चान्द्रव्याकरणम्(द्वितीयखण्डम्) षष्टाध्यायस्य द्वितीय: पाद:

इकोऽदेङ् क्रियार्थायाः १ ॥ 

इगन्ताया प्रकृतेः क्रियार्थाया अदेङो भवन्ति । कर्ता, चेता, 

 स्तोता । अत्र प्रत्यासत्तेरिकारस्यैकारः। उकारस्यौकारः, पारिशेष्याद् ऋकारस्याकारः। इक इति किम्? यानम्, म्लायति, उम्भिता । क्रियार्थाया इति किम्? वायुभिः, पटुतरः, अग्निकाम्यति। 

उश्रोः ॥ २ ॥ 

प्रकृतेर्विहितस्योकारस्य श्नोश्चादेङो भवन्ति । करोति, चिनोति । कथं तरुर्मद्गुरिति?  श्नुसाहचर्याद् विकरणस्यैव ग्रहणम् । 

जुस्पुको : || ||

जुसि पुकि च परत इकोऽदेङो भवन्ति । अबिभयुः, अबिभरुः, अजुहवुः । हेपयति, क्नोपयति । इक इत्येव । अनेनिजुः, यापयति । कथं चिनुयुः ? अत्र द्वौ प्रतिपेधौ, अपिदाश्रयो यासुडाश्रयश्च । 

लघोरुपान्तस्य ॥  

उपान्तस्येको लघोरदेङो भवन्ति । वर्तिता, भेत्ता, बोद्धा, योद्धा । लघोरिति किम् ? धूपिता । उपान्तस्येति किम् ? रुणद्धि । क्रियार्थाया इत्येव । काष्ठभिद्भयाम् | 

सृजिशोर्झल्यम् || || 

सृजेशेश्व झलादौ परतोऽमागमो भवति । स्रष्टा, स्रष्टुम् । द्रष्टा, द्रष्टुम् । कथम् अस्राक्षीत्, अद्राक्षीत्? अदेङपवादोऽयं योगः, आदैच् तु भवत्येव । झलीति किम् ? सर्जनम्, दर्शनम् । क्ङितीति प्रतिषेधात् सृष्टम् दृष्टम् । क्रियार्थाया इत्येव । रज्जुसृड्भ्याम् | 

स्पृशमृशकृषतृपदृपसृपां वा ॥ ६ ॥

स्पृशादीनां झालादौ परतोऽनागमो भवति वा । स्प्रष्टा, स्पष्ट । म्रष्टा, मर्ष्टा | कष्टा, कर्ष्टा। त्रप्ता। तर्प्ता । द्रप्ता, दर्प्ता। स्रप्ता, सर्प्ता । झलीत्येव । स्पर्शनम् । क्रियार्थीया इत्येव । घृतस्पृग्भ्याम् । 

द्विरुक्तस्य नाच्यलिटि ॥ ७ ॥ 

कृतद्विर्वचनस्य लघुपान्तस्यानादावलिटि परतो यदुक्तं तन्न भवति । नेनिजानि, अमेनिजम् । द्विरुतस्येति किम् ? वेदानि, अवेदम् । अचीति किम्? नेनेक्ति | अलिटीति किम । निनेज | उपान्तस्येत्येव । जुह्वानि ।

तिङ्शित्यपिदाशीर्लिङि ॥ ८ ॥ 

तिङि शिति चापि यनाशीर्लिङि च परत इकोऽदेङो न भवन्ति । चिनुत, चिन्वन्ति, बिभिदतु, विभिदु तुदति, नुदति, चिन्वीत तिशितीति किम् ? कर्ता । अपिदाशीर्लिंडीति किम्? तरति चेषीष्ट । कथं वभूव बभूविथेति नित्यत्वाद् वुकि कृते ……व्यवधानान् न भविष्यति । 

जागुरलिटि ॥ ९ ॥ 

जागतैस्तिडि शिति चापित्यलिटि परतोऽदेङो न भवन्ति । जागृत, जागृथ, जाग्रत् । अलिटीति किम् ? जजागरतुः, जजागरुः 1 तिङ्शितीत्येव । जागरिता । अपिदाशीर्लिंडीत्येव । जागर्ति, जागरिषीष्ट । 

चिण्णल्ङित्सु || १०|| 

जागविण्णलोरच आद्विपये डित्येव च प्रतिषेधविपयेऽदेडो न भवन्ति । अजागारि, जजागार, जागृयात् । कथ जागृवि औणादिक- त्वात् [ उ० १।८२ ] न भविष्यति । एतेष्विति किम् ? जागरयति, जागरक., जागर जागरित, जागर्यात् । 

क्ङिति ११॥

किति ङिति च परतः प्रकृतेरिकोऽदेङो न भवन्ति । कृतम्, जितम्, शुद्धम्, बुद्धम् । नरीनृत्यते, चेचीयते, तोष्ट्रयते, लोलूयते । 

अतिङयाच्च तल्लोपे ॥ १२ ॥ 

अतिङि परतः कितो ङितश्च तल्लोपे सतीकोऽदेङो न भवन्ति, आच्च । यग्लोपे । कुसुभिता, माणवकः । क्यज्लोपे । समिधिता । यङ्लोपे । पोपुवः, चेच्यः, देद्यः, नेन्यः, मरीमृजः, बेभिदिता । अतिङिति किम् ? रोरवीति । निकुचितम् इति किदाश्रयप्रतिषेधः | 

कुटादीनामञ्णिति ॥ १३॥

ञितो णितश्चान्यस्मिन् परत कुटादीनामदेङो न भवन्ति । उत्कुटिना, उत्कुटितुम्, उत्कुटितव्यम् । उत्पुटिता, उत्पुटितव्यम् । अञ्णितीति किम् ? उत्कोटः, उत्पोटकः । 

विज इटि ॥ १४ ॥

विजेरिडादौ परतोऽदेङ् न भवति । उद्विजिता, उद्विजितुम्, उद्विजितव्यम् । इटीति किम्? उद्वेजनम् । 

