चान्द्रव्याकरणम्(द्वितीयखण्डम्) षष्टाध्यायस्य प्रथमः पाद:

मृजेरात् ॥ १ ॥ 

मृजेरत आद् भवति । मार्ष्टि, मार्ष्टा । अत इत्येव । मृष्टः । 

ऋतोऽचि वा ॥ २ ॥

मृजेऋकारस्याजादौ परत आद् वा भवति । मार्जन्ति, मृजन्ति । मार्जन्, मृजन् । ऋत इति किम्? समार्जनम् । अचीति किम् ? मृष्टः | 

अजागृणिश्रीनां सिच्यतङ्घादैच् ॥ ३ ॥ 

अपरे सिचि परतो जागृणिश्विवर्जिताया अजन्ताया प्रकृतेरादैचो भवन्ति । अकार्षीत्, अचैषीत, अलावीत् । अत्र प्रत्यासत्तेरिकारस्यैकारः उकारस्यौकारः, पारिशेष्याद् ऋकारस्याकारः । शेषाणामसम्भवान्न भविष्यति ; उदवोढाम् इति टलोपस्यासिद्धत्वात् । अतडीति किम् ? अच्योष्ट | अजा गुणिश्वीनाम् इति किम् ? अजागरीत्, औनयीत्, अश्वयीत्। कथं न्यनुवीत्, न्यधुवीद् इति । अन्तरङ्गत्वाद् उवि कृते वकारेण व्यवधानान्न भविष्यति, हलन्तलक्षणस्य च नेटि [ ५ ] इति प्रतिषेधात् । अलावीद् इत्यपि तर्ह्योकारेऽवादेशे च कृते न प्राप्नोति नाप्राप्तेऽदेड्यादैजारभ्यते, उवि पुनः प्राप्ते चाप्राप्ते च । न च णिश्विग्रहणं ज्ञापकं सिच्यन्तरङ्गाभावस्य, आदैचोऽदेडपवादत्वात् । न च प्रयोजनमस्ति । योऽप्याह — अचेचायीत्, अनेनायीत, अचिरायीत, अजिरायीद् इति यान्तलक्षणप्रतिषेध स्यात्, तत्रापि नादेङ्प्राप्तिरस्ति, आदैचा बाधितत्वात् । 

हलोऽचः ॥ ४ ॥

अतङ्परे सिचि परतो हलन्तायाः प्रकृतेर्योऽच् तस्यादैचो भवन्ति । अपाक्षीत्, अभैत्सीत्, अरौत्सीत्, अताप्सीत्, अराङ्क्षीत्, असाङ्क्षीत् । 

नेटि || ||

इडादौ सिचि परतो हलन्तायाः प्रकृतेरादैचो न भवन्ति । अकोषीत् । 

वोर्णोः ॥ ६ ॥

ऊर्णोतेरिडादौ सिचि परत ऐज वा भवति । प्रौर्णावीत्, प्रौर्णवीत्, प्रौणुवीत् । 

हलादेरुपान्तस्याश्वसक्षणाह्मयेदितोऽतः ॥ ७ ॥ 

हलाहलन्तस्य श्वसिक्षणिभ्यां हकारमकारयकाराद् एदितश्चान्यस्य योऽकार उपान्तस्तस्येडादो सिच्यतड्परे परत आद् वा भवति । अराणीत्, अरणीत् । हलादेरिति किम् ? मा भवान् अटीत् । उपान्तस्येति किम् ? अरक्षीत् । अश्वसक्षणह्म्येदित इति किम् ? अश्वसीत्, अक्षणीत्; अग्रहीत्, अवमीत्, अव्ययीत्, अरगीत् । अत इति किम् ? अकोषीत् । हल इत्येव । अवधीत् । 

वदत्रजलरः ॥ ८ ॥ 

वदिव्रजोर्लान्तानां रेफान्तानां च हलादीनां योऽकारस्तस्येडादौ सिचि परत आद् भवति, नित्यं पुनर्विधानात् । अवादीत्, अत्राजीत्; अचालीत्, अक्षारीत् । उपान्तस्येत्येव । अश्वल्लीत्, अवभ्रीत् । 

ञ्णिति ९ ॥

ञिति णिति च परत उपान्तस्यात आद् भवति । पाकः, पाचकः । उपान्तस्येत्येव । भङ्गः, भञ्जकः। 

अचः ||१०||

ञिति णिति च परतोऽनन्तरस्याच आदैचो भवन्ति । कारकःनायकः, लावकः | बभूवेति नित्यत्वाद वुकि कृते वकारेण व्यवधानान् न भविष्यति । 

किति चापत्यादावचामादेः ॥ ११ ॥ 

ञिति णिति किति च अपत्याद्यर्थविहिते परतः प्रकृतेर्येऽचस्तेषाम् आदरच आदैचो भवन्ति । दाक्षिः,प्लाक्षिः । औपगवः । औतिकायनः । अपत्यादाविति किम् ? कण्डूयति, शिथिलयति । अचाम् इति किम् ? हलादेरपि यथा स्यात् । 

देविका शिंशपादीर्घ मन्त्रश्रेयसाम् आत् || १२ || 

ञ्णिति किति चापत्याद्यर्थविहिते परतः प्रकृतेर्देविकादीनामचाम् आदरच आद् भवति । दाविकम् उदकम् । दाविकाकूला शालयः । पूर्वदेविका नाम प्राचां ग्रामः तत्र भव पूर्वदाविकः । शाशपश्चमसः शाशपास्थला देवाः, पूर्वशाशपः। दीर्घसत्त्रे भवम् दार्घसत्त्रम् । श्रेयसि भवम्, श्रायसम् । अपत्यादावित्येव । देविकोयति । कथं वहीनरस्यापत्यम्, वैहीनरिः ? विहीनरशब्दः प्रकृत्यन्तरमस्ति । 

केकयमित्रयुप्रलयानां यादेरियः || १३ ||

केकयादीनां ञ्णिति किति च परतोऽचामादेरचः आदैचः सिद्धा एव, यकारादेस्ववयवस्य इयादेशो भवति । कैकेयः, मैत्रेयः। प्रलया दागतम्, प्रालेयं हिमम् । 

