चान्द्रव्याकरणम्(द्वितीयखण्डम्) षष्टाध्यायस्य तृतीयः पाद:

वीप्साभीक्ष्ण्ययोर्द्वे ॥ १ ॥ 

वीप्सायाम् आभीक्ष्ण्ये च यद् वर्तते तस्य द्वे रूपे भवतः । क्रियया गुणेन द्रव्येण वा भिन्नानर्थान् व्याप्तुमिच्छा वीप्सा । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः । ग्रामे ग्रामे पानीयम् । गृहे गृहे स्वामी । रसं रसं भक्षयति । क्रियां क्रियामरभते । आनुपूर्व्येऽपि वीप्सास्त्येव । मूले मूले स्थूला, अग्रेऽग्रे सूक्ष्मा इति । यदि ह्यत्र मूलाग्रभेदो न स्यादानुपूर्व्यम् अपि न स्यात् । माषं माषमस्मात् कार्यापणादिहभवद्भयां देहीति माषं माषम् इत्यतो वीप्सैव गम्यते, शब्दान्तरात् पुनरस्मात् कार्षापणादित्यवधारणम् । पूर्वं पूर्वं पुष्प्यन्ति, प्रथमं प्रथमं पच्यन्त इत्यत्रापि वीप्सैव । उभाविमावाढ्यौ, कतरा कतरानयोराढ्यता ? सर्व इम आढ्या, कतमा कतमैषाम् आढ्यता इतीहापि वीप्सैव । आभीक्ष्णय पौनःपुन्यम् । पचति पचति । प्रपचति प्रपचति । लुनीहि लुनीहीत्येवायं लुनाति । भुक्त्वा भुक्त्वा व्रजति । पटपटाकरोति, पटपटायति, पटपटायते । 

परेवर्जने वाक्ये वा ॥ २ ॥ 

परेर्वर्जने वर्तमानस्य वाक्यप्रयोगे सति द्वे रूपे वा भवतः । परि परि त्रिगर्तेभ्यो वृष्टो देवः । परि त्रिगर्तेभ्यो दृष्टो देवः । वर्जन इति किम् ? ओदनं परि सिञ्चति । वाक्य इति किम् ? परित्रिगर्तः वृष्टो देवः । 

अध्युपधसां सामीप्ये ॥ ३ ॥ 

अधि उपरि अधस् इत्येतेषां सामीप्ये गम्यमाने द्वे रूपे भवतः । अध्यधिष्ठापयति । उपर्युपरि ब्राह्मणान् उदीक्षते । व्यसन्यधोऽधो व्रजति [ मनु० ७/५३ ] | सामीप्य इति किम् ? अधिकरोति । 

वाक्यादेरामन्त्रितस्यासूयासम्मत्योः ॥  

आमन्त्र्यत इत्यामन्त्रितम्, सबोध्यमानमुच्यते, तस्य वाक्यादेरसूयायाः सम्मतौ च द्वे रूपे भवत । अविनीतक३ अविनीतक, इदानीं ज्ञास्यसि जाल्म । कोपकुत्सनभर्त्सनेष्वप्यसूयास्त्येवेति कोपादयो न पृथगुच्यन्ते । सम्मतौ । अभिरूपक३ अभिरूपक, शोभन खल्वसि । वाक्यादेरिति किम् ? उदारोऽसि देवदत्तः | असूयासम्मत्योरिति किम् ? देवदत्तः, गामभ्याज शुक्लाम् । 

एकस्य सुब्लुक् || ||

वीप्सायामेवैकशब्दस्य द्वित्व आदेः सुब्लुग् भवति । एकैकः । 

बाधे पुंवच्च ॥ ६ ॥

आबाधस्त्वरितस्य चेतसो बाधा, तस्मिन् प्रयोक्तुर्गम्यमाने द्वे रूपे भवतः, सुब्लुक् पुंवद्भावश्चादेः । गतगतः नष्टनष्टः । गतगता, नष्टनष्टा ।

प्रकारे गुणस्य ||

प्रकारे गम्यमाने गुणवचनस्य द्वे रूपे भवतः, सुब्लुक् पुंवद्भाव- श्चादेः । पटुपटुः । पटुपट्वी | प्रकार इति किम्? पटुः । गुणस्येति किम् ? अग्निर्माणवकः । प्रकारे वृत्त्यभावाद् रूपादीनां न भवति । 

अकृच्छ्रे प्रियसुखयोर्वा ॥ ८  

अकृच्छ्रार्थयोः प्रियसुखयोर्द्वे वा भवतः, सुब्लुक् पुंवद्भावश्वादेः । प्रियप्रियेण ददाति, प्रियेण ददाति, सुखसुखेन ददाति, सुखेन ददाति । अकृच्छ्र इति किम् ? प्रियः पुत्रः, सुखो रथः । 

व्यतिहारे सर्वादीनां सुर्बहुलम् ॥ ९ ॥ 

सर्वादीनां व्यतिहारे गम्यमाने द्वे रूपे भवतः, आदेश्च प्रथमैकवचनं सुब्लुक् च बहुलं भवति । अन्योऽन्यं भोजयन्ति । इतरेतरं भोजयन्ति । 

परस्यापुंस्याम् ||१०|| 

स्त्रियां नपुंसके च सर्वादीनां परस्याम् वा भवति । अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः, अन्योऽन्यम् । अन्योऽन्यामिमे ब्राह्मणकुले भोजयतः, अन्योऽन्यम् । इतरेतराम्, इतरेतरम् । अपुंसीति किम् ? अन्योऽन्यं ब्राह्मणौ भोजयतः । 

यथास्वे यथायथम् ११॥

यथास्वम् इत्यस्मिन्नर्थे यथायथम् इति निपात्यते । 

द्वन्द्वं रहस्यमर्यादाव्युत्क्रान्तियज्ञपात्रप्रयोगेषु ॥ १२  

द्विशब्दस्य रहस्यादिष्वर्थेषु द्वन्द्वम् इति निपात्यते । द्वन्द्व मन्त्रयन्ते । आचतुरं ही पशवो द्वन्द्वम् । द्वन्द्वं व्युत्क्रान्ता । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । रहस्यादिष्विति किम् ? द्वौ द्वौ । 

अत्यन्तसहचरिते लोकविज्ञाते || १३|| 

अव्यभिचारे सहचरिते लोकप्रसिद्धे युग्मे द्वन्द्वमिति निपात्यते । द्वन्द्वं सूर्याचन्द्रमसौ । द्वन्द्वं नारदपर्वतौ । अत्यन्तसहचरित इति किम् ? द्वौ युधिष्ठिरार्जुनौ । लोकविज्ञात इति किम् ? द्वौ देवदत्तयज्ञदत्तौ । 

संभ्रमे यावद्बोधम् ॥ १४ ॥ 

प्रयोक्तुः सभ्रमे सति यावद्भिः शब्दः सोऽर्थोऽवगम्यते तावन्तः शब्दाः प्रयोक्तव्याः । अहिरहिरहि । बुध्यस्व बुध्यस्व बुध्यस्व ! 

