समः सुटि सः ॥ १ ॥
सम सुटि परतः सकारो भवति । सॅस्स्कर्ता, सस्सकर्ता, संस्कर्ता ।
पुमः खय्यमि ॥ २ ॥
पुमित्येतस्य मकारस्य खय्यम्परे परतः सकारो भवति । पुँस्कामा, पुंस्कामा | पुस्पुँत्र, पुस्पुत्र । खयीति किम् ? पुदासः । अमीति किम् ? पुंक्षीरम् ।
नश्छव्यप्रशानः || ३ ||
नकारान्तस्य प्रशान्वर्जितस्य पदस्य छव्यम्परे परतः सो भवति। भवाँच्छादयति, भवाश्छादयति । भवाँस्तरति भवास्तरति । छवीति किम् ? भवान् करोति । अप्रशान इति किम् ? प्रशाञ्चिनोति । अम्पर इत्येव । भवान् त्सरुकः |
कानः कानि ॥ ४ ॥
कान् इत्येतस्य नकारस्य कानि परतः सकारो भवति । काँस्कान्, कास्कान् ।
नॄनः पे रो वा ॥ ५ ॥
नॄन् इत्येतस्य नकारस्य पकारे परतो रो वा भवति । नॄँ पाहि,
नॄं पाहि, नॄन् पाहि । रवचनं ज्ञापकं पूर्वत्र रेफाभावस्य ।
अत्रानुनासिकः पूर्वस्य || ६ ||
अत्रातिक्रान्ते प्रकरण आदेशात्पूर्वस्यानुनासिको वा भवति । तथा चैवोदाहृतम् ।
अनुस्वारः ॥ ७ ॥
अत्रानुस्वारः पूर्वस्यागमो वा भवति । तथा चैवोदाहृतम् ।
हलि मः ॥ ८ ॥
मकारस्य हलि परतोऽनुस्वारो भवति । कुण्डं हसति । कुण्डं याति । इलीति किम् ? वनम् अत्र । कुण्डम् । हलीत्यौपश्लेषिकत्वादाधारस्य पदपाठे न भवति । वनम् याति । धनम् तिष्ठति ।
नश्चानन्त्यस्य झलि ॥ ९ ॥
नकारस्य मकारस्य चापदान्तस्य झलि परतोऽनुस्वारो भवति । पंयासि । आचिक्रंसते । अनन्त्यस्येति किम् ? भवान् भोक्ता । झलीति किम् ? हन्यते गम्यते ।
सम्राट् ॥१०॥
राजतेः क्विपि समो मकारो निपात्यते । सम्राट्, सम्राजौ, सम्राजः,सम्राजम् ।
हे मनयवलपरे ते वा ॥ ११ ॥
हकारे मकारादिपरे परतो मकारस्य ते मनयवला आदेशा वा भवन्ति । किम् ह्मलयति, किन् ह्मलयति । किन् ह्नुते, किं ह्नुते । कियूँ ह्यः, किं ह्यः । किवँ ह्वलयति, किं ह्वलयति । किलँ ह्लादयति, किं ह्लादयति । ह इति किम् ? किं ज्वलयति । मादिपर इति किम् ? किं हसति ।
ब्रणोः कुकटुकौ शरि ||१२||
डकारान्तस्य णकारान्तस्य च पदस्य शरि परत- कुक् टुगागमौ बा भवतः । प्राङ्क छेते, प्राङ् शेते । पूर्वान्तकरणाज् झयः पदान्ताद् [१५७ ] इति छत्वं भवति । प्राङ्क षण्डे, प्राङ् षण्डे । प्राङ्क् साये, प्राड् साये । जाद्यन्तयोः [ ९०] इति षत्वप्रतिषेधो भवति। वण्ट् शेते, शेते, वण शेते । वण्ट् पण्डे, वण् पण्डे। वण्ट् साये, वण् साये। न टो [१३७] टुत्वप्रतिषेधो भवति ।
डः सो घुट् ||१३||
डकारान्तात् परस्य सकारस्य धुड् वा भवति । श्वलिट्ये, वलिट् साये । परादिकरणान् न टोरिति [ १३७ ] टुत्त्रप्रतिषेधो भवति ।
नः || १४ ||
नकारान्तात् परस्य सकारस्य धुड् वा भवति । भवान्त्साये, भवान् साये ।
शि तुक् || १५ ||
शकारे परतो नकारान्तस्य तुग् वा भवति । भवाञ्च्छेते, भवाञ् शेते । पूर्वान्तकरणं छत्वार्थम् । कुर्वञ्च्छेत इति बहिरङ्गस्य तुकोऽसिद्धत्वाद् रषाद् [ १०१ ] इति णत्वं न भवति ।
मय उनोऽचि वः ||१६||
मयः परस्य उञोऽचि परतो वकारो वा भवति । किम् वाव- पनम् किम् उ आवपनम् । वत्वस्यासिद्धत्वाद् हलि [८] इत्यनुस्वारो न भवति । तद् वस्य तद् उ अस्य । मय इति किम् ? गीरु उच्चरति । अचीति किम् ? किमु प्रचरति ।
ङमो हस्वा द्वे ||१७||
ह्रस्वात् परे ये डमस्तदन्तस्य पदस्याचि द्वित्वं भवति । प्रत्यङ्- वास्ते । वण्णास्ते । पचन्नास्ते । डम इति किम् ? दृषदास्ते । ह्रस्वादिति किम् ? भवानास्ते । अचीत्येव । प्रत्यड् सिञ्चति । तदन्तविधिः किम् ? दण्डिना ।
ढेऽनादौ ढलोपः ॥ १८ ॥
अपादादौ ढेः परतो ढकारस्य लोपो भवति । लीढम्, गूढम्, वोढा । ष्टुत्वस्याश्रयणात् सिद्धम् । अनादाविति किम् ? श्वलिड् ढौकते ।
रो रि ||१९||
रेफे परतो रेफस्य लोपो भवति । पुना राजा । नीरुक्तम् । दृरुक्तम् । अग्नी रथेन | वायू रथेन ।
विरामे विसर्जनीयः ||२०||
विरामे वर्तमानस्य रेफस्य विसर्जनीयो भवति । वृक्षः, अग्निः ।
खरि ||२१||
खरि परतो रेफस्य विसर्जनीयो भवति । वृक्षः खनति । वृक्षः पचति।
शर्परे ||२२||
शर्परे खरि रेफस्य विसर्जनीय एव भवति । कुप्वोः ᳲकᳲपौ न भवतः । शशः क्षुरम् | अद्भिः प्सातम् ।
रोः सुपि ||२३||
रोरेव रेफस्य सुपि परतो विसर्जनीयो भवति । पयःसु, सर्पिःषु । रोरिति किम् ? गीर्षु, धूर्षु । पकार किम्? गीः ।
भोगोअघोभ्योऽशि लोपः ॥ २४ ॥
भो भगो अघो इत्येतेभ्यः परस्य रोरशि लोपो भवति । भो अत्र भो याति । भगो अत्र, भगो याति । अघो अत्र, अघो एहि, अघो इदम् | अशीति किम् ? भोः खनति । एते चामन्त्रणेऽसख्याः सकारान्ताः । केचित्तु भवद्भगवदघवता सम्बोधने सौ तकारस्य रुत्वम् अवशब्दस्य चौत्वं कुर्वन्ति । तेषां द्विवचनबहुवचनयो: स्त्रियां च न स्युः । भो ब्राह्मणौ, भो ब्राह्मणाः, भो ब्राह्मणि । भगो ब्राह्मणि, अघो ब्राह्मणि ।
आत् ||२५||
अवर्णात् परस्य रोरशि लोपो भवति । क आस्ते । ब्राह्मणा हसन्ति ।
योऽचि वाऽनुञि ||२६|
अवर्णात्परस्य रोरच्युवर्जिते यकारो वा भवति । कयास्ते, क आस्ते । अनुञीति किम् ? स उ आगतः ।
व्यौरीषत्स्पृष्टौ च ॥२७॥
वकारयकारयोरचि परत ईपत्स्पृष्टतरौ वकारयकारौ भवतः, लोपश्च वा । द्वावत्र, द्वा अत्र । कयासते, क आसते । र्व्योरीषत्स्पृष्टयोः पुनर्वचनादतोवेषत्स्पृष्टतरता गम्यते । अनुञीत्येव । द्वावु आगतौ ।
छवि रः सः ||२८||
छवि परतो रेफस्य विसर्जनीये प्राप्ते सकारो विधीयते । पुन- श्छादयति । रथश्चरति । छवीति किम् ? आखुर्याति । वायुर्भ्रमति ।
वा शरि ||२९||
शरि परतो रेफस्य सकारो वा भवति । गौश् शेते, गौः शेते । वृक्षस् साये, वृक्षः साये । वृक्षष् षण्डे, वृक्षः षण्डे !