 ऐज्भाविनो य्वः पदान्तात् प्रागैच् ॥१४॥ 

ञ्णिति किति चापत्याद्यर्थे विहिते परत ऐज्भाविनोऽच स्थाने यौ य्वौ ताभ्यां पदान्ताभ्यां पूर्वावैचौ भवतः । वैयाकरणः, सौवश्व । ऐज्भाविन इति किम् ? द्व्याशीतिकः । अत्र ह्युत्तरपदस्यादैज्वचनात् [२६] पूर्वपदस्यादैचामभावः । कथं पूर्वत्र्यलिन्दे भवः, पूर्वत्रैयलिन्दः अत्राप्युत्तरपदस्थोऽयम् अचाम् आदरचः ऐज्भाविन स्थाने यकार इति कृत्वा भवत्येव । य्व इति किम्? द्वैमातुर 😕 पदान्तादिति किम् ? यतश्छात्त्राः, याता । 

द्वारादीनाम् ||१५||

द्वारादीनां ञ्णिति किति च परतो य्वाभ्यां पूर्वावैचौ भवतः। द्वारे  नियुक्तो, दौवारिकः । स्वरमविकृत्य कृतो ग्रन्थ, सौवर । व्यल्कशे भव वैयल्कश इति विपूर्वात् पूर्वेणैव सिद्धम् । स्वस्तीत्याह, सौवस्तिकः । स्वरे भवम्, सौवम्, असख्यस्यानाराच्छश्वतोऽसिति [ ५|३ | १४० ग० सू०] इत्यन्त्याजादिलोपः । स्वर्गगमनम् आह, सौवर्गगमनिकः । स्फ्यकृतोऽपत्यम् स्फैयकृतः । स्वादुमृदोरपत्यम्, सौवादुमृदवः । शुनः इदम्, शौवनम् । अणि लोपाभावः । गुनो विकारः शौवं मासम् । अनि लोप एव । श्वादंष्ट्राया भवः, शौवादंष्ट्रो मणिः, अन्येषाम् अपि [ ५/२/१४५ ] इति दीर्घत्वम् । श्वो भवः, शौवस्तिकः । स्वस्येदम्, सौवम् । स्वग्रामे भवः, सौवग्रामिकः, अध्यात्मादित्वाट् [ ३३२९] टञ् । स्वाध्यायेन जयति, सौवाध्यायिक । स्वग्रहणेन सिद्धे स्वग्रामादिपाठादिह न भवति । स्वापतेयम् । 

न्यग्रोधस्य केवलस्य ||१६||

न्यग्रोधशब्दस्यासमस्तस्य ञ्णिति किति च परतो यकारत् पूर्वम् ऐज् भत्रति । नैयग्रोधश्चमसः । केवलस्येति किम् ? न्याग्रोधमूला शालयः| एतच्च ज्ञापकं तदादिविधेः व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम् । 

न व्यतिहारे ॥ १७ ॥ 

अन्योन्यक्रियाकरणे य्वः पदान्नात् प्रागैज् न भवति । व्यावक्रोशी, व्यावचर्ची । स्त्रियां णच् [ १।३/७६ ], तस्मादण् [ ४|४|२१|| 

स्वागतादीनाम् ॥ १८ ॥ 

स्वागतादीनाम् अणिति किति च परतो य्वः पदान्तात् प्रागैज् न भवति । स्वागतम् इत्याह, स्वागतिक । स्वध्वरेण चरति, स्वाध्वरिकः । स्वङ्गस्यापत्यम्, स्वाङ्गिः । व्याङ्गिः । व्याडिः । व्यवहारेण चरति, व्यावहारिकः । 

[ स्वागतादीनां च । पा० ७।३।७ | स्वागतस्वध्वर-स्वङ्ग-व्यङ्ग-व्यड-व्यवहार- व्यायामानाम् । स० ७/१/१९

वादेरिति ||१९||

वशब्दादेरिकारादौ णिति किति च परतो य्वः प्रागैज न भवति । श्वभस्त्रस्यापत्यम् श्रभस्त्रिः । श्वगणेन चरति, श्वागणिकः । कथं श्वाभस्त्रेरिदम् श्राभस्त्रम् इति ? इञि लुप्तेऽपि तत्कृते प्रतिपेवो भवत्येव । इतीति किम् ? शौवदंष्ट्रो मणिः । 

पदस्य वा ॥ २०॥ 

श्वशब्दादेः पदान्तस्य न णिति किति च परतो व प्राग् ऐज् न 

भवति वा । श्वापदम्, शौवापदम् । 

उत्तरस्य ॥२१॥ 

उत्तरपदस्य ञ्णिति किति च परतोऽचाम् आदरच आदैचो 

भवन्ति । अधिकारश्चायम् । 

अंशादृतोः ||२२|| 

अवयवात् परस्यर्त्तवाचिन उत्तरपदस्य ञ्णिति किति च परतोऽ- चामादेरच आदैचो भवन्ति । पूर्ववार्षिकः । वर्षाणामयः पूर्वभागे पूर्वशब्दः । अवयवोऽपि समुदायशब्देनोच्यत इति पूर्वाश्च ता वर्षाश्चेति विशेषणसमासः । अंशादिति किम् ? ऋत्वन्तरैर्व्यवहितासु पूर्ववर्षासु भवः, पौर्ववर्षिकः । सौवर्षिकः | 

सुसर्वार्धाञ्जनपदस्य || २३ |

सुसर्वार्धेभ्य परस्य जनपदवाचिनो ञ्णिति किति च परतोऽचाम् आदेरच आदैचो भवन्ति । सुपाञ्चालकः, सर्वपाञ्चालक, अर्धपाञ्चालकः । 

अमद्राणां दिशः || २४||

दिक्छब्दात् परस्य मद्रवर्जितस्य जनपदवाचिन उत्तरपदस्य ञ्णिति किति च परतोऽचान आदेरच आदैचो भवन्ति । पूर्वपाञ्चालकः, उत्तरपाञ्चालकः | अमद्राणाम इति किम् ? पौर्वमद्रः । 