वोर्णोः ॥१५॥ 

ऊर्णोर्तेरिडादौ परतोऽदेङ् वा न भवति । प्रोर्णविता, प्रोर्णुविता । 

ततवतोरपूशीस्विदिमिदिक्ष्विदिधृषः ||२६|| 

ततवतोरिडाद्योः परतः पूप्रभृतिवर्जितानामेवादेङ् न भवति । तृषितः, तृषितवान् | रुषितः, रुषितवान् । प्वादिपर्युदास किम्? पवितः, पवितवान् । शयितः, शयितवान् । प्रस्वेदितः प्रस्वेदितवान् । प्रमेदितः, प्रमेदितवान् । प्रक्ष्वेदितः प्रक्ष्वेदितवान् । वर्षितः, वर्षितवान् । इटीत्येव । पूतः, प्रस्विन्नः । 

मृषोऽक्षान्तौ ॥१७॥ 

क्षमाया अन्यस्मिन् मृषेस्ततवतोरिङाद्योः परतोऽदेङो न भवन्ति । अपमृषितं वाक्यम् आह । अक्षान्ताविति किम् ? मर्षितः, मर्षितवान् । 

उदुपान्तस्य शब्वतो भावारम्भयोर्वा ॥ १८  

उदुपान्तो यस्य शब्वतस्तस्य भावे क्रियारम्भे च ततवतोरिङाद्योः परतोऽदेङो वा न भवन्ति । द्युतितम् अनेन, द्योतितम् अनेन । प्रद्युतितः, प्रद्योतितः । उदुपान्तस्येति किम्? ? स्वेदितम् अनेन, प्रस्वेदितः । शब्वत इति किम् ? गुधितम् अनेन प्रगुधितः । भावारम्भयोरिति किम् ? रुचिता कन्या । इटीत्येव । रूढम् अनेन प्ररूढः । 

मृडमृदगुपक्लिशवदवस ग्रहां क्त्वि॥ १९ ॥ 

मृडादीनाम् एवेडादौ क्त्वि परतोऽढेडो न भवन्ति । मृडित्वा, मृदित्वा, गुवित्वा, कुपित्वा क्लिगित्वा, उदित्वा, उषित्वा, लुचित्वा, गृहीत्वा । मृडादीनाम् इति किम् ? देवित्वा, पवित्वा । इटीयेव । पूत्वा । 

ऋततृषमृषकृशां वा ||२०||

ऋतादीनाम् इङादौ क्त्वि-परतोऽदेङ् वा न भवति । ऋतित्वा, 

अर्तित्वा । तृषित्वा तर्षित्वा । मृषित्वा सर्षित्वा । कृशित्वा, कर्शित्वा । 

रलो हलादेरिदुतोः सनि च ॥ २१ ॥ 

रलन्तस्य हलादेर्याविदुतौ तयोरिङादौ क्त्वि सनि च परतो ऽदेङो वा न भवन्ति । लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति । द्युतित्वा । द्योतित्वा दिद्युतिषते दिद्योतिपते । रल इति किम् ? देवित्वा, दिदेविपति । हलादेरिति किम् एपित्रा एपिषिति । इदुतोरिति किम् ? वर्तित्वा, विवर्तिषते । इटीत्येव । भुक्त्वा, बुभुक्षते । 

रुदविदमुषग्रहाम् ||२२||

रूदादीनाम् इङादौ सनि क्त्वि च परतोऽदेङो न भवन्ति । रुदित्वा, रुरुदिषति । विदित्वा विविदिषति । मुपित्वा, मुमुषिषति । गृहीत्वा । सनि नास्त्युदाहरणम् इडभावात् । 

इकोऽनिटि ||२३|| 

इगन्तस्यानिङादौ सनि परतोऽदेङो न भवन्ति । चिचीषति, 

तुष्टुषति, चिकीर्षति । अनिठीति किम् ? शिशयिषते | 

उपान्तस्य २४॥ 

अन्तस्य समीपस्येकोऽनिङादौ सनि परतोऽदेङो न भवन्ति । बिभित्सति, बुभुत्सते, विवृत्सति, धिसति, जिवृक्षति | अनिटीत्येव । विवर्तिषते । 

लिसिचोस्तङि ||२५

लिङि सिचि च तङ्पर उपान्तस्येकोऽदेहो न भवन्ति । भित्सीष्ट, भुत्सीष्ट । अभित्त, अबुद्ध । तङीति किम् ? असीत । अनिटीत्येव । वर्धिषीष्ट अवर्धिष्ट । उपान्तस्येत्येव । चेषीष्ट, अचेष्ट | 

उः ||२६||

ऋवर्णान्तस्य लिङ्सिचोस्तङि परेऽदेङो न भवन्ति । कृषीष्ट, अकृत । तङीत्येव । अकार्षीत् जागर्यात् । अनिटीत्येव । वरिपीट, अवरिष्ट । 

सिचि दाधास्थामिच्च ||२७||

दा धा स्था इत्येतेषां सिचि तङ्परे परत इदादेशो भवति, अदेङ् च न भवति । आदितः, आधितः, उपास्थितः । तङीत्येव । अदात्, अधात्, अस्थात् । 

गाङ ईत् स्ये च ॥ २८॥

गाडः स्थे सिचि च परत ईद् भवति, अदेङ् च न भवति । अध्यगीष्यत, अध्यगीष्ट । अतङीत्येव । अगात् । 

भूसुवोऽद्वेस्तिङि ||२९|| 

भू सू इत्येतयोरद्विरुक्तयोस्तिङि परतोऽदेङ् न भवति । अभूत्, अभूः । सुवै, सुवाच है, सुवामहै | अद्वेरिति किम् ? बोभवीति । तिङीति किम् ? भविता । 

हलि पित्युत औत् ||३०|| 

हलादौ तिङि पिति परे उदन्तस्य औदादेशो भवति । रौति, रौषि, रौमि । यौति, यौषि, यौमि । हलीति किम् ? खाणि । पितीति किम् ? रुतः, रुथः । उत इति किम् ? एति । अद्वेरित्येव । जुहोति । 

