतेऽनेन सुभवम् । ईषद्भवम् । एवं दुश्शयं सुशयम् ईषच्छयं । दुःखेन क्रियते दुष्करः । सुखेन क्रियते सुकरः ईषत्करः एवं दुर्बोधः सुबोधः इषद्बोधः दुर्लभः सुलभ ईषल्लभः इत्यादि सर्वत्र योज्यं ॥ 

२०४८ च्वौ कर्त्राप्याद् भूकृञः |||१००।

कृच्छ्राकृच्छ्रयोर्दुस्स्वीषद्भः पराभ्यां च्यर्थे वर्तमानाभ्यां कर्तृकर्मभ्यां परात् भुवः कृञश्व खो भवति ॥ खित्वात् मम् | दुःखेनानाढ्येनाढ्येन भूयते दुराढ्यंभवं देवदत्तेन । एवं स्वाढ्यंभवम् ईषदाढ्यंभवं । दुखेनानाढ्यः आढ्यः क्रियते दुराढ्यंकरः स्वाढ्यंकरः ईषदाढ्यंकरः ॥ 

२०४९ आतोऽनः | ||१०१ |

कृच्छ्राकृच्छ्रयोर्दुस्स्वीषद्भ्यः आदन्तात् धातोरनो भवति || खापवादः । दुर्ज्ञानं सुज्ञानं ईषज्ज्ञानम् इत्यादि ॥ 

२०५० शास्युधिदृशिधृषिमृषः । ४।४।१०२

 कृच्छ्राकृच्छ्रयो दुस्स्वीषद्भ्यः शासादिभ्योऽनो भवति || दुःशासनः सुशासनः ईषच्छासनः दुर्योधनः सुयोधनः ईषद्योधनः दुर्दर्शनः सुदर्शन: ईषदर्शन: दुर्धर्षण: सुधर्ष- णः ईषदर्पणः दुर्मर्षणः सुमर्षणः ईषन्मर्षणः । योगविभागात् खोऽपि । दुर्द्धर्ष इत्यादि । 

२०५१ निषेधेऽलंखलौ क्वा ।४।४|१४१|

अलमि खलौ चोपपदे धातोः क्त्वा वा भवति निषेधे ॥ क इत् । तस्वदित्यव्ययत्वम् । अलं कृत्वा । खलु कृत्वा । पक्षे | अलं करणेन । अनिषेधे । अलङ्कारः इत्यादि ॥ 

२०५२ परावरे |||१४२ |

परावरत्ये गम्ये धातोः क्त्वः प्यो वा भवति ॥ 

२०५६ क्त्वोऽनयः पयः | || १७१।

 समासान्तस्य क्त्वः प्यो भवति न नञः ॥ प इत् । पर्वतमतिक्रम्य नदी । नदीममत्वा पर्वतः ॥ 

२०५४ प्राक्काले | ||१४४ |

अपरकालेन धातुनैककर्तृकात् प्रक्काले वर्तमानात् धातोᳲक्त्वा भवति ॥ भोजनं पूर्वं पश्चाद्व्रजनं । भुक्त्वा व्रजति । एधित्वा वन्दित्वा । यौ हलादेरिति वा कित्त्वं । मुदित्वा मोदित्वा हत्त्वा तितिक्षित्वा तिजित्वा तेजित्वा त्रपित्वा त्रप्त्वा मीमांसित्वा पनायित्वा पनित्वा क्षमित्वा । क्विजलीति दीर्घः । क्षान्त्वा कामयित्वा ॥ 

२०५५ त्व्यूदितः |४/२/१६१ |

ऊदितो धातोः क्त्वाया इड्वा भवति ॥ कामत्वा कान्त्वा क्नूयित्वा गाहित्वा गाढ्वा स्मित्वा च्युत्वा घृत्वा मित्वा दत्त्वा पवित्वा पूत्वा डयित्वा मेदित्वा स्वेदित्वा समभित्वा सब्ध्वा संसित्वा वस्त्वा भ्रंशित्वा भ्रष्ट्वा ध्वंसित्वा ध्वस्त्वा ॥ 

