प्रकृतेः ॥ १ ॥
अत परं प्रकृतेरित्येतदधिकृतं वेदितव्यम् ।
हलः || २ ||
हलः प्रकृत्यवयवादुत्तरो यो यण इक् तदन्ताया: प्रकृतेर्दीर्घो भवति । हूतः जीनः सवीतः । प्रकृतेरित्येव । निरुतम् दुरुतम् । तदन्तविधिः किम् ? विद्धः विचितः । कथं तृतीय निपातनात् ।
अलुकि ॥ ३ ॥
यत्र यदुच्यते तस्यालुकि सति तद्भवतीत्येतदविकृतं वेदितव्यम् ।
नाम्यति सृचतस्रोः || ४ ||
नामि परतस्तिसृचतसृत्रर्जितायाः प्रकृतेर्दीर्घो भवति । वृक्षाणाम् अग्नीनाम् वायूनाम् कर्तॄणाम् । नुटा निर्देशः किम् ? कृते नुटि दीर्घत्वप्रसिद्ध्यर्थम्, अन्यथा हि नुडभावः स्यात् । अतिसृचतत्रोरिति किम् ? तिसृणाम् चतसृणाम् | अलुकीत्येव । तालवनम् | पीलुवनम् । प्रकृतेरित्येव । कृमिणा पश्य । पामना पश्य । नैषा नामि प्रकृतिः ।
नुर्वा ॥ ५ ॥
नृशब्दस्य नामि परतो दीर्घो वा भवति । नृणाम् नृणाम् ।
नः ॥ ६ ॥
नकारान्ताया: प्रकृतेर्नामि परतो दीर्घो भवति । पञ्चानाम् सप्तानाम् । नामीत्येव । चर्मणाम् |
शिसुटि ॥ ७ ॥
शो सुटि च परतो नकारान्तायाः प्रकृतेदीर्घो भवति । सामानि वैमानि । कुण्डानि वनानि । नुमापीह नान्तत्वं सुखादीनि ० [ १/१/३५] इति लिङ्गात् । राजानौ राजानः राजानम् राजानौ । दीर्घप्रतियोगिनो ह्रस्वस्य भवति, वचनसामर्थ्याच्च व्यवधानमाश्रीयते । अलुकीत्येव । राजप्राप्तः
स्महतोर्नुमि ॥ ८ ॥
सकारान्तस्य महतश्च शौ सुटि च परतो नुमि सति पूर्वस्य दीर्घो भवति । श्रेयांसि महान्ति । श्रेयासौ महान्तौ । नुमीति किम् अप्सरसः ।
अप्तृस्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् ॥ ९ ॥
अप्-ब्दस्य तृजन्तस्य तृनन्तस्य च स्वस्रादीनां च शौ सुटि च परतो दीर्घो भवति। आपः, कर्तृणि । कर्तारः कटान्, बक्तारः जनापवादान् । स्वसारम् नप्तारम् नेष्टारम् त्वष्टारम् क्षत्तारम् होतारम् पोतारम् प्रशास्तारम् । नत्रादिग्रहणादन्येषां त्रान्तानां संज्ञाशब्दानां न भवति । मातरम् पितरम् जामातरम् दुहितरम् भ्रातरम् ।
सावसम्बुद्धौ ॥ १०॥
सौ यद्दीर्घत्वं तदसम्बोधन एव भवति । राजा श्रेयान् महान् । कर्ता स्वसा नप्ता नेष्टा त्वष्टा क्षत्ता होता पोता प्रशास्ता | सम्बुद्धौ न भवति । हे राजन्, हे श्रेयन्, हे महन्, हे कर्तः।
अत्वसोः ॥११॥
अत्वन्तस्यासन्तस्य च सावसम्बुद्धौ दीर्घो भवति । भवान् कृतवान् गोमान् । मतुपः पकारानुबन्धो न पुनरतुशब्दस्येत्यस्यापि भवति । असन्तस्य च। अप्सराः सुमनाः । कथं चर्म वस्ते चर्मवः इति ? अतुसाहचर्यादधातोरेव ग्रहणम् । असम्बुद्धावित्येव । हे भवन्, हे सुमन: ।
इन्हन्पूषार्यम्णा शौ च ||१२||
इनन्तस्य हनादीनां च शावेव दीर्घो भवति, सौ चासम्बुद्धौ । दण्डीनि दण्डी | भ्रूणहानि भ्रूणहा | बहुपूपाणि यूपा । बह्वर्यमाणि अर्यमा । सौ चेति किम् ? दण्डिनौ दण्डिनः| वृत्रहणम् पूपणम् अर्यमणम् । असम्बुद्धावित्येव । हे दण्डिन् हे वृत्रहन् हे पूषन्, हे अर्यमन् । अस्मादेव नियमादुत्तरमपि न दीर्घत्वम् । भ्रूणहनि । उपान्तदीर्घनियमात् वृत्रहायते ।
अज्झनोः सनि झलि ||१३||
अजन्तस्य हन्तेश्च सनि झलादौ परतो दीर्घो भवति । चिकीर्षति तुष्ट्रपतिः चिचीषति जिघांसति । झलीति किम् ? यियवषति । प्रकृतेरित्येव । दधि सनोति ।
इङो गमः ||१४||
इडादेशस्य गमः सनि झलादौ परतो दीर्घौ भवति । अधिजिगासते वेदम् । इड इति किम्? सजिगासते ।
तनो वा ||१५||