प्राचां ग्रामाणाम् ||२५|| 

दिक्छब्देभ्येः परेषा प्राच्यग्रामवाचिनां ञ्णिति किति च परतोऽ- चामादेरच आदैचो भवन्ति । पूर्वकार्ष्णमृत्तिकः । यद्यपि पूर्वकृष्णमृत्तिकेति समुदायो ग्रामवाची, अवयवोऽपि ग्रामवाच्येव । नगराणामपि ग्रामविशेषत्वाद् भवति । पूर्वपाटलिपुत्रकः । 

संख्यायाः संवत्सरपरिमाणस्यासंज्ञाशाणकुलिजस्य ||२६|| 

सख्यायाः परस्य सवत्सरस्य परिमाणम्य चासज्ञासम्बन्धिनोऽशाण- कुलिजस्य च ञ्णिति किति च परतोऽचाम् आदेरच आदैचो भवन्ति । द्विसावत्सरिकः, द्विसौवर्णिकः, द्विसाप्ततिकः, द्विनावतिकः | असंज्ञाशाण– कुलिजस्येति किम् ? पाञ्चलोहितिकम् । द्वैशाणः, द्वैकुलिजिकः । 

वर्षस्याभाविनि ||२७||

संख्यायाः परस्य वर्षस्याभाविनि विहिते ञ्णिति किति च परतोऽचाम् आदेरच आदैचो भवन्ति । द्वाभ्यां वर्षाभ्यां भृतोऽवीष्टो वा द्विवार्षिकः । अभाविनीति किम् ? त्रीणि वर्षाणि भावि धान्यम्, त्रैवर्षिकम् । 

जाते प्रोष्ठभद्रात पदस्य ||२८॥

 प्रोष्ठभद्राभ्यां परस्य पदशब्दस्य जातार्थविहिते ञ्णिति किति च परतोऽचाम् आदरच आदैचो भवन्ति । प्रोष्ठपदासु जातः प्रोष्ठपादो ब्राह्मणः | भद्रपदासु जातः, भद्रपादः । जात इति किम् ? प्रोष्ठपदासु भवः, प्रौष्टपदो मेघः । भाद्रपदः | 

हद्भगसिन्धोः पूर्वस्य च ||२९|| 

हृदादीनाम् उत्तरपदानाम् पूर्वपदस्य च ञ्णिति किति च परतोऽचाम् आदेरच आदैचो भवन्ति । सौहार्दम्, सौभाग्यम्, साक्तुसैन्धवः । कच्छादित्वाद् [ ३।२।४८ ] अण् । सौहृदम् इति हृदयस्याणि हृदादेशो [ ५/२/५५ ], न हृद् उत्तरपदम् । 

अनुशतिकादीनाम् ||३०||

अनुशतिकादीनां ञ्णिति किति च परे उभयोः पदयोरचाम् आदेरच आदैचो भवन्ति । अनुशतिकस्येदम्, आनुशातिकम् | अनुहोडेन चरति, आनुहोडिकः । अनुसंवत्सरे दीयते, आनुसांवत्सरिकः । अगारधोनो- रपत्यम्, आगारधैनवम् असिहत्याया भवम आसिहात्यम् । अस्यहत्यशब्दोऽस्मिन्नस्तीति विमुक्तादिभ्यः ४ |२| १५५] अण्, आस्यहात्यः | अस्य हेति प्रयोजनम् अस्य, आस्यहैतिकः अत एव वचनात् पदसमुदायाट्, टञ्, विभक्तेश्चालुक् । वव्योगस्यापत्यम् विद्रादित्वाद [ २/४/२२] अञ् वात्यौगः । पुष्करसदोऽपत्यम्, पौष्करसादि बाह्वादिद्वात् टञ्। अनुरतोऽपन्यन, आनुराहति । कुरुकतः कौरुकात्यः, गर्गादित्वाद [ २४|२४ ] यञ् । कुरुपञ्चालेषु भवः कोरुपाञ्चालः । उदक- शुद्धस्यापत्यम्, औदकशौद्धि । इह लोके भवः ऐहलौकिकः । पारलौकिकः लोकान्ताट् 

३।३।२८] ठञ् । सर्वपुरुषाणाम इदम्, सार्वपौरुषम् । सर्वभूमेर्निमित्तम, संयोग उत्पातो वा सार्वभौमः । प्रयोगे भवः प्रायौगिकः। अध्यात्मादित्वाट् [ ३।३।२९] ठञ् । परस्त्रिया अपत्यम्, पारस्त्रैणेयः। कल्याण्यादित्वाड् [ २/४/५६ ] ढकीनञ् । राजपुरुषात् ष्यञि, राजपौरुष्यम् ष्यञीति किम् ? राजपुरुपायणि । अगोत्राद् आदैजाद्यच[ २|४|०० ] इति फिञ् । सूत्रनडस्यापत्यम्, सौत्रनाडिः | आकृतिगणश्चायम् | अभिगमार्हा गुणाः , आभिगामिकाः | अधिदेवे भवः आधिदैविकः । आधिभौतिकः । चतस्र एव विद्याः, चातुर्वैद्यम् । एवं शातकौम्भम् इत्याद्यपि सिद्धम् । 

देवतानां चार्थे सूक्तहविषोः ||३१|| 

देवताशब्दानां चार्थवृत्तीनां सूक्तहविषोरर्ययोर्ञणिति किति च परे उभयो: पदयोरचामदेरच आदैचो भवन्ति । आग्निवारुणं सूक्तं हविर्वा | सूक्तहविषोरिति किम् ? स्कान्दविशाखम् । 

नेन्द्रस्य परस्य ||३२||

इन्द्राशब्दस्य परव्यवस्थितस्य ञ्णिति किति च परतो ऽचामादेरच ऐज् न भवति । आग्नीन्द्रम् | परस्येति किम् ? ऐन्द्राग्नम् । 

दीर्घाद् वरुणस्य ||३३||

दीर्घात् परस्य वरुणस्य ञ्णिति किति च परतोऽचाम् आदेरच आदैज् न भवति । मैत्रावरुणम् । दीर्घादिति किम् ? अग्निवारुणम् । 

प्राचां नगरस्य ||३४||

प्राचां देशे वर्तमानस्य नगरस्य ञ्णिति किति च परतो ऽचाम् आदेरच आदैचो भवन्ति, पूर्वस्य च । सौह्यनागरः, पौण्ड्रनागरः । प्राचाम् इति किम् ? उदीचां ग्रामे मद्रनगरे भवः, माद्रनगरः | 