२०५६ त्कि |||१५६|

 धातोरिडादौ क्त्वायां किद्वन्न भवति ॥ वर्तित्वा वृत्त्वा स्यन्दित्वा ॥ 

२०५७ स्कन्दस्यन्दः |||१५७।

स्कन्दस्यन्दोः क्त्वायां किद्वन्न भवति ॥ स्यन्त्वा कल्पित्वा क्ऌपत्वा स्मृत्वा । कित्युगिति नेट् । दीर्त्वा सोढ्वा सहित्वा रत्वा बुध्वा पतित्वा वमित्वा वान्त्वा सत्त्वा शत्वा रूवा भूत्वा जित्वा धीत्वा पत्विा धात्वा ध्यात्वा स्थित्वा दात्वा ग्लात्वा मीत्वा ध्यात्वा तीर्त्वा चिकित्सित्वा सेधित्वा सिधित्वा सिध्वा कन्या अचित्वा अत्का | लुञ्च अपनये | 

२०५८ थफवञ्चिलुञ्च्यृतितृषिमृषिकृश इटि |||१५१।

नोपान्त्ययोस्थफान्त्ययोर्वञ्च्यादीनां च इडादौ त्कायां किद्वद्वा भवति ॥ लुचित्वा लुञ्चित्वा लोचित्वा वक्त्वा त्यक्त्वा || 

२०५९ नशजस्ति त्वि न्युपान्त्ये || | १५० |

नशः नोपात्यस्य च जान्तस्य तादौ क्तायां किद्वद्वा भवति ॥ सङ्क्त्वा सक्त्वा गोपायित्वा गुपित्वा गुप्त्वा गोपित्वा गत्वा नत्वा यत्वा क्रमित्वा ॥ 

२०६० क्रमस्त्वि | ||१४० |

क्रमो जलादौ क्त्वायामचो दीर्घो वा भवति || क्रान्त्वा क्रन्त्वा भ्रमित्वा भ्रान्त्वा शसित्वा शस्त्वा । मृषू सहने । मृषित्वा मर्षित्वा मृष्ट्वा कृष्ट्वा प्लुषित्वा प्लोषित्वा पृष्ट्वा दृष्ट्रा दष्ट्रा शांसित्वा शस्त्वा दग्ध्वा । इटि क्त्वात्यकित्त्वान्नेक् । श्वयित्वा । क्तत्क्वामितीट् ॥ 

२०६१मृड्मृद्गुदकुषक्लिश्वद्वसः । ४ १। ११५|

 मृडादीनामिडादौ क्त्वायां किद्विद् भवति ॥ उषित्वा उदित्वा इष्ट्वा उपत्वा ऊढ्वा उत्वा वीत्वा हूत्वा धावित्वा धौत्वा पक्त्वा भक्त्वा रक्त्वा रङ्क्त्वा खनित्वा खात्वा शप्त्वा गूहित्वा गूढ्वा श्रित्वा हृत्वा नीत्वा ॥ अथादादिः || जग्ध्वा विदित्वा हत्वा भूत्वा मार्जित्वा मृष्ट्वा उत्का रुदित्वा सुप्त्वा जागरित्वा दरिद्रित्वा शासित्वा शिष्ट्वा वशित्वा रुत्वा इत्वा यात्वा मित्वा ईशित्वा सूत्वा शयित्वा द्विष्ट्वा ऊर्णुत्वा स्तुत्वा उत्क्वा || अथ ह्वादिः || 

२०६२ हाकास्त्वि |४।२/११७|

हाकस्तादौ क्त्वायां हिभवति ॥ हित्वा मित्वा भृत्वा दत्त्वा हित्वा नित्का | अथ दिवादिः || देवित्वा | ऊच् । द्यूत्वा नर्तित्वा क्षिप्त्वा विध्वा पुष्ट्वा क्षुधित्वा क्षोधित्वा शुद्ध्वा शमित्वा शान्त्वा असित्वा अस्त्वा भ्राशत्वा भ्रष्ट्वा तृषित्वा तर्षित्वा रुषित्वा रोषित्वा रुष्ट्वा विदित्वा क्लेदित्वा क्लित्त्वा गर्धित्वा गृद्ध्वा रराधित्वा रध्वा नशित्वा नष्ट्रा नष्ट्वा दुहित्वा द्रोहित्वा दुग्ध्वा द्रूढ्वा || 