वोर्णोः ||३१||

ऊर्णोस्तङि हलि पिति परत उत औदादेशो वा भवति । प्रोणति, प्रोर्णोति । हलीत्येव । प्रोर्णवानि । पितीत्येव । प्रोर्णुतः । 

नालि ||३२|| 

एकालि हलि तिङि पिति परत ऊर्णोतेरौदादेशो न भवति । प्रौणत्, प्रौर्णोः । 

तृणह इम् ||२३|| 

तृहेः कृतश्नम्कस्य तिङि हलि पिति परत इमागमो भवति । 

तृणेढि, तृणेक्षि, तृणेह्नि, अतृणेट् । हलीत्येव । तृणहानि । पितीत्येव । तृण्ढ | 

ब्रुव ईट् ||३४||

ब्रुवः परस्य हलादेस्तिङ पित ईड् आगमो भवति । ब्रवीति, अब्रवीत् । हलीत्येव । ब्रवाणि । पितीत्येव । ब्रूत । 

यो वा ||३५||

यङन्तात् परस्य तिङो हलादेः पित ईड् भवति वा । बोभवीति, बोभोति । व्यवस्थितविभाषया कचिद् भवत्येव । वावदीति, लालपीति । कचिन्न भवति । नर्नर्त्ति । हलीत्येव । बोभवानि । पितीत्येव । बोभूत ।  

अस्तिसिचोऽलः || ३६॥ 

अस्ते सिचश्च परस्यैकालस्तिङ ईड् भवति । आसीत्, अकार्षीत् । अल इति किम् ? आस्ताम् । हलीत्येव । कारयामास । 

रुद्भ्यः पञ्चभ्योऽट् च ॥३७॥ 

रुदादिभ्यः पञ्चभ्यः परस्यैकालस्तिङ ईड् भवति, अट् च । अरोदीत्, अरोदत् । अस्वपीत्, अस्वपत् । प्राणीत्, प्राणत् । अश्वसीत्, अश्वसत् । अजक्षीत्, अजक्षत् । पञ्चभ्य इति किम् ? अजागः । अल इत्येव । रोदिति | हलीत्येव । रुरोद | 

अदः ||३८||

अत्तेः परस्यैकालस्तिङोऽड् भवति । अदात् । अल इत्येव । अत्ति । 

अत आद्यञि ||३९||

अदन्तस्य यञादौ तिङि परत आद् भवति । पचामि, करिष्यामि । प्रकृतेरसम्भवान् न भविष्यति । अत इति किम् ? रुवः, रुमः । यञीति किम् ? भवति । तिङित्येव । केशवः, ऊपरः । 

सुपि ||४०||

सुपि यञादौ परतोऽत आद् भवति । वृक्षाभ्याम्, पृक्षाभ्याम् । अत इत्येव । वायुभ्याम् । यीत्येव । वृक्षस्य । 

बहुषु झल्येत् ॥४१॥ 

बहुष्वर्थेषु सुप् तस्मिन् झलादौ परतोऽत एत्वं भवति । वृक्षेभ्यः, प्लक्षेम्यः । वृक्षेषु । बहुष्विति किम् ? वृक्षाभ्याम् । झलीति किम् ? वृक्षाणाम् । सुपीत्येव । यजध्वम् । अत इत्येव । खट्वाभ्यः | 

ओसि ||४२ ||

ओसि परतोऽत एत्वं भवति । वृक्षयोः स्वम्, वृक्षयोर्निधेहि । 

अत इत्येव । वाय्वोः । 

टि चापः ||४३|| 

टाकार ओसि च परत आप एत्वं भवति । खट्वया, खट्वयोः । बहुराजया, बहुराजयोः । पकार किम् ? कीलालपा ब्राह्मणेन । कथम् अतिखट्वेनेति ? दीर्घरूपाश्रयणान् न भविष्यति । 

सम्बोधने सौ ॥ ४४ ॥  

सम्बोधने सौ परत आप एत्वं भवति । हे खट्वे, हे बहुराजे | 

सम्बोधन इति किम् । खट्वा । साविति किम् ? हे खट्वाः । 

अम्बार्थानामडलेकानां ह्रस्वः ॥ ४५ ॥

अम्बापर्यायाणां डकारलकारेक्छब्दरहितानां सम्बोधने सौ परतो ह्रस्वो भवति । हे अम्ब, हे अक्क, हे अल्ल । अडलेकानाम् इति किम् ? हे अम्बाडे, हे अम्वाले, हे अम्बिके । 

ङयूङः ॥४६॥ 

ङ्यन्तस्य ऊङन्तस्य च सम्बोधने सौ परतो हस्वो भवति । हे कुमारि, हे गौरि, हे ब्रह्मबन्धु । तलो ह्रस्वत्वं वा डिसम्बुद्धयोरिति न वक्तव्यम् – देवते देवताया निधेहि, हे देवत हे देवते इति छान्दसत्वात् । 

मातुर्मातच पुत्रे श्लाघ्ये || ४७||

मातुः श्लाघ्ये पुत्रे व्यपदेशक्षमे वर्तमानायाः सम्बोधने सौ परतो मातजादेशो भवति । हे गार्गीमातः । चकारः स्वरार्थः । कबपवादश्चायम् पुत्र इति किम् ? हे मातः । श्लाघ्य इति किम् ? हे गार्गीमातृक । 

इदुतोरेङ् ॥४८॥ 

इकारोकारयोः सम्बोधने सौ परत एङौ भवतः । हे अग्ने, हे वायो । विधानसामर्थ्यादिह न भवति । हे कुमारि, हे गौरि, हे ब्रह्मबन्धु । 

जसि || ४९ ||

 जसि परत इतोरेङौ भवतः । अग्नयः, वायवः।

ङित्यसख्युः ||५०

ङिति सुपि परत इदुदन्तस्य सखिशब्दवर्जितस्य एङौ भवतः । अग्नये, अग्ने । वायवे, वायोः । असख्युरिति किम् ? सख्ये, सख्युः । 

पत्युः समासे ॥५१॥ 

पतिशब्दस्य समास एव ङिति सुपि परत एङौ भवतः । बृहस्पतये, बृहस्पते । समास इति किम् ? पत्ये, पत्युः । 