अपादादौ पदादेकवाक्ये ॥ १५ ॥ 

एतदधिकृत वेदितव्यम् । पद्यते गम्यतेऽनेनार्थ इति पदम् सुबन्तं तिडन्तं च । पदसमूहो वाक्यम् । 

युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोर्वानौ वा ॥ १६॥ युष्मदस्तदोः षष्ठयाद्यन्तयोरपादादौ वर्तमानयोः पदात् परयोरेकवाक्ये वाम् नौ इत्येतावादेशौ वा भवतः । ग्रामो वा स्वम्, जनपदो नौ स्वम् । ग्रामो युवयो स्वम्, जनपद आवयो स्वम् । ग्रामो वा दीयते, जनपदो नौ दीयते । ग्रामो युवाभ्यां दीयते, जनपद आवाभ्यां दीयते । ग्रामो वा पश्यति, जनपदो नौ पश्यति । ग्रामो युवां पश्यति, जनपद आवां पश्यति । षष्ठयादिग्रहणं किम् ? ग्रामे युवाभ्यां कृतम्, जनपद आवाभ्यां कृतम् । तदन्तविधिना सिद्धेऽन्तग्रहणं श्रूयमाणार्थम् । ग्रामो युष्मत्पुत्रस्य, जनपदोऽस्मत्पुत्रस्य । अपादादावित्येव । 

रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता । 

मारजिद् भगवान् बुद्ध अस्माकं कुलनन्दन ॥ 

पदादित्येव । युवयोः स्वम्, आवयोः स्वम् । एकवाक्य इत्येव । देवदत्तस्तिष्ठति ग्रामे, युवयो स्वं नगरम् । 

बहुवचनस्य वस्नसौ ॥१७॥

बहुवचनान्तयोर्युष्मदस्मदोरपादादौ वर्तमानयोः पदात् परयोरेकवाक्ये वस् नस् इत्येतावादेशौ वा भवतः । ग्रामो वः स्वम्, जनपदो नः स्वम् । ग्रामो युष्माकं स्वम्, जनपदोऽस्माकं स्वम् । ग्रामो वो दीयते, जनपदो नो दीयते । ग्रामो युष्मभ्यं दीयते, जनपदोऽस्मभ्यं दीयते । ग्रामो वः पश्यति, जनपदो नः पश्यति । ग्रामो युष्मान् पश्यति, जनपदोऽस्मान् पश्यति । 

एकवचनस्य तेमे ॥ १८॥ 

एकवचनयोर्युष्मदस्मदोस्ते मे इत्येतावादेशौ वा भवतः । ग्रामस्ते स्वम्, जनपदो मे स्वम् । ग्रामस्तव स्वम्, जनपदो मम स्वम् । ग्रामस्ते दीयते, जनपदो मे दीयते । ग्रामस्तुभ्यं दीयते, जनपदो मह्यं दीयते । 

त्वामौ द्वितीयायाः ॥ १९॥

द्वितीयैकवचनान्तयोर्युष्मदस्मदोस्त्वा मा इत्येतावादेशौ वा भवतः । ग्रामस्त्वां पश्यति, जनपदो मां पश्यति । ग्रामस्त्वां पश्यति, जनपदो मां पश्यति । 

अन्वादेशे ||२०|| 

कथितानुकथनविषये युष्मदस्मदोरादेशा भवन्ति, नित्यं पुनर्विधानात् । ग्रामो युवयो स्वम्, अथो जनपदो वा स्वम् । एवं सर्वत्र । 

सपूर्वात् प्रथमान्ताद्वा ॥ २१॥

विद्यमानपूर्वात् प्रथमान्तात् परयोर्युष्मदस्मदोरादेशा अन्वादेशेऽपि वा भवन्ति । ग्रामे पटो युष्माकं स्वम्, अथो जनपदे कम्बलो वः स्वम् ; अथो जनपदे कम्बलो युष्माकं स्वम् । ग्रामे कम्बलोऽस्माकं स्वम्, अथो नगरे कम्बलो न स्वम्, अथो नगरे कम्बलोऽस्माकं स्वम् । सपूर्वादिति किम् ? पटो युष्माकं स्वम्, अथो कम्बलो वः स्वम् । प्रथमान्तादिति किम् ? पटो नगरे युष्माकं स्वम्, अथो कम्बलो ग्रामे वः स्वम् । 

वाहाहैवयोगे ||२२||

चवादिभिर्योगे युष्मदस्मदोरादेशा न भवन्ति । ग्रामस्तव वः स्वम्, जनपदो मम च स्वम् । ग्रामस्तुभ्यं च दीयते जनपदो मह्यं च दीयते । ग्रामस्त्वां च पश्यति, जनपदो मा च पश्यति । ग्रामस्तव वा स्वम्, जनपदो मम वा स्वम् । ग्रामस्तुभ्यं वा दीयते, जनपदो मह्यं वा दीयते । ग्रामस्त्वां वा पश्यति, जनपदो मा वां पश्यति । ग्रामस्तव ह स्वम्, जनपदो मम हस्वम् । ग्रामस्तुभ्यं ह दीयते, जनपदो महा ह दीयते । ग्रामस्त्वां ह पश्यति, जनपदो मा ह पश्यति । ग्रामस्तवाह स्वम्, जनपदो ममाह स्वम् । ग्रामस्तुभ्यम् अह दीयते, जनपदो माम् अह दीयते । ग्रामस्त्वामह पश्यति, जनपदो मामह पश्यति । ग्रामस्तवैव स्वम्, जनपदो ममैक स्वम् । ग्रामस्तुभ्यम् एव दीयते, जनपदो मह्यम् एव दीयते । ग्रामस्त्वाम् एव पश्यति, जनपदो माम् एव पश्यति । एव द्विवचनबहुवचनयोरुदाहार्यम् । योग इति किम् ? ग्रामश्च ते स्वम्, नगरं च मे स्वम् । 