२०६३ जॄवृश्चस्त्वि | || १५७।

 जॄवृश्विभ्यां क्त्वायाम् इड् नित्यं भावते ॥ जरित्वा जरीत्या शित्वा शात्वा छित्वा छात्वा सित्वा दित्वा जनित्वा जात्वा क्लिशित्वा क्लेशित्वा क्लिष्ट्वा युध्वा मत्वा सृष्ट्वा सूत्वा लीत्वा नध्वा ॥ अथ स्वादिः ॥ सुत्वा वृत्वा दुत्वा दूत्वा श्रुत्वा आप्त्वा दम्भिस्वा दब्ध्वा अशित्वा अष्ट्वा || अथ क्र्यादिः । क्रीत्वा गृहीत्वा पूत्वा पूर्त्वा ईर्त्वा जीत्वा ज्ञात्वा बध्वा । किद्वत्त्वे नलुक् । श्रथित्वा श्रन्थित्वा मथित्वा मन्थित्वा प्रथित्वा ग्रन्थित्वा मृदित्वा मृडित्वा कुषित्वा क्षुभित्वा क्षोमिला क्लिशित्वा क्लिष्ट्वा अशित्वा मुषित्वा ॥ अथ तुदादिः ॥ तुत्त्वा भृष्ट्वा लिप्त्वा सिक्त्वा मुक्त्वा खुप्त्वा कर्तित्वा क्षित्वा मृत्वा कीवी हत्वा पृष्ट्वा मक्त्वा मका रुक्त्वा भुक्त्वा स्पृष्ट्वा मृष्ट्वा विष्ट्वा नुत्वा वश्चित्व, उज्झित्वा लुभित्वा लोभित्वा । गुफ गुम्फ ग्रन्थने । गुफित्वा गोफित्वा गुम्- फित्वा इषित्वा एषित्वा इष्ट्वा कुटित्वा गुरित्वा विजित्वा स्वक्त्वा स्वङ्क्त्वा रब्ध्वा लब्ध्वा || अथ तनादिः । तनित्वा तत्वा सनित्वा सात्वा क्षणित्वा क्षात्वा मनित्वा मत्वा || अथ रुधादिः । रुद्ध्वा भित्त्वा युक्त्वा इन्धित्वा पिष्ट्वा भक्त्वा भक्त्वा अञ्जित्वा अक्त्वा अङ्क्त्वा ॥ अथ चुरादिः । चोरयित्वा कथयित्वा इत्यादि ॥ उपसर्गपूर्वत्वे ॥ 

२०६४ डाच्च्व्यूर्याद्यनुकरणं च ति | ||२६|

 डाजन्तं च्व्यन्तमूर्याद्यनुकरणं उपसर्गाश्च धातोः सम्बन्धि तिसंज्ञ भवति || तिदुस्स्वतीति समासे ॥ 

२०६५ क्त्वोऽनञः प्यः| २/२/१७१ |

समासान्तक्त्वायाः प्यो भवति न नञः ॥ प इत् । तगर्थः । प्रैध्य अभिवन्द्य प्रहद्य अपत्रप्य प्रक्षम्य | णिलुक् । प्रकाम्य प्रोय्य विगाह्य विस्मित्य प्रत्युत्य विधृत्य ॥ 

२०६६ इ मेङः |||१०५ |

 मेङः प्ये इद्वा भवति || अपमित्य अपमाय प्रदाय परित्राय प्रपूय उड्डीय प्रमिद्य प्रस्विद्य विस्रस्य विसस्य अवभ्रश्य प्रध्वस्य निवृत्य प्रस्यद्य प्रक्ऌप्य विस्मृत्य प्रदीर्य प्रसह्य || 