खरि लोपः ||३०||
खर्परे शरि रेफस्य लोपो वा भवति । वृक्षाः स्थातारः, वृक्षास्स्थातारः, वृक्षाः स्थातारः |
कुप्वोः ᳲक ᳲपौ ॥ ३१ ॥
कवर्गपवर्गयोः परतो रेफस्य जिह्वामूलीयोपध्मानीयावादेशौ वा भवतः । वृक्ष ᳲकरोति, वृक्षः करोति । वृक्षᳲखनति, वृक्षः खनति । वृक्षᳲपतति, वृक्षः पतति । वृक्षᳲ फलति, वृक्षः फलति । खरीत्येव । भानुर्गच्छति । वायुर्भ्रमति ।
ससंख्यस्यानादौ सः ||३२||
ससंख्यस्य यो रेफस्तस्य कुप्वोरपदाद्योः परतः सकारो भवति । पयस्कल्पम्, पयस्पाशम्, पयस्कम् । ससंख्यस्येति किम् । प्रातः कल्पम् । अनादाविति किम् ? पयः कामयते ।
रोः काम्ये ||३३||
रोरेव रेफस्य काम्ये परत सकारो भवति । पयस्काम्यति । रोरिति किम् ? गीः काम्यति ।
इणः षः ||३४||
इणः परस्य रेफस्य कुप्वोरपदाद्योः परतः पकारो भवति । सर्पि- ष्पाशम्, यजुष्पागम् । सर्पिष्कल्पम्, यजुष्कल्पम् । सर्पिष्कः, धानुष्कः । सर्पिष्काम्यति, यजुष्काम्यति । अनादावित्येव । सर्पिः करोति । रो काम्य इत्येव । गीः काम्यति । इत उत्तरं स इति इणः ष इति च वर्तते ।
निर्दुर्वहिराविश्चतुष्प्रादुष्पुरसाम् ||३५||
निरादीनां रेफस्य कुप्वोः परतो यथायोगं सकारषकारौ भवतः । निष्कृतम्, निष्पीतम् । दुष्कृतम्, दुष्पीतम् । बहिष्कृतम्, बहिष्पीतम् । आविष्कृतम्, आविष्पीतम् । चतुष्कपालम्, चतुष्पात्रम् । प्रादुष्कृतम्, प्रादुष्पीतम् । पुरस्कृतम्, पुरस्पीतम् । कथं तिस्रः पुरःकरोतीति? लाक्षणिकत्वात् । नैष्कुल्यम्, दौष्पुरुय्यम् इति कृतपत्वस्य ष्यञ्विधानात् सिद्धम् ।
सुचो वा ||३६||
सुजन्तानां रेफस्य कुप्वोः परत षकारो वा भवति । द्विष्करोति,
द्विः करोति । द्विष्पिबति, द्विः पिबति । त्रिष्करोति, त्रिः करोति । त्रिष्पिबति, त्रिः पिवति । चतुष्करोति, चतुः करोति । चतुष्पिबति, चतुः पिवति ।
इसुसोः सम्बन्धे ||३७|
इसुसन्तयोः रेफस्य कुप्वोः परत सम्बन्धे सति षत्वं भवति वा । सर्पिष्करोति, सर्पिः करोति । सर्पिष्पिवति, सर्पिः पिबति । यजुष्करोति, यजुः करोति । यजुष्पठति, यजुः पठति । सम्बन्ध इति किम् ? तिष्ठतु सर्पिः, पिब त्वमुदकम् |
प्लुतात्ति च ॥ ३८ ॥
प्लुतात्परस्येसुसोः रेफस्य कुप्वोस्तकारे च परतः षकारो भवति । नि३ष्कुल! दु३ष्पुरुष! सर्पि३ष्टर ! सर्पि३ष्टम !
समासेऽनुत्तरस्य ||३९||
इसुसन्तस्य समासेऽनुत्तरस्य कुप्वो परतो रेफस्य षकारो भवति । सर्पिष्कुम्भः, सर्पिष्कपालम् । धनुष्कोटिः, यजुष्पात्रम् । समास इति किम् ? सर्पिः करोति । अनुत्तरस्येति किम् ? परमसर्पिः कुम्भः ।
अतः कृकमिकंसकुम्मपात्रकुशाकर्णीषु ससंख्यस्य ॥ ४० ॥
अकारात् परस्य ससंख्यस्य रेफस्य कृञादिषु परतः सकारो भवति । अयस्कारः, अयस्कामः, अयस्कसः , अयस्कुम्भः, अयस्पात्रम्, अयस्कुशा, अयस्कर्णी । अत इति किम् ? गीः कारः । तपरः किम् ? भा करणम् । कृञादिष्विति किम् ? अयं कीलः । ससख्यस्येति किम् ? श्वःकार । समास इत्येव । पयः करोति । अनुत्तरस्येत्येव । परमपयः कारः ।
अधःशिरसोः पदे || ४१॥
अधस् शिरस् इत्येतयोः रेफस्य पदशब्दे परतः सकारो भवति । अधस्पदम्, शिरस्पदम् । समास इत्येव । अधः पदम् । अनुत्तरस्येत्येव । परमशिरः पदम् ।
नमसः || ४२||
नमसो रेफस्य कुप्वोः परतः सकारो भवति । नमस्कृत्य, नमस्कर्ता । समास इत्येव । नमः कृत्वा ।
कृञि वा ॥ ४३ ॥
करोतौ परतो नमसो रेफस्य सकारो वा भवति । नमस्करोति, नमः करोति । तिङर्थ आरम्भः |
तिरसः ॥ ४४ ॥
तिरसो रेफस्य कृञि परतः सकारो वा भवति । तिरस्कृत्य तिर -स्करोति, तिरः करोति । व्यवस्थितविभाषया तिरः कृत्वेति न भवति ।
कस्कादयः || ४५ ॥
कस्कादयः शब्दाः साधवो भवन्ति । कस्कः । कौतस्कुतः । भ्रातुष्पुत्रः । शुनस्कर्णः । सद्यस्कालः | सद्यस्क्रीः, क्रीणातेः क्विप्। तत्र भवः ऋतुः, साद्यस्क्रः । कास्कान् इति पूर्वेणैव [ ४ ] सिद्धम् । सर्पिष्कुण्डिका, धनुष्कपालम्, यजुष्पात्रम् इत्येषा पूर्वेणैव [ ३९ ] सिद्धे उत्तरपदार्थं वचनम् । परमसर्पिष्कुण्डिका, परमधनुष्कपालम्, परमयजुष्पात्रम् । अतोऽन्येषां न भवति । परमसर्पिः कुम्भः । अयस्कान्तः । आकृतिगणश्चायम् ; तेन भास्करादयोऽप्यत्रैव द्रष्टव्या ।
कोश्चादेशसनादिशासिवसिघसां सः षः || ४६ ॥
कवर्गादिनश्च परस्यादेशस्य सकारस्य सनादिसम्बन्धिन: शासिवसिघसां च षो भवति । सिषेच, सुष्वापः, पिपक्षति, चिकीर्षति, तुष्ट्रपति, वृक्षेषु, धातुषु, गोषु, कर्तृषु, अचैपीत्, शिष्टः, उषितः, जक्षुः । कोश्चेति किम् ? स्वपिति, यियासति । आदेशादीनामिति किम् ? विसिस्मिये । स इति किम्? कुरुत |
नुविसर्जनीयशख्यवाये ॥४७॥
नुमादिभिर्व्यवधाने कवर्गादिनश्च परस्यादेशादिसकारस्य पत्व भवति । सर्पषि, यजूषि, सर्पिषु, यजुषु, सर्पिष्षु, यजुष्षु । कथं निंस्से, क्विपि सुपि च निंस्सु । प्रत्येकं वाक्यपरिसमाप्तेर्न भविष्यति ।
