युवोरनाकावसः || १ ||
योरसकारकस्य वोश्चानाकावादेशौ भवतः । नन्दनं गमनम् । कारकः काच्छकः [ ३|२|४८ ] | अस इति किम् ? कंयुः शंयुः । युवोरिति समाहारस्यैकत्वादेकवचनम् । विकल्पानुवृत्तेरनपुसकत्वम् । युधबुधादीनां न भवत्यनर्थकत्वात्, यौतेर्यवयकः० [ ४/२/ ३] इत्यादेर्ज्ञापकात् भुज्युरित्यौणादिकत्वात् [ उ० १/३४ ] |
आयनेयीनीयियः फढखछ्यां ष्फाद्यादीनाम् ॥ २ ॥
फादीनाम् [२/३/१९] आदिभूता ये फकारादयस्तेषामायनादय आदेशा भवन्ति । ष्फ । गार्ग्यायणी । ढक् । सौपर्णेयी । क । कुलीन । छ । स्वस्त्रीयः । घ । क्षत्रियः । ष्कादिग्रहणं किम् ? फक्कति ढौकते ।
ठस्येकः || ३ ||
ष्फादीनां ठकारस्येकादेशो भवति । आक्षिकः । फादीनामित्येव । कण्ठः | आदीनामित्येव । कर्मठः ।
इसुसुग्दोर्भ्यः कः ॥ ४ ॥
इस् उस् उक् इत्येवमन्तायाः प्रकृतेर्दो शब्दाच्च परस्य ठकारस्य कादेशो भवति । सार्पिष्कः धानुष्कः | शाबरजम्बुकः मातृकः पैतृकः दोर्भ्यां चरति दौष्कः । आशिषिक औषिक इत्यनर्थकत्वाल्लाक्षणिकत्वाच्च न भवति । आयनादयश्चैत उपदेशावस्थायामेव भवन्ति निर्निमित्तत्वात्, युच् ठच् इति चकारस्यान्तोदात्तार्थत्वाच्च ।
तोऽशश्वतः || ५ ||
तकारान्तायाः प्रकृतेशाश्वतो विहितस्य ठस्य कादेशो भवति । औदश्वित्कः भावत्कः । अशश्वत इति किम् ? शाश्वतिकः । विहितविशेषणं किम् ? माथितिक ।
अनञ्समासे क्त्वो ल्यप् ॥ ६ ॥
नञोऽन्यस्य क्तान्तेन समासे क्त्वो ल्यब् भवति । प्रकृत्य प्रस्तुत्य प्रहृत्य | अनञ् इति किम् ? अकृत्वा । समास इति किम् ? पृथक् कृत्वा हिरुक् कृत्वा | अनञ् इति नञ्सदृशस्यासङ्ख्यस्य ग्रहणादिह न भवति परमकृत्वा। पीत्वाभुक्तक- स्नात्वाकालकादिष्वसमस्तत्वाच्च । उपदेशावस्थायामेव ल्यब् भवति, ति किति [ ८५] इति सिद्धे जग्धविधौ ल्यब्ग्रहणात् [ ८६ ] |
ॠत इद्धातोः ॥ ७ ॥
ॠकारान्तस्य धातोरिदादेशो भवति । किरति गिरति । चिकीर्षति जिहीर्षति । धातोरिति किम् ? मातृणाम् । इदं च ज्ञापकं लाक्षणिकस्यापि ग्रहणाय ।
उपान्त्यस्य ॥ ८ ॥
अन्त्यसमीपस्य ऋकारस्येदादेशो भवति । कीर्तयति कीर्तकः । उपान्त्यस्येति किम् ? ऋकारीयति ।
उदोष्ठयात् ॥ ९ ॥
ओष्ट्यात्परस्य ऋकारस्योदादेशो भवति । प्रपूर्तीः पिण्डा | पूः
पुरौ पुरः । तपरः किम् ? दीर्घस्य स्थाने दीर्घो मा भूत्, अम् अमी इति यथा ।
इदितो नुम् ||१०||
इदितो धातोर्नुमागमो भवति । कुण्डा हुण्डा कुण्डिता । उपदेशावस्थायामेव नुम् भवति निर्निमित्तत्वात्, धावविकाराच्च । धातोरित्येव । अचैषीत् ।
शे मुचादीनाम् ||११||
हो परतो मुचादीनां नुम् भवति । मुञ्चति लुम्पति । कथं तृपति तृम्फति दृम्फतीति ? धातुष्वेव हि द्विधा पाठात् ।
नशो झलि || १२ ||
नशेर्झलादौ परतो नुम् भवति । नष्टा । झलीति किम् ? नशनम् ।
मस्जोऽन्त्यात्पूर्वः || १३||
मस्जेरन्त्यात्पूर्वो झलादौ नुम् भवति । मङ्क्ता । अन्त्यात्पूर्व इति किम्? सयोगादिलोपो यथा स्यात् । झलीत्येव । मज्जनम् ।
जभोऽचि ॥१४॥
जभेरजादौ परतो नुम् भवति । जम्भयति जम्भकः ।
रधः ||१५||
रधेरजादौ नुम् भवति । रन्धयति रन्धकः।
इटि लिटि ||१६||
इडादौ लिट्येव परतो रधेनुम् भवति । ररन्धिवः । ररन्धिमः । लिटीति किम्? रधिता ।
रभोऽशब्लिटोः ||१७||
रभेरशप्यलिटि चाजादौ परतो नुम् भवति । आरम्भ आरम्भकः | अशब्लिटोरिति किम् ? आरभते आरेभे ।
लभः || १८ ||
लभैरजादावशब्लिटोर्नुम् भवति । आलम्भः आलम्भकः । अशब्लिटोरित्येव । आलभते आलेभे ।
आङो यि ॥ १९ ॥
आङः परस्य लभेर्यकारादौ परतो नुम् भवति । आलम्भ्या गौः ।
उपात् स्तुतौ ॥२०॥
उपात्परस्य लभेर्यकारादौ परतः स्तुतौ गम्यमानाया नुम् भवति । उपलम्भ्या भवता विद्या । स्तुताविति किम् ? उपलभ्यमस्पाद् वृषलात् किञ्चित् ।
प्रादिभ्यः खल्घञोः ॥ २१ ॥
प्रादिभ्य एव परस्य लभे खलि घञि च परतो नुम् भवति । ईषत्प्रलम्भः कटो भवता । उपलम्भः । प्रादिभ्य इति किम् ? ईषल्लभः | लाभः ।
न सुदुरः केवलात् ||२२||
सुदुर्भ्यां केवलाभ्यां परस्य लभेनुम् न भवति । सुलभः दुर्लभः । केवलादिति किम् ? अतिसुलम्भः अतिदुर्लम्भः |
चिण्णमोरप्रादेव || २३॥
प्रादिरहितस्य लभेश्विणि णमुलि च परतो नुम् वा मत्रति । अलम्भि अलाभि । लम्भं लम्भम् लाभः लाभम् । अप्रादेरिति किम् ? प्रालम्भि । प्रलम्भं प्रलम्भम् ।