दृश्यर्थेनालोचने ॥ २३॥ 

दर्शनार्थेष्वालोचनवर्जितेषु सत्सु युष्मदस्मदोरादेशा न भवन्ति । ग्रामस्त्वा सदृश्यागत, जनपदो मा सप्रेक्ष्यागत । ग्रामस्तव स्वं संदृश्यागतः, जनपदो मम स्वं संप्रेक्ष्यागतः । अनालोचन इति किम् ? ग्रामस्त्वालोचयति, जनपदो मालोचयति । 

आमन्त्रितं पूर्वमसद्वत् ||२४||

युष्मदस्मदोरादेशविषय आमन्त्रितं पूर्वमविद्यमानवद् भवति । देवदत्त तव स्वम् । यज्ञदत्त मम स्वम् । एवं सर्वत्र । आमन्त्रितम् इति किम् ? कम्बलस्ते स्वम्, पटो मे स्वम् । पूर्वम् इति किम् ? मयैतत्सर्वमाख्यातं युष्माकं द्विजपुगवा । परस्य ह्यसद्वद्भावेऽपादादाविति प्रतिषेधो न स्यात् । वत्करणं किम् ? श्रवणं यथा स्यात् । 

सामान्यवचनमेकार्थे ||२५|| 

समानाधिकरणे परतः सामान्यवचनम् आमन्त्रितम् असन्न भवति । माणवक जटिलक ते स्वम् । पररयासद्भावे पूर्वाश्रया आदेशा भवन्ति । सामान्यवचनम् इति किम् ? देवदत्त माणवक तव स्वम् । एकार्थ इति किम् देवदत्त यज्ञदत्त युवयोः स्वम् । 

बहुत्वे वा ॥२६॥ 

बहुत्वे वर्तमानमामन्त्रितं सामान्यवचनं समानाधिकरणे परतोऽसद्वद्वा न भवति । ब्राह्मणाः शरण्या युष्माकं स्वम् । ब्राह्मणाः शरण्या वः स्वम् । 

पूर्वत्रासिद्धम् ||२७||

पूर्वस्मिल्लक्षणे कर्तव्ये यत् परं तदसिद्धं वेदितव्यम्, इत उत्तरं च पूर्वस्मिन् पूर्वस्मिन्नुत्तरमुत्तरमसिद्धम् । अस्मा उद्धरति द्वौ अत्र, द्वौ आनय, असौ आदित्यः । [६।४।२७] व्यलोपस्यासिद्धत्वात् स्वरसन्धिर्न भवति । अमुष्मै, अमुष्मात्, अमुष्य, अमुष्मिन् । [ ६।३।११२] उत्वस्यासिद्धत्वाद् अत [ २/१/२ ] इति स्मायादयो भवन्ति । शुष्किकेति [ ६/३/९० ] कस्यासिद्धत्वाद् इत्त्वविकल्पो [ ६/१/७१ ] न भवति । क्ष्मामिमान् इति [ ८९] मत्वस्य सिद्धत्वान् मतोर्वत्वं [३५] न भवति । गुडलिड्मान् इति ढत्वजस्त्वयोरसिद्धत्वाज् झय [ ३६ ] इति मतोर्वत्वं न भवति । औजिदद् इति ढत्वादेरसिद्धत्वाद् द्विर्वचने जिकारो [ ६ |२| ११६] भवति । 

सुपि नलोपः ||२८|| 

सुप्येव नलोपोऽसिद्धो भवति । राजभ्याम्, राजभिः, राजभ्यः । नलोपस्यासिद्धत्वादात्वमैस्त्वमेत्त्वं च न भवति । वृत्रहभ्याम्, वृत्रहभिरिति तुग् न भवति । सुपीति किम् ? वृत्रहच्छाया । नाय सुपि नलोप । पञ्च ब्राह्मण्य इति नाकृते लुकि नलोपः, लिङ्गाभावाच्च न डाप् । 

न नि मुः २९ ॥

नाशब्दे परतः कार्ये कर्तव्ये मुभावो नासिद्धो भवति । अमुना। यत्र सुपि [ ६।२/३९-४० ] इत्यात्त्वं न भवति । अत एव वचनान् नाभावेऽपि कर्तव्ये मुभावो नासिद्ध इति गम्यते । 

सिज्लोप एकादेशे ||३०||

एकादेशे कर्तव्ये सिज्लोपो नासिद्धो भवति । अलावीत् । 

षठनि क्तादेशः ॥ ३१ ॥ 

षत्वे ठनि कर्तव्ये तादेशो नासिद्धो भवति । वृक्णः । झलि [ ५५ ] इति षत्वं न भवति । क्षीवेण चरति, क्षीबिकः । द्व्यज्नौभ्यां ठन् [ ३ | ४ | ६ ] इति ठन् भवति । 

प्लुतस्तुकि ||३२|| 

तुकि कर्तव्ये प्लुतो नासिद्धो भवति । अग्ना३इ च्छत्त्रम्। छ [ ५|१|७० ] इति तुर् भवति । अग्निचि३द् इति तुकि कृते प्लुतः । 

धुटि चुः ||३३|| 

धुटि कर्तव्ये श्चुत्वम् असिद्धं न भवति । भवान् श्च्योतति । न [ ६|४|१४ ] इति धुड् न भवति । 

द्वित्वे परसवर्णः ||३४||

द्वित्वे परसवणों नासिद्धो भवति । सय्य्यन्ता । यर [ ६|४|१४० ] इति द्वित्वं भवति । 

मादुपान्ताच्च मतोर्वः || ३५॥ 

मान्तादवर्णान्तान्मकारोपान्तादवर्णोपान्ताच्च मतोर्वत्वं भवति । इदंवान्, किंवान्, दाडिमीवान्, वृक्षवान्, मालावान्, अहर्वान्, भास्वान् । 