स्त्रियां वा ॥ ५२ ॥

ङिति सुपि परत स्त्रियाम् इदुदन्ताया एङौ वा भवतः । मतये, 

मत्यै । धेनवे, धेन्वै । 

यूभ्यां चाट् ॥५३॥ 

स्त्रियां य ईकार ऊकारश्च ताभ्याम् इदुद्भयां च परस्य ङितः सुप आङागमो भवति । कुमार्यै, कुमार्याः । गौर्यै गौर्याः । ब्रह्मबन्ध्यै, ब्रह्मबन्ध्वाः । लक्ष्म्यै लक्ष्म्याः । मत्यै, मत्याः । धेन्वै, धेन्वाः । इह न भवति । मतये, धेनव इति, एडि कृतेऽन्यरूपत्वात् । स्त्रियाम् इत्येव । ग्रामण्ये, ग्रामण्यः । खलप्वे, खलप्वः । अग्नये, अग्नेः । वायवे, वायोः । 

सेयुवो वा ॥ ५४ ॥ 

इयुवौ ययोर्विद्येते ताभ्यां परस्य ङित सुप आङागमो भवति वा । श्रियै, श्रिये । श्रिया, श्रियः । भ्रुवै भ्रुवे । भ्रुवा, भ्रुवः । 

स्त्रियाः ||५५|| 

स्त्रीशब्दात् परस्य ङितः सुप आङागमो भवति, नित्यं पुनर्विधानात् । स्त्रियै, स्त्रियाः । 

याडापः || ५६ ||

आप उत्तरस्य ङितः सुपो याडागमो भवति । खट्वायै खट्वायाः । बहुराजायै, बहुराजाया । स्त्रियाम् इत्येव । अतिखट्वाय । 

स्मैवतः स्याडच्च || ५७॥ 

स्मै यस्यास्ति तत आबन्तात् परस्य ङितः सुपः स्याडागमो भवति, आपश्चादादेशः । सर्वस्यै, सर्वस्याः । विश्वस्यै, विश्वस्याः | स्मैवत इति किम्? सर्वायै, अतिसर्वायै 

द्वितीयातृतीयाद् वा ||१८||

द्वितीया-तृतीयाभ्यां परस्य ङित सुप स्याडागमो वा भवति, आपश्वादादेशः । द्वितीयस्यै, द्वितीयायै, द्वितीयस्याः, द्वितीयायाः । तृतीयस्यै, तृतीयायै, तृतीयस्याः, तृतीयायाः ।

ङोराम् तत्र ॥५९॥ 

एष्वाङादिषु कृतेषु ङेरामादेशो भवति । कुमार्याम्, गौर्याम्, 

ब्रह्मबन्ध्याम्, लक्ष्म्याम्, मत्याम्, धेन्वाम्, श्रियाम्, भ्रुवाम्, स्त्रियाम् खट्वायाम्, बहुराजायाम्, सर्वस्याम्, विश्वस्याम्, द्वितीयस्याम्, तृतीयस्याम् । तत्रेति किम् ? श्रियि, भुवि । 

नियः ॥ ६० ॥

नियः परस्य ङेराम् भवति । ग्रामण्याम् । 

इदुद्भयाम् औत् ॥ ६१॥

इदुद्भयां परस्य ङेरौदादेशो भवति । सख्यौ,पत्यौ । अस्त्रीलिङ्गमनेनेहोदाहरणम् । 

एङोच्च ॥६२॥ 

इदुदन्तात् कृतैङः परस्य डेरौद् भवति, एङश्चादादेशः । अग्नौ 

वायौ, मतौ, धेनौ । एङ इति किम् ? मत्याम्, धेन्वाम् | 

टोस्त्रियां ना || ६३ ||

अस्त्रियाम् इदुदन्तात् परस्य टा इत्येतस्य नाभावो भवति । प्रकृतत्वाद् एङ्वतोरेव नाभावः । अग्निना वायुना । अस्त्रियाम् इति किम् ? मत्या, धेन्वा । 

ऋतो ङिसुटयत् ॥ ६४॥ 

ऋकारान्तस्य डौ सुटि च परतोऽदादेशो भवति । मातरि, मातरौ, मातर, मातरम्, मातरौ । पितरि पितरौ, पितर, पितरम्, पितरौ । ङिसुटीति किम् ? मात्रा, पित्रा । 

संयोगादेर्लिटि || ६५ ||

सयोगादेर्ऋकारान्तस्य लिटि परतोऽद् भवति । सस्वरतु, सस्वरुः । सस्मरतु, सस्मरु । प्रतिषेधविषये पुनः प्रसवोऽयम्, न विधिः । अन्यत्र पुनः सस्वार, सस्मार । 

स्कृञः ॥ ६६॥ 

सयोगादेः, ससुट्कात् करोतेर्लिटि परतोऽद् भवति । संचस्करतुः, संचस्करुः | सुट् किम् ? चक्रतुः चक्रुः । संयोगादिग्रहणेष्वौपदेशिकसंयोगग्रहणज्ञापनार्थ आरमः । 

ऋदृच्छृणाम् ||६७ ||

ऋकारान्तानामृछेर्ऋ इत्येतस्य च लिटि परतोऽद् भवति । विचकरतु., विचकरुः | आनर्छतुः, आनछुः । आरतुः, आरुः । विशश्रतुः, विशश्रुरिति श्रातिना सिद्धम् । विदद्रतुः, विदद्ररिति द्रतिना सिद्धम् । निपप्रतुः, निपप्रुरिति प्रातिना सिद्धम् । 

ऋश्विदृशोऽङि || ६८|| 

ऋवर्णान्तानां श्वयतेर्दृशेश्चाङि परतोऽद् भवति । आरत्, समारत असरत्, अजरत् । अश्वत्, अदर्शत् । 

असुपतवचां थुक्पुसुमः ||६९ ||

असु पत वच इत्येतेषाम् अङि परतस्थुक् पुम् उम् इत्येत आगमा भवन्ति । आस्थत्, आस्थताम् । अपप्तत्, अवोचताम् । अपतताम् । अवोचत् , अवोचताम्।