पुंसुटयुगितः ||२४||
उगितः प्रकृतेः पुसुटि परतो नुम् भवति । श्रेयान् श्रेयांसौ श्रेयासः श्रेयामम् श्रेयासौ | पुंसीति किम् ? श्रेयसी कुले । सुटीनि किम्? श्रेयसं पश्य ।
अञ्चः ||२५||
अञ्चतेरेवोगितो धातो सुटि परतो नुम् भवति । प्राङ् प्राञ्चौ प्राञ्चः प्राञ्चम् प्राञ्चौ । अञ्च इति किम् ? उखास्रत् पर्णध्वत् । कथं गोमत्यते किपू गोमानिति । भूवादिधातोर्नियमान्नुम् भविष्यति ।
युजेरसमासे ||२६||
युजेरसमासे सुटि परतो नुम् भवति । युङ् युञ्जौ युञ्जः युञ्जम युञ्जौ । असमास इति किम्? अश्वयुक् ।
शावयमः ||२७||
यमन्तादन्यस्य शौ परतो नुम् भवति । श्रेयासि महान्ति उदश्विन्ति कुण्डानि वनानि । शाविति किम् ? श्रेयसी कुले । अयम इति किम् ? चत्वारि अहानि ।
बहूर्जि बहूर्ञ्जि ||२८||
बहूर्ज शौ परतोऽन्यात्पूर्वो नुमागमो वा भवति । बहूर्जि बहूर्ञ्जि।
इकोऽचि सुपि ॥ २९ ॥
इगन्तस्याजादौ सुपि परतो नुम् भवति । दधिनी दधीनि । मधुनी मधूनि । नपुंसक एवाय विधिर्भवति, तत्प्रस्तावात् भाषितपुंस्कस्य च वावचनात् । तस्माद् दीर्घीभूताच्छसो न पुंसि [ ५|१|११०] इति लिङ्गात्, पुंसीति च नत्वे विशेषणात् स्त्रियामपि दीर्घत्वेन भवितव्यम् । अतः पारिशेष्यान्नपुंसक एवाय विधिर्भवति । इक इति किम् ? कुण्डे । अचीति किम् ? हे पो । अस्मादेव वचनाद् अलुकि [५/३/३] इति प्रतिषेधो नास्तीत्येद् भवति । सुपीति किम् ? तौम्बुवं चूर्णम् ।
उक्तपुंस्कस्य टादौ वा ||३०||
भाषितपुंस्कस्येगन्तस्य नपुंसकलिङ्गस्य तृतीयादावजादौ परतो नुम् वा भवति । कर्तृणा कुलेन कर्त्रा । शुचिने कुलाय, शुचये । उक्तपुंस्कस्येति किम् ? वारिणा वारिणे । टादाविति किम् ? ग्रामणिनी कुले ।
अस्थिदधिसक्थ्यक्ष्णामनङ् ||३१||
अस्थ्यादीनां टादावाजादौ सुपि परतोऽनङादेशो भवति । अस्थ्ना दना सक्थ्ना अक्ष्णा ।
नाज्झेः शतुः ||३२||
अद्भूतो झिर्यस्या प्रकृतेस्ततः परस्य शतुर्नुम् न भवति । ददत् दधत् जक्षत् जाग्रत् । अझेरिति किम् ? लिहन् ।
शौ वा ||३३||
अज्झे परस्य तु शौ परतो नुमागमो वा भवति । ददन्ति कुलानि ददति कुलानि । जाग्रन्ति कुलानि, जाग्रति कुलानि ।
आच्छीङयोः ||३४||
अवर्णान्तात्परस्य शतुः शीडीत्येतयोः परतो नुम् वा भवति । तुदन्ती कुले, तुदती कुले । तुदन्ती ब्राह्मणी, तुदती ब्राह्मणी ।
शप्श्यनः ||३५||
शपः श्यनश्च परस्य तु शीडीन्येतयोः परतो नुम् भवति, नित्यं पुनर्विधानात् । पचन्ती कुले, दीव्यन्ती कुले । पचन्ती ब्राह्मणी, दीव्यन्ती ब्राह्मणी ।
सावनडुहः ||३६||
सौ परतोऽनडुहो नुम् भवति । अनड्वान् । साविति किम् ? अनवा अनड्वाह ।
दिव औत् ||२७||
दिव सौ परत औद् भवति । द्यौः ।
पथिमथ्यृभुक्षामात् ||३८||
पथ्यादीनां सौ परत आद् भवति । पन्थाः मन्थाः ऋभुक्षा |
शिसुट्योः ॥ ३९॥
पथ्यादीनामिकारस्य शौ सुटि च परत आद् भवति । सुपन्थानि पन्थानौ पन्थानः । बहुमन्थानि मन्थानौ मन्थानः । बह्वृभुक्षाणि ऋभुक्षाणौ ऋभुक्षाणः ।
थो न्थः ||४०||
पथ्यादीनां थकारस्य शिसुटि परतो न्यादेशो भवति । सुपन्थानि पन्थाः, बहुमन्यानि मन्थाः |
इनोऽचि लोपः ॥४१॥
पथ्यादीनामिन्शब्दस्याजादौ सुपि परतो लोपो भवति शिसुटोऽन्यत्र सामर्थ्यात् । पथः पथा । मथः मथा । ऋभुक्षः ऋभुक्षा |
पुंसोऽसुङ् ||४२ ||
पुंसः शौ सुटि च परतोऽसुडादेशो भवति । बहुपुमांसि पुमान्
पुमांसौ पुमांसः पुमांसम् पुमासौ । शिसुटीत्येव । पुंसः पुंसा ।
गोरौः स्वार्थे ॥४३॥
गोशब्दस्य स्वार्थे वर्तमानस्य सुटि परत औकारो भवति । गौः गावौ गावः | स्वार्थ इति किम् । हे चित्रगो हे चित्रगवः । सुटीत्येव । गवा |
सख्युरशावैत् ॥४४॥
सखिशब्दस्य शिवर्जिते सुटि परत ऐद् भवति । सखायौ सखायः । अशाविति किम् अतिसखीनि । सुटीत्येव । सखिन् |
ऋदुशनसपुरुदंसोऽनेहसां चान सी ||१५||
ऋकारान्तस्योशनप्रभृतीनां च सखिशब्दस्य च शौ परतोऽनडादेशो भवति । कर्ता उशना पुरुदसा अनेहा सखा ।
न सम्बुद्धौ ||४६||
ऋदादीनां सावनङ् न भवति सम्बोधने । हे पितः, हे पुरुदश, हे अनेह, हे सखे।
वोशनसः ||४७ ||
उशनसः सम्बोधने सावनङ् वा भवति । हे उशन् हे उशनन् ।
क्रुशस्तुनस्तृच् ॥४८॥