झयः || ३६ ||

झयन्तात् परस्य मतोर्वत्वं भवति । अग्निचित्वान् ग्रामः । विद्युत्वान् बलाहकः । 

नाम्नि ||३७|| 

संज्ञाया मतोर्वत्वं भवति । कपीवती, मणीवती । 

यवादिभ्यः ॥ ३८ ॥ 

यवादिभ्यः परस्य मतोर्यत्वं न भवति । यवमान् । ऊर्मिमान् । भूमिमान् । कृमिमान् । मादुपान्ताद् [३५] इति प्राप्ते प्रतिषेध. । वशामान् । शिम्बिमान् । नाम्नि [३७] इति प्राप्ते ककुद्भान्, झय [३६] इति प्राप्ते । यवादिराकृतिगण । इक्षुमती । द्रुमती । कान्तिमती । बन्धु- मान् नाम पर्वत । बिन्दुमती । चारुमतीति संज्ञायाम् । 

अष्ठीवच्चक्रीवत्कक्षीवदुदन्वद्रुमण्वचर्मण्वती ॥३९॥ 

एते शब्दाः सज्ञायाः निपात्यन्ते । अष्ठीवान्, [ शरीरैकदेश: ] चक्रीवान्, गर्दभः । कक्षीवान् नाम ऋषिः । उदन्वान्, उदधिः । रुमण्वान् नाम पर्वतः । चर्मण्वती नाम नदी । नाम्नोऽन्यत्र । अस्थिमान्, चक्रवान्, ‘कक्ष्यावान्, उदकवान्, लवणवान्, चर्मवान्। कथम् आसन्दीवान् नाम ग्रामः? आसन्दीशब्दः प्रकृत्यन्तरमस्तीति सज्ञाया मतोर्वत्वम् । 

राजन्वान् सौराज्ये ||४०||

राजन्वानिति सौराज्ये गम्यमाने निपात्यते । राजन्वान् देशः । सौराज्य इति किम् ? राजवान् । 

कृपो रो लोऽकृपणादीनाम् ॥४१॥ 

कृपे रेफस्य लत्वं भवति, न तु कृपणादीनाम् । क्लृप्तम्, क्लृप्त- वान्, कल्प्ता, कल्पकः । अकृपणादीनाम् इति किम् ? कृपणः । कृपाणः । कृपीटम् । कर्पटः | 

प्रादीनामयतौ ||४२ || 

प्रादीनामयतौ परतो रेफस्य लकारो भवति । पल्ययते, पलायते ।

ग्रो यङि ||४३||

गिरतेर्यङि परतो रेफस्य लत्वं भवति । निजेगिल्यते । 

अचि वा ॥ ४४ ॥

अजादौ विहितस्य गिरते रेफस्य लत्वं वा भवति । निगलनम्, 

निगरणम् । निगालकः, निगारकः । निपात्यते, निगार्यते । पूर्वमेव णो लत्वम् । विहितविशेषण किम् ? गिरो, गिरः । 

परेर्घाङ्कयोगेषु ||४५

परेर्घादिषु परतो रेफस्य लत्वं वा भवति । पलिघः, परिघः । 

पल्यङ्कः, पर्यङ्कः । पलियोगः परियोगः । 

कपिरिकादीनाम् ||४६॥ 

कपिरिकादीनां रेफस्य लत्वं वा भवति । कपिलिका, कपिरिका । तल्पिलिका, तर्पिरिका । निल्पिरिका, तिर्षिरिका । तिल्पिलीकः, तिर्पिलीकः । लोमानि, रोमाणि । अङ्गुलिः अङ्गुरिः । गलः, गरः । अलम्, अरम् । लघुः, रघुः । मूरदेवः, मूलदेवः । बालः वारः | व्यवस्थितविभाषा चेयम् । 

डः ॥४७॥ 

डकारस्य लत्वं वा भवति । वलभी, वडभी । नालः, नाडः । 

सुपः प्रकृतेर्नो लोपः ॥४८॥ 

सुबन्ताया प्रकृतेर्नकारान्ताया लोपो भवति । राजा, राजीयति, राजायते, राजपुरुषः, पञ्च, सप्त । सुप इति किम् ? अहन् । प्रकृतेरिति किम् ? तस्मिन् वृक्षान् । 

न सम्बुद्धौ ||४९ ||

सम्बोधने नो लोपो न भवति । हे राजन् । हे तक्षन् । 

नपुंसके वा ॥ ५०

नपुंसके वर्तमानस्य सम्बोधने नो लोपो वा भवति । हे वर्मन्, हे वर्म। 

सुपि वलि तद्वत् ॥ ५१ ॥

सुपि वलादौ सुबन्तस्येव कार्यं भवति । पञ्चानाम्, पञ्चकः । राजभ्याम्, राजवत् । सुपीति किम् ? हन्ति । वलीति किम् ? राजानौ, राजानः । 

संयोगस्य पदस्य || ५२  

संयोगान्तस्य पदस्य लोपो भवति । अपचन्, गोमान् श्रेयान् । 

तद्वदतिदेशात् पुंवत् | 

रात् सः ||१३||

रेफात् परस्य सकारस्यैव लोपो भवति । कर्तुः हर्तुः धातुः । स  इति किम् ? ऊर्क ऊर्ग्भ्याम् ।

धि सङि ५४

धकारादौ सङि परत सकारस्य लोपो भवति । चकाधि । सङीति किम् ? पयोधिः ।  

झलो झलि ॥५५॥

झल परस्य सकारस्य झलादौ सङि परतो लोपो भवति । अभित्त, अबुद्ध । झल इति किम् ? आस्ताम् । झलीति किम् ? अभित्स्वहि । सङीत्येव । दृषत्स्थानम् । 

ह्रस्वात् ॥५६॥ 

स्वात् परस्य सकारस्य झलि परतो लोपो भवति । अकृत, अकृथा । झलीत्येव । अकृषाताम् । सडीत्येव । द्विष्टराम् । अस्तेर् [५|४|७९] इति लिङ्गान्न धातोः । कथम् अलविष्ट? इट ईटि [ ५७ ] इति लिङ्गान्न भवति  

इट ईटि ॥५७॥

इटः परस्य सकारस्येटि परतो लोपो भवति । अलावीत् । इट इति किम्? अयाक्षीत् । ईटीति किम् ? अलविष्ट | 