२०६७ मो वा |||२६३ |

हनादीनां मध्ये मान्तस्य प्ये लुग् वा भवति ॥ विरम्य विरत्य निबुध्य विपत्य प्रवम्य प्रसद्य प्ररुह्य अनुभूय विजित्य प्रधाय प्रपाय आप्राय आध्याय प्रस्थाय प्रदाय प्रम्लाय सहाय अध्याय वितीर्य विचिकित्स्य प्रसिध्य प्रस्कद्य प्राञ्च्य विलुच्य प्रवच्य सन्त्यज्य प्रसज्य प्रगुप्य प्रणत्य प्रणम्य नियत्य नियम्य प्रक्रम्य विभ्रम्य प्रमुष्य विकृष्य सम्पृष्य सन्दृश्य विदश्य प्रशस्य प्रदा प्रतिशुत्य प्रोष्य अनूद्य समिज्य प्रोप्य । प्ये चेति नेक् । प्रवाय ॥ 

२०६८ व्यः |||११३।

 व्येञः प्ये परे यत्र इग्नो भवति || संव्याय ||

 २०६९ परेर्वा |||११४ |

परेर्व्येञः प्ये यञ् इग्वा भवति || परिव्याय परिवीय आहूय प्रधाव्य विषच्य सम्भज्य विरज्य प्रखन्य प्रखाय अभिशस्य विगुह्य आश्रित्य प्रहृत्य प्रकृत्य प्रणीय | अदादिः ॥ प्रजग्ध्य संविद्य || 

२०७० प्ये ||| २६२ |

हनादीनां प्ये लुग् भवति ॥ प्रहृत्य प्रमृज्य प्रोच्य प्ररुद्य प्रसुप्य प्रजागर्य प्रदरिद्र्य अनुशिष्य समुश्य प्ररुत्य समित्य अधीत्य प्रयाय प्रमाय अधीश्य प्रसूय अतिशय्य अधीत्य प्रद्विष्य प्रोर्णुत्य प्रस्तुत्य प्रोच्य || ह्वादिः || आहृत्य विहाय प्रमाय निभृत्य प्रदाय विधाय प्रणिज्य || दिवादिः ॥ दीर्घः । प्रदीव्य प्रनृत्य संक्षिप्य आविद्य प्रपुप्य प्रक्षुध्य संशुध्य प्रशम्य प्रास्य प्रग्रश्य वितृष्य प्रकुप्य विक्लिद्य अभिगृद्ध्य प्रणश्य अभिद्रुह्य निर्जीर्य निशाय निच्छाय व्यवसाय प्रदाय प्रजाय प्रजन्य सक्किस्य नियुध्य अभिमत्य उपयुज्य विसृज्य प्रसूयः विलीय सन्नह्य ॥ स्वादिः ॥ प्रसुत्य आवृत्य विधूय संश्रुत्य प्राप्य प्रघृप्य प्रदस्य व्यश्य ॥ क्र्यादिः || विक्रीय प्रगृह्य सम्पूर्य आपूर्य आचीर्य || 

२०७१ ज्यः | || ११२

ज्यः प्ये यञः इग् न भवति ॥ प्रज्याय विज्ञाय संबध्य प्रश्रथ्य विमथ्य संग्रथ्य प्रमृद्य सम्मृड्य प्रगुद्य निष्कुष्य, संक्षुभ्य संक्लिश्य प्राश्य प्रमुष्य || तुदादिः । वितुद्य प्रभूज्य आलिप्य निषिच्य विमुच्य विलुप्य विकृत्य || 

२०७२ क्षेरीः || |||१०६

 क्षेः ध्ये ईद् भवति ॥ प्रक्षीय प्रमृत्य विकीर्य आहृत्य आपृच्छ्य निमज्ज्य प्ररुज्य संस्पृश्य आमृश्य निविश्य वि- नुद्य प्रवृश्च्य प्रोज्झ्य प्रलुभ्य निगुफ्य अभीष्य सङ्कुट्य आगूर्य उद्विज्य अस्वज्य आरभ्य उपलम्य || तनादिः ॥ प्रतत्य प्रसत्य प्रसाय प्रक्षत्यं विमत्य || स्वादि ॥ निरुध्य विभिद्य नियुज्य समिध्य प्रपिष्य विभज्य व्यज्य || चुरादिः || प्रचोर्य प्रचिन्त्य ॥ 