स्तोः षणि ॥ ४८ ॥
स्तौतेरेव सनि षभूते परत इणः परस्य षत्वं भवति । तुष्टूपतिः | समानजातीयस्य नियमादिह निरामो न भवति । प्रतीषिपति । अथवा कृतषत्वस्य द्विर्वचनात् । स्तोरिति किम् ? सिसिक्षति, सुसूषते । षण्येवेति नियमो न भवति, णेः पुनर्वचनात् । पणीति किम् ? सिषेच । षत्वनिर्देशः किम् ? सुपुप्सति । नकारः किम् ? व्यतिसुषुपिष इन्द्रम् । कथं सोषुपिषुते कृते षत्वे वाह्यनियमस्याप्रवृत्तेः ।
णेरस्विदिस्वदिसहः || ४९ ॥
ण्यन्तस्य स्विदादिवर्जितस्य षणि परत इणः परस्य षत्वं भवति । सिषेचयिषति । स्विदादिपर्युदासः किम् ? सिस्वेदयिषति, सिखादयिषति, सिसाहयिषति । स्विदादिपर्युदासाद् एव तत्सदृशानां षोपदेशानां ग्रहणात् पुनः प्रसवोऽयम्, न विधिः । सिस्मारयिषति ।
प्रादीनां सुसोस्तुस्तुभस्थासेनिसेवसिचसञ्जस्वञ्जाम् ||५०॥
प्रादीनां य इण् ततः परेषां स्वादीनां सकारस्य षत्वं भवति । अभिषुणोति । अभिषुवति । अभिष्यति । अभिष्टौति । अभिष्टोभते । प्रतिष्ठास्यति । अभिषेणयति । प्रतिषेधति । शपां निर्देशात् सिध्यतेर्न भवति । प्रतिसिध्यति । अभिषिञ्चति । अभिषजति । परिष्वजते । प्रादीनामिति किम् ? दधि सुनोति, मधु सुनोति । अयमपि पदादिलक्षणे प्रतिषेधे प्राप्ते पुनःप्रसवो न विधिः । अतो षिञ्चतीति विसर्जनीयव्यवायेऽपि षत्वं भवति । कथं निर्गताः सेचकाः अरमाद्देशात्, निःसेचको देशः, वृक्षं वृक्षं प्रति सिञ्चति, अभि सिञ्चति, अपि सिञ्चेत् पलाण्डुम् इति स्वादिसम्बन्धिनामेव प्रादीनां ग्रहणात् पदान्तरसम्बन्धिनश्चैते । अभिपावयती- त्यादावप्यत एव सिद्धम् ।
सदोऽप्रतेः ॥ ५१ ॥
सदेः प्रतिवर्जितस्य प्रादिपूर्वस्य षत्वं भवति । निषीदति, विषीदति । अप्रतेरिति किम् ? प्रतिसीदति ।
स्तम्भेः ॥ ५२॥
प्रादिपूर्वस्य षत्वं भवति । विष्टभ्नाति, प्रतिष्टभ्नाति ।
अवादौर्जित्यालम्बनाविदुर्येषु ||५३ ||
अवात् परस्य स्तम्मेरौर्जित्यादिषु गम्यमानेषु षत्वं भवति । अहो वृषलस्यावष्टम्भः । अवष्टब्धो रिपुः शूरेण । दण्डमवष्टभ्यासते । अवष्टब्धा सेना। एतेष्विति किम् ? अवष्टब्धो वृषलः शीतेन ।
वेश्च स्वनो भोजने ॥५४॥
वेरवाच्च परस्य स्वनो भोजनविषये षत्वं भवति । विष्वणति, अवष्वणति । भोजन इति किम् ? विस्वनति मृदङ्गः |
निपरेश्च सेवसिसहसुटाम् ||५५ ||
निपरिभ्यां वेश्च परेषां सेवादीनां सुट्सम्बन्धिनश्च सकारस्य षत्वं भवति । निषेवते, परिपेत्रते, विषेवते । निषीव्यति, परिषीव्यति, विषीव्यति । निषहते, परिपहते, विपहते । परिष्करोति । निपरेश्चेति किम् ? अनुसेवते ।
स्तुस्वञ्जसिवादीनां वाङ्व्यवाये || ५६ ||
स्तोते स्त्रञ्ज सिवादीनां च सकारस्याङ्व्यवाये सति षत्वं वा भवति । न्यष्टौत् न्यस्तौत् । पर्यष्वजत, पर्यस्वजत । व्यषीव्यत् व्यसीव्यत् । न्यषहत, न्यसहत । पर्यष्करोत् पर्यस्करोत् । निपरेश्चेत्येव । अन्वसीव्यत् ।
स्वादीनाम् ॥५७॥
सुनोत्यादीनामाङ्व्यवाये सति प्रादिभ्यः परेषां षत्वं भवति । अभ्यषुणोत्, पर्यषुवत्, अभ्यष्यत्, अभ्यष्टौत्, अभ्यष्टोभत, पर्यष्ठात्, अभ्यषेणयत्, अभ्यषेधत्, अभ्यषिञ्चत् । कथम् अनडुद्यज्ञमन्वसिञ्चद् इति ? स्वादिसबन्धिनाम् एव प्रादीनां ग्रहणान्न भविष्यति । अभ्यषजत् पर्यष्वजत; न्यषीदत्, व्यष्टभ्नात्, दण्डम् अवाष्टभ्नात्, व्यष्वणत्, न्यषेत्रत ।
स्थादीनां द्विरुक्तेन तस्य च ॥ ५८ ॥
तिष्ठत्यादीनामेव स्वादिष्वन्तर्गतानां द्विरुक्तेन व्यवाये प्रादिभ्यः परेषां षत्वं भवति । तस्य द्विरुक्तस्य च । अभितष्ठौ, अभिषिषेणयिषति, निषिषेधयिषति, अभिषिषिक्षति । षणि नियमोऽपि बाध्यते । अभिषिषङ्क्षति, परिषिष्वङ्क्षते, अभिषिषत्सति, अभितष्टम्भः, विषष्वाणः, निषिषेवे । स्थादी- नाम् इति किम् ? अभिसुसूषति अभिसिषासति ।
नेः सयसितयोः || ५९॥
ने परयो सयसितयोः सकारस्य षत्वं भवति । निषयः, निषितः।
विपरेः ||६०||
विपरिभ्यां परयोः सयसितयोः सकारस्य षत्वं भवति । विषयः, विषितः । परिषयः, परिषितः |
निरभ्यनोव स्यन्दोऽप्राणिनि वा ॥ ६१ ॥
निरभ्यनुभ्यो विपरिभ्यां च परस्य स्यन्दोऽप्राणिविषये षत्वं भवति वा । निष्यन्दते तैलम् निस्यन्दते । अभिष्यन्दते, अभिस्यन्दते । अनु-ष्यन्दते, अनुस्यन्दते । विष्यन्दते विस्यन्दते । परिष्यन्दते परिस्यन्दते । अप्राणिनीति किम् ? अनुस्यन्दते मत्स्यः । पर्युदासश्चायम् तेन प्राणिनोऽन्यस्मिन् भवति षत्वविकल्पः | अनुष्यन्देते मत्स्योदके, अनुस्यन्देते ।
वेः स्कन्दोऽक्तक्तवतोः ॥ ६२॥
वेः परस्य स्कन्दिसकारस्य क्तक्तवतुभ्याम् अन्यत्र षत्वं वा भवति । विष्कन्ता, विस्कन्ता । विष्कन्तुम्, विस्कन्तुम् | अननवतोरिति किम् ? विस्कन्नः, विस्कन्नवान् ।
परेः ॥ ६३॥