केऽणो ह्रस्वः ॥ ७० ॥ 

के परतोऽणो ह्रस्वो भवति । खट्विका, कुमारिका, ब्रह्मबन्धुका | अण इति किम् ? गोका, नौका । प्रकृतेरित्येव । कुमारी कायतीति कुमारीकः | 

न कपि ॥ ७१

कपि परतोऽणो ह्रस्वो न भवति । बहुकुमारीको देशः । 

आपो वा ॥७२॥

आपः कपि परतो ह्रस्वो वा भवति । बहुखट्विका, बहुखट्वाका । 

शीङ एदलिटि || ७३ || 

अलिटि परतः शीङ एद् भवति । शेते, शयाते । शयानः अलिटीति किम् ? शिश्ये । 

यि क्ङित्ययङ् ||७४ || 

यकारादौ क्ङिति परतः शेतेरणोऽयङादेशो भवति । शय्यते, 

शाशय्यते, अधिगम्य गतः । क्ङितीति किम् ? शेयम् । 

प्रादिभ्य ऊहो ह्रस्वः ॥७५॥ 

प्रादिभ्यः परस्य ऊहतेर्यकारादौ क्ङिति परतो ह्रस्वो भवति । समुह्यते, समुह्यात्, समुह्य गतः । प्रादिभ्य इति किम् ? ऊह्यते । यीत्येव । समूहितः । क्ङितीत्येव । अभ्यूह्योऽयम् अर्थः । अण इत्येव । आ ऊह्यते, ओह्यते, समोह्यते । 

लिङीणः ॥७६॥

प्रादिभ्यः परस्येणो लिङि यकारादौ क्ङिति परतो स्वो भवति । उदियात्, समियात् । लिडीति किम् ? उदीयते, समीयते । प्रादिभ्य इत्येव । ईयात् । अण इत्येव । आ ईयात्, एयात्, समेयात् । 

आशिषि दीर्घः ॥७७॥ 

आशिषि लिङि यकारादौ परतोऽणो दीर्घो भवति । चीयात्, स्तूयात्, ईयात् । आशिषीति किम् ? चिनुयात्, स्तुयात्, इयात् । 

च्वियङ्यक्क्येषु ||७८ || 

चौ यदि यकि क्ये च परतोऽणो दीर्घो भवति । पटूकरोति, पटूभवति, पट्टस्यात् । चेचीयते । चीयते मन्त्यते । भृशायते, लोहितायति, लोहितायते । 

रीङृतो ये च ॥ ७९ ॥ 

ऋकारान्तस्य ये च्व्यादिषु च परतो रीडादेशो भवति । पित्र्यः स्थालीपाकः । पित्रीभवति । पित्रीयति, पित्रीयते । चेक्रीयते । 

रिङ् शयगाशीर्लिङि ॥ ८०॥ 

ऋकारान्तस्य शे यक्याशीर्लिङि च परतो रिङादेशो भवति । आद्रियते, क्रियते, क्रियात् । आशिषीति किम् ? विभृयात् । यीत्येव । कृषीष्ट । 

ऋसंयोगाद्योरत् ॥ ८१ ॥ 

अर्तेः संयोगादीनाम् ऋकारान्तानां च आशीर्लिङि यकि च परतोऽद् भवति, न तु शे, असम्भवात् । अर्यते, अर्यात् । स्मर्यते, स्मर्यात् । यीत्येव । स्मृषीष्ट । आशिपीत्येव । इयूयात् । कथं सस्क्रियते, सस्क्रियाद् इति ? औपदेशिकस्य ‘सयोगस्य ग्रहणात् । 

यङि ||८२||

यङि परत ऋसंयोद्योरद् भवति । अरार्यते, सास्मर्यते।

हनो घ्नी हिंसायाम् ||८३॥

हन्तेहिंसायां गम्यमानायां यङि परतो नीभावो भवति । जेघ्नीयते । दीर्घः किम् ? जेघ्नीत । हिंसायामिति किम् ? जङ्घन्यते । 

ई घ्राध्मोः ॥८४॥

घ्रा ध्मा इत्येतयोर्यङि परत ईकारो भवति । जेत्रीयते, देध्मीयते । दीर्घः किम् ? जेघ्रीतः । 

अस्य च्वौ || ८५॥

अवर्णान्तस्य परत ईकारो भवति । शुक्कीकरोति, शुक्लीभवति, शुक्लीस्यात् । खट्वीकरोति, खट्वीभवति, खट्वीस्यात् । 

क्यचि ॥ ८६॥

अवर्णान्तस्य क्यचि परत ईकारो भवति । पुत्रीयति, वस्त्रीयति, मालीयति । 

क्षुध्यशनस्य ॥८७॥

क्षुधि गम्यमानायाम् अगनस्य क्यचि परत ईत्त्वं न भवति । अशनायति । क्षुधीति किम् ? अशनीयति दानाय | 

धनस्य तृष्णायाम् ||८८||

धनशब्दस्य तृष्णायां गम्यमानायां क्यचि परत ईत्त्वं न भवति । धनायति । तृष्णायाम् इति किम् ? धनीयति दानाय । 

उदन्यः || ८९|| 

उदकस्य क्यचि तृष्णायां गम्यमानायाम् उदन्भावो निपात्यते । उदन्यति । उदकतृष्णा पिपासैव गृह्यते, तत्र प्रतीतेः । अन्यत्रोदकीयति । 

वृषाश्वयोमैथुने सुक् ॥ ९० ॥ 

मैथुनतृष्णायां गम्यमानायां वृषाश्वयो क्यचि परतः सुग् आगमो भवति । वृपस्यति गौ’ । अश्वस्यति वडवा | मैथुन इति किम् ? वृषीयति, अश्वीयति । 

असुक् चात्तुम् ॥९१॥ 

अत्तु तृष्णायां गम्यमानायां क्यचि परतः प्रकृतेरसुगागमो भवति, सुक् च । दध्यस्यति, दधिस्यति । मध्वस्यति, मधुस्यति । क्षीरस्यति । लवणस्यति । अत्तुमिति किम् ? क्षीरीयति दानाय | 