स्कोः संयोगाद्योरन्ते च ॥५८॥

मकारककारयोः सयोगाद्योर्झलि परतः पदान्ते च लोपो भवति । लग्नः, तष्टः । मक्, तद् । तद्वदतिदेशात् मग्भ्याम् । सङीत्येव । शक्स्थाता | 

चोः कुः ॥५९॥

चवर्गस्य झलि पदान्ते च कवर्गे भवति । पक्ता, पक्, पग्भ्याम् । मीत्येव । क्रुञ्च । 

क्विनः ॥६०॥ 

क्विनन्तस्य झलि पदान्ते च कुत्वं भवति । घृतस्पृक् तादृक्, 

तादृग्भ्याम् । 

नग् वा ॥ ६१  

नशे क्विबन्तस्य कुत्वं वा निपात्यते । जीवनक्, जीवनट् । जीवनग्भ्याम्, जीवनङ्भ्याम् । 

हो ढः ॥ ६२॥

झलि पदान्ते च हकारस्य ढकारो भवति । सोढा, वोढा, मधुलिट्, मधुलिड्भ्याम् । 

दादेर्धातोर्घः || ६३ ||

दकारादेर्धातोर्हकारस्य झलि पदान्ते च घकारो भवति । दग्धा, धक्, धग्भ्याम् । दादेरिति किम् ? सोढा, वोढा । धातोरिति किम् ? दामलिट् । 

वा द्रुहमुहस्नुहस्निहाम् ||६४ ॥

द्रुहादीनां हकारस्य झलि पदान्ते च घकारो वा भवति । द्रोग्धा, द्रोढा, मित्रध्रुक्, मित्रधुट्, मित्रध्रुग्भ्याम्, मित्रध्रुड्भ्याम् । उन्मोग्धा, उन्मोढा उन्मुक्, उन्मुट्, उन्मुग्भ्याम्, उन्मुड्भ्याम् । उत्स्नोग्धा, उत्स्नोढा, उत्स्नुक्, उत्स्नुट् उत्स्नुग्भ्याम्, उत्स्नुड्भ्याम् । चेलस्नेग्धा, चेलस्नेढा, चेलस्निक् चेलस्रिट्, चेलस्निग्भ्याम्, चेलस्निड्ग्भ्याम्।

नहाहो धः || ६५|| 

नह आहश्च झलि पदान्ते च धो भवति । नद्वा, उपानत्, उपा- 

नद्भ्याम् । आत्थ | 

व्रश्चभ्रस्जसृजमृजयजराजभ्राजशां षः॥ ६६  

व्रश्चादीनां झलि पदान्ते च षत्वं भवति । व्रष्टा, मूलवृट् । भ्रष्टा, धानाभृट् । स्रष्टा, रज्जुसृट् । मार्ष्टा, कसपरिमृट् । यष्टा, उपयट् । विराट् । विभ्राट् । वेष्टा, विट् । प्रष्टा, प्राद्, पृट् । 

झलो जश् ||६७ || 

झलो झलि पदान्ते च जरा भवति । लब्धा, त्रिष्टुबत्र | खरि चरं वक्ष्यति [ ६।४।१४८ ], झयो हस्य पूर्वसवर्णम् [ ६|४|१५६] | 

सोस्तसौ मत्वर्थे ॥ ६८॥ 

तकारसकारयोर्मत्वर्थीये परतस्तकारसकारादेशौ भवतः । जश्त्वरुत्व- बाधनार्थं वचनम् । विद्युत्वान् बलाहकः । यशस्वी । 

झष एकाचः स्ध्वोर्बशो भष् || ६९ ||

झषन्तस्यैकाचः सकारे ध्वे च पदान्ते च परतो बशो भष् भवति । भोत्स्यते, अभुद्ध्वम्, भुत् । झष इति किम् ? दास्यति । एकाच इति किम् ? दामलिट | स्ध्वोरिति किम् ? बोद्धा । बश इति किम् ? क्रोत्स्यति, क्रुत् । 

धस्तथोश्च ॥ ७० ॥ 

दधातेस्तकारथकारयोः स्ध्वोश्च परतो बशो भष् भवति । धत्त धत्थ, धत्से, धद्ध्वे । तथोश्चेति किम्? अभिदध्महे । झष इत्येव । दधाति, दधासि । 

तथोर्थोऽधः ॥ ७१ ॥ 

झषन्तस्यादधातेरनयोस्तकारथकारयोर्धकारो भवति । अलब्ध, अलब्धा । अध इति किम् ? धत्त धत्थ । अस्मादेव वचनान् न पूर्वं जश्त्वम् | 

सि षढोः कः ॥ ७२ ॥ 

सकारादौ परतः प्रकारढकारयो ककारो भवति । पिष्ऌ । पेक्ष्यति । वह । वक्ष्यति । 

मो नो म्वोश्च ॥७३॥

मकारान्तस्य धातोर्झलि पदान्ते च मकारवकारयोश्च परतो नकारो भवति । शान्तः, शान्तवान्, प्रशान्, जङ्गन्मि, जगन्वान् । धातोरित्येव । अग्निम् । 

रदात्ततवतोर्दश्व ||७४|| 

रेफदकाराभ्यां परयोः क्तक्तवत्वोरादेर्नकारो भवति दश्च, पूर्वस्य श्रुतत्वात् । पूर्णः, पूर्णवान् । भिन्नः भिन्नवान् । भिन्नवद्भ्याम् इति परस्याश्रुत्वान् न भविष्यति । रदादिति किम्? कृतम् कृतवान् । ततवतोरिति किम् ? भेत्ता । झलीत्येव । मुदितम् । कथ कार्ति ? बहिरङ्गत्वादसिद्धो रेफः। 

यण्संयोगादातः ||७५ ||

यण्संयोगात्परो य आकारस्तदन्तात्परयोस्ततवतोर्नकारो भवति । ग्लानः, ग्लानवान् । म्लानः, म्लानवान् । यणिति किम् ? आम्नातः । संयोगादिति किम् ? यातः | आत इति किम् ? च्युतः । धातोरित्येव । निर्यात | 

ल्वादिभ्यः क्तिनश्च ॥७६॥

ॠकारान्ताल्ल्वादिभ्यश्च परयोस्ततवतो क्तिनश्च नकारो भवति । कीर्णः, कीर्णवान् । लूनः, लूनवान् । लीनः, लीनवान् । कीर्णिः, लूनिः, लीनिः । 