परेः परस्य स्कन्दिसकारस्य षत्वं वा भवति । परिष्कन्ता, परि- स्कन्ता । परिष्कन्तुम्, परिस्कन्तुम् । योगविभागात् क्तक्तवतोरपि भवति । परिष्कन्नः, परिस्कन्नः । परिष्कन्नवान्, परिस्कन्नवान् । व्यवस्थितविभाषया प्राच्यभरतविषयप्रयोगे परिस्कन्न एव, अन्यत्र परिष्कण्णोऽपि ।
स्फुरिस्फुलोर्निर्निविभ्यः ॥ ६४॥
निरादिभ्यः परयोः स्फुरिस्फुलो षत्वं वा भवति । निष्फुरति, निस्फुरति । निष्फुलति, निस्फुलति । निष्फुरति, निस्फुरति । निष्फुलति, निस्फुलति । विष्फुरति, विस्फुरति । विष्फुलति, त्रिस्कुलति ।
वेः स्कभ्नः षः ॥ ६५॥
वेः परस्य स्कभ्नातेः षत्वं भवति, नित्यं पुनर्विधानात । विष्कभ्नाति, विष्कम्भकः, विष्कम्भिता । श्नानिर्देशः किम् ? विस्कभ्नोति ।
समासेऽङ्गुलेः सङ्गः ||६६ ||
अङ्गुलेः परस्य सङ्गसकारस्य समासे सति षत्वं नवति । अङ्गुलिषङ्गः । समास इति किम् ? अङ्गुले सङ्गः ।
भीरो: स्थानम् || ६७॥
भीरो परस्य स्थानमित्येतस्य षत्वं भवति । भीरुष्ठानम् । समास इत्येव । भीरो स्थानम् ।
अग्नेः स्तुत् || ६८ ||
अग्नेः परस्य स्तुदित्येतस्य षत्वं भवति । अग्निष्टुत् |
ईतः सोमः ॥ ६९ ॥
ईकारान्ताद् अग्निशब्दात् पररय सोम इत्येतस्य षत्वं भवति । अग्नीषोमौ । ईत इति किम् ? अग्निसोमो [ माणवकौ ] |
ज्योतिरायुषश्च स्तोमः ॥७०॥
ज्योतिष आयुषोऽग्नेश्च परस्य स्तोम इत्येतस्य षत्वं भवति । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः | समास इत्येव । अग्निः स्तोमं दहति ।
मातृपितृभ्यां स्वसा ॥ ७१ ॥
मातुः पितुश्च परस्य स्वसृ इत्येतस्य षत्वं भवति । मातृष्वसा,
पितृष्वसा । समास इत्येव । मातुः स्वसा ।
अलुकि वा ॥ ७२ ॥
मातृपितृभ्यां परस्य स्वसृ इत्येतस्य षष्ट्या अलुकि सति षत्वं वा भवति । मातुःष्वसा मातुः स्वसा । पितुःष्वसा पितुः स्वसा । समाप्त इत्येव । पितुः स्वसा ।
अभिनिष्टानो वर्णे ॥७३॥
अभिनिष्टान इति वर्णेऽभिधेये निपात्यते । वर्ण इति किम् ? अभिनिस्तानो मृदङ्गस्य ।
प्रादुष्प्रादिभ्यो यच्यस्तेः ॥७४॥
प्रादुरशब्दात् प्रादिभ्यश्चेणन्तेभ्यः परस्य यकारादावजादौ च परतोऽस्तेः सकारस्य षत्वं भवति । प्रादुःष्यात्, प्रादुःषन्ति । निष्यात्, निषन्ति दुःष्यात्, दुषन्ति । प्रादुष्प्रादिभ्य इति किम् ? दधि स्यात् । यचीति किम् ? प्रादुः स्तः । अस्तेरिति किम् ? विसृतम् अनुसृतम् । अनुसूते क्विप् अनुसूः, तस्यापत्यम् आनुसेयः, शुभ्रादित्वाड् [ २|४|५३ ] ढक् । कथम् —— यद् अत्र मा प्रति स्याद् इति । अस्तिसबन्धिनाम् एव प्रादीनां ग्रहणान् न भविष्यति । तथा । सर्पिषोऽपि स्यात् । अपि सर्पिषः स्याद् इति व्यभिचारात् ।
सुविनिर्दुर्भ्यः समसूतिसुपाम् ॥७५॥
स्वादिभ्यः परेषां सम सूति सुप् इत्येतेषां सकारस्य षत्वं भवति । सुबिति स्वपेर्यण इकि कृते रूपम् । सुषमम्, विषमम्, निःषमम्, दुःषमम् । सुषूतिः, विषूतिः निःषुतिः, दुःषूति । सुषुप्तः, विषुप्तः, निःषुप्तः, दुःषुप्तः । विषुषुपुरिति पूर्वस्य विशब्दनिमित्तात्, परस्यापि घुशब्दनिमित्तात् । अन्ये तु कृतषत्वस्य द्विर्वचनं कुर्वन्ति । तैः पूर्वत्रासिद्धीयमद्विर्वचने [ भाष्यम् ६।११९] इति वक्तव्यं स्यात् । सुब्रूपनिर्देशः किम् ? विसुष्वाप ।
नदीष्णः कुशले ||७६॥
नदीष्ण इति निपात्यते स्नातुं चेत् कुशलो भवति । यस्तु स्रोतसा ह्रियते स नदीस्नः ।
नेः स्नातः ॥७७॥
नेः परस्य स्नात इत्येतस्य षत्वं भवति । निष्णातः कटकरणे । कुशल इत्येव । निस्नातः ।
प्रतेः सूत्रे ॥७८॥
प्रतेः परस्य स्नात इत्येतस्य सूत्रेऽभिधेये षत्वं भवति । प्रतिष्णातं सूत्रम् । प्रतिस्नातोऽन्यः ।
प्रष्ठोऽग्रगामी ॥७९॥
प्रष्ट इति निपात्यतेऽग्रगामी चेत् । प्रस्थोऽन्यः |
वेः स्त्रो नाम्नि ||८०||
वेः परस्य स्तृणातेः सज्ञायां गम्यमानायां षत्वं भवति । विष्टरो
वृक्ष । विष्टरम् आसनम् । विष्टारपङ्क्तिश्छन्दः | नाम्नीति किम् ? विस्तरो वाक्यस्य, विस्तार पटस्य ।
गविधेः स्थिरः || ८१ ॥
गवियुधिभ्यां परस्य स्थिर इत्येतस्य षत्वं भवति । गविष्ठिरः, युधिष्ठिरः । गवीति निर्देशात् सप्तम्या बहुलम् [ ५/२/११] इत्यलुक् । नाम्नीत्येव । गवि स्थिरः, युधि स्थिरः ।
कपेः स्थलस्य || ८२॥
कपेः परस्य स्थल इत्येतस्य षत्वं भवति । कपिष्ठलो नाम गोत्रस्य प्रवर्तकः | नाम्नीत्येव । कपिस्थलम् ।
विकुशमिपरिभ्यः || ८३ ॥
एतेभ्यः परस्य स्थल इत्येतस्य षत्वं भवति । विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्ठलम् । निपातनाद् ध्रखत्वम् ।
अम्बाम्बगोभूमिद्वित्रिकुशेकुशङ्कङ्गुमञ्जिपुञ्जिब र्हिदिव्यग्निभ्यः स्थः ॥ ८४||
अम्बादिभ्यः परस्य स्थ इत्येतस्य षत्वं भवति । अम्बष्टः, आम्बष्ठः, गोष्ठः, भूमिष्ठ, द्विष्ठः, त्रिष्ठः, कुष्ठः, शेकुष्ठः, शङ्कुष्ठः, अङ्गुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः, बर्हिष्ठः, दिविष्ठः, अग्निष्ठः ।
एति संज्ञायामकोः || ८५||