जङ्गलधेनुबलजस्य वा ॥ ३५ ॥ 

जङ्गलादीनां परेषां ञ्णिति किति च परतोऽचाम् आदेरच आदैचो वा भवन्ति, पूर्वस्य तु नित्यम् | कौरुजाङ्गलम्, कौरुजङ्गलम् । वैश्वधैनवम्, वैश्वधेनवम् । सौवर्णबालजम्, सौवर्णबलजम् । 

अर्थात् परिमाणस्य पूर्वस्य तु वा ||३६||

अर्थात् परस्य परिमाणवाचिनो णिति किति च परतोऽचाम् आदेरच आदैचो भवन्ति, पूर्वस्य तु वा । आर्धद्रौणिकः अर्धद्रौणिकः । 

नातः ||३७||

अर्थात् परस्य परिमाणवाचिनो ञ्णिति किति च परतोऽत आन् न भवति, पूर्वस्य तु वा । आर्धप्रस्थिःक, अर्धप्रस्थिकः । तपरः किम् ? अर्धखार्यां भवा, अर्धखारी, सा भार्यास्य, अर्धखारीभार्य इति । आदैज्झेतुर.. [ ५/२/३६ ] इति पुंवद्भावप्रतिषेधो भवति । 

प्राद् वाहनस्य ढे||३८||

प्रशब्दात् परस्य वाहनस्य टे परत आद् भवति, प्रवाहणस्यापत्यम् प्रावाहणेयः, प्रवाहणेयः । शुभ्रादित्वाड् [ २/४/५३ ] ढक् । प्रवाहणेयी भार्यास्य, प्रवाहणेयीभार्य इत्यादेज्झेतुर् [ ५/२/३६ ] इति पुवद्भावप्रतिषेधो यथा स्यात् । प्रवाहणेयस्य भाव इत्यत्रापि ढ परोऽस्तीति विकल्पो भवति । 

नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ||३९||

नञ्परेषां शुध्यादीनां ञ्णिति किति च परतोऽचामादेरच आदैचो भवन्ति, पूर्वस्य तु वा । अशुचेरिदम् आशौचम्, अशौचम् | आनैश्वर्यम्, अनैश्वर्यम् । आक्षैत्रझ्यम्, अक्षैत्रझ्यम् । ब्राह्मणादिपाठाद् [ ४|१|१४१ ] भावे ष्यञ् । अकुलस्येदम् आकौशलम्, अकौशलम् । आनैपुणम्, अनैपुणम्, अनैपुण्यम् । अन्यपदार्थाद् मावे ष्यञादयो यथायोगं भवन्ति । कथम् अयायातथ्यम्, आयथातथ्यम् इति ? न यथातथम्, अययातथम् । अयथातथस्य भाव आयथातथ्यम् । यथातथस्य भावः, याथातथ्यम् । न याथातथ्यम्, अयाथातथ्यम् । एवम् आयथापुर्यम्, अयाथापर्यम् । 

हनस्तोऽचिण्णलोः ||४०||

हन्तेश्चिण्णलोरन्यस्मिन् ञिति च परेऽन्त्यस्य तकारादेशो भवति । घातयति, घातकः, साधुघाती, घातः घातम्, घातो वर्तते । अचिण्णलोरिति किम् ? अघानि, जघान । 

आतो युगणलि ||४१|| 

आकारान्तस्य णोलोऽन्यस्मिन् ञ्णिति परे युग् आगमो भवति । दायः, ध्यायः । दायकः ध्यायकः । अदायि, अध्यायि । णौ पुक वक्ष्यति [ ४५ ] | अणलीति किम् ददौ दधौ । 

मः सेटो नावम्यमिकमाचमविश्रमः ||१२|| 

ञ्णिति परतो मान्तस्य सेटो वमादिवर्जितस्य यद् उक्तं तन् न भवति । शमः, दमः । शमकः, दमकः । अशमि, अदमि । म इति किम्? पाठः पाठकः । सेट इति किम् ? यामः, 

यामकः | रामकः। अवम्यमिकमाचमविश्रम इति किम् ? वामः, वामकः, अवामि | आमः,आमकः, आमि। काम, कामुकः अकामि । आचाम, आचामकः 

आचामि । विश्रामः, विश्रामकः व्यश्रामि । अणलीत्येव | शशाम । कथम् उद्यम, उपरम इति । अड उद्यमे, यम उपरमे [ धातु ११३१,२९६] इति निपातनात् सिद्धम् । 

जनिवधोः ||४३|| 

ञ्णिति परतो जनेर्वधेश्च यदुक्तं तन्न भवति । जनः, जनकः अजनि । वधः, वधकः, अवधि | अणलीत्येव । जजान, ववाध । 

मेर्णलि वा ||४४ || 

मिबादेशे णलि परत आद् वा भवति । अह पपाच, अहं पपच मेरिति किम् ? स पपाच । 

ऋरीव्लीहीक्नूयीक्ष्माय्यातां पुग् णौ ॥ ४५

अर्तेरियर्ते रीडो री व्ली गताव् इत्यनयोन्ही क्नूयी क्ष्मायी इत्येतेषाम् आकारान्तानां च णौ परतः पुग् आगमो भवति । अर्पयति, रेपयति, व्लेपयति, हेपयति, नोपयति, क्ष्मापयति, यापयति, धापयति, जापयति । पूर्वान्तकरणम् अदीदपद् इत्युपान्तहस्वार्थम् । 

शाछासाह्वाव्यावेषां युक् ||४६||

शादीना णौ परतो युग् आगमो भवति । निशाययति, अवच्छाययति, अवसाययति, ह्वाययति, व्याययति, वाययति, पाययति । पातेर्लुकं वक्ष्यति [ ५९ ] | कृतात्त्वानां ग्रहणात् पुकः प्राप्तिं दर्शयति- इह प्रकरणे लाक्षणिकस्यापि ग्रहणामस्तीति । तेन क्रापयति, जापयतीत्येवमादि सिद्धं भवति । पा ग्रहणे । पै ओवै शोषणे [ धातु० १।२७१ ] इत्यस्यापि ग्रहणं सिद्धं भवति । 