२०७३ लघोर्हलः प्येऽय् ।४/१२/१०३ |

लघोः परो यो हल ततः परस्य णेः प्येऽय् भवति ॥ प्रकथय्य विगणय्य विघटय्य प्रशमय्य ॥

२०७४ वाऽऽप्नोः |४/२/१०४ |

आप्नोतेर्णेः प्ये अय् वा भवति ॥ प्रापय्य प्राप्य । डाच् । पटपटाकृत्य । च्वि । शुक्लीकृत्य । ऊर्यादि । ऊरीकृत्य | अनुकरणं । खात्कृत्य || 

२०७२ तिरोऽन्तर्धौ | ||३१|

अन्तर्धौ विधाने तिरस् इत्यव्ययं धातोः सम्बन्धि तिसंज्ञं भवति || तिरोभूय तिरोधाय ॥ 

२०५६ नित्यं इस्तेपाणौ स्वीकृतौ | ||१६|

हस्ते पाणौ इत्येते अव्यये स्वीकृतौ कृञो धातोः सम्बन्धिनी तिसंज्ञे भवतः | हस्तेकृत्य पाणौकृत्य || 

२०७७ प्राध्वं बन्धे | || ३६ |

आनुकूल्ये प्राध्वमित्यव्ययं कुञो धातोस्सम्बन्धि तिसंज्ञं भवति || प्राकृत्य । शेषं सर्वं शास्त्रे ज्ञेयम् ॥ 

२०७८ पूर्वाग्रे प्रथमाभीक्ष्ण्ये खमुञ् |||१४५।

 पूर्वादिषूपपदेषु आभीक्ष्ण्ये चार्थविशेषणे प्राक्काले धातोः खमुञ् वा भवतिखुतौ ञश्चेतः । पूर्वंभोजं अग्रेभोजं प्रथमंभोजं दायंदाय । पक्षे त्वा । पूर्व मुक्त्वा इत्यादि ॥ 

२०७९ अन्यथैवंकथमित्थमः कृञोऽनर्थकात् | ||१४६ |

 अन्यथादिभ्यः स्वार्थरहितात् कृञस्तुल्यकर्तृके खमुञ् वा भवति ॥ अन्यथाकारम् एवंकारं कथंकारम् इत्थंकारं भुङ्क्ते । पक्षे । अन्यथा कृत्वा भुङ्क्ते इत्यादि ॥ 

२०८० आप्यादाक्रोशे | ||१४८।

आक्रोशे गम्ये कर्मण: कृञः प्राक्काले खमुञ् वा भवति तुल्यकर्तृके ॥ चोरंकारमाक्रोशति । चोरं कृत्वा आक्रोशति । चोरोऽयमित्याक्रोशतीत्यर्थः ॥ . 

२०८१ विदृशिभ्यः कार्त्स्ने णम् | ||१५०।

 कर्मणो विदादिभ्यो दृशेश्च प्राक्काले तुल्यकर्तृके णम् वा भवति कार्त्स्ने गम्ये ॥ अतिथिवेदं भोजयति । कन्यादर्शं वरयति || 

२०८२ यावतो जीवविन्दात् | ||१५१ ।

यावतो जीवविन्दाभ्यां णम् वा भवति तुल्यकर्तृके ॥ यावज्जीवमधीते । यावज्जीवति तावदधीते इत्यर्थः । यावद्वेदं गृह्णाति । यावद्विन्दति तावद्गृह्णातीत्यर्थः ॥ 

२०८३ चर्मोदरात् पूरे: |||१५२ |

चर्मोदराभ्यां पूरेः प्राक्काले तुल्यकर्तृके णम् वा भवति || चर्मपूरमास्ते । उदरपूरमास्ते । चर्मोदरं च पूरयित्वा आस्ते इत्यर्थः ॥ 

२०८४ तृतीयोपदंशः | ||१५५ ॥

तृतीयान्तेन युक्तादुपदंशः प्राक्काले तुल्यकर्तृके णम् वा भवति ॥ मूलकोपदंशं भुङ्क्ते मूलकेनोपदश्य भुङ्क्ते इत्यर्थः 