दोसोमास्थामित्ति किति ||१२||

दो सो मा स्था इत्येतेषां तकारादौ किति परत इकारादेशो भवति । अवदितः, अवदितवान् । अवसितः, अवसितवान् । मितम्, मितवान् । स्थितम् स्थितवान् । तीति किम् ? अवदाय । कितीति किम् ? अवदाता । 

छो वा ॥ ९३ ॥ 

छा इत्येतस्य तकारादौ किति परत इदादेशो भवति । अवच्छितम्, अवच्छातम् । कथं शितम्, शातम् इति शिनोतेः श्यतेश्व रूपम् । 

छो वा ॥ ९३॥

छा इत्यतस्य तकारदौ किति परत इदादेशो भवति। अवच्छितम्, अवच्छातम्। कथं शितम्, शातम् इति? शिनोतेः श्येतश्च रूपम्। 

धाञो हिः ||९४ || 

दधातेस्तकारादौ किति परतो हिभावो भवति । विहितम्, विहितवान् | ञकार किम् ? धीतम्, धीतवान् । 

हाकस्त्वि ॥९५॥ 

ओहागित्येतस्य क्त्वि परतो हिभावो भवति । हित्वा । ककारः किम् ? हात्वा । तीत्येव । प्रहाय । 

दो दत् ||१६||

दाणो देडो ददातेश्व तकारादौ किति परतो ददादेशो भवति । 

दत्तः, दत्तवान् । 

प्रादेरचस्तः ||९७|| 

प्रादीनाम् अजन्तानां विशेप्यस्य दा इत्येतस्य तकारादौ किति परतस्तकारो भवति । प्रत्तम् अवत्तम् । कथं प्रदत्तम्, सुदत्तम्, विदत्तम्, अनुदत्तम् इति ? दत्तशब्देन प्रादिसमासो भविष्यति

अपो भि ॥९८॥

अप्-शब्दस्य भकारादो परतस्तकारो भवति । अद्भिः, अद्भयः । भीति किम् ? अप्सु । प्रकृतेरित्येव । अब्भक्षः | 

सि सो लिङतिङि ॥९९॥ 

सकारादौ लिड्यतिङि च परतः सकारस्य तकारो भवति । वत्सीष्ट, वत्स्यति, विवत्सति । लिङतिङिति किम् ? आस्से, वस्से । 

ताससो रि च लोपः १०० ॥ 

तासोऽस्तेश्च रेफादौ सकारादौ च परतः सकारस्य लोपो भवति । कर्तारौ कर्तारः, कर्तासि कर्तासे । असि, व्यतिसे। 

ह एति ॥ १०१

एति परतस्ताससोर्हकारो भवति । कर्ताह, व्यतिहे । 

क्यङि वा ॥ १०२ ॥

क्याडि परतः सकारस्य लोपो वा भवति । पयायते, पयस्यते । 

ओजोऽप्सरसोः ॥ १०३॥

ओजसोऽप्सरसश्च क्यङि परतः सकारस्य लोपो भवति, नित्यं 

पुनर्विधानात् । ओजायते, अप्सरायते । 

यिवर्णयोर्दीधीवेव्योः ॥ १०४ ॥ 

यकारादाविवर्णे च परतो दीधीवेव्योरन्त्यस्य लोपो भवति । आदीच्यते, आवेव्यते । आदीधिता, आवेविता । आदीधितः, अवेवितः । यिवर्णयोरिति किम् ? आदीध्यनम्, आवेव्यनम् । 

यणचि ॥ १०५ ॥ 

दीधीवेव्योरजादौ परतो यण् भवति । आदीध्यनम्, आवेव्यनम् । आदीध्यक आवेव्यकः । कथम् आदीधेत्, आदीधयुरिति छान्दसत्वाददेङ् तङभावश्च । 

मिमीमारभलभशकपतपददाधामचः सि सनीस् ॥ १०६॥ 

सकारादौ सनि परतो म्यादीनाम् अचः स्थान इसादेशो भवति । डुमिञ् । प्रमित्सति । मीङ् । मित्सते । माङ् । मित्सते । रभ । आरिप्सते । लभ । आलिप्सते । शक्ल । शिक्षति । पत्ल । पित्सति । पद । पित्सते । दाम् । दित्सति । दो । अवदित्सति । देङ् । अवदित्सते । डुदान् । दित्सति । डुधाञ् । धित्सति । धेट् । धित्सति । सीति किम् ? पिपतिषति । सनीवन्तर्धेत्यादिना [ ५|४|११९] विकल्पेनेट् । सनीति किम् ? दास्यति । 

राधो हिंसायाम् || १०७॥

सनि परतो राधेर्हिसायां गम्यमानायामच इसादेशो भवति । प्रतिरित्सति । हिंसायामिति किम्? आरिरात्सति । 

ज्ञप्यावृधाम् इत् ॥ १०८॥ 

ज्ञपि आप् ऋध इत्येतेषा सनि परतोऽच ईद् भवति । ज्ञीप्सति, ईप्सति, इति । सीत्येव । जिज्ञपयिषति, अर्दिधिषति । 

दम्भ इच्च ॥ १०९ ॥

दम्भे सनि सकारादौ परतोऽच इद् भवति, ईच्च । धिप्सति, धीप्सति । सीत्येव । दिदम्भिषति । 

अव्याप्यस्य मुचेरोद् वा ॥ ११० ॥ 

मुचेर्व्याप्यरहितस्य सनि परतोऽच ओकारो वा भवति । मोक्षते वत्सः स्वयम् एव, मुमुक्षते वत्सः स्वयम् एव । अव्याप्यस्येति किम् ? मुमुक्षति वत्सः देवदत्तः । 

द्वित्वे पूर्वस्यात्र लोपः ॥ १११ ॥ 

यद् एतद् अतिक्रान्तं सनीसादेशादि तत्र द्विरुक्तौ पूर्वस्य लोपो भवति । तथा चैवोदाहृतम् । द्वित्व इति किम् ? वर्णस्य मा भूत् । अत्रेति किम्? अमीमषत्, अदीदषत् । द्वित्वे पूर्वस्येत्यधिकारश्चायम् । 

