१०३१ अस्मिन् | ३ | ४|६८ |
प्रथमान्तात्तदस्मिन् प्रकृतमित्यर्थे मयड् भवति || अपूपाः प्रकृता अस्मिन् अपूपमयं भोजनम् । एवं घृतमयं । क्षमामयो धर्म इत्यादि ॥
१०३२ निन्द्ये पाशप् | ३|४|७० |
निन्द्येऽर्थे वर्तमानात् पाशप् भवति ॥ प इत् । निन्द्यो वैयाकरणः वैयाकरणपाशः । एवं मुनिपाशः तार्किकपाशः जायपाशा । पित्त्वात् पुंवद्भावः इत्यादि ||
१०३३ तिङश्च प्रकृष्टे तमप् | ३|४|११|
प्रकृष्टे वर्तमानात्सुबन्तात्तिङन्ताच्च तमप् भवति || प इत् पुम्भावार्थः । सर्वे इमे शुक्ला: अयमेषां प्रकृष्टः शुक्लः शुक्कतमः । एवम् आढ्यतमः गोतमा । तिङन्तमपि ॥
१०३४ अव्ययैत्किंतिङोऽसत्त्वे तयोर्ङाम् | ३ | ४|७४ |
अव्ययादेदन्तात् किमस्तिङन्ताच्च परयोस्तमप्तरपोर्ङाम् भवति स्वार्थे न चेतौ सत्त्वे द्रव्यं प्रकृष्टे वर्तेते || ङित्त्वादन्त्यादेशः । सर्वे इमे पचन्ति अयमेषां प्रकृष्टं पचति पचतितमाम् । एवं पठतितमाम् उच्चैस्तमां प्राह्णेतमां किंतमाम् ॥
१०३५ द्वयोर्विभज्ये च तरप् | ३ | ४|७२ |
द्वयोर्मध्ये प्रकृष्टे विभज्ये विकल्पये चार्थे वर्तमानात्सुबन्तातिङन्ताच्च तरप् भवति || प इत् । इमौ शुक्लौ अयमनयोः प्रकृष्टः शुक्लः शुक्लतरः । एवमाद्यतरः । इमौ पचतः अयमनयोः प्रकृष्टं पचति पचतितराम् । एवं पठतितमां सुतरां प्राह्णेतरां किंतरां । सौनेभ्यो माधुराः पटुतराः ॥
१०३६ गुणाङ्गाद्वेष्ठेयसू |३|४/७५ |
गुणाङ्गात् द्रव्यवाचिनः परयोस्तमप्तरपोर्यथासङ्ख्यम् इष्ठ ईयसु इत्येतौ वा भवतः ॥ उदित् नमाद्यर्थः । अयमेषां प्रकृष्टः पटुरिति विगृह्य तमबिष्ठे अन्त्याजादिलुक् । पटिष्ठः पटुतमो वा । अयमनयोः प्रकृष्टः पटुः पटीयान् पट्तरो वा । एवं प्रेष्ठः स्थेष्ठः स्थेयान् । वरिष्ठः वरीयान् । गरिष्ठः गरीयान् । बंहिष्ठः बंहीयान् त्रपिष्ठः त्रपीयान् । द्राधिष्ठः द्राधीयान् । बृन्दिष्ठः बृन्दीयान् । प्रथिष्ठः प्रथीयान् । म्रदिष्ठः म्रदीयान् । ऋशिष्ठः ऋशीयान् । अशिष्ठः अशीयान् । द्वढिष्ठः द्रढीयान् । परिव्रढिष्ठः परिव्रढीयान् । स्थविष्ठः स्थवीयान् । दविष्ठः दवीयान् । यविष्ठः यवीयान् । ह्रसिष्ठः ह्रसीयान् । क्षेपिष्ठः क्षेपीयान् । क्षोदिष्ठः क्षोदीयान् ॥
१०३७ विन्मतोः श्लुग्णीष्ठेयसि |२| ३ | ४५ |
विन्मत्वोः लुग् भवति णीष्ठेयस्सु परतः ॥ अयमेषां प्रकृष्टः तपस्वी तपिष्ठः तपीयान् । अन्त्याजादिलुक् । एवं धनिष्ठः धनीयानित्यादि ||
१०३८ कन्वाऽल्पयूनोः | २ | ३ | ४६ |
अल्पयुवन्शब्दयोः णीष्ठेयस्सु परतः कन्वा भवति ॥
१०३९ नैकाचः | २|३|५८|
एकाचः णीष्ठेयस्तु इमनि च परतः अन्त्याजादेर्लुग्न भवति ॥ कनिष्ठः कनीयान् । पक्षे अल्पिष्ठः अल्पीयान् । यविष्ठः यवीयान् ॥
१०४० प्रशस्यस्य भ्रः | २|३|४७|