एकारे परतः सकारस्याकवर्गादिणपरस्य षत्वं भवति । हरिषेणः, वायुषेणः । एतीति किम् ? हरिसिंहः | संज्ञायाम् इति किम् ? पृथुसेनो राजा । अकोरिति किम् ? विष्वक्सेन । इण इत्येव । शक्रसेनः |
नक्षत्रादितो वा ॥ ८६॥
नक्षत्रादिदन्तात् परस्य सकारस्यैति परतः संज्ञायां षत्वं वा भवति । रोहिणिषेण, रोहिणिसेन । रेवतिषेण, रेवतिसेन । इत इति किम् पुनर्वसुषेण । अकोरित्येव । शतभिपक्सेन ।
ह्रस्वात् सुपस्ति || ८७ ॥
ह्रस्वादिणन्तात् परस्य सकारस्य सुपो विहिते तकारादौ परतः षत्वं भवति । तरतमतयटत्वतल्तस्त्यपः प्रयोजयन्ति । सर्पिष्टरम्, सर्पिष्टमम्, चतुष्टयम्, यजुष्ट्वम्, यजुष्टा, सर्पिष्टः, निष्टयाश्चण्डालादयः । ह्रस्वादिति किम् गीस्तरम् । सुप इति किम् ? भिन्द्युस्तराम् | तीति किम् ? सर्पिःसात् । विहितविशेपण किम् ? अग्निस्तरति ।
निसस्तपि सकृत् ॥८८॥
निसः सकारस्य तपि परतः षत्वं भवति, सकृच्चेत्प्रवृत्तिः । निष्टपतिः, निष्टप्तः । सकृदिति किम् ? निस्तपति ।
सुषामादयः ||८९||
सुपामादयः शब्दाः साधवो भवन्ति । शोभनं सामास्य, सुषामा । निःषामा | दुःषामा | सुषेध । निःषेध । दुःषेधः। अतत्प्राद्यर्थं आरम्भः सिधो गतौ [ ९३] इति च प्रतिषेधबाधनार्थं । सुषन्धिः । दुःषन्धिः । निःषन्धि । सुष्ठु । दुष्ठु । अपष्ठु । सज्येष्ठा । मञ्जिष्ठा । परमेष्ठी । गौरिषक्थः सज्ञायाम् । नौषेचिकः । दुन्दुभिषेचनम् । आकृतिगणोऽयम् ।
नाद्यन्तयोः ||१०||
पदस्यादावन्ते च वर्तमानस्य षत्वं न भवति । दधि सिञ्चति । अग्निस्तरति ।
सात् ॥९१॥
सातः षत्वं न भवति | अग्निसात् ।
सिचो यङि ॥९२॥
सिञ्चतेर्यडि षत्वं न भवति । सेसिच्यते, अभिसेसिच्यते । यङीति किम् ? अभिषिषिक्षति | डकारः किम् ? अभिषिच्यते ।
सिधो गतौ ॥ ९३ ॥
सेवतेर्गतौ गम्यमानायां षत्वं न भवति । अभिसेधयति गाः । गताविति किम् ? निषेधयति ।
निप्रतेः स्तब्धः || ९४ ॥
निप्रतेः परस्य स्तब्ध इत्येतस्य षत्वं न भवति । निस्तब्धः, प्रतिस्तब्धः | निप्रतेरिति किम् ? विष्टब्धः ।
सोढः || ९५||
सहेः सोढ् इत्येवरूपस्य षत्वं न भवति । निसोढा, निसोढुम् । ओत्वढत्वनिर्देशः किम्? निषहते।
प्रादिभ्यः स्तम्भुसिवसहां चङि ॥ ९६ ॥
प्रादिभ्यः परेषां स्तम्भादीनां चङि परतः षत्वं न भवति । अभ्यस्तभ्नात् पर्यसीषिवत् पर्यसीषहत् । प्रादिग्रहणाद् द्विरुक्तनिमित्तं षत्वं भवत्येव । तथा चैवोदाहृतम् ।
सोः स्यसनोः ॥९७॥
सुनोतेः स्यसनो परतः षत्वं न भवति । अभिसोष्यति, पर्यसोष्यत् । सुसूषतीति स्तो षणि [ ४८ ] इति नियमान्न भविष्यति । अभिसुसूषतीति [ ५८ ] स्थादिनियमान्न भविष्यति । एवं तर्हि । अभिसुसूषतेः क्विप्, अभिसुसू । स्यसनोरिति किम् ? सुषाव |
सदिस्वञ्जेर्लिटि || ९८ ॥
लिटि परतः सदित्वञ्जेः षत्वं न भवति । निषसाद । पूर्वस्य तु
परेण व्यवधानाद् भवत्येव । परिषखजे ।
धातोः सीलुङोश्च धो ढः॥९९॥
वातोरिणन्तात् परयोः सीलुडोर्लिटश्च सम्बन्धिनो धकारस्य ढकारो भवति । च्योषीढ्वम्, अच्योढ्वम्, चकृढ्वे । धातोरिति किम् आसिषीध्वम् । सीलुडोश्चेति किम् ? रतुध्वे । इण इत्येव । पक्षीध्वम् ।
वेटः ||१००||
इणः पराद् इट परेषां सीलुलिटां धकारस्य ढकारो भवति वा । लविषीढ्वम्, लविषीध्वम् । अलविढ्वम्, अलविध्वम् । लुलुविढवे, लुलुविध्वे । उपदिदीयिढ्वे, उपदिदीयिध्वे । इण इत्येव । आसिषीध्वम् ।
रषान् नो ण एकपदे ॥ १०१ ॥
रेफपकाराभ्यां परस्यैकपदे वर्तमानस्य णत्वं भवति । आस्तीर्णम्, मुष्णाति, मातॄणाम् । योऽसावृवर्णे रेपस्तस्याश्रयणाण्णत्वं भवत्येव । एकपद इति किम् ? अग्निर्नयति ।
पूर्वपदान्नाम्नि ॥ १०२ ॥
पूर्वपदस्याभ्यां रेफषकाराभ्यां परस्य नकाररयोत्तरपदस्थस्य सज्ञायाम् एव णत्वं भवति । द्रुणसः, खरणसः । नाम्नीति किम् ? चर्मनासिकः । पूर्वपदस्योत्तरपदापेक्षत्वादुत्तरपदस्थस्येव नियमान्निवृत्तिः । इह तु भवत्येव । खारपायणः, मातृभोगीणः । ऋगयनादिभ्यः [ ३/३/४५ ] इति ज्ञापकादृशगयनमिति न भवति ।
वनं पुरगामिश्रकासिध्रकाशारिकाग्रेकोटरात् ॥ १०३ ॥
पुरगादिभ्यः परस्यैव नाम्नि वननकारस्य णत्वं भवति । पुरगावणम्, मिश्रकावणम्, सिध्रकावणम्, शारिकावणम्, अग्रेवणम्, निपातनादेत्वम् ; कोटरावणम् । पुरगादिभ्य इति किम् ? कुबेरवनम्, असिपत्त्रवनम् ।
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यपीयूक्षाखदिरात् ॥ १०४ ॥
प्रादिभ्यः परस्य वननकारस्य णत्वं भवति । प्रवणम्, निर्वणम्, अन्तर्वणम्, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणम्, कार्व्यवणम्, पीयूक्षावणम्, खदिरवणम् ।
वोषधिवृक्षाद् द्वित्र्यचोऽनिरिकादेः ॥ १०५ ॥
ओपधिवृक्षाद् द्व्यवस्त्र्यचश्चेरिकादिवर्जिताद्रेफषकारवत परस्य वननकारस्य णत्वं वा नवति । दूर्वावणम्, दुर्वावनम् । शिरीषवणम्, शिरीषवनम् ।
ओषध्यफलपाकान्ता लता गुल्माश्च वीरुधः ।
फली वनस्पतिर्ज्ञेयो वृक्षा पुष्पफलोपगा ॥