पूञो नाशे ॥ ७७

नागे वर्तमानात्पूञ परयोस्ततवतोर्नो भवति । पूना यवाः । नाश इति किम् ? पूतः, पूतवान् । 

दुग्वोरू च ॥७८॥

दु गु इत्येतयोरनन्तरयोस्ततवतोर्नो भवति, दुग्वोरुकारस्य च ऊकारः | आदूनः, आदूनवान्। विगूनः, विगूनवान् । 

सेर्ग्रासे ॥७९॥ 

सिनोते परयोस्ततवतोग्रसेऽभिधेये नो भवति । सिनो ग्रास | 

ग्रास इति किम् ? सिता पाशेन सूकरी । 

ओदितः ||८०||

ओदितः परयोस्ततवतोर्नो भवति । लग्नः, लग्नवान् । स्वादय 

ओदित [ धातु ४/९१] इति वचनात् । प्रसूनं, प्रसूनवान् । डीनं डीनवान् । ओदित्वादेव लिङ्गादिडभावः । 

क्षेः क्षी च ॥ ८१ ॥

क्षियः परयोस्ततवतोर्नो भवति, क्षीभावश्च । क्षीणः, क्षीणवान् ।

वा भावाक्रोशदैन्येषु ॥ ८२॥

भावादिष्वर्थेषु क्षियः परयोस्ततवतोर्नो वा भवति, क्षीभावश्च । क्षीणमनेन, क्षितमनेन । क्षीणायुः, क्षितायुः । क्षीणकस्तपस्वी, क्षितकस्तपस्वी | 

श्योऽस्पर्शे ॥ ८३ ॥

श्यायतेः स्पर्शादन्यत्र वर्तमानात्परयोस्ततवतोर्नो भवति । शीनं घृतम् । अस्पर्श इति किम् ? शीतो वायुः । 

अञ्चोऽनवधौ|| ८४|| 

अवधिरहितेऽर्थे वर्तमानादञ्चतेः परयोस्ततवतोर्नो भवति । समक्नौ शकुने पक्षौ । अनवधाविति किम् ? उदक्तमुदकं कूपात् । 

अद्यूते दिवः ||८५|| 

दिव परयोस्तत्रतोद्यूतादन्यत्र नो भवति । आद्यूनः आद्यूनवान् । अद्यूत इति किम् ? द्यूतं वर्तते । 

अवाते निर्वाणः ॥ ८६॥

वाताद् अन्यत्र निर्वाण इति निपात्यते । निर्वाणो भिक्षुः । निर्वाणः प्रदीपो वातेन । अवात इति किम् ? निर्वातो वातः । 

घ्रात्रार्तिह्रीनुदोन्दविदो वा ॥८७॥ 

प्रादिभ्यः परयोस्ततवतोर्नो भवति वा । प्राणः घातः । त्राणः , त्रातः | व्यवस्थितविभाषया देवत्रातः । ऋणं शोध्यम्, ऋतं सत्यम् । ह्रीणः, ह्रीतः । नुन्नः, नुत्तः । समुन्नः, समुत्तः । विन्नः, वित्तः । उन्दिसाहचर्याद्विन्दतेर्ग्रहणम्, विद्यतेर्विन्न । 

प्रस्त्यो मः ॥८८॥

प्रपूर्वात् स्त्यायते परयोस्ततवतोर्मो वा भवति । प्रस्तीमः, प्रस्तीमवान् । प्रस्तीतः प्रस्तीतवान् । 

क्षः ८९॥ 

क्षायतेस्ततवतोर्मो भवति । क्षामः क्षामवान् । योगविभागो 

नित्यार्थः | 

शुषः कः ॥ ९०॥

शुषेः परयोस्ततवतोः को भवति । शुष्कः, शुष्कवान् । 

पचो वः ॥९१॥

पचेः परयोस्ततो भवति । पक्वः, पक्कवान् ।

ह्लादो हृद् ॥९२॥ 

हादेस्ततवतो परयोर्हृदादेशो भवति । प्रह्लन्नः प्रहृन्नवान् । ण्यन्तस्य प्रह्लादितः | 

क्तिनि ॥ ९३ ॥ 

क्तिनि परतो ह्रादो ह्लदादेशो भवति । प्रह्लत्ति । 

फुल्लक्षीबकुशोल्लाघाः ॥९४॥ 

एते शब्दा निपात्यन्ते । फुल्लः, क्षीबः, कृशः, उल्लाघः । प्रादिरहितानां निपातनाद् इह न भवति । प्रफुल्लाः । कथम् उत्फुल्लः, संफुल्लः, परिकृश इति ? प्रादिसमासाद् भविष्यति । 

न ध्याख्यापॄमूर्छिमदाम् ||९५||

ध्यादिभ्यः परयोस्ततवतोर्यदुक्तं तन्न भवति । ध्यातम्, ध्यातवान् । ख्यातम्, स्यातवान् । पूर्तः, पूर्तवान् । मूर्तः मूर्तवान् । मत्तः, मत्तवान् । 

वित्तः प्रतीतभोगयोः ॥९६॥ 

विन्दते क्तान्तस्य प्रतीतेः भोगे चार्थे नत्वाभावो निपात्यते । वित्तः, प्रतीतः | वित्तम्, धनम् । विन्नमन्यत् । 

भित्तं शकले ||१७||

भिदेः क्तान्तस्य शक्लेऽभिधेये नत्वाभावो निपात्यते । भित्तम् । शकलमित्यर्थ: । शकल इति किम् ? भिन्नम् । कथं भित्तभिन्नम्’ इति शकलमित्यर्थः । 

ससजुषो रुः ॥९८॥

सकारान्तस्य पदस्य सपूर्वस्य च  जुषो रुर्भवति । अग्निः । सजूः । तद्वदतिदेशात् पयोभ्याम्, सजूर्भ्याम् । 

अह्नः || ९९||

अहनित्येतस्य पदस्य रुर्भवति । अहः, अहोभ्याम्, अहःसु । 

लुक्यरि रः ॥ १०० ॥ 

अरेफादौ पदे परतोऽह्नो रो भवति । अहर्ददाति, अहर्भुङ्क्ते । अरीति किम् ? अहोरूपम् । अहोरात्रम् । कृत्स्नमहो रथन्तरं साम गायति । सर्वमहो रमस्व । यातः शनैः सर्वमहो रथेन । लुकीति किम्? दीर्घाहा निदाघाः । 