प्रशस्मशब्दस्य णीष्ठेयस्सु परतः श्रो भवति ॥ श्रेष्ठः श्रेयान् ॥
१०४१ वृद्धस्य च ज्यः | २|३|१८।
वृद्धशब्दस्य प्रशस्यशब्दस्य च णीष्ठेयस्सु परतः ज्यो भवति || ज्येष्ठः ||
१०४२ ज्यायान् |२| ३ | ४९ |
ईयसि ज्यायानिति निपात्यते ॥
१०४३ वर्षः | २|३|५०।
वृद्धशब्दस्य णीष्ठेस्सु परतः वर्षो भवति || वर्षिष्ठः वर्षीयान् ||
१०४४ वाढान्तिकयोः साधनेदौ | २|३|५१ |
बाढान्तिकयोः णीष्ठेयस्सु परतः यथासङ्ख्यं साधनेदौ भवतः ॥ साधिष्ठः साधीयान् । नेदिष्ठः नेदीयान् ॥
१०४५ बहोर्णीष्ठे भूय् | २/३/५४ |
बहोर्णीष्ठयोः भूय् भवति ॥ भूयिष्ठः ॥
१०४६ भूर्लुक्चैः | २|३/५५|
बहोरीयसाविमनि न भूर्भवति इवर्णस्य लुक् च ॥ भूयान् ॥
१०४७ प्रशस्ते रूपम् | ३ | ४ | ७६ |
प्रशस्ते वर्तमानाद्रूप भवति ॥ प्रशस्तो धर्मः धर्मरूपः । एवमाप्तरूपः आगमरूपः । प्रशंस्तं पचति पचतिरूपमित्यादि ||
१०४८ ईषदसमप्तेः कल्पब्देश्यदेशीयर | ३|४|७७|
ईषदसमासेऽर्थे वर्तमानात्तिङन्तात्सुबन्ताच्च कल्पब्देश्यब्देशीयर्प्रत्यया भवन्ति न ङादेः ॥ परावितौ पुम्भावार्थौ । ईषदसमाप्तं पचति पचतिकल्पं । पचतिदेश्यं । पचतिदेशीयम् । ईषदसमाप्तो राजा राजकल्पः राजदेश्यः राजदेशीयः । एवं गणधरकल्प इत्यादि । स्त्रियाम् ईषदसमाप्ता राज्ञी राजकरुपेत्यादि । अङादेरिति किम्? तमादिभ्यो न भवन्ति । “तौ ङ|३|४/७३ | इति तरप्तमपोर्ङसंज्ञा ॥
१०४९ सुपः प्राग्बहुर्वा | ३|४|७८ |
ईषदसमाप्ते वर्तमानात् सुबन्तात् प्राक् बहुप्रत्ययो वा भवति ॥ ईषदसमाप्तो राजा बहुराजा बहुधीर इत्यादि ||
१०५० तिङ्सर्वादेरक्ष्वन्त्यात्पूर्वोऽक् |३|४|३२|
कुत्सिताद्यर्थे वर्तमानस्य तिङन्तस्य सर्वादेश्चाक्षु अन्त्यादचः पूर्वोऽक्प्रत्ययो भवति ॥ कुत्सितमज्ञातमल्पं वा पचति पचतकि । एवं पठतकि । सर्वके । यके । तके इत्यादि । स्त्रियामयदादीति निषेधान्नेत् । यका सका इत्यादि ||
१०५१ वाऽकोऽस्योः । १।२।२१३।
अदसो कोऽतः सौ उद्वा भवति ॥ उत्येनोरिति निषेधान्नौत् । असुकः । असुका । असकौ ॥
१०५२ द्वेषसूतपृत्रवृन्दारस्य | २|३|८८ |
द्व्यादीनामन्त्यस्य अनिति आङ्परे के परे इद्वा भवति ॥ द्विके द्वके । एषिका एषका ।।
१०५३ प्राक्कात्कप् | ३ | ४ |८१|
कप्रत्ययात्माक् येऽर्था वक्ष्यन्ते तेषु कप् भवति । प इत् । अधिकारोऽयम् ||
१०५४ युष्मदस्मदोस्सुपोऽसोभि | ३ | ४ | ३ |
सुबन्तयोर्युष्मदस्मदोरक्ष्वन्त्यात् पूर्वोऽक् भवति कुत्सिताद्यर्थे न सादौ ओदादौ भादौ च सुपि ॥ त्वया । मयका । युष्माककम् । अस्माककम् । असोभीति किं युष्मकासु । अस्मकासु । युवकयोः । आवकयोः | युवकाभ्याम् । आवकाभ्याम् ||
१०५५ कोदिश्वाव्ययस्य | ३ |४| ८४ |