ओषधिवृक्षादिति किम् ? विदारीवनम् । द्वित्र्यच इति किम् ? देवदारुवनम् । अनिरिकादेरिति किम् इरिकावनम् । तिमिरवनम् ।
अह्नोऽतः ॥ १०६ ॥
अदन्ताद् रेफषकारवतः परस्याह्ननकारस्य णत्वं भवति । पूर्वाह्नः । अपराह्नः । अत इति किम् ? निरह्नः, दुरह्नः । अकारनिर्देशः किम् ? दीर्घाह्नी शरत् ।
त्रिचतुर्भ्यां हायनो वयसि || १०७ ||
त्रिचतुर्भ्यां परस्य हायननकारस्य वयसि गम्यमाने णत्वं भवति । त्रिहायणो वत्सः चतुर्हायणः । वयसीति किम् ? त्रिहायणा शाला ।
वाहनं वाह्यात् ॥ १०८ ॥
वाहननकारस्य वाह्यवाचिनो रेफपकारवत परस्य षत्वं भवति । इक्षुवाहणम्, शरत्राहणम् । वाह्यादिति किम् ? दाक्षिवाहनम् ।
पानं देशे ॥ १०९॥
पाननकारस्य पूर्वपदस्याभ्यां रषाभ्यां परस्य देशे गम्यमाने णत्वं भवति । पीयत इति पानम्, क्षीरं पानम् एषां वर्तते, क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः, सौवीरपाणा बाह्लीकाः, कषायपाणाः गान्धाराः | देश इति किम्? क्षीरपानं भाजनम् ।
ना भावकरणयोः ॥ ११०॥
भावे करणे व वर्तमानस्य पानशब्दस्य पूर्वपदस्थाभ्यां रेफषकाराभ्यां परस्य णत्वं वा भवति । क्षीरपाणं वर्तते, क्षीरपानम् । कषायपाणं वर्तते, कपायपानम् | क्षीरपाणं भाजनम्, क्षीरपानम् । कषायपाणं भाजनम्, कषायपानम् ।
गिरिनद्यादीनाम् ॥ १११ ॥
गिरिनद्यादीनां नकारस्य णत्वं वा भवति । गिरिणदी, गिरिनदी । चक्रणितम्बा, चक्रनितम्बा’ । वक्रणदी, वक्रनदी ।
समस्तान्तसमीपयोरयुवादीनाम् ॥ ११२ ॥
समस्तान्ते तत्समीपे च यो नकारस्तस्य पूर्वपदनिमित्ताने फणकारवतो णत्वं वा भवति । माषत्रापिणौ माषवापिनौ । माषवापिणी माषवापिनी । माषवापाणि, माषवापानि । माषवापेण, माषवापेन । समस्तान्तग्रहणं किम् ? गर्गभगिनी । यदा तु गर्गाणां भगो गर्गभगः, सोऽस्या अस्तीति गर्ग- भगिणीति तदा णत्वं भवत्येव । अयुवादीनाम् इति किम् आर्ययूना ! क्षत्रिययूना । प्रपक्वानि । परिपक्वानि । प्रपक्वेन । परिपक्वेन । पूर्वपदाद् [ १०२ ] इति नियमान्निवृत्तस्य पुन प्रसवोऽयम्, न विधिः । अतो माषवापान्, व्रीहिवापान् इति णत्वं न भवति ।
कुमदेकाचः ॥ ११३ ॥
कवर्गत एकाचश्चोत्तरपदस्य समस्तान्ते तत्समीपे च यो नकार- स्तस्य णत्वं भवति, नित्यं पुनर्विधानात् । वस्त्रयुगिणौ, वस्त्रयुगिणः, वस्त्रयुगाणि, वस्त्रयुगेण । वृत्रहणौ, वृत्रहणि, क्षीरपाणिः, क्षोरपेण । ब्रह्मघ्नीति न भवति घा ह [ १३४ ] इति प्रतिषेधात् ।
प्राद्यन्तरोऽदुरो णः ॥ ११४ ॥
दुरोऽन्येभ्यः प्रादिभ्योऽन्तः शब्दाच् च परस्य णादेगनकारस्य णत्वं भवति । प्रणमति, परिणमति, प्रणायकः परिणायकः । अन्तर्णयति, अन्तर्णीतः| अर्थतः प्रत्यासत्तेस्तत्क्रियासम्बन्धि -नामेव प्रादीनां ग्रहणादिह न भवति । प्रगता नायका अस्माद् देशात् प्रनायको देश इति । अदुर इति किम् ? दुर्नयः । ण इति किम् ? प्रनर्दति ।
हिनुमीनानि ॥ ११५ ॥
हिनु मीना आनि इत्येतेषां प्रादिभ्यः परेषां णत्वं भवति । प्रहि-
णोति, प्रहिणुत । प्रमीणाति, प्रमीणीत । प्रवपाणि, परिवपाणि । प्रवपानि मासानीति न भवत्यनर्थकत्वात् ।
नेर्गदनदपतपददाधामावादिहवहशमहनयासाद्राप्साचिवपिषु ॥११६॥
प्रादिभ्यः परस्य नेर्गदादिषु परतो णत्व नवति । प्रणिगदति, प्रणिनदति, प्रणिपतति, प्रणिपद्यते, प्रणियच्छति, प्रणिददाति, प्रणिदयते, प्रणिद्यति, प्रणिवयति, प्रणिदधाति, प्रणिमिमीते, प्रणिमयते, प्रणिमाति, प्रणिवाति, प्रणिदेग्धि, प्रणिवहति, ग्रणिशाम्यति, प्रणिहन्ति, प्रणियाति, प्रणिष्यति, प्रणिद्राति, प्रणिप्साति, प्रणिचिनोति, प्रणिवपति । अटो गदादिभक्तत्वात् तद्द्व्यवायेऽपि भवति । प्रण्यगदत् ।
अकखादावषान्ते पाठे वा ॥११७॥
प्रादिभ्यः परस्य नेर्णत्वं वा भवति, न चेदुपदेशे ककारखकारादि धान्तो वा धातुः परो भवति । प्रणिभिनत्ति, प्रनिभिनत्ति | अकखादाविति किम् ? प्रनिकरोति, प्रनिखादति । अषान्त इति किम्? प्रनिपिनष्टि । पाठ इति किम् ? प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीत्यत्रापि पर्युदासो यथा स्यात्, प्रणिवेष्टेत्यत्र मा भूत् ।
अनोऽन्ते च ॥ ११८ ॥
प्रादिभ्यः परस्यानितेर्नकारस्य पदान्ते चापदान्ते च वर्तमानस्य णत्वं भवति । प्राणिति, पराणिति, हे प्राण् । अथवा अनितिसमीपे यो रेफस्तस्माद् अनितेर्णत्वं भवति । तेनेह न भवति । पर्यनिति । प्राणिणिषति, प्राणिणद् इति णत्वे कृते द्विर्वचनं भविष्यति । पूर्वत्रासिद्धीयम् अद्विर्वचने |
हनः ॥ ११९॥
प्रादिभ्य: परस्य हन्तेर्नकारस्य णत्वं भवति । प्रहण्यते, परिहणनम् । प्रघ्नन्ति परिघ्नन्तीति न भवति घा ह [ १३४ ]
इति प्रतिषेधात् ।
व्मोर्वा ॥ १२० ॥
कारमकारयो परतो हन्तेर्नकारस्य प्रादिभ्यः परस्य णत्वं वा भवति । प्रहण्वः, प्रहन्वः । प्रहण्मः, प्रहन्मः ।
अन्तरोऽयनस्य चादेशे ॥ १२१ ॥