प्रचेतसो राजनि वा ॥ १०१ ॥

प्रचेतमो राजनि परे रेफो वा भवति । प्रचेतो राजन्, प्रचेता राजन् । 

प्रत्यादिष्वहरादीनाम् ॥ १०२ ॥ 

अहरादीनां प्रत्यादिषु परतो रेफो वा भवति । अहर्पतिः, अहः पति, अहस्पतिः । गीर्पति, गीष्पति, गीःपति । धूर्पति, धूष्पति, धूःपतिः | 

दोनडुहः ॥ १०३  

अनडुह पदस्य दकारो भवति । बह्वनडुत् कुलम् । अनडुद्भ्याम् । कथम् अनड्वान्?[ ५/४/३६ ] नुम्विधानसामर्थ्यान्न भविष्यति । 

वसुस्रंसुध्वंसां सः १०४ ॥ 

वस्वन्तस्य पदस्य स्रसुध्वंसोश्च सकारस्य दकारो भवति । विद्वत्कुलम्, विद्वद्भ्याम् । उखास्रत्, उखास्रद्भ्याम् । पर्णध्वत्, पर्णध्वद्भ्याम् । स इति किम् ? पपिवान् । 

तिपि १०५॥

तिपि परतः सकारान्तस्य पदस्य दकारो भवति । अन्वशात् । स इत्येव । अन्वहन् । पदस्येत्येव । शास्ति । 

सिपि रुर्वा ॥ १०६॥ 

सिपि परतः सकारान्तस्य पदस्य रुर्भवति दकारो वा । अचका- स्त्वम्, अचकात् त्वम् । सिपीति किम् ? अचकाद् भवान् । 

दः ॥ १०७॥ 

दकारान्तस्य पदस्य सिपि परतो रुर्भवति वा । अभिनस्त्वम्, 

अभिनत्त्वम् । 

धातोर्वोरनचीको दीर्घः || १०८ ||

धातोर्यौ रेफत्रकारावनच्परौ तयोः परभूतयोरिको दीर्घो भवति । गीः, धूः, पूः, आस्तीर्णः, कीर्तयति, दीव्यति, सीव्यति, प्रतिदीव्ना । धातोरिति किम् ? सर्पिः, वायुः, कुर्कुरः, कुर्कुरीयति, चतुर्भ्यः, चतुर्यति । पठिता एव हि प्रकृतयो धातव इति रूढिः । वोरिति किम् ? गोधुक् युक्तिः । अनचीति किम्? विकिरो गिरति । इक इति किम् ? चर्यते । 

सुपि यचि ॥ १०९  

यकारादावजादौ च सुपि परतो दीर्घो न भवति । धुर्यः, दिव्यः पुर्याम्, गिर्यो, गिरौ, गिरः । सुपीति किम् ? जीर्यति, दीव्यति । यचीति किम्? गीर्भ्याम्, धूर्म्याम् । 

द्विन्वे ॥ ११०॥ 

द्विर्वचने सति दीर्घो न भवति । रिर्यतुः, रिर्युः | संविव्यतुः, संविव्युः।

कुरुच्छुरोः ॥ १११ ॥ 

कुरुः छुर् इत्येतयोर्दीर्घो न भवति । कुर्यात् कुर्वः, कुर्मः । छुर्यते, छुर्यात्, छुर्यासु । उकारनिर्देशः किम् ? कुरे कुर्यात् । कुर्दादीनां स्फूर्ज [ धातु १।७४ ] इति लिङ्गान्न भवति । 

अदसोऽत्वे दादु दो मः ||११२||

अदसस्त्यदाद्यत्वे सति दात्परस्योत्वं भवति, दस्य च मत्वम् । अमुम्, अमुना | अत्वम् इति किम् ? अदोऽत्र, अदस्यति । 

अद्रौ वा ॥ ११३॥

अदसोऽद्रागमे सति दात् परस्योत्वं वा भवति, दस्य च मत्वम् । अदमुयड्, अमुमुयड्, अमुद्र्यड्, अदद्र्यड् । 

एत ईत् ॥ ११४ ॥ 

अदसो दात्परस्यैकारस्येकारो भवति, दश्च मत्वम् । अमीभ्यः अमीभिः । दाद् इत्येव । अमुकेऽत्र । अमुयोरित्ययादेशे कर्तव्ये ईत्त्वलक्षणस्यासिद्धत्वान्न भविष्यति । 

वाक्याचां प्लुतोऽन्त्यः ॥११५॥ 

वाक्यस्य येऽचस्तेपामन्त्यः प्लुतो भवतीत्येतदधिकृतं वेदितव्यम् । 

दुराह्वाने ॥१९६॥ 

दूराह्वाने वाक्याचामन्त्यः प्लुतो भवति । आगच्छ भो देवदत्त३ । दुराह्वान इति किम् ? आगच्छ भो देवदत्त | वाक्याचाम् इत्येव । देवदत्तागच्छ । 

अनन्त्येऽपि हेहै ||११७॥ 

अनन्त्येऽन्त्येऽपि वाक्यस्य हेहैशब्दौ दूराह्वाने प्लुतौ भवतः । हे३ देवदत्त । है ३ देवदत्त । देवदत्त हे३ । देवदत्त है ३ ! दूराह्वान इत्येव । हे देवदत्त । है देवदत्त | 

गुर्वेकैकमनृद्वा ११८ ॥ 

गुर्वक्षरमेकैकमृकारवर्जितं दृराह्नाने प्लुतो वा भवति । देवद३त्त । दे३वदत्त । देवदत्त३ । अनृद् इति किम्? कृष्णमि३त्र । दूराह्वान इत्येव । हे देवदत्त | 

अस्त्रीशुद्रप्रत्यभिवादे ॥ ११९॥ 

स्त्रीशूद्रवर्जितस्य प्रत्यभिवादे वाक्याचाम् अन्त्य प्लुतो वा भवति । अभिवादये देवदत्तोऽहं भो, आयुष्मानेधि देवदत्त३ । देवदत्त । स्त्रीशूद्रपर्युदासः किम् ? अभिवादये गार्ग्यह भो, आयुष्मती भव गार्गि । अभिवादये तुषजकोऽहं भो, कुशल्यसि, तुषजक? वाक्याचाम् इत्येव । देवदत्त, कुशल्यसि? असूयके कथम्? असूयकस्त्वमसि, जाल्म, न त्वं प्रत्यभिवादमर्हसि [महाभाष्यम् ] इति तत्र प्रत्यभिवादाभावान्न भविष्यति । भोराजन्यविशाम् अप्यनेनैव सिद्धम् | आयुष्मानेधि देवदत्त भो३ । देवदत्त भो । आयुष्यानेधि, इन्द्रशर्म३न्! इन्द्रशर्मन्! आयुष्मानेधि, इन्द्रपालित३ ! इन्द्रपालित ! 