हलोऽनादेः ॥ ११२

द्वित्वे पूर्वस्यानादेर्दलो लोपो भवति । जग्लौ, मम्छौ, आटतुः, 

आटुः । अनादेरिति किम् पपाच । 

खयि खरः ||११३ ||

द्विरुक्तौ पूर्वस्य खयि परतः खरो लोपो भवति । तिष्ठासति, पिस्पन्दिषते, उचिच्छिषति । खयो लोपनिमित्तत्वादनादेरपि हलो लोपो न भवति । खयीति किम् ? सस्नौ । खर इति किम् ? औजिढत्, ययाचे। नैतद् अस्ति । हल इत्यनुवर्तिष्यते, तस्याप्याकारेण व्यवधानान् न भविष्यति । उत्तरार्थं तर्हि खर्भविष्यति । 

चर् ॥ ११४ ॥ 

द्विरुक्तौ पूर्वस्य खरः शेषस्य चर् भवति । पफाल, चिच्छेद, तस्थौ, टिठकारयिषति । 

झषो जश् ॥ ११५ ॥ 

द्विरुक्तौ पूर्वस्य शेषस्य झपो जश् भवति । जिझकारयिषति, बभूव, डुढौके, दध्यौ । सिद्धकाण्डपाठाद् बभणतुः, वभगुर् इत्यादेशादित्वाद् एत्वं न भवति । उचिच्छिषतीति चर्त्वस्य सिद्धत्वाच् छे [ ५/१/७० ] इति तुग् न भवति । 

कुहोश्चुः ||११६||

द्विरुक्तौ पूर्वस्य कवर्गहकारयोश्चवर्गों भवति । चकार, चखाद, जगाद, जघास, भुडुवे, जहार । 

न कुङो यङि ॥ ११७ ॥ 

यङि  द्विरुक्तौ पूर्वस्य कुङश्चुत्वं न भवति । कोकूयते । ङकारः 

किम्? चोकूयते । यङीति किम् ? चुकूषते । 

उरत् ||११||

वर्णस्य द्विरुक्तौ पूर्वस्याद् भवति । ववृधे । चक्रतुः, चक्रुः । 

ह्रस्वः ॥ ११९॥

द्विरुक्तौ पूर्वस्य ह्रस्वो भवति । डुढौकिषते, तुत्रौकिषते, सिषेविषते ।

द्युतिस्वाप्योर्येण इक् ॥ १२०॥ 

द्युतेः स्वापेश्च द्विरुक्तौ पूर्वस्य यण इग् भवति । दिद्युतिषते 

सुष्वापयिषति । अनन्तरे द्विरुक्तनिमित्ते चैतदिष्यते । इह न भवति । सिष्वापकीयिषति । 

व्यथो लिटि || १२१॥

व्यथेर्लिटि द्विरुक्तौ पूर्वस्य यण इग् भवति । विव्यथे, विव्यथाते । लिटीति किम् ? वाव्यथ्यते । 

दीर्घोऽपितीणः || १२२॥

अपिति लिटि परत इणो द्विरुक्तौ पूर्वस्य दीर्घो भवति । ईयतु, ईयुः । अपितीति किम् ? इयाय, इययिथ । 

अत आदेः || १२३||

द्विरुक्तौ पूर्वस्यादेरकारस्य दीर्घो भवति । आटतुः, आटुः । आदेरिति किम् ? पपाच । 

नुक् चानेकहलः ॥ १२४ ॥ 

एकहलोऽन्यस्य लिटि परतो द्विरुक्तौ पूर्वस्यादेर्दीर्घो भवति, नुक् चागमः । आनञ्जतुः, आनञ्जुः । आनृधतुः, आनृधुः । आनर्छतुः, आनर्छुः | अनेकहल इति किम् ? आटतुः, आटुः । 

अश्नोतेः १२५॥ 

अश्नोतेर्लिटि परतो द्विरुक्तौ पूर्वस्य कृतदीर्घस्यादेरतो नुग् भवति । आनशे, आनशाते । श्शुग्रहणं किम् ? अश्नातेर्मा भूत् । आशतुः, आशुः । 

भुवोऽत् ॥ १२६॥

भवतेर्लिटि द्विरुक्तौ पूर्वस्याद् भवति । बभूव बभूवतुः बभूवुः । 

निजां लुक्येत् ॥ १२७॥ 

निजादीनां द्विरुक्तौ पूर्वस्य शपो लुकि सत्येद् भवति । निजिर नैनेक्ति । विजिर् वेवेक्ति । विष्ऌ वेवेष्टि । निजादयो वृत्करणाद् एव गृह्यन्ते । लुकीति किम्? निनेज | 

ऋपृभृमाहाडामित् ॥१२८॥ 

ऋ पृभृ मा हाड् इत्येतेषां शपो लुकि सति द्विरुक्तौ पूर्वस्येद् भवति । इयर्ति, पिपर्ति, बिभर्ति, मिमीते, जिहीते । डकार किम् ? जहाति । 

सन्यतः || १२९||

सनि द्विरुक्तौ पूर्वस्यात इदादेशो भवति । पिपक्षति, यियक्षति । सनीति किम् पपाच । अत इति किम् ? चुकूपति । 

: पुयण्ज्यपरे ॥ १३०॥

उवर्णान्तस्य सनि द्विरुक्तौ पूर्वस्य पवर्गे यणि जकारे चावर्णपरे परत इदादेशो भवति । पिपविषते, पिपावयिषति । बिभावयिषति । यियविषति, यियावयिषति । रिरावयिषति । लिलावयिषति । जिजावयिषति; जु इति सौत्रो धातुः [ ११२/९९] | ओरिति किम् ? पापच्यते, सनि पापचिपते । पुयण्जीति किम् ? नुनावयिषति, जुहावयिति । अ-पर इति किम् ? बुभूषति | 