वो विधूनने जुक् ॥४७॥

वातेर्विधूनने णौ परतो जुगागमो भवति । पक्षकेणोपवाजयति । विधूनन इति किम् ? आवापयति केशान् । पै ओवै शोषणे [ धातु० १।२७१ ] इत्यस्यापि रूपम् । 

धूञ्प्रीजोनुक् ४८॥

धूञः प्रीञश्च णौ परतो नुगागमो भवति । धूनयति, प्रीणयति ।

लियः स्नेहविलापने वा ॥४९॥ 

लियः स्नेहद्रवीकरणे णौ परतो नुगागमो वा भवति । घृतं विलीनयति, घृतं विलाययति । ईकारान्तनिर्देशात् कृतात्वस्य पुग् एव । घृतं विलापयति । स्नेहग्रहणं किम् ? जतुः विलापयति । 

लो लुक् ||५० ||

लातेर्णौ परतो लुगागमो वा भवति । घृतं विलालयति, घृतं विलापयति । स्नेहविलापन इत्येव । जटाभिरालापयते । 

पातेः || ५१||

पातेर्णौ परतो लुगागमो भवति, नित्यं योगविभागात् । पालयति ।

प्रयोक्तुर्भियः षुक् ॥ ५२ ॥ 

भियो णौ परतः पुगागमो भवति सा चेद् भी प्रयोजकाद् भवति । मुण्डो भीषयते । ईकारान्तनिर्देशात् कृतात्त्वस्य पुग् एव । मुण्डो भापयते । प्रयोजकाद् इति किम् ? कुञ्चिकयैन भाययति । करणाद् अत्र भीर्नतु प्रयोजकात् । 

स्फायो वः || ५३ ||

स्कायेर्णै परतो वकारोऽन्त्यस्य भवति । स्कावयति । 

शरगतौ तः ||१४||

शदेरगत्यर्थस्य णौ परतस्तकारो भवति । फलानि शातयति । अगताविति किम् ? गा गादयति गोपालकः । कथं व्रीहीन् रोपयति, रोहयतीति ? रूपिणा रुहिणा च सिद्धम् । 

सत्यार्थवेदानामापुक् ॥ ५५॥ 

सत्यादीनां णौ परतः आपुग भवति । सत्यापयति, अर्थापयति, वेदापयति । 

मितां हस्वः ॥५६॥

 घटादयो मित [ बातु १।५४८] इति वचनाद् घटादीनां णौ घटयति, व्यथयति । आदैच्प्रतिषेधे वक्तव्ये  हस्वग्रहणं किम् ? श्रा पाके [ बातु० १/५४२ ] श्रपयति । अन्यत्र श्रापयति । मारणतोपणनिशानेषु ज्ञा [ ५४३ ] | सज्ञपयति पशून्, मारयतीत्यर्थः । विज्ञपयति राजानम्, तोषयतीत्यर्थः । प्रज्ञपयति शस्त्रम्,तेजयतीत्यर्थः । एतेष्विति किम् ? आज्ञापयति, विज्ञापयति । कथं प्रज्ञप्तिं प्रज्ञपयति? लोकपरितोषणमप्यत्र विवक्षितम् । कम्पने चलि [ ५४४ ]। चलयति । अन्यत्र्य चालयति । ऊर्जने छदि ५४५ ] | उदयति । अन्यत्र छादयति । जिह्वोन्मन्थने लडि [ ५४६ ] | लडयति । अन्यत्र लाडयति । हर्षग्लेपनयोर्मदि [ ५४७] । मदयति, अन्यत्रोन्मादयति । जनीजॄकसुरञ्जोऽमन्ताश्च [ ५४९ ] । जनयति, जरयति, नसयति, रजयति मृगान् । णौ मृगरमणे [ ५/३/३० ] इत्यनुनासिकलोपः । अमन्ता । रमयति, दमयति, यमयति, सक्रमयति । कथं सक्रामयति ? सकामं करोतीति णिच् । ज्वलह्वलह्मलनमामप्रादीनां वा [ ५५० ] । ज्वलयति, ज्वालयति । हृलयति, ह्वालयति । ह्मलयति, ह्मालयति । नमयति, नामयति । अप्रादीनाम् इति किम्? प्रज्वलयति, प्रह्वलयति, प्रह्मलयति, प्रणमयति, उपनमयति । ग्लास्नावनुवमा च [ ५५९ ] | ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । वनयति, वानयति । वमयति, वामयति । अप्रादीनामित्येव । प्रग्लापयति, प्रस्नापयति, उपवनयति, उद्यमयति । न कम्यमित्रमाम् [ ५५२ ]  अमन्ता इति ह्रस्वत्वे प्राप्ते प्रतिषेधः । कामयते, आमयति, आचामयति । शमोऽदर्शने [ ५५३ ] | अदर्शनेऽर्थे शमो हस्वो भवति । शमयति रोगम् | अदर्शन इति किम् निशामयति रूपम् । यमोऽपरिवेषणे [ ५५४ ] | यमेरपरिवेषणेऽर्थे ह्रस्वो भवति । नियमयति । अपरिवेषण इति किम् ? नियामयति ब्राह्मणान् । स्खदेरपपरिभ्यां च [ ५५५ ] / अपपरिभ्यां परस्य केवलस्य च स्खदेह्रस्वो भवति । अपस्खदयति, परिस्खदयति, स्खदयति । स्खद स्खदने इति सिद्धे नियमार्थं वचनम् । प्रस्खादयति । फण गतौ ५५६ | फणयति । अन्यत्र फाणयति फाणितम् फाण्टम् । 

चिष्णमोर्दीर्घश्च || ५७||

चिणि णमुलि च परतो मिता ह्रस्वो भवति दीर्घश्च। अघटि, अघाटि | घटः घटम्, घांट घाटम् । दीर्घग्रहणं किम् ? अनुपान्तस्यापि यथा स्यात् | अक्षञ्जि, अक्षाञ्जि । क्षञ्जं क्षञ्जम्। अदक्षि, अदाक्षि । दक्षः दक्षम्, दाक्षः दाक्षम् । 