क्रुशः परस्य तुनः शिसुटि परतस्तृजादेशो भवति । बहुक्रोष्टॄणि क्रोष्टा क्रोष्टारौ क्रोष्टारः । शिसुटीत्येव । क्रोष्टून् ।
स्त्रियाम् ||४९ ||
स्त्रियां वर्तमानस्य क्रुशः परस्य तुनस्तृजादेशो भवति । क्रोष्ट्री । पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्ट्रीभीः रथैः । तृतीयादिषु तुनन्तस्य तृजन्तस्य च प्रयोगो भविष्यति । क्रोष्टुना क्रोष्ट्रा ।
चतुरनहोराम् ||५० ||
चतुरोऽनडुहश्च शिसुटि परत आमागमो भवति । चत्वारि चत्वारः । प्रियचत्वा प्रियचत्वारौ। अनड्वान् अनड्वाहौ । वह्वनड्वाहि कुलानि । शिसुटीत्येव । चतुरः अनडुहः ।
अम् सौ सम्बुद्धौ ॥ ५१ ॥
चतुरोऽनडुहश्च सौ परत सम्बोधनेऽमागमो भवति । हे प्रियचत्वः हे अनड्वन् । साविति किम्? हे अनड्वाहौ हे अनड्वाहः । सम्बुद्धाविति किम् ? अनड्वान् ।
अष्टनो वा सुप्यात् ॥ ५२ ॥
अष्टनः सुपि परत आद् वा भवति । अष्टाभिः अष्टभिः । सुपीति किम् ? अष्टकः सङ्घः । अलुकीत्येव । अष्ट ।
रायो हलि || ५३ ||
रै-शब्दस्य हलादौ सुपि परत आद् भवति । राभ्याम् राभिः ! हलीति किम् ? रायौ रायः । सुपीत्येव । रैत्वम् रैता ।
युष्मदस्मदोरनादेशे ||१४||
अनादेशे सुपि परतो युष्मदस्मदोराद् भवति । युवाभ्याम् आवाभ्याम् | युष्माभिः अम्माभिः युष्मासु अस्मासु । अनादेश इति किम् ? यष्मत् अस्मत् |
औशसम्सु ||५५ ||
औकारे शस्यमि च परतो युष्मदस्मदोराद् भवति । युवां तिष्ठथः, आवां तिष्ठावः । युवां पश्य, आवां पश्य । युष्मान् अस्मान् । त्वाम् माम् !
योऽचि ॥५६॥
अजादौ सुपि परतो युष्मदस्मदोर्यकारादेशो भवति । त्वया मया । त्वयि मयि । युवयोः आवयो । अनादेश इत्येव । त्वत् मत् ।
शेषे लोपोऽदः || ५७||
यत्र नात्त्वं न यकारस्तस्मिन् सुपि परतो युष्मदस्मदोरच्छब्दस्य लोपो भवति । त्वम् अहम् | यूयम् वयम् । तुभ्यम् माम् | युष्मभ्यम् अस्मभ्यम् । त्वत् मत् । युष्मत् अस्मत् । तव मम । युष्माकम् अस्माकम् ।
मान्तस्य युवावौ द्विवचने ||१८||
द्विवचने वर्तमानयोर्युष्मदस्मदोर्मान्तस्य शब्दरूपस्य युवावौ भवतः । युवाम् आवाम् । युवाभ्याम् आवाभ्याम् | युवयोः आवयोः । मान्तस्थेत्ययमधिकारः |
यूयवयौ जसि ॥ ५९ ॥
युष्मदस्मदोर्जसि परतो मान्तस्य यूययौ भवत । यूयम् वयम् । त्वाहौ सौ ॥ ६० ॥
सौ परतो युष्मदस्मदोस्त्व अह इत्येतावादेशौ भवतः । त्वम् अहम् |
तुभ्यमह्यौ ङयि ॥ ६१ ॥
ङयि परतो युष्मदस्मदोस्तुभ्यमद्यौ भवतः । तुभ्यम् मह्यम् । तवममौ ङसि ||६२ ||
ङसि परतो युष्मदस्मदोस्तवममौ भवतः । तत्र मम । त्वमावेकस्मिन् || ६३ ||
एकस्मिन्नर्थे वर्तमानयोर्युष्मदस्मदोस्त्वं म इत्येतौ भवतः । माम् । त्वया मया । त्वत् मत् । त्वयि मयि । त्वदीयः मदीयः । त्वत्पुत्रः मत्पुत्र. ।
त्रिचतुरोः स्त्रियां तिसृचतसृ || ६४||
त्रिचतुरोः स्त्रियां वर्तमानयोः सुपि परतस्तिसृ चतसृ इत्येतावादेशौ भवतः । तिसृभिः चतसृभिः ।
तिसृका || ६५ ||
तिसृकेति संज्ञाया निपात्यते । तिसृका नाम ग्राम ।
ऋतो रोऽचि ॥ ६६॥
त्रिचतुरोऋतः सुप्यजादौ परतो रो भवति । तिस्रः चतस्र:।
जराया जरम् वा || ६७॥
जराशब्दस्याजादौ सुपि परतो जरमादेशो भवति वा । जरसा
दन्ताः शीर्यन्ते, जरया वा ।
त्यदां तमादिषु चा द्वेरः || ६८ ||
त्यदादीनां द्विपर्यन्तानां सुपि तमादिषु च परतो ऽकारो भवति । त्यः त्यौ त्ये । स तौ ते । ततः तत्र तदा तथा । आ द्वेरिति किम् ? भवान् । तसादिषु चेति किम् ? त्वदीयः | अलुकीत्येव । तत् यत् ।
किमः कः || ६२९||
किमन्तसादिषु सुपि च परतः कादेशो भवति । कः कौ के कदा *कथम् कर्हि ।
तः सः सौ || ७० ||
त्यदादीनां तकारस्य सौ परतः सकारादेशो भवति । स्यः सः एषः । साविति किम् ? तौ ।
असावसुकोऽसकौ ॥७१॥
एते शब्दा अदसः सौ तदन्तस्य निपात्यन्ते । असौ । साकच्कस्य । असुक् असुकौ ।
इदम् अयम् इयम् ॥७२॥
एते शब्दा इदमः सौ तदन्तस्य लिङ्गत्रये निपात्यन्ते । इदम्
अयम् इयम् ।
दो मः || ७३||
इदमो दकारस्य सुपि परतो मकारो भवति । इमौ इमे ।
टौस्यकोऽनः ||७४ ||
टाकार ओसि च परतोऽककारस्येदमोऽनादेशो भवति । अनेन अनयोः । अक इति किम् ?इमकेन ।
हल्यश् ॥७५॥
हलादौ सुपि परत इदमोऽशादेशो भवति । एभिः आभ्याम् | अक इत्येव । इमकै ।
एतस्य चान्वादेशे द्वितीयायां चैनः ॥७६॥