प्रत्युक्तौ हिः ॥ १२० ॥ 

पृष्ठप्रतिवचने हिशब्दः प्लुतो वा भवति । अकार्षीर्हि कटम्, देवदत्त ? अकार्षं हि३, अकार्षं हि । प्रत्युक्ताविति किम् ? अकार्षीर्हि कटम्, देवदत्त ? हिरिति किम् माणवक, कटम् अकार्षी? अकार्ष ननु ।

उपालम्भे ॥१२१॥ 

सप्रतिक्षेपोऽनुयोग उपालम्भः, तत्र वाक्याचामन्त्य प्लुतो वा 

भवति । अद्य श्राद्धम् इत्यात्थ३ । अद्य श्राद्धम् इत्यात्थ । 

अङ्गयुक्तं तिङाकाङ्क्षम् ||१२२||

अङ्गशब्देन युक्तः तिङन्तमन्यतिङाकाङ्क्षः प्लुतो वा भवति । अङ्ग कूज३, अङ्ग कूज, इदानीं ज्ञास्यसि जाल्म । आकाङ्क्षमिति किम् ? अङ्ग कूज । 

भर्त्सने द्विरुक्तं पर्यायेण ॥ १२३  

भर्त्सने कृतं द्विर्वचनं पर्यायेण प्लुतं वा भवति । चौर चौर३, 

चौर३ चौर, घातयिष्यामि त्वाम् । 

असूयासंमत्योः पूर्वम् ॥ १२४॥ 

असूयायाः संमतौ च द्विरुक्तस्य पूर्वं प्लुतं वा भवति । माणवक ३ माणवक, इदानीं ज्ञास्यसि जाल्म । माणवक माणवक । अभिरूपक३ अभिरूपक, शोभन खल्वसि । अभिरूपक अभिरूपक । 

विचारे ॥ १२५॥

विचारविषये पूर्वं प्लुतं वा भवति । अहिर्नु३ रज्जुर्नु ? अहिर्नु रज्जुर्नु? 

प्रतिश्रुतौ ॥ १२६॥

प्रतिश्रवणे वाक्याचामन्त्यः प्लुतो वा भवति । देवदत्त ! किं मार्ष ३ ? किं मार्ष ? 

पूजिते १२७॥ 

अभिपूजितेऽचामन्त्यः प्लुतो वा भवति । शोभनः खल्वसि देवदत्त३ | देवदत्त | 

चिदित्युपमार्थे ॥ १२८ ॥ 

चिच्छद उपमार्थे प्रयुज्यमाने वाक्याचाम् अन्त्यः प्लुतो वा भवति । अग्निश्चिद् भाया३त् । अनिश्चिद् भायात् । उपमार्थ इति किम् ? कर्णवेष्टकाश्चित्कारय | 

निन्दाशी:प्रैष्येषु तिङाकाङ्क्षम् ॥ १२९॥ 

निन्दायामाशिषि प्रैष्ये च तिङन्तमन्याकाङ्क्ष प्लुतं वा भवति । स्वयं रथेन याति३, स्वयं रथेन याति, उपाध्याय पदातिं गमयति । पुत्राश्च लप्सीष्ठा३, लप्सीष्ठा, धनं च तात । कट कुरु३, कट कुरु, ग्राम गच्छ । 

अनन्त्यस्यापि प्रश्नाख्यानयोः ॥१३०॥

प्रश्न आख्याने चानन्त्यस्यापि पदस्याचामन्त्यः प्लुतो वा भवति । अगम३ पूर्वा३न् ग्रामा३न् देवदत्त३ ? अगमः पूर्वान् ग्रामान् देवदत्त? अगम३ पूर्वा३न् ग्रामा३न् भो३ । अगमं पूर्वान् ग्रामान् भो । प्लुतावैच इदुताविति न वक्तव्यम् । अन्ते स्थितयोस्तयोरेव तत्कालापेक्षता, अन्यथा हि नैतावुच्चारितौ स्याताम् । ऐ३ तिकायन । औ३ पगव । 

एचः प्रश्नान्तपूजाविचारप्रत्यभिवादेष्वादिदुत्परः ॥ १३१ ॥

प्रश्नान्ते पूजाया विचारे प्रत्यभिवादे च एजन्तस्य पदस्याकारः प्लुत इदुत्परो भवति’ । अगम३ पूर्वा३न् ग्रामा३न् अग्निभूता३इ ? पटा३उ पूजायाम् । ऋद्धोऽसि माणवक अग्निभूता३३ । पटा३उ । विचारे । होतव्यः दीक्षितस्य गृहा३इ ? पटाइउ ? प्रत्यभिवादे | आयुष्मान् एध्यग्निभूता३३ । पटा३उ | प्रश्नान्तादिष्विति किम् आगच्छाग्निभूते३ । दस्यो दस्यो३, घातयिष्यामि त्वाम् | 

नैतो द्वित्वे ॥ १३२  

द्वित्वे वर्तमानस्यैतो न भवत्याकारः प्लुतः । कञ्चित् कुशलो भवत्योः कन्ये३ ? एत इति किम् ? आयुष्मन्तौ भूयास्ता कुमारका३ उ । 

तयोर्य्वावचि॥ १३३॥ 

तयोरिदुतोरचि य्वौ भवतः । अग्ना३यिन्द्रम् | पटा३वुदकम् । 

अग्ना३यत्र, पटा३वत्र । दीर्घह्रस्वत्वबाधनार्थं वचनम् | 

इति चान्द्रे व्याकरणे पष्ठास्याध्यायस्य तृतीयः पादः समाप्तः | 

Previous Post
Next Post

© 2025 All rights reserved.