छादेर्घे ||१८|| 

छादेर्घे परतो ह्रस्वो भवति । उरश्छदः । घ इति किम् ? छादयति । 

प्रादावेकस्मिन् ||५९|| 

एकस्मिन्नेव प्रादौ सति च्छादेर्घे परतो ह्रस्वो भवति । प्रच्छदः, परिच्छदः । एकस्मिन्निति किम् ? समभिच्छादः, समुपच्छादः । कथम् आच्छादः ? अण्यन्ताद् घञि भविष्यति । 

इस्मन्त्रन्क्विषु || ६०||

छादेरिसादिषु परतो हस्वो भवति । छदि, छद्मः, छत्रम्, उपच्छत् ।

चङ्युपान्तस्य ॥ ६१॥ 

चङ्परे णौ परत उपान्तस्य हस्वो भवति । अचीकरत् । उपान्तस्येति किम् ? अचकाङ्क्षत् । मा भवान् अटिटद् इति नित्यादपि द्विर्वचनादन्तरङ्गं ह्रस्वत्वमेव पूर्वं भवति । तथा हि । मा भवान् ओणिणद् इत्योणृ अपनयने [ धातु० १|१४८ ] इत्यस्य ऋदुपलक्षणं णौ ‘हस्त्रप्रतिषेधार्थम् । अलीलवद् इत्यैजावादेशावेवान्तरङ्गौ, अकृते चङि कृतत्वात् । तथादीदपद् इति पुग् एवान्तरङ्गः । अवीवदद् वीणां परिवादकेनेत्येकस्य णिचो लोपान् नाग्लोपि ० [ ६२ ] इति प्रतिषेधं प्राप्नोति । णिजातिनिर्देशान्न भविष्यति । 

नाग्लोपिशास्वृदिताम् || ६२॥

अग्लोपिना शासेर् ऋदिता च चङ्परे णौ परतो हस्त्रो न भवति । मालाम् आख्यातवान्, अममालत् । राजानम् अतिक्रान्तवान्, अत्यरराजत् । अशशासत् । अययाचत्, अडुढौकत् । 

भ्राजभासभाषदीपजीवमीलपीडां वा ॥ ६३॥

भ्राजादीनां णौ चङि हस्वो वा भवति । अबिभ्रजत्, अबभ्राजत् ।  अबीभसत, अबभासत् । अबीभषत्, अबभाषत् । अदीदिषत्, अदिदीषत् | अजीजिवत्, अजिजीवत् । अमीमिलत्, अमिमीलत् । अपीपिडत्, अपिपीडत् । भ्राजभासोर्ऋदुपलक्षणत्वं -ह्रस्वत्वप्रतिषेधार्थमनर्थकम् । 

कणादीनाम् || ६४|| 

कणादीनां चङ्परे णौ परतो हस्वो वा भवति । अचीकणत्, अचकाणत् । अवीवणत्, अववाणत् । 

उर्ॠत् || ६५ ||

ऋवर्णस्योपान्तस्य चङ्परे णौ परत ऋद्रादेशो वा भवति । इररारामपवाद । अचीकृतत् अचिकीर्तत् । अवीवृतत्, अववर्तत् । अमीमृजत्, अममार्जत् । 

घ्र इत् ॥ ६६॥

जिघ्रतेश्वपरे णौ परत इदादेशो भवति वा । अजिघ्रिषत्, 

अजिघ्रषत् । 

स्थः ६७॥

तिष्ठतेश्वङि णौ परत इद् भवति, नित्यं योगविभागातः 

अतिष्ठिपत् । 

पिवः पीप्यः ||६८|| 

पिवने सद्विर्वचनस्य पीप्यादेशो भवति । अपीप्यत् । 

[ लोप पिबतेरीचाभ्यामस्य । पा० ७|| | पिब पीप्य साम्यासस्य । सु० ७/१/८१ ] 

देङो दिगि लिटि || ६९ ||

दयतेः सद्विर्वचनस्य लिटि परतो दिग्यादेशो भवति । अत्रदिस्ये, अवदिस्याते । लिटीति किम् ? देदीयते । 

अधातोः कीदतोऽसुप आपि ॥ ७० ॥ 

आपि परे धातोर्यः ककारस्तस्मात् पूर्वस्यात इद्रादेशो भवति, स चेदावसु परो भवति । जटिलिका, कारिका, मामिका, पाचिका । अधातोरिति किम् ? शका | कीति किम् ? नन्दना । अत इति किम् ? गोका, नोका । तपरः किम् ? राका । असुप इति किम्? बहुपरिव्राजका मथुरा | बहुचर्मिकेति ककारेण सुपो व्यवधानात् सिद्धम् । अपीति किम् ? कारकः । 

यकाभ्याम् आपोऽत्यक्त्यपो वा ॥ ७१ ॥ 

त्यक्त्यपा वर्जितस्याधातोरयौ यकारककारौ ताभ्यां परस्यापः स्थाने योऽकारस्तस्य के आप्परे परत इदादेशो वा भवति, स चेद् आबसुपः परो भवति । इभ्यिका, इभ्यका । चटकिका, चटकका । यकाभ्याम् इति किम् ? अश्विका| आप इति किम् ? साकाश्ये भवा, साकाश्यिका । पकारः किम् ? शुभयिका । अत्यक्त्यप इति किम् ? दाक्षिणात्यिका, इहत्यिका । अधातोरित्येव । सुनयिका, अशोकिका | 

भस्त्रैषाजाज्ञाद्वास्वानाम् ||७२ ||

भस्त्रादीनाम् आप स्यानेऽतः के परत आप्यसुप इत्वं वा भवति | भस्त्रिका, भस्त्रका | नैतदस्ति, अनुक्तपुस्काद् [ ७३ ] इत्येव सिद्धम् । इदं तर्हि | अविद्यमानभस्त्रा, अभस्त्रा, सा चेद् अल्पा हस्वा वा अभस्त्रिका, अभस्त्रका | बहुभस्त्रिका, बहुभस्त्रका | अतिभस्त्रिका, अतिमन्त्रका | निर्भस्त्रिका, निर्भस्त्रका | अत्र हि न भस्त्रा, अभस्त्रा, तस्याभाषितपुंस्काद् आप उत्तरेणैव सिद्धम् । अभस्त्रका, अभस्त्रिका, अभस्त्राका । परमभस्त्रका, परमभस्त्रिका, परमभस्त्राका । एषिका, एषका । अजिका, अजका । अनजिका, अनजका । बह्वजिका, वह्वजका । अज्ञिका, अज्ञका । बहुज्ञिका, बहुज्ञका । द्विके, द्वके । स्विका, स्वका । अस्विका, अस्वका । इह त्वनेषका, अद्वकेत्यकचो मध्यपातिवाद असुप इति प्रतिषेधेन भवितव्यम् | स्वशब्दस्य तु ज्ञानिधनाख्याया एवेति तेन व्यवधानाद् असुप इति प्रतिषेधो नास्ति । 