एतच्छब्दस्य य एतशब्दस्तस्येदमश्च कथितानुकथनविषये द्वितीयाया विभक्तौ टौसि च परत एनादेशो भवति । एतं छात्रं वेदमध्यापय, अथो एनं व्याकरणमध्यापय । एतत् कुण्डमानय, अथो एनत्परिवर्तय । एतौ छात्रौ वेदमध्यापय, अथो एनौ व्याकरणमध्यापय । एताश्छात्रान् वेदमध्यापय, अथो एनान् व्याकरणमव्यापय । एतेनच्छात्रेण रात्रिरधीता, अथो एनेन निपुणमधीतम् । एतयोश्छात्रयो शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एतयोर्ग्रामयोः सुखमवसाम, अथो एनयोः सम्यग् यजामहे । एवमिदमोऽपि योज्यम् । अयं तु विशेषः । इदं कुण्डमानय, अथो एनं परिवर्तयेति मकारान्त एव भवति । तृतीयादिषु त्रतसोश्चेदम एवान्वादेशेऽपि प्रयोगो भविष्यति । कुतः [४|३|८] अतः [४|३|८] अत्र [४|३|११] इति निपातनात् सिद्धम् ।
पन्निश्मास्हृद्यूषन्दोषञ् शमादौ वा ॥७७॥
शासादौ सुपि परतः पादादीनां स्थाने पदादय आदेशा वा भवन्ति । पद्भ्याम् पादाभ्याम् । निशि निशायाम् । मासि मासे । हृदि हृदये । यूष्णां यूषेण । दोष्णा दोषा । शसादाविति किम् ? पादः निशा मासः हृदयम् यूषः दो ।
लिङाशीर्लिंङतिङ्शिति ॥ ७८ ॥
लिड्याशीर्लिड्यतिड्यशितीति च प्राक् तिङ्ग्रहणाद् [ १७३ ] एतदधिकृतं वेदितव्यम् ।
अस्तेर्भूः ||७९ ||
अस्तेर्लिडादिषु भूरादेशो भवति । वभूव भूयात् भविता । लुका निर्देशः किम् ? अस्यतेर्मा भूत् । असिता । कथं कारयामास? कृभ्वस्तिभ्यो लिडनुप्रयोगवचनात् [ १|१| ५१] । लिडादिष्वित्येव । स्यात् अस्ति सन् ।
ब्रुवो वच् ||८०||
ब्रुवो लिडादिषु परतो वचादेशो भवति । उवाच ऊचे उच्यात् वक्ता | लिडादिष्वित्येव । ब्रूयात् ब्रवीति ब्रुवन् ।
चक्षः ख्याञ् ॥ ८१ ॥
चक्षेर्लिंडादिषु ख्याञादेशो भवति । ख्यायात् ख्याता । लिडादिष्वित्येव । आचक्षीत आचष्टे आचक्षाण ।
वा लिटि ||८२॥
लिटि परतश्चक्ष ख्याञादेशो वा भवति । आचख्यौ आचख्ये आचचक्षे ।
नासनवर्जनेषु ||८३ ||
अस्यने च परतो वर्जने चार्थे चक्ष ख्याञादेशो न भवति । नृचक्षाः विचक्षणः परिसञ्चक्ष्य । कथं व्याख्यानम्? ख्यातेर्भविष्यति ।
अजेर्व्ययुघञप्क्येषु || ८४ ॥
अजेर्लिंडादिषु वीभावो भवति यु घञ् अप् क्यप् एतान् वर्जयित्वा । चिवाय वीयात् प्रवेता वीत वीतवान् । अयुघञप्क्येष्विति किम् ? प्राजनम् समाजः उदजः समज्या । कथं प्रवयणम् ? वी धात्वन्तरम् ।
ति कित्यदो जग्धः ||८५॥
तकारादौ किति परतोऽदो जग्धादेशो भवति । जग्धः जग्ध्वा | तीति किम् ? अद्यते । कितीति किम् ? अत्ता ।
ल्यपि ॥८६॥
अत्तेर्ल्यपि परतो जद्धादेशो भवति । प्रजग्ध्य । ति किनीति सिद्धे ल्यपि पुनर्वचनाल्लिङ्गादुपदेशावस्थायामेव ल्यब् भवति । तेन हित्वदत्त्वात्वेत्त्वदीर्घत्वशृडिटो न भवन्ति । हित्वा प्रहाय । दत्त्वा प्रदाय । खात्वा प्रखन्य । स्थित्वा प्रस्थाय । शान्वा, प्रशम्य । पृष्ट्वा, आपृच्छय । द्यूत्वा, प्रदीव्य । देवित्वा, प्रदीव्य ।
लुङ्सनज्घञप्सु घरऌ ॥८७॥
लुङि सन्यचि घञ्यपि च परतोऽत्तेर्घस्लादेशो भवति । अघसत् जिघत्सति प्रघसः घासः विघसः । धात्वन्तरेण सिद्धेऽदिनिवृत्त्यर्थं वचनम् । लिटि तु इयमपि भवति । आद जघास
वेजो लिटि वय् वा ॥ ८८॥
वेञो लिटि परतो वयादेशो वा भवति । उवाय ववौ ।
हनो वध लिङि ॥ ८९ ॥
हन्तेर्लिङि परतो वधादेशो भवति । वध्यात् । आशिषीत्येव । हन्यात् ।
लुङि ॥९०॥
लुङि परतो हन्तेर्वधादेशो भवति । अवधीत् । वधेरदन्तत्वादाद् न भवति ।
तङि वा ॥९१॥
लुङि तङ्भूते परतो हन्तेर्वधादेशो वा भवति । आवधिष्ट आहत ।
एतेर्गाः ॥९२॥
इड इकश्च लुङि परतो गादेशो भवति । अगात् अध्यगात् ।
णौ गमबोधे ॥९३॥
अबोधे वर्तमानस्य इण इकश्च णौ परतो गमादेशो भवति । गमयति ग्रामम् | अधिगमयति प्रियाम् । अबोध इति किम् अर्थान् सम्प्रत्याययति ।
सनि ॥ ९४ ॥
इण कश्च सनि परतो गमादेशो भवति । जिगमिषति ग्रामम् । अधिजिगमिषति प्रियाम् । अबोध इत्येव । अर्थान् सप्रतीषिषति ।
इङः || ९५||
इङः सनि परतो गमादेशो भवति । अधिजिगासते विद्याम् ।
गाङ् लिटि ||९६ ||
लिटि परत इङो गाडादेशो भवति । अधिजगे ।
वा लुङ्लृङोः ॥९७॥
लुङि लृङि च परत इङो गाडादेशो भवति वा । अध्यगीष्ट अध्यैष्ट । अध्यगीष्यत अध्यैष्यत ।
णौ संश्चङोः॥ ९८ ॥