कुत्सिताद्यर्थे अव्ययस्याक्ष्वन्त्यात् पूर्वोऽक्प्रत्ययो भवति कान्तस्य तु दिश्वादेशः ॥ कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः एवं नीचकैः शनकैः । कान्तस्य । धकित् पृथकदित्यादि ॥
१०५६ तूष्णीकाम् |३|४|८५ |
कुत्सिताद्यर्थे अकि तूप्णीकामिति निपात्यते ॥
१०५७ स्वज्ञाजभस्त्राधातुक्यः | १|३|८७|
स्वादीनां कयान्तस्य चान्त्यस्य अनित्याड्परे के परे स्त्रियामिद्वा भवति न धातोः ॥ कुत्सिता स्वा स्विका स्वका । ज्ञिका ज्ञका । अजिका अजका । भस्त्रिका भत्रका | चटकिका चटकका । आर्यिका आर्यका । इदभावे पुंवद्भावः ॥
१०५८ कुत्सिताल्पाज्ञाते | ३|४|८६ |
कुत्सिताल्पाज्ञातेषु वर्तमानाद्यथायोगं कबादयो भवन्ति ॥ कुत्सितः अल्पः अज्ञातो वा देवः देवकः । एवं धर्मकः अश्वकः नरक इत्यादि । स्त्रियां सूतिका सूतका वृन्दरिका वृन्दारका नरिका ||
१०५९ अनुकम्पातन्नीत्योः | ३ | ४|८७ |
अनुकम्पायां तन्नीतौ च अनुकम्पायुक्ते सान्त्वने च वर्तमानाद्यथायोगं कबादयो भवन्ति ॥ अनुकम्पितः पुत्रः पुत्रकः सान्त्वितो वा । एवं बत्सकः देवक इत्यादि । स्त्रियां पुत्रिका पुत्रका ॥
१०६०श्लुच्युक्तरपस्य प्कन् | ३ | ४ |९१ |
बह्वचो नृनाम्न उत्तरपदस्य सुचि अनुकम्पायां प्कन् भवति ॥ पानावितौ । अनुकम्पितो देवदत्तः देवकः । एवं जिनकः । स्त्रियां नित्त्वान्नेत् । देवका जिनका इत्यादि ॥
१०३१ ह्रस्वे| ३|४|९९ |
हस्वेऽर्थे यथायोगं कबादयो भवन्ति ॥ ह्रस्वोऽश्वः अश्वकः इत्यादि ॥
१०६२ यत्तत्किमन्याद्वयोर्निर्धार्ये डतरः | ३ | ४ | १०५ |
द्वयोमध्ये निर्धार्ये वर्तमानेभ्यो यत्तत्किमन्येभ्यो डतरो भवति। ड इत् । अन्त्याजादिलुगर्थः । यतरो भवतोश्चैत्रस्ततर आगच्छतु । कतरः पटुः । अन्यतरो गच्छतु ||
१०६३ वैकात् | ३|४|१०६ |
द्वयोर्निर्धार्ये वर्तमानादेकशब्दाडुतरो वा भवति ॥ द्वयोरेकतरः एकको वा ॥
१०३४ बहूनां प्रश्ने डतमश्च | ३ | ४ | १०७।
बहूनां मध्ये निर्धार्ये प्रश्न च वर्तमानेभ्यो यत्तत् किमन्यैकेभ्यो उतरो डतमश्च वा भवतः नैकशब्दाड्डतरः ॥ ड इत् । यतरो यतमो वा भवतां पटुः ततरस्ततमो वा आगच्छतु । अन्यतरोऽन्यतमो वाऽऽगच्छतु । कतरः कतमो वा देवदत्तः । एकतमः पटुः ॥
१०६५ कुमारी-क्रीडनेयोऽव्यादिभ्यः | ३ | ४ | ११६।
कुमारीक्रीडनात् ईयसन्तात् अन्यादिभ्यश्च स्वार्थे को वा भवति ॥ कन्दुरेब कन्दुकः । एवं गोलकः । श्रेयानेव श्रेयस्कः । एवं गरीयस्कः । अविश्व अविकः । यावकः इत्यादि ॥
१०६६ तारकावर्णका ज्योतिस्तान्तवे | १|३|१२|
ज्योतिषि तारकेति तान्तवे वर्णकेति निपात्यते ॥
१०६७ तीयाट्टीकणविद्यायाम् | ३|४|११७|
तीयप्रत्ययान्तात् स्वार्थे टीकण् वा भवति न विद्यायाम् ॥ द्वितीयमेव द्वैतीयीकं । तार्तीयीकम् | अविद्यायामिति किं । द्वितीया तृतीया विद्या ||