अन्त:शब्दात् परस्य हन्तेरवयवस्य नकारस्यायनस्य चादेशे वाच्ये णत्वं भवति । अन्तर्हणनम्, अन्तरयणम् । अदेश इति किम् ? अन्तर्हननो देशः, अन्तरयनः ।
सुप्यचः ॥ १२२॥
सुब्विषये योऽच् तस्मात् परो यो नकारस्तस्य प्रादिस्थान्निमित्ताण् णत्वं भवति । प्रयाणम्, प्रयायमाणम्, प्रयाणीयम्, अप्रयाणिः, प्रयायिणौ, प्रहाणः । सुपीति किम् ? प्रभिनत्ति, प्रपुनाति । अच इति किम् ? प्रभुग्नः ।
निर्विण्णः || १२३||
निरः परस्य विदेः क्तान्तस्य निर्विण्ण इति निपात्यते । अत एव
वचनान् निर्भिन्नादौ न भवति ।
णेर्वा || १२४||
यन्ताद् विहिते सुव्विषये योऽच् तस्मात् परो यो नकारस्तस्य प्रादिस्थान्निमित्ताण्णत्वं वा भवति । प्रयापणम्, प्रयापनम् । प्रयाप्यमाणम्, प्रयाप्यमानम् । प्रयापणीयम् प्रयापनीयम् । अप्रयापणि अप्रयापनि । प्रयापिणौ, प्रयापिनी ।
हलादेरिजुपान्तात् ॥ १२५॥
हलादेरिजुपान्तात् परो योऽच् तत परो यो नकारस्तस्य प्रादिस्थान् निमित्ताण्णत्वं वा भवति । प्रकोपणम्, प्रकोपनम् । हलादेरिति किम् ? प्रेहणम्, प्रोहणम् । इजुपान्तादिति किम् प्रवपणम् । अच इत्येव । प्रभुग्नः ।
नुमीजादेईलः || १२६ ||
नुमि सतीजादेरेव हलन्तात् परो योऽच् ततः परस्य नकारस्य प्रादिस्थान्निमित्ताण्णत्वं भवति । प्रेङ्खणम्, प्रेङ्गणम् । नुमीति किम् ? इजादेरेव हल इति नियमे प्रापण इति न स्यात् । इजादेरिति नुम्थेव हल इति नियमे प्रवपण इति न स्यात् । हल इति किम् ? ण्यन्तादपि नित्यं स्यात् ।
वा निक्षनिसनिन्दाम् ॥ १२७॥
निक्षादीनां प्रादिस्थान् निमित्तान् नकारस्य णत्वं वा भवति । प्रणिक्षणम्, प्रनिक्षणम् । प्रणिसनम्, प्रनिसनम् । प्रणिन्दनम्, प्रनिन्दनम् | णोपदेशत्वान् नित्ये प्राप्ते विकल्पः ।
न भाभूपूञ्कमिगमिप्यायीवेषाम् ॥ १२८ ॥
भादीनां प्रयोगेऽच उत्तरस्य प्रादिस्थान्निमित्ताण्णत्वं न भवति । प्रभानम्, प्रभवनम् प्रपवनम्, प्रकमनम्, प्रगमनम् प्रप्यायनम्, प्रवेपनम् । यन्तानामपि भादीनां प्रयोगोऽस्त्येवेति णत्वं न भवति । प्रभापनम् । पूञो ग्रहणात् पूडो न भवति । प्रपवणम् ।
षः पदे || १२९||
पदे परतो यः पकारस्तस्मात् परं णत्वं न भवति । निष्पानम्, सर्पिष्पानम् । इति किम् ? निर्याणम् । पद इति किम् सुसर्पिष्केण ।
नशेः ष्कः ॥ १३० ॥
नशेः षान्तस्य कान्तस्य च णत्वं न भवति । प्रनष्टः, प्रनङ्क्ष्यति । ष्क इति किम् ? प्रणश्यति ।
अन्ते ॥ १३१ ॥
पदान्ते वर्तमानस्य नकारस्य णत्वं न भवति । वृक्षान् ।
चुटुतुलशर्व्यवाये ॥१३२॥
टवर्गटवर्गटवर्गैर्लकारेण शर्मिश्च व्यवधाने णत्वं न भवति । अर्चनम्, मूर्छनम्, सर्जनम्, किराटेन, कर्मठेन, हटेन करणेन, कीर्तनम्, चतुर्थेन, मर्दनम्, आराधनम् प्रेन्वनम्, इवि दिवि धिवि [धातु० ११२०२,२०४ ] इत्यस्य रूपम्, विरलेन, राशना, रसना । एभिरिति किम् ? करणम्, गिरिणा, मूर्खेण, अर्घेण, दर्पेण, रेफेण, पूर्वेण, वृंहणम्, उरᳲकेण, उरः केण, उरᳲपेण, उरः पेण ।
सुपानाङ्मयेन ॥ १३३ ॥
सुबन्तेन व्यवाये णत्वं न भवति, आङ् मयट च वर्जयित्वा । माषकुम्भवापेन, चतुरङ्गयोगेन । अनाङ्मयेनेति किम् ? पर्याणद्धम्, आर्द्रगोमयेण ।
घा हः ॥ १३४ ॥
घकारेण हादेशेन व्यवाये णत्वं न भवति । स्रुघ्नः, शत्रुघ्नः । पूर्वपदान् नाम्नि [ १०२ ] इति प्राप्ते प्रतिषेधः | प्राघानि । हन [ ११९] इति प्राप्ते । ह इति किम् ? अर्घेण ।
क्षुभ्नादीनाम् ॥१३५॥
क्षुभ्ना इत्येवमादीनां नकारस्य णत्वं न भवति । क्षुभ्नाति । तृप्नोति । नृनमन, पूर्वपदान्नाम्नि [ १०२ ] इति प्राप्ते । नन्दिनन्दननगराणां हरेः । हरिनन्दी, हरिनन्दनम्, हरिनगरम् । नृतेर्यङि । नरीनृत्यते । नर्तनम् । परिवर्तनम् । गहनम् । परिगहनम् । नाम्नि [१०२] इति प्राप्ते । नन्दनम् । परिनन्दनम् | णोपदेशस्य [१|१|४वृ, पा० ८ | ४ | १४ ] इति प्राप्ते । निवासः परिनिवासः । निवेशः । परिनिवेशः । अग्निः । हर्यग्निः शरभाग्निः । अनूपः । दर्भानूपः, नाम्नि [ १०२ ] इति प्राप्ते । आचार्यभोगीनः । आचार्यानी । क्षुभ्नादिराकृतिगणः ।
रतोः श्चुष्टुभ्यां तौ ॥ १३६॥
सकारतवर्गयोः शकारचवर्गाभ्यां प्रकारटवर्गाभ्यां च सन्निपाते तौ शकारचवर्गौ च यथाक्रमं भवतः । सकारस्य शकारेण । वृक्षश् शेते । चवर्गेण । वृक्षचिनोति, वृक्षछादयति । तवर्गस्य शकारेण । अग्निचिच्छेते । चवर्गेण । अग्निचिच्चिनोति, सोमसुच्छादयति, अग्निचिज्जयति, सोमसुज्झति । अग्निचिज्जकार । मस्जेर्मज्जति, जश्त्वेन सकारस्य दकार चुत्वेन च जकार । यज्ञ याच्या । सकारस्य प्रकारेण । वृक्षषषण्डे । टवर्गेण । वृक्षष्टीकते, वृक्षष्टकार | तवर्गस्य पकारेण । पेष्टा । टवर्गेण । अग्निचिट्टीकते, सोमसुट्ठकार, अग्निचिड्डीन, सोमसुड्ढौकते, अग्नि- चिण्णकार । अट्ट । अट्टते । अड । अति । निमित्तेषु यथासख्य नास्ति, तो पि [१३८ ] शाद् [ १३९ ] इति च प्रतिषेवात् । आदेशे तु भवत्येव ।