णौ सन्परे चङ्-परे च परत इडो गाडादेशो वा भवति । अधिजिगापयिषति अध्यापिपयिषति । अध्यजीगपत् अध्यापिपत् । सश्वङोरिति किम् ? अध्यापयति ।
वलादेरिट् ||१९||
वलादेर्लिट आशीर्लिङोऽतिङोऽशितश्चेडागमो भवति । लुलविथ लविषीष्ट लविता । तिङ्सदृशस्य ग्रहणात्स्वादीनां न भवति । लूभ्याम् लुभिः ।
ग्रहोऽस्यालिटीट् ॥ १०० ॥
ग्रह परस्यास्येटोऽलिटि परत ईकारो भवति । ग्रहीता । अस्येति किम् ? चिण्वदिटो [५/३ / ७३] मा भूत् । ग्राहिष्यते । अलिटीति किम् जगृहिवे जगृहिम |
वॄतो वा ॥ १०१ ॥
वृङ्कावृञोर्ॠकारान्ताच्च परस्येट ईदादेशो वा भवति । वरीता वरिता ।
प्रावरीता प्रावरिता । आस्तरीता आस्तरिता ।
न लिङि ॥ १०२ ||
लिङि परतो वॄत परस्येट ईत्वं न भवति । वरिषीष्ट प्रावरिषीष्ट आस्तरिपीष्ट ।
सिच्यत्यङि ॥ १०३ ॥
अतङ्परे सिचि परतो वॄत परस्येट ईत्त्व न भवति । प्रावारिष्टाम् आस्तारिष्टाम् | अत्यङीति किम् ? अवरीष्ट अवरिष्ट ।
इट् सनो वा ॥ १०४॥
वॄतः परस्य सन् इडागमो वा भवति । विवरिषते वुवृर्षते । प्राविवरिषति प्रावुवृर्षति । निपिपरिषति निपुपूर्षति ।
लिङसिचोस्तङि ॥ १०५ ॥
वॄत परस्य लिङः सिचश्च तड्विषय इड् वा भवति । वरिषीष्ट वृषीष्ट । आस्तरिषीष्ट आस्तीर्षीष्ट । आवरिष्ट आवृत | आस्तरिपाताम् आस्तीपताम् ।
ऋतः संयोगादेः || १०६ ॥
ऋकारान्तात् संयोगादेः परयोर्लिङ्सिचोस्तङीड् वा भवति । स्मरिषीष्ट स्मृषीष्ट । अस्मरिपाताम् अस्मृपाताम् । औपदेशिकसंयोगग्रहणादिह न भवति । सस्कृपीष्ट समस्कृत |
स्वृसूङूदितः ||१०७॥
स्वरतेः सूतेः सूयतेरुदितश्च परस्य वलादेरिड् वा भवति । स्वरिता स्वर्ता । सविता सोता । मार्जिता मार्ष्टा । अनुबन्धः किम् ? सुवते सविता । कथं विधोता विधवितेति ? धुवा धूञा च सिद्धम् ।
रधादिभ्यः ॥ १०८॥
रध इत्येवमादिभ्यः परस्य वलादेरिड् वा भवति । रधिता रद्धा । नशिता नष्टा । तर्पिता त्रप्ता । दर्पिता द्रप्ता। द्रोहिता द्रोग्धा । मोहिता मोग्धा । स्नेहिता स्त्रोग्धा । स्नेहिता स्नेग्धा । लिटि स्रादिनियमात् [१५८] परत्वादिट् । ररन्धिव ररन्धिम ।
निष्कुषः ॥ १०९ ॥
निष्कुषः परस्य वलादेरिड् वा भवति । निष्कोपिता निष्कोष्टा ।
ततवतोः ॥११०॥
निष्कुषः परयो क्तक्तवत्वोरिड् भवति, नित्यं पुनर्विधानात्, पतिनिष्कुषो वा [ १४०] इति तत्रावचनात् । निष्कुषितः निष्कुषितवान् ।
पूक्लिशस्त्वश्च ॥ १११ ॥
पुवः क्लिशश्च परयो क्तक्तवत्वोः क्त्वश्च इड् वा भवति । उत्तरत्र नित्यार्थं वचनादिट् । पवित्वा पूत्वा । क्लिशित्वा क्लिष्ट्वा । पवितः पवितवान्, पूतः पूतवान् । क्लिशितः क्लिशितवान् क्लिष्टः क्रिष्टवान् ।
वसक्षुध इट् ॥ ११२ ॥
वसिक्षुधिभ्यां परयो क्तक्तवत्वोः क्त्वश्च इडागमो भवति। उषित्वा उषित उषितवान् | क्षुधित्वा क्षुधितः क्षुधितवान् । वस्तेरिडस्त्येव
अञ्चो ने ॥११३॥
नकारे सत्यञ्चते परस्य क्त्व-क्तक्तवत्वोश्च इड् भवति । अञ्चित्वा जानु जुहोति । अश्चितमिव शिरो वहति । अञ्चितवान् । नाश्च पूजायाम [ ५|३|५०] इति नलोपाभावः । न इति किम् ? उदक्तमुदकं कूपात् ।
लुभ आकुले ॥ ११४ ॥
लुभे परयो क्तक्तवत्वोः क्त्वश्चाकुले गम्यमान इड् भवति । विलु- भिताः केशाः। विलुभितवान् । आकुल इति किम्? लुब्धो वृषलः ।
जॄषस्त्वः ॥ ११५ ॥
जॄषः परस्य क्त्वा इत्येतस्य इड् भवति । जरित्वा जरीत्वा ।
व्रश्चित्वा ॥ ११६॥
व्रश्चित्वेत्ययः शब्दो निपात्यते ।
उदितो वा ॥११७॥
उदितः परस्य क्त्वा इत्येतस्य इड् वा भवति । शमित्वा शान्त्वा ।
तीषुसहलुभरुषरिषः ||११८ ||
इच्छत्यादिभ्यः परस्य तकारादेर्वलादेरिड् वा भवति । एषिता एष्टा । सहिता सोढा । लोभिता लोब्धा । रोषिता रोष्टा । रेषिता रेष्टा । तीति किम् ? सहिष्यते । इषु इत्युता निर्देशादिष्यतेरिष्णातेश्च न भवति । प्रेषिता । पञ्चमी तीति समम्याः पष्ठीं प्रकल्पयति परबलीयस्त्वात् ।
सनीवन्तर्धभ्रस्जदम्बुश्रिस्वृयूर्णभरज्ञपिसनितनिपतिदरिद्रः ॥ ११९॥
इवन्तादृधादिभ्यश्च परस्य सन् इड् वा भवति । दिदेविषति दुद्यूपति । अर्दिर्धषति ईत्सति । विभ्रज्जिषति बिभ्रक्षति । दिदम्भिपति विप्सति । शिश्रयिषति शिश्रीषति । सिस्वरिषति सुस्वूर्पति । यियविषति युयूषति । प्रोर्णुनविषति प्रोर्णुनूषति । बिभरिषति बुभूर्षति । शपा निर्देशादन्यस्य न भवति । बुभूर्षति । ज्ञीप्सति जिज्ञापयिषति । सिसनिषति सिषासति । तितनिषति तितसति । पिपतिषति पित्सति । दिदरिद्रिषति दिदरिद्रासति ।