अनुक्तपुंस्काद् आच्च ७३  

अभाषितपुंस्काद् विहितस्याप स्थानेऽतः के परत आप्यसुप इत्त्वम् आत्वं च वा भवति । खट्विका, खट्वका, खट्वाका | न खट्वा, अखट्वा, सा चेद् अल्पा ह्रस्वा वा, अखट्विका, अखट्वका, अखट्वाका | या त्वविद्यमाना खट्वास्याः, सा खट्विकैव भापितपुस्कत्वात् । एवम् अतिखट्विका । 

वर्तका शकुनौ ||७४ ||

वर्तिकेति शकुनावभिधेये निपात्यते । वर्तका पक्षी । वर्तिकैवान्या |

सूतकापुत्रकावृन्दारकाः ॥७५॥

एषाम् इत्त्वाभावो वा निपात्यते । सूतका, सूतिका । पुत्रका, पुत्रिका । वृन्दारका, वृन्दारिका । 

नरिका || ७६ || 

नरान् कायतीति नरिकेति नित्यम् इत्त्वं योगविभागान्निपात्यते ।

न यत्तदोः ॥७७॥ 

यत्तदोरिदादेशो न भवति । यका, सका । यका तका पचामहे । आशिषि ॥७८॥

आशिषि गम्यमानायाम् इत्त्वं न भवति । जीवतात्, जीवका । नन्दतात्, नन्दका । 

क्षिपकादीनाम् ||७९|| 

क्षिपकादीनाम् इत्त्वं न भवति । क्षिपका । धुवका । एडका । चटका । देवका । 

तारका ज्योतिषि ||८०||

तारकेति ज्योतिषि वाच्ये निपात्यते । तारिकान्या । 

वर्णका तान्तवे ॥ ८९

वर्णकेति तान्तवे द्रव्येऽभिधेये निपात्यते । वर्णिकान्या । 

अष्टका पितॄणाम् ||८२|| 

अष्टकेति निपात्यते पितृसम्बन्धिनी चेत् । अन्यत्राष्टिका ख्वारी | कथम् उपत्यका, अधित्यकेति त्यकन्निपातनाद् ४/२/३५] एव सिद्धम् । 

चजोः कुर्घिण्यतोः ॥८३॥ 

चकारजकारयोर्घिति ण्यति च परतः कवर्गादेशो भवति । पाकःरागः, त्यागः, पाक्यम्, वाक्यम्, व्यङ्ग्यम् । 

न्यङ्क्वादयः ८४॥ 

न्यङ्क्वादयः शब्दा कृतकुत्वा निपात्यन्ते । न्यङ्कुः । मदुः । भृगुः | तक्रम् । वक्रम् । ओकस् । दृक् ( ? ) । मेघः, अर्घः, निदाघः अवदाघः।  निपातनं च विशिष्टविषयमेव न सर्वत्र भवति । मेहः, अर्हः, निदाहः, अवदाहः । व्यतिपङ्गः, अवसर्ग, व्यतिभङ्गः, अनुरङ्ग इति घान्ता भविष्यन्ति कर्तर्यपि, बहुलाधिकारात्, अतएव तेभ्योऽज् न प्रयोक्ष्यते । श्वपाकः, मामपाकः, उदकपाकः, कपोतपाकः इति पाकशब्देन समासो भविष्यति । व्याप्यादण् [ १ |२| १ ] एतेभ्यो बहुलाधिकारात् [ १|१|१०३ ] न प्रयोज्यते । दृरेपाकः, क्षणपाकः, फलेपाकः । सप्तम्या बहुलम् [ ५/२/११] इत्यलुक् । डावन्तावप्यत एव सिद्धौ । उकारान्ता इत्यपरे पठन्ति । दूरेपाकुः, क्षणेपाकुः, फलेपाकुरिति, तेनाम् औणादिकत्वात् समुपपन्नम् । न्यग् रुणद्धीति न्यग्रोवः । वीरुत् । अन्येपाम् अपि [५/२/१४५ ] इति दीर्घत्वम्, अतो धत्वम् अप्येतयोर्न वक्तव्यम् । 

ञ्णिन्नि हनो हः ||८५|| 

ञिति णिति नकारे च परतो हन्तेर्हकारस्य कुत्वं भवति । घातः घातक घ्नन्ति । हननीयक इति न भवति व्यववानात् । 

द्वित्वतौ ॥८६॥

द्विर्वचनहेतौ परे हन्तेर्हकारस्य कुत्वं भवति । जङ्घन्यते, जिघासति । जिह्ननीयिषतीति न भवति व्यवधानात् । 

हेरचङि ८७ ॥

द्वित्वहेतावचङि परतो हिनोते कुत्वं भवति । प्रजिघाय, प्रजि-घीपति | अचङिति किम् ? प्राजीहयत् । णिव्यवधानादेव सिद्धेऽचडीति प्रतिषेधादन्यत्र णिज्व्यवहितेऽपि द्वित्वहेतौ कुत्वं भवति । प्रजिघाययिषति । 

सन्लिटोर्जेः ||८८ ||

सनि लिटि च परतो जयते कुत्वं भवति । जिगीषति, जिगाय । सन्लिटोरिति किम् ? जेजीयते । इह कस्मान् न भवति । जिज्यतुः, जिज्युरिति ? लाक्षणिकत्वात् । जिनातेर्हि यण इकि कृते एतद् रूपम् । 

चेर्वा ८९ ॥

चिनोतेः सन्लिटो परत कुत्वं वा भवति । चिकीर्षति, चिचीषति । चिकाय, चिचाय । सन्लिटोरित्येव । चेचीयते । 