२०८५ हिंसार्थात तुल्याप्यात् | ||१५६ |

 तृतीयान्तेन युक्तात्तुल्यकर्मणः तुल्यकर्तृकाच्च हिंसार्थाद्धातोः प्राक्काले णम् वा भवति ॥ स्वङ्गप्रहारं शत्रुं जयति । स्वङ्गेन प्रहृत्य शत्रुं जयति इत्यर्थः ॥ 

२०८६ तूर्णेऽपादानेन | ||१५९ |

 अपादानेन युक्ताद्धातोः प्राक्काले तुल्यकर्तृके णम् वा भवति तूर्णे गम्ये ॥ शय्योत्थायं धावति । शय्यायाः उत्थाय तूर्णं धावतीत्यर्थः ॥ 

२०८७ द्वितीयया | ||१६० |

द्वितीयान्तेन युक्ताद्धातोः प्राक्काले तुल्यकर्तृके णम् वा भवति तूर्णे गम्ये ॥ यष्टिग्राहं धावति । यष्टिं गृहीत्वा तूर्णं धावतीत्यर्थः ॥  

२०८८ तृष्यसः कालेनान्तरे | ||१६३

कालवाचिना द्वितीयान्तेन युक्ताभ्यामन्तरे तृष्यसिष्यां प्राक्काले तुल्यकर्तृके णम् वा भवति ॥ द्व्यहतर्षं । द्व्यहं तर्षित्वा गावः पिबन्ति । अन्तर्मुहूर्तात्यासम् । अन्तर्मुहूर्तमत्यस्य पर्याप्तिं लभते इत्यर्थः ॥ 

२०८९ ग्रहादिशो नाम्ना | ||१६४|

 द्वितीयान्तेन नामशब्देन युक्तात् ग्रहेरादिशेश्च प्राक्काले तुल्यकर्तृके णम् वा भवति ॥ नामग्राहमाख्याति । नामादेशं वक्ति | नाम गृहीत्वा व्याख्यातीत्यादि ॥ 

२०९० तूष्णीमा | ||१६८।

 तूणीमित्यव्ययेन युक्ता भुवः प्राक्काले तुल्यकर्तृके णम् क्त्वा च भवतः ॥ तूष्णीम्भावं तूष्णीम्भूय तिष्टति । तूष्णीं भूत्वा तिष्ठतीत्यर्थः  

२०९९ स्वाङ्गात् तसा कृभ्वः |||१६९ ।

 तसन्तेन स्वाङ्गवाचिना युक्तात् कृञो भुवश्च णम् क्त्वा च भवतः ॥ मुखतः कारं मुखतः कृत्य मुखतोभावं मुखतोभूय गतः || 

२०९२ च्वौ धाण्विनानाना | ||१७० |

च्व्यर्थे धाणन्तेन विनानानाभ्यां च युक्तात् कृञो भुवश्च प्राक्काले तुल्यकर्तृके णम् क्त्वा च भवतः ॥ अद्विधा द्विधा कृत्वा द्विधाकारं । द्विधाकृत्य । एवं द्विधाभावं द्विधाभूय । ऐकध्यंकारं ऐकध्यंकृत्य ऐकध्यंभावम् ऐकध्यंभूय । विनाकारं विनाकृत्य विनाभावं विनाभूय । नानाकारं नानाकृत्य नानाभावं नानाभूय || 

२०९३ शुष्कचूर्णरूक्षादाप्यात् पिषस्तस्मिन् णम् || ११७१।

शुष्कादिभ्यः कर्मभ्यः पोषो णम् वा भवति तस्मिन्नेव पिषावुपपदे || शुष्कपेषं पिनष्टि । चूर्णपेषं पिनष्टि । रूक्षपेषं पिनष्टि ॥ 

२०९४ कृञ्ग्रहोऽकृतजीवात् | ||१७२।

अकृतशब्दात् कृञो णम् वा भवति । जीवशब्दात् ग्रहेः तस्मिन् धातावुपपदे || अकृतकारं करोति । जीवग्राहं गृह्णाति ॥ 

२०९५ निमूलात् कषः | ||१७३ |

 कर्मणो निमूलात् कषेर्णम् वा भवति तस्मिन् धातावुपपदे || निमूलकाषं कषति | 

२०९६ समूलाद् घ्नश्न | ||१७४ |

कर्मणस्समूलात् हन्तेः कषश्च णम् वा भवति । तस्मिन् धातावुपपदे ॥ समूलघातं हन्ति । समूलकाषं कषति || 