स्यसिचिकृतचृतच्छृदतृदनृतः ॥१२०॥
कृतादिभ्यः परस्य सकारादेरसिच इड् वा भवति । कर्तिष्यति कर्त्स्यति । चर्तिष्यति चर्त्स्यति । छर्दिष्यति उर्त्स्यति । तर्दिष्यति तत्स्र्यति । नर्तिष्यति नर्त्स्यति । सीति किम् ? कर्तिता । असिचीति किम् ? अकर्तिष्टाम् ।
अनिङ्गमेरिद् ॥ १२१ ॥
अनिङादेशाद् गमेः परस्य सकारादेरिड् भवति । गमिष्यति जिगमिषति जिगमिषता सञ्जिगमिषिता । अनिङ्गमेरिति किम् ? अधिजिगासिता ।
न तङानैः ॥१२२॥
तङानैः सह प्रयोगे गमेः परस्य सकारादेरिड् न भवति । सञ्जिगसते सञ्जिगंसमाना । समो गमृच्छीत्यादिना [ १/४/७१] नड् । सङ्गस्यते सङ्गस्यमान सङ्गमीट |
वृद्ध्य इट् ॥ १२३॥
वृतादिभ्यः परस्य सकारादेश्व तडानैरेव सह प्रयोग इडागमो भवति । वर्तिष्यते वर्तिष्यमाणः । विवर्तिषते विवर्तिषमाणः । वर्धिष्यते वर्धिष्यमाणः । विवर्धिषते विविर्धिषमाणः। तडानैरित्येव । वर्त्स्यति विवृत्सति विवृत्सिता ।
तासश्च क्लृपः ॥ १२४॥
क्ऌप परस्य तासः सकारादेश्व तडानैरेव सह प्रयोग इड् भवति। कल्पितासे कल्पिष्यते चिकल्पिषते । तडानैरित्येव । कल्प्ता कल्प्स्यति चिक्लृप्स्यति चिक्लप्सिता ।
न स्नोः॥ १२५॥
तडानैः सह प्रयोगे स्नोः परस्य तासः सकारादेश्च इड् न भवति । प्रस्नोष्यते प्रस्नोष्यमाण प्रस्नोतासे । तडानैरित्येव । प्रस्नविता |
क्रमः ॥ १२६॥
तडानैः सह प्रयोगे कमः परस्य तासः सकारादेश्व इड् न भवति । प्रक्रंस्यते प्रक्रंस्यमानः प्रक्रन्तासे | तडानैरित्येव । क्रमिता ।
तद्विषयात्कर्तर्यतिङः ॥ १२७॥
तङ्विषयात्क्रमः परस्य कर्तृवृत्तेरतिङ इड् न भवति । प्रक्रन्ता |
तङ्विषयादिति किम् क्रमिता । कर्तरीति किम्? प्रक्रमितुम् प्रक्रमितव्यम् । अतिङ् इति किम् प्रचक्रमिषे ।
वशि ॥ १२८॥
वशादेरतिङ इड् न भवति । ईश्वरः भास्वरः । दीप्रः । भस्मं |
रक्ष्णः याच्ञा | खण्डः, दण्डः। अतिङ् इत्येव। जग्मिव।
तेरग्रहादिभ्यः ॥ १२९ ॥
ग्रहादिवर्जितेभ्य परस्य तेरिड् न भवति । तन्ति रन्ति वन्ति । कथं सुक्तु पत्रम् हस्तः काष्ठम् कुक्षिः इक्षुः तमरं शल्कं वत्सः इति । औणादिका एते, यथा गर्भः दर्भः गुल्फः शर्करेत्यादि । ग्रहादिनिरासः किम् ? निगृहीतिः उपस्निहिति निकुचिति निपठिति । आकृतिगणत्वात्प्रभणितिरित्यादि ।
एकाचोऽश्विश्रिडीशीङ्य्वादिषट्कात् ॥ १३० ॥
एकाचः श्विश्रिडीगीडुभिरुदन्तैर्योत्यादिभिश्च पड्भिर्वर्जितादिड् न भवति । याता चेता नेता स्तोता कर्ता । एकाच इति किम् ? दरिद्रिता आदीधीता वेविता प्रोर्णविता जागरिता । श्वयत्यादिपर्युदासः किम् ? श्वयिता श्रयिता डयिता शयिता । लविता । यविता नविता क्ष्णविता प्रस्नविता क्षविता रविता । पट्कादिति किम् ? कोता । श्वयत्यादिपर्युदासादुत्तरत्र । हलन्तग्रहणाचेह न भवति । पठिना । कथं वरिता प्रावरिता आस्तरितेति? वॄतो वा न लिडि [१०१-१०२] इति वचनात् ।
विदेरलुकः ॥१३२॥
विदेरलुविकरणात् परस्य वलादेरिड् न भवति । वेत्ता | अलुक इति
किम् ? वेदिता शस्त्राणाम् ।
यरलाद् भः || १३३||
यरलेभ्यः परो यो भकारस्तदन्तात् परस्य वलादेरिड् न भवति । यब्धा रब्धा लब्धा । यरलादिति किम् ? उम्भिता । भ इति किम् ? लगिता |
यरनगान्मः || १३४||
यरनगादिभ्यः परो यो मकारस्तदन्तात् परस्य वलादेरिड् न भवति ।
यन्ता रन्ता प्रणन्ता गन्ता ।
शकादिभ्यः ॥ १३५॥
शक इत्येवमादिभ्यः परस्य वलादेरिडागमो न भवति । शक्ता यस्ता वस्ता | शक्यतेर्वस्तेश्वेडस्त्येव । शकिता वसिता । शक्लृ-घस्लृ वसति- हनिभ्यः | पचि वचि-रिचि विचि मिचि मुचि-प्रच्छः । दिशि-दृशि – विशि- लिशि-रिशि-रुशि- मृणि- स्पृशिभ्यः । क्रुशो दंशः । त्यजि-यजि-युजि – रुजि- निजि – विजि- मुजि भजि सृजि – सरिञ्ज – भञ्जिभ्यः | स्वजि – मस्जि- भ्रस्जिभ्यः । रुह दुह दिह-लिह-मिह नह दह वहः । अदि-हदि-शदि सदि- तुदि-नुदि- भिदि च्छिदि-शुद्धि – पदि – खिदि-स्कन्दः । तप-तिप-शप-चप-लिप- लुपसृप – स्वपाप – क्षिप-छुपः । शुपि कृपि – पिपि – विपि-शिषिभ्यः । तुषि- त्विषि-दुषि-द्विषिभ्यः | व्यधि-युधि-रुवि-शुधि-बन्धि-क्रिधि-क्षुधेः । राधि- साधिभ्यां च ।