क्वादेः ||२०||

कवर्गादेर्धातो कुत्वं न भवति । कूजः, कूज्यम् । खर्ज:, खर्ज्यम्।

अजिव्रजोः ||११|| 

अजेर्व्रजेश्च कुत्वं न भवति । समाजः, उदाजः, परिव्राजः, परि- व्राज्यम् । कथं भुज इति? भुजे को भविष्यति । करणम् अपि कर्तृतया विवक्ष्यते । | कथं न्युब्जः ? अचि कर्तरि भविष्यति । भोग इति घञि, अभ्युद्रः, समुद्रः इति गमेर्डो भविष्यति । 

वञ्चेर्गतौ ||१२||

वञ्चेर्गतौ गम्यमानाया कुत्वं न भवति । वञ्च्यः वञ्चन्ति वाणिजा  । गताविति किम् ? वङ्कं काष्टम् । कुटिलमित्यर्थः । 

ण्य आवश्यके ॥९३॥

ण्ये परत आवश्यकेऽर्थे कुत्वं न भवति । पाच्यम्, अवश्यपाच्यम् । मोच्यम्, अवश्यमोच्यम् । आवश्यक इति किम् ? पाक्यम् । 

ऋचरुचयाचत्यजाम् ||२४||

ऋचादीनां ण्ये परतः कुत्वं न भवति । अर्च्यम्, रोच्यम्, याच्यम्, त्याज्यम् | ऋचेरत एव ण्यः । 

वचोऽशब्दाख्यायाम् ॥९५॥ 

वचेर्ण्ये परतोऽशब्दाख्याया गम्यमानाया कुत्वं न भवति । वाच्यम्, प्रवाच्यम् । अशब्दाख्यायाम् इति किम् ? वाक्यम् । 

प्रयोज्यनियोज्यौ शक्ये ॥९६॥ 

एतौ शब्दौ शक्येऽर्थे निपात्येते । शक्यः प्रयोक्तुम्, प्रयोज्यः । शक्यो नियोक्तुम्, नियोज्यः । शक्य इति किम् ? प्रयोग्यः, नियोग्यः । 

भोज्यमन्ने ॥ ९७ ॥

भोज्यमित्यन्नेऽभिये निपात्यते । भोज्य ओदनः, भोज्या यवागूः। अन्न इति किम् ? भोग्यः कम्बलः | 

यजो बहुलम् ||१८|| 

यजेर्बहुलं कुत्र न भवति । याज्यम् प्रयाज्यम्, पनीसयाजं, उपाशुयाजः, ऋतुयाजः, यागः, प्रयागः, अनुयागः । 

ओलोपः श्ये ||१९|| 

श्ये परत ओकारस्य लोपो भवति । दो । अवद्यति । सो। अवस्यति । 

क्सस्याचि ॥१००॥

क्सस्याजादौ परतोऽन्त्यस्य लोपो भवति । अधुक्षाताम्, अधुक्षि । अचीति किम् ? अधुक्षत् । 

लुग्वा दुहदिहलिहगुहां तङि दन्त्ये ॥ १०१  

दुहादीनां तङि दन्त्ये परतः क्सस्य लुगू वा भवति । लुग्ग्रहणं सर्वलोपार्थम् । अदुग्ध, अधुक्षत । अदुग्धाः, अधुक्षथाः । अदुग्ध्वम्, अधुक्षध्वम् । अदुह्वहि, अधुक्षावहि । अदिग्ध, अधिक्षत | अलीढ, अलिक्षत । न्यगूढ, न्यक्षत | दुहादीनाम् इति किम्? व्यत्यरुक्षत । तडीति किम् अवुक्षत् । दन्त्य इति किम् ? अवुक्षामहि । 

शमामष्टानां श्ये दीर्घः ॥ १०२॥

शमादीनामष्टानां श्ये परतो दीर्घो भवति । शाम्यति, दाम्यति, ताम्यति, श्राम्यति, भ्राम्यति, क्षाम्यति, क्लाम्यति, माद्यति । अष्टानाम् इति किम् ? अस्पति । श्य इति किम् ? भ्रमति । 

ष्ठिवुक्लमाचमां शिति ॥ १०३॥ 

ष्ठीवते क्लमेराचमेश्च शिति परतो दीर्घो भवति । ष्ठीवति, क्लामति, आचामति । आङ्पूर्वप्रहणं किम् ? भ्रमति । 

क्रमोऽतङाने॥ १०४ ॥ 

क्रमतेरतङाने शिति परतो दीर्घो भवति । क्रामति, क्रामन् । अतङान इति किम् ? आक्रमते सूर्यः । आक्रममाणः सूर्यः । 

इषुगमियमां छः ॥ १०५ ॥

इषुप्रभृतीनां शिति परतश्छो भवति । इच्छति, गच्छति, यच्छति । उकारग्रहणं किम् इष्यति, इष्णाति । पर्येषतेश्च न भवति । 

पाघ्राध्मास्थाम्नादाण्डशशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यशीयसीदाः ॥ १०६॥ 

पादीनां शिति परतः पिबादय आदेशा भवन्ति । पिबेरदन्तत्वाददेङ् न भवति । पिवति, जिघ्रति वमति, तिष्ठति, मनति, यच्छति, पश्यति, शीयने, सीदति । कथम् ऋच्छति, धावतीति प्रकृत्यन्तरत्वात् । अर्ते शिति प्रयोगो न भविष्यति, घरत्यादिवन् नियतवयवात् । सर्वेस्तु विसरति, ग्रमस्तीति सिद्धमादेशाभावात् । 

ज्ञाजनोर्जाः ॥ १०७॥

जानातेर्जनेश्च शिति परतो जादेशो भवति । जानाति, जायते । प्वादीनां हस्वः ॥ १०८॥

प्वादीनां शिति परतो ह्रस्वो भवति । पुनाति, लुनाति । प्वादय आगणान्ताः । कथं जानाति । ज्ञाजनोर्जा [१०७] इति दीर्घोच्चारणात् । 

मिदरेत् ॥ १०९ ॥

मिदेरिकारस्य शिति परत एकारो भवति । मेद्यति, प्रमेद्यति 

प्रतिषेधबाधनार्थ आरम्भः | 

 इति चान्द्रे व्याकरणे षष्टाध्यायस्य प्रथमः पादः समाप्तः । 

Previous Post
Next Post

© 2025 All rights reserved.