सुश्रुद्रुप्रुप्लुच्युञां वा ॥ १३१||

स्रवत्यादीनां सनि द्विरुक्तौ पूर्वस्य यण्यवर्णपरे परत इत्त्वं वा भवति । सिस्रावयिषति, सुस्रावयिषति । शिश्रावयिषति, शुश्रावयिषति । दिद्रावयिषति, दुद्रावयिषति । पिप्रावयिषति, पुप्रावयिषति । पिल्लावयिषति, पुष्प्लावयिषति । चिच्यावयिषति, चुच्यावयिषति । वचनसामर्थ्याद् व्यवधानम् आश्रीयते । अ-पर इत्येव । सुस्रूषति | 

आदेङ् यङि ॥ १३२  

यहि द्विरुक्तौ पूर्वस्य आदेङो भवन्ति । पापच्यते, लोलूयते, चेचीयते । नायमादेङ् यङ्-निमित्त इति लुक्यपि भवति । पापचः, देद्यः, नेन्यः, लोलुवः, पोपुवः । जहातेर्यङ्लुकि जहातीति नात्त्वं तत्र बहुलवचनात् । 

नीग् वञ्चुस्रंसुध्वंसुभ्रंशुकसपतपदस्कन्दाम् १३३॥

वञ्चादीनां यदि द्विरुक्तौ पूर्वस्य नीगागमो भवति । वनीवच्यते, सनीस्रस्यते, दनीध्वस्यते, बनीभ्रश्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते । 

मोऽतो नुक् ॥ १३४ ॥ 

ञमन्तस्य यहि द्विरुक्तौ पूर्वस्यादन्तस्य नुग् आगमो भवति । तन्तन्यते, जङ्गम्यते, बम्भण्यते, जज्जन्यते तन्तम्यते । अत इति किम् ? तेतिम्यते ।  

जपजभदहदशभञ्जपशाम् || १३५ ||

जपादीनां यङि द्विरुक्तौ पूर्वस्य नुम् आगमो भवति । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते । पश इति सौत्रो धातुः । 

चरफलोः ॥१३६॥

चरेः फलेश्च यङि द्विरुक्तौ पूर्वस्यातो नुग् भवति । चञ्चूर्यते, 

पम्फुल्यते । 

ति चोदतः ॥ १३७ ॥ 

तकारादौ यदि च परतश्चरफलोरत उद् भवति । चरणं चूर्ति; प्रफुल्लाः सुमनसः । चञ्चूर्यते, पम्फुल्यते । 

रीगृत्वतः १३८॥

ऋकारवतो यङि द्विरुक्तौ पूर्वस्य रीगागमो भवति । नरीनृत्यते, दरीदृश्यते, परीपृच्छ्यते, वरीवृश्च्यते । 

रुग्रिकौ च लुकि ॥ १३९॥

यङो लुकि च सत्यृकारवतो द्विरुक्तौ पूर्वस्य रुक् रिक् इत्येतावादेशौ भवतः, रीक् च । मर्मृज, मरिमृजः, मरीसृजः । 

सन्वल्लघुनि णौ चङ्यनग्लोपे ॥ १४० ॥

लघुन्यक्षरे परतो णौ च परेऽनग्लोपे सति द्विरुक्तौ पूर्वस्य सन्वत् कार्यं सवति । सन्यत [ १२९] इत्युक्तम्, इहापि तथा । अपीपचत् । ओ: पुयण्ज्यपर [ १३०] इत्युक्तम्, इहापि तथा । अपीपवत्, अलीलवत् । स्रवत्यादीनाम् [ १३१ ] इत्युक्तम्, इहापि तथा । असिस्रवत्, असुस्रवत् । अशिश्रवत्, अशुश्रवत् । अदिद्रवत्, अदुद्रवत् । अपिप्रवत्, अपुत्रवत् । अपिप्लवत्, अपुप्लवत् । अचिच्यवत्, अचुच्यवत् । अन्यस्य न भवति । अनूनवत्, अजूहवत् । लघुनीति किम् अततक्षत्, अररक्षत् । णाविति किम् ? अचकमत । अनग्लोप इति किम् ? अजगदत्, अशशठत्, अतस्तनत् । चङीति किम् ? रिरमयिषति । चङ्ग्रहणमुत्तरार्थम् । 

दीर्घो लघोः ॥ १४१

द्विरुक्तौ पूर्वस्य लघोर्लघुन्यक्षरे परतो णौ चड्यनग्लोपे सति दीर्घो भवति । अपीपचत्, अबीभवत्, अलीलवत्, अनूनवत्, अजूहवत् लघुनीत्येव । अततक्षत् । लघोरिति किम् ? असिस्रवत् । णावित्येव। अचकमत। चङीत्येव । रिरमयिषति । अनग्लोप इत्येव । अजगदत्, अशशठत् । 

स्मृदृत्वरप्रथम्रदस्तॄस्पशामत् || १४२ ||

स्मरत्यादीनां णौ चङ्परे द्विरुक्तौ पूर्वस्य लघुन्यक्षरे परतोऽद् भवति । असस्मरत्, अददरत् । तपरकरणाद् दीर्घौऽपि न भवति । अतत्वरत्, अपप्रथत्, अमम्रदत्, अतस्तरत्, अपस्पृशत् । 

वा वेष्टिचेष्टयोः ॥ १४३  

णौ चङ्परे वेष्टिचेष्टयोर्द्विरुक्तौ पूर्वस्याद् वा भवति । अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् । 

ईच्च गणः ॥ १४४

गणेश्चङ्परे णौ द्विरुक्तौ पूर्वस्य ईदादेशो भवति, अच्च । अजीगणद् गाः, अजगणद् गाः । अदन्ततयाग्लोपित्वाद् आरम्भः । अनेन च हलोऽनादिलोपो न बाध्यते विरोधाभावात्, अनेकवाक्यत्वाच्च [ ६| २|११२] । अपीपच दित्यादावित्त्व दीर्घत्वेन न बाध्यते । यत्र त्वेकवाक्यत्वं तावत्, बाध्येत । यथात्वं [६।२।१३२] नीगादयो [६।२।१३३] बाधन्त इति । 

इति चान्द्रे व्याकरणे षष्टाध्यायस्य द्वितीय: पादः समाप्त ।

Previous Post
Next Post

© 2025 All rights reserved.