२०९७ करणात् ||||१७५ ।

करणवाचिनः सुबन्ताद्धन्तेर्णम् वा भवति तस्मिन् धातावुपपदे || पाणिघातं हन्ति पाणिना हन्तीत्यर्थः । एवं स्वङ्गघातं हन्ति स्वङ्गेन हन्तीत्यर्थः ॥ 

२०९८ नाम्नि बन्धः | ||१७८

करणवाचिनो नाम्नो बन्धेर्णम् वा भवति तस्मिन् धातावुपपदे || मर्कटबन्धं बध्नाति । मर्कटनाम्ना बन्धेन बध्नातीत्यर्थः ॥ 

२०९९ आधारात् |||१७९ |

आधारवाचिनो नाम्नो बन्धेर्णम् वा भवति तस्मिन्नुपपदे ॥ चक्रबन्धं बध्नाति । चक्रनाम्नि बन्धे बध्नातीत्यर्थः ॥ 

२१०० कर्तुर्जीवपुरुषान्नशिवहः | ||१८० |

कर्तृवाचिनो जीवशब्दान्नशेर्णम् वा भवति पुरुषशब्दाद्वहः तस्मिन्नुपपदे || जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो भूत्वा वहतीत्यर्थः ॥ 

२१०१ ऊर्ध्वात् पूश्शुषः | ||१८१|

 कर्तुरूर्ध्वशब्दात् पूरिशुषिभ्यां णम् वा भवति तस्मिन्नुपपदे || ऊर्ध्वपूरं पूर्यते ऊर्ध्वं पूर्यते इत्यर्थः । ऊर्ध्वशोषं शुष्यति ऊर्ध्वं शुष्यतीत्यर्थः ॥ 

२१०२ आप्याच्चेवे | ||१८२

 औपम्ये कर्मणः कर्तुश्च पराद्धातोः णम् वा भवति तस्मिन्नुपपदे || रत्ननिधायं निदधाति रत्नमिव निदधातीत्यर्थः । सैकतभेदं भिनत्ति शैलं । धनचायं चिनोति धर्मं । कर्ता महामतिनाशं नश्यति नास्तिकः तद्वन्नश्यतीत्यर्थः । एवं पण्डितमारं त्रियते । बालमारं म्रियते इत्यादि ॥ 

२१०३ समर्थस्त्यर्थधृषज्ञाशकग्लाघटसहार्हारभलभ- क्रमे तुम् ||||१८३ |

समर्थास्त्यर्थयोरुपपदयोर्धृषादिषु चोपपदेषु धातोस्तुम् वा भवति ॥ भोक्तुं समर्थः । भोक्तुं पर्याप्तः । भोक्तुमस्ति । भोक्तुं सम्भवति । भोक्तुं धृष्णोति । भोक्तुं जानाति । भोक्तुं शक्नोति । भोक्तुं ग्लायति । भोक्तुं घटते । भोक्तुं सहते । भोक्तुमर्हति । भोक्कुमारभते । भोक्तुं लभते । भोक्तुं प्रक्रमते । पक्षे भोजनसमर्थ इत्यादि ॥ 

२१०४ तदर्थायां क्रियायां वुण् लृट् च|||१८४ |

धातोर्वुण्लृटौ तुम् च भवन्ति । तदर्थायां क्रियायां प्रयुज्यमानायाम् ॥ भोजको व्रजति । भोक्ष्ये इति व्रजति । भोक्तुं व्रजति ॥ 

२१:५ लेङ्तुमिच्छार्थे तुल्यकर्तृके | ||१८६ |

इच्छार्थे तुल्यकर्तृके तदर्थे क्रियान्तरे उपपदे धातोर्लेङ्तुमौ भवतः । भुञ्जीयेतीच्छति भोक्तुमिच्छति कामयते । इत्याद्यनुक्तं सर्वं शास्त्रे ज्ञेयम् ॥ 

इति कृत्सङ्ग्रहस्समाप्तः

Previous Post
Next Post

© 2025 All rights reserved.