।
श्र्युगूर्णोः कितः || १३६||
श्रयतेरुगन्तादेकाच ऊर्णोतेश्च परस्य कितो वलादेरिड् न भवति । श्रित्वा श्रितः । युत्वा युतः । लुत्वा लूनः । वृत्वा वृतः । तीर्त्वा तीर्णः । ऊर्णुत्वा ऊर्णुतः । एकाच इत्येव । जागरितः । कित इति किम् ? लविता |
मनो ग्रहगुहोश्च || १३७||
ग्रहिगुहिभ्यामुगन्ताच्च परस्य सन इड् न भवति । जिघृक्षति जुघुक्षति । लुऌषति पुपूषति । श्रयतेरूणतेर्यौतेर्वॄतश्च परस्य मन इड् विभाषोक्तः [११९, १०१] ।
स्वार्थे ||१३८ ||
स्वार्थिकस्य सन इड् न भवति । तितिक्षते चिकित्सति जुगुप्सते ।
श्रीदितस्ततवतोः ॥ १३९॥
श्वयतेरीदितश्च परयोस्ततवतोरिड् न भवति । शूनः शूनवान् । ओलस्जी | लग्नः लग्नवान् ।
यतोऽपतेर्वा ॥ १४० ॥
यस्मादिड् वा विहितस्ततः पतिवर्जितात्परयोस्ततवतोरिड् न भवति । सूत सूतवान् । अपतेरिति किम् ? पतितः पतितवान् | एकाच इत्येव । दरिद्रितः । कथं विदितः ? विशिसहचरितस्य विदविश [ १६६ ] इति ग्रहणात् ।
आदितः || १४१ ||
आदितः परयोस्ततवतोरिड् न भवति । भिन्नः भिन्नवात् ।
भावारम्भयोर्वा ॥ १४२ ॥
भावे तदारम्भे च ततवतोरिड् वा न भवति । भिन्नम् भेदितम् ।
प्रभिन्नं प्रभेदितम् । आदित्येव । गतम् ।
जपिवमः || १४३ ||
जपिवमिभ्यां परयोस्ततवतोरिड् वा न भवति । जप्तः जपित: ।
वान्तः वमितः ।
व्याड : श्वसः॥१४४॥
विपूर्वादाङ्-पूर्वाच्च श्वसेः परयोस्ततवतोरिड् वा न भवति । विश्वस्तः विश्वसितः | आश्वस्तः आश्वासितः । व्याड इति किम् ? निश्वसितः उच्छ्वसितः ।
क्षुब्धवान्तध्वान्तं मन्यमनस्तमः ॥ १४५ ॥
क्षुब्धादयो मन्यादिष्वर्थेषु निपात्यन्ते । क्षुब्धो मन्थः । स्वान्तं मनः । ध्वान्तः तमः । समानाधिकरणं किम् ? क्षुभितं मन्थेन, स्वनितं मनसा, ध्वनितं तमसा ।
विरिब्धफाण्टवाढम्लिष्टानि स्वरानायासभृशास्पष्टेषु ॥ १४६ ॥
विरिब्धादयः स्वरादिषु गम्यमानेषु निपात्यन्ते । विरिब्धः स्वरश्चेत् , विरेभितमन्यत् । फाण्टमनायासनिर्जातः चेत् । सद्योऽभिपुतोद्धृतौषधं द्रवद्रव्यमैत्रोच्यते । फाणितमन्यत् । बाढं भृशं चेत्, बाहितमन्यत् । म्लिष्टमविस्पष्टं चेत्, म्लेच्छितमन्यत् ।
धृषशसः प्रागल्भ्ये ॥ १४७ ॥
धृषिशसिभ्यां परयोस्ततवतोः प्रागल्भ्य एवेड् न भवति । धृष्टः विशस्तः । प्रागल्भ्य इति किम् ? वर्षितः विशसितः |
दृढः स्थूलबलिनोः || १४८॥
दृढ इति स्थूले बलवति च निपात्यते । दृढः । दृहितः दृहितं चान्यत् ।
प्रभौ परिवृढः || १४९ ॥
परिवृढ इति प्रभौ निपात्यते । परिवृहितमन्यत् ।
कृच्छ्रगह्नयोः कषः ॥ १५०॥
कृच्छ्रे गहने चार्थे कषते परयोस्ततवतोरिड् न भवति । कष्टोऽग्निः । कष्टाः पर्वताः । कपितमन्यत्र ।
घुषेरविशब्दने ॥ १५१ ॥
विशब्दनादन्यत्र घुषेः परयोस्ततवतोरिड् न भवति । घुष्टा रज्जुः । अविशब्दन इति किम् ? अवघुषितं वाक्यमाह । अतो लिङ्गाद् वा णिच् । तेन जुघुषु पुष्पमाणवा [भाष्यम् ७|२| २१] इति सिद्धं भवति ।
संनिवेरर्दः ॥ १५२ ॥
समादिपूर्वादर्दतेः परयोस्ततवतोरिड् न भवति । समर्णः न्यर्णः ।
व्यर्णः । सनिवेरिति किम् ? अर्दितः ।
अभेरविदृरे || १५३ ||
अभे परादर्दते परयोस्ततवतोरविदृरे गम्यमान इड् न भवति । अभ्यर्णा शरत् । अविदृर इति किम्? अभ्यर्दितः |
णेर्वृत्तं ग्रन्थे || १५४ ॥
वृतेर्ण्यन्तस्य क्ते परतो ग्रन्थविषये वृत्तमिति निपात्यते । वृत्तं पारायणं देवदत्तेन । वृत्ते पारायणे । वर्तितमन्यत् ।
वा दान्तशान्तपूर्णदस्त स्पष्टच्छन्नज्ञप्ताः॥ १५५||
प्यन्तानामेते क्ते परतो वा निपात्यन्ते । दान्तः दमितः । शान्तः शमितः । पूर्णः पूरितः । दस्तः दासितः | स्पष्टः स्पाशितः । छन्तः छादितः । ज्ञप्तः ज्ञपितः।
रुपहृपामत्वरसङ्घषास्वनः ॥ १५६ ॥
रुपादिभ्यः परयोस्ततवतोरिड् वा न भवति । रुष्टः रुषितः । हृष्टः हृषितः । हृषेर्लोमसु [पा०७/२/२९] विस्मितप्रतिघातयोः [७/२/२९ भाष्यम् ] इति च न वक्तव्यम्, अन्यत्रापि दर्शनात् अर्थान्यत्वे च व्यवस्थितविभाषया वा । हृष्टाः केशाः, हृषिताः केशाः । हृष्टा दन्ताः, हृषिता दन्ताः । हृष्टं लोमभिः, हृषितं लोमभि । अभ्यान्तः अभ्यमितः । तूर्णः त्वरित । सघुष्टः सघुषितः | आस्वान्त आस्वनितः । अविशब्दने मनसि च परत्वादनेनैव भवितव्यम् । अपचित इति चिनोतेर्भविष्यति, तत एव पूजा प्रतीयते । अपचायित इति चायतेर्भविष्यति ।