न टोरनवतिनगर्योरादेः ॥१३७॥
टवर्गात् परस्य नवतिनगरीवर्जितस्य पदस्यादेर्यदुक्तं तन्न भवति । श्वलिट् साये, श्वलिट् तरति । टोरिति किम् ? यजुष्ट्वम् । अनवतिनगर्योरिति किम् ? षण्णवति’, षण्णगरी । आदेरिति किम् ? ईड । ईट्टे । षण्णाम् ।
तोः षि ॥ १३८ ॥
तवर्गस्य प्रकारे परतो यदुक्तं तन्न भवति । अग्निचित् षण्डे | भवान् षण्डे |
शात् ॥ १३९॥
शकारादुत्तरस्य तवर्गस्य यदुक्तं तन्न भवति । विघ्नः, प्रश्नः ।
यरो ञमि ञम् वा ॥ १४० ॥
यरो ञमि परतो ञमादेश प्रत्यासन्नो भवति वा । वाड् ञकार वाग् ञकार । वाड् मधुरा, वाग् मधुरा । त्वड् नयति, त्वग् नयति । वाङ्मयम् त्वङ्मयम् इति व्यवस्थितविभाषया नित्यं भवति । कचिन् न भवति । यत्नः, यज्ञः, याञ्चा ।
अचो रहाद् द्वे ॥ १४१ ॥
अच परौ यौ रेफहकारी ताभ्यां परस्य यरो द्वे वा भवतः । अर्क्कः, अर्कः । ब्रहम्मा, ब्रह्मा । अच इति किम्? ह्नुते ।
अनचि ॥१४२॥
अच परस्य यरो द्वे वा भवतः, न चेदच् परो भवति । दद्ध्यत्र,
दध्यत्र। मद्ध्यत्र, मध्वत्र । वाक्क्, वाक् । अचि तु न भवति । दधि, मधु ।
यणो मयः || १४३ ||
यण परस्य मयो द्वित्वं वा भवति । उल्का, उल्का । वाल्मीक’, वाल्मीक । अथवा मय परस्य यणो द्वित्वं वा भवति । दध्यत्र, दध्व्यत्र । मध्वत्र, मध्वत्र ।
शरः खयः ॥ १४४ ॥
शरः परस्य खयोः द्वित्वं वा भवति । स्थ्थानम् स्थानम् । अथवा खयः परस्य शरो द्वित्वं वा भवति । वत्स्सः, वत्सः । क्ष्षीरम्, क्षीरम् ।
नाक्रोशे पुत्रस्यादिनि तत्परे च ॥ १४५ ॥
आक्रोशे गम्यमाने पुत्रस्यादिनि तत्परे च परतो द्वित्वं न भवति । पुत्रादिनी, पुत्रपुत्रादिनी । आक्रोश इति किम् ? पुत्त्रादिनी शिशुमारी । पुत्त्रपुत्त्रादिनी । आदिनीति किम् ? पुत्रहती, पुत्रजग्धी ।
शरोऽचि रात् ॥ १४६॥
शरोऽचि परतो रात् परस्य द्वित्वं न भवति । विमर्षः, आदर्शः । शर इति किम् ? अर्क्कः । अचीति किम् ? कार्श्श्यम् । रादिति किम् ? वत्स्सः |
दीर्घात् ॥ १४७ ॥
दीर्घात् परस्य न द्वे भवतः । दात्रम्, सूत्रम् ।
खरि चर्झलः ॥ १४८ ॥
खरि परतो झलश्वर्भवति । भेत्ता, लिप्सा । खरीति किम् भिद्यते । झल इति किम् ? कण्ठः ।
वा विरामे || १४९ ॥
विरामे वर्तमानस्य झलश्चर्वा भवति । वाक्, वाग् । श्वलिट्,
अणोऽनुनासिकः || १५० ॥
विरामे वर्तमानस्याणोऽनुनासिकत्वं वा भवति । दधि, दधि । मधु, मधु । व्यवस्थितविभाषया क्वचिन् न भवति । अग्नी, वायू, अमू, अमी ।
अनुस्वारस्य ययि यम् || १५१ ||
अनुस्वारस्य ययि परतो यमादेशः प्रत्यासन्नोऽनुनासिको भवति । शङ्किता, उञ्छिता, कुण्ठिता, नन्दिता, कम्पिता । ययीति किम् ? कस । अनुनासिक इत्येव । ययम्यते, ररम्यते ।
पदादौ वा ॥ १५२ ॥
पदादौ ययि परतोऽनुस्वारस्य यमादेशो ऽनुनासिको वा भवति । सय्यँत्ता, संयत्ता । संर्व्वँत्सर, संवत्सर । तल्लोँकः, तं लोकः । दिव्यञ्चक्षुः, दिव्यं चक्षुः । सुखम्पुण्यः, सुखं पुण्यं । ययीत्येव । परं श्रेयः । अनुनासिक इत्येव । बलं राजा ।
तोर्लि ॥ १५३॥
तवर्गस्य लकारे परतो यमासन्नो भवति । दृपल्लुनाति । भवाल्लुँनाति ।
उद: स्थास्तम्भोस्तः ॥ १५४॥
उदः परयो स्थास्तम्भोरादेस्तकारो भवति । उत्त्याता, उत्तम्भिता । स्थास्तम्भोरिति किम् ? उत्स्नाता । कथम् उत्कन्दको रोग इति? कन्देर्भविष्यति ।
हलो झरां झरि सस्थाने लोपो वा ॥ १५५ ॥
हल: परेषां झरा झरि समानस्थाने परतो लोपो वा भवति । प्रत्त इति त्रयस्तकारा, द्वित्वजश्चतुर्थः । तत्र मध्यमयोर्लोपो वा भवति । मरुत्त इति चत्वारस्तकाराः, द्वित्वजः पञ्चमः । मध्यमाना लोपो वा भवति । हल इति किम् ? दत्तम् । झरामिति किम् ? शार्ङ्गम् । झरीति किम् प्रियसना । सस्थान इति किम् तप्त । शय्येति द्वित्वस्य विकल्पितत्वाल्लोपो न वक्तव्यः । एवम् अदितेरपत्यम् आदित्यः इति । आदित्यो देवतास्येत्यादित्यः । आपत्ययकारत्वाल्लोपो भविष्यति ।
झयो हो झय् ॥१५६॥
झयः परस्य हकारस्य झयादेशो वा भवति । वाग् घसति, बाग् हसति । श्वलिड् ढसति, श्वलिड् हसति । अग्निचिद्धसति, अग्निचिद् हसति । त्रिष्टुब् भसति, त्रिष्टुब् हसति । हकारस्थाने प्रत्यासत्तेर्घोषवतो घोषवन्त इति तृतीया प्रसक्ता । महाप्राणस्य स्थाने महाप्राणा एव प्रत्यासन्नतराश्चतुर्था भवन्ति । झय इति किम्? भवान् हसति ।
शश्छोऽमि ॥ १५७ ॥
झयः परस्य शकारस्यामि परत कारो वा भवति । वाक् छेते, वाक् शेते । श्वलिट् छेते, श्वलिट् शेते । तच्छ्रलोकेन, तच् श्लोकेन । तच्छ्रमश्रुणा, तच् श्मश्रुणा । अमीति किम् । तच् श्च्योतति ।
चयः शरि द्वितीयः ॥ १५८ ॥
वर्गप्रथमेभ्यः शकारः चयः शरि परतो द्वितीयो वा भवति । भवथ्सु, भवत्सु । ख्षीरम्, क्षीरम् | अफ्सराः, अप्सराः । शरीति किम् ? सत्यम् ।
इति चान्द्रे व्याकरणे षष्ठोऽध्यायः समाप्तः ।
समाप्तं चेदं चान्द्रव्याकरणम् ।