१०६८ ञोऽष्टमाद्भागे | ३ | ४|११८ |
अष्टमात् स्वार्थे जो वा भवति भागे वाच्ये ॥ अष्टम एव आष्टमो भागः । अष्टमो वा ॥
१०६९ षष्ठात् | ३ | ४|११९ |
षष्ठात् स्वार्थे ञो वा भवति भागे वाच्ये ॥ षष्ठ एव षाष्ठो भागः । षष्ठो वा ॥
१०७० एकादाकिश्चासहाये |३|४|१२१ |
असाहाये वर्तमानादेकशब्दादाकिन् कश्च वा भवतः ॥ एक एव एकाकी । एककः ॥
१०७१ मृदस्तिकः | ३ | ४ | १२३ |
मृदः स्वार्थे तिको भवति ॥ मृदेव मृत्तिका ॥
१०७२ सस्नौ प्रशस्ते | ३|४|१२४ |
प्रशस्ते मृदः सस्नौ भवतः ॥ प्रशस्ता मृत् मृत्सा | मृत्स्ना ॥
१०७३ बहुलं घतोर्द्वयडमात्रट् | ३|४|१२५ |
घत्वन्तात् स्वार्थे द्वयसट् मात्रट् बहुलं भवतः ॥ टावितौ । यावदेव यावद्वयसं यावन्मात्रम् । एवं तावद्वयसं तावन्मात्रम् इत्यादि ||
१०७४ वर्णात् कारः | ३ | ४ | १२६ ।
वर्णवाचिनः स्वार्थे कारो भवति ॥ अ एव अकारः । एवं ककारः वकारः चकारः स्यात्कार इत्यादि ॥
१०७५ भेषजादिहोत्रादेवेभ्यक्षण्ण्च्छतल् |३|४|१२७|
भेषजादिभ्यः स्वार्थे ट्यण् भवति । होत्रायाः छः देवात्तल् || भेषजमेव भैषज्यम् । एवमैतिह्यं चातुर्वर्ण्यं त्रैलोक्यं त्रैकाल्यं षाड्गुण्यं चातुर्मास्यं शैल्यं । स्त्रियां शैलीत्यादि । होत्रैव होत्रीयं । देव एव देवता ॥
१०७६ नामरूपभागाद्धेयम् | ३ | ४ | १२८ |
नामादिभ्यः स्वार्थे यो भवति ॥ नामैव नामधेयं । रूपधेयं । भागधेयं ॥
१०७७ मर्तादिभ्यो यः | ३ | ४ | १२९ |
मर्तादिभ्यः स्वार्थे यो भवति || मर्त एव मर्त्यः | सूर एव सूर्यः । क्षेम एव क्षेम्यः । भाग एव भाग्यमित्यादि ॥
१०७८ नवात्त्नतनखं च नू च | ३|४|१३० |
नवशब्दात् स्वार्थे त्नतनखा यश्च वा भवन्ति तस्य नू इत्यादेशश्व || नवमेव नूत्नं । नूतनं । नवीनं । नव्यं ॥
१०७९ प्रात्पुराणे | ३ | ४ | १३१।
पुराणेऽर्थे वर्तमानात् प्रात् त्नतनखा भवन्ति ॥ प्रत्नं । प्रतनं । प्रीणं पुराणमित्यर्थः ॥
१०८० प्रज्ञादिभ्योऽण् | ३ | ४ | १३२ ।
प्रज्ञादिभ्यः स्वार्थे अण् चा भवति ॥ प्रज्ञ एव प्राज्ञः । वणिगेव वाणिजः । अन्त एव आन्तः । कर्मैव कार्मणमित्यादि ॥
१०८१ वाचष्ठण् | ३ | ४ | १३५।
बाचः सन्दिष्टेऽर्थे ठण् भवति ॥ सन्दिष्टा वाक् वाचिकं ॥
१०८२ विनयादिभ्यः | ३ | ४ | १३६ |
विनयादिभ्यः स्वात्थे ठण् भवति ॥ विनय एव वैनयिकम् । समय एव सामयिकम् इत्यादि ॥
१०८३ औपयिकम् ||३|४|१३७ |
उपाय एव औपयिकम् इति निपात्यते ॥
॥ इति तद्धितसङ्ग्रहः ||
श्रीमन्नम्रसुरासुराधिपचलन्मौलिप्रभास्वन्मणि-
श्रेणिश्राणितसन्ततार्घ्यविभवो यत्पादपीठीतटः ।
वाचोयुक्तिविविक्तवस्तुविसरो दुष्कर्मनिर्मूलनो
जीयात्सूरिसुभाषितार्चितमहः सोऽयं जिनेन्द्रप्रभुः ॥ १ ॥
॥ प्रक्रियासंग्रहे पूर्वार्द्ध संपूर्णम् ॥