अपचितिः ॥ १५७॥
अपपूर्वस्य चायेः क्तिनि परतश्चिभावो निपात्यते । अपचितिः चायनिवृत्त्यर्थं वचनम् |
सृभृवृस्तुद्रुश्रुवो लिटः || १५८||
सादिभ्य एव परस्य वलादेर्लिट इड् न भवति । ससृव ससृम | बभूव बभ्रम बभृवहे बभृमहे । ववृव बम ववृवहे ववृमहे । वृद्धवृर्वलादि- लक्षण एव प्रतिषिध्यते । तुष्टुव तुष्टुम । दुद्रुव दुद्रुम । सुस्रुव सुस्रुम । स्त्रादिभ्य इति किम् ? पेचिव पेचिम । शेकिव शेकिम ।
कृञोऽसुटः ॥ १५९ ॥
असुट्कात्करोतेः परस्य लिट इड् न भवति । चकृव चक्रम । स्रादि- नियमात्प्राप्तस्य प्रतिषेधः । असुट इति किम्? सञ्चस्करिव सञ्चस्करिम |
ऋतस्तासि नित्यानिटस्थलः || १६० ||
ऋदन्तात्तासि नित्यानिटः परस्य थल इड् न भवति । हर्ता जहर्थ | ऋत इति किम् ? भेत्ता बिभेदिथ । तासीति किम् ? वृत ववरिथ | नित्यमिति किम् ? स्वर्ता स्वरिता सस्वरिथ । अनिट इति किम् ? जागरिता जजागरिथ । थल इति किम् ? जह्रिव जह्रिम । अचो वा [ १६१] इति प्राप्तस्य प्रतिषेधः ।
अचो वा || १६१||
अजन्तात्तासि नित्यानिट परस्य थल इड् वा न भवति । याता
ययाथ ययिथ । चेता चिचेय चिचयिथ । होता जुहोथ जुहविथ । तासीत्येव । युत युयविथ । नित्यमित्येव । सोता सविता सुपविथ । अनिट इत्येत्र 1 लविता लुलविथ । थल इत्येव । ययिव ययिम |
पाटेऽत्वतः ॥ १६२॥
उपदेशेऽकारवतस्तासि नित्यानिट परस्य थल इड् वा न भवति । पक्ता पपक्थ पेचिथ । शक्ता शाक्य शेकिथ । पाठ इति किम् ? कर्ष्टा चकर्षिथ | अत्वत इति किम् ? भेत्ता विभेदिथ । तपर किम् ? राद्धा रराधिथ । तासीत्येव । शान्तः शेमिथ । नित्यमित्येव । रद्वा रविता ररन्विथ । अनिट इत्येव | फणिता फेणिथ । थल इत्येव । पेचिव पेचिम ।
सृजिदृशः || १६३ ||
सृजिदृशिभ्यां परस्य थल इड् वा न भवति । सस्रष्ठ, ससर्जिथ ।
दद्रष्ट ददर्शिथ ।
ऋवृव्येदः ॥ १६४ ॥
अर्तेर्वृञेर्व्यञोऽत्तेश्च परस्य थल इड् भवति । नित्यं विकल्पानुवृत्तेर्व्यञद आनर्थक्यात् । आरिथ ववरिथ सविव्ययिथ आदिथ ।
क्वसोरेकाजाद्घसः || १६५ ||
एकाच आकारान्ताद् घसश्च परस्य कसोरिड् भवति । पेचिवान् ययिवान् जक्षिवान् । एकाचाद् घस इति किम् ? बभूवान् ।
वाहनगमविदविशदृशः ॥ १६६॥
हनादिभ्यः परस्य कसोरिड् वा भवति । जघ्निवान् जघन्वान् । जग्मिवान् जगन्वान् । विविदिवान् विविद्वान् । विविशिवान् विविश्वान् । ददृशिवान् ददृश्वान् ।
ऋहनः स्ये ॥१६७॥
ऋदन्ताद्धन्तेश्च परस्य स्य इत्येतस्य इड् भवति । करिष्यति हनिष्यति ।
अञ्जेः सिचः ॥ १६८ ॥
अञ्जे परस्य सिच इडागमो भवति । आञ्जीत् ।
स्तुसुञोऽतङि ॥ १६९॥
स्तौतेः सुनोतेश्च परस्य सिचोऽतडि परत इड् भवति । अस्तावीत् असावीत् । अतडीति किम् ? अस्तोष्ट । अधावीदिति धूञा सिद्धम्, अधोषिदिति धुवा भवितव्यम् ।
यमरमनमातां सक् च ॥ १७० ॥
यमादीनामाकारान्ताना चानन्तरस्य सिच इड् भवति, सकः चैपा-
मागमः । अयसिष्टाम् व्यरसिष्टाम् अनसिष्टाम् अयासिष्टाम् । अतडीत्येव । आयस्तं पादम् ।
ऋस्मिपूजञ्जयः सनः ॥ १७१ ॥
ऋप्रभृतिभ्यः परस्य सन इइ भवति । अरिरिषति सिस्मयिषते पिपविषते अञ्जिजिषति अशिशिषते ।
कॄभ्यः पञ्चभ्यः ॥ १७२॥
कॄ इत्येवमादिभ्यः पञ्चभ्यः परस्य सन इड् भवति । चिकरिषति जिगरिषति दिदरिषते दिधरिषते पिपृच्छिषति । पञ्चभ्य इति किम् सिसृक्षति |
रुद्रयस्तिङः ॥१७३॥
रुदादिभ्यः पञ्चभ्यः परस्य वलादेस्तिड इड् भवति । रोदिति स्वपिति प्राणिति श्वसिति जक्षिति । तिङ इति किम् ? स्वप्ता । पञ्चभ्य इत्येव । जागर्ति ।
जनीशीडः स्ध्वे ॥ १७४॥
जन ईश ईडश्च परस्य सकारादेस्तिङ ध्व इत्येतस्य च इड् भवति । व्यतिजज्ञिषे व्यतिजज्ञिध्वे व्यतिजज्ञिष्व व्यतिजध्वम् । जुहोत्यादित्वाद् द्विर्वचनम् । ईशिषे ईशिध्वे ईशिष्ट ईशिध्वम् । इडिषे ईडिध्वे ईडिष्व ईडिध्वम् ।
आने मुगतः || १७५ ||
आने परतोऽकारान्तस्य मुगागमो भवति । पचमानः यजमानः । अत इति किम्? कुर्वाणः । तपर किम्? ददान । प्रकृतेरित्येव । प्राणः ।
आसीनः || १७६||
आस परस्यानस्य ईत्त्वं निपात्यते । आसीनः ।
॥इति चान्द्रे व्याकरणे पञ्चमोऽध्यायः समाप्तः ॥