तनोतेः सनि झलादौ परतो दीर्घो वा भवति । तितासति तितंसति । झलीत्येव । तितनिपति ।
क्रमस्त्वि ||१६||
क्रमस्त्वि परतो दीर्घो वा भवति । क्रान्त्वा कन्त्वा झलीत्येव । क्रमित्वा प्रक्रम्य ।
ञमः किति वौ च ॥१७॥
ञमन्तस्य वौ किति झलादौ च परतो दीर्घो वा भवति । प्रशान् प्रतान् । शान्तः शान्तवान् । ञम इति किम्? ओदनपक् । कितीति किम्? गन्ता । वौ चेति किम् ? गम्यते ।
ञमि च च्छ्वोः शूट् ||१८||
ञमि परतो वौ झलादौ च सतुकश्छकारस्य शकागदेशो भवति चकारस्य च ऊठ् । विश्नः प्रश्नः प्राट् । पृष्टः प्रष्टा प्रष्टुम् । स्योनम् अक्षद्यू दुद्यूषति द्यूत्वा द्यूतम् । कथं द्युभ्यां द्युभिरिति । ऊठि कृते दिव उत् [ पा० ६ | १|१३१] इति तपरत्वान् मात्राकालो भविष्यति । ञमि चेति किम् ? देवित्वा । कथ प्रतिदीव्ना बहिरङ्गस्याल्लोपस्यासिद्धत्वान्न भविष्यति ।
ज्वरन्वरावश्रिवुमवां सोपान्तस्य ॥ १९ ॥
ज्वरादीनां वकारस्योपान्तसहितस्य वौ झलादौ च परत ऊठ् भवति । जू जुरौ जूर्तिः । तू तुरौ तुर्तिः तूर्णवान् । ऊ उवौ ऊतिः । श्रूः श्रुवी श्रुतिः । मूर्तिः ।
राल्लोपः ||२२||
रेफात्परयो श्छ्वोर्वौ झलादौ च परतो लोपो भवति । मुर्छा मूः मुरौ मूर्तिः । धुर्वी धूः धुरौ धूर्तिः । वौ चेत्येव । मूर्च्छा ।
प्राग्युवोरवुग्युगसिद्धं समानाश्रये ||२१||
प्राग् युवुसगब्दनाद् [५|४|१] वुका युका च वर्जितं कार्यं समानाश्रये कार्यान्तरे कर्तव्येऽसिद्धं वेदितव्यम् । एधि शावि । एत्त्वशात्वयोरसिद्धत्वाज्झल्लक्षणं धित्वं भवति । जहि । जन्त्वस्यासिद्धत्वाद्धेर्लुग् न भवति । तत्र तस्य च भावात् समानाश्रयत्वमेतेषाम् । समानाश्रयलक्षणश्चात्र विधिः, न व्याश्रयलक्षणप्रतिषेधः । प्राग्युवोरिति किम् ? अभाजि, रागः । आकारे कर्तव्ये नलोपः सिद्ध एव । अवुग्युगिति किम वभूवतु । उपदिदीये । वुग्युवोः सिद्धत्वाद् उवयणादेशौ न भवतः । समानाश्रय इति किम् ? पपुषः चिच्युषः लुलुवुषः । वसोरुद् विभक्त्याश्रयेप्यालोप-यण्- उवादेशेषु कर्तव्येषु नासिद्धः । अस्मादेव वचनाद्वहिरङ्गपरिभाषा नेहाश्रीयते, बहिरङ्गस्य चान्तरङ्गनिमित्तत्वात् ।
श्नान्नः ||२२||
श्नमः, परस्य नकारस्य लोपो भवति । भनक्ति व्यनक्ति । शकारः किम् ? प्रयत्नानाम् । प्रश्नानामिति लाक्षणिकत्वादनर्थकत्वाच्च न भवति ।
हलोऽ निदितः क्ङित्युपान्तस्य ||२३||
हलन्तायाः प्रकृतेरनिदितः क्ङिति परत उपान्तनकारस्य लोपो भवति । स्रस्तः स्रस्यते ध्वस्तः ध्वस्यते । सनीस्रस्यते दनीध्वस्यते । हल इति किम् ? नीयते । अनिदित इति किम् ? नन्द्यते । ङितीति किम् ? स्रंसिता । उपान्तस्येति किम् ? नाते ।
शित्यपिति ||२४||
शित्यपिति परतोऽनिदितः उपान्तनकारस्य लोपो भवति । दभ्नोति मथ्नाति श्रथ्नाति ग्रथ्नाति । अपितीति किम् ? स्रसते ध्वंसते । अनिदित इत्येव । शिञ्जान ।
लिटीन्धिश्रन्थग्रन्थाम् || २५॥
लिटि परत इन्धादीनां नलोपो भवति । समीधे श्रेथतुः श्रेथुः। ग्रेथतु ग्रेथु । एषामिति किम् सस्रसे । अपितीत्येव । शश्रन्थः |
दम्भः स्सनि च ||२६||
दम्भे सकारादौ सनि लिटि चापिति परतो नलोपो भवति । धिप्सति देभतुः देभुः । द्विसकारनिर्देशः किम् दिदम्भिषति ।
स्वञ्जः ||२७||
स्वञ्जेर्लिटि परतो नलोपो भवति । परिपस्वजे । सदिस्वन्नेर्लिटि [६/४/९८ ] इति पत्यप्रतिषेधः ।
शपि दंशस्वञ्जेश्च || २८॥
शपि परतो दशे सने स्वञ्जश्च नलोपो भवति । दशति सजति परिष्वजते ।
रञ्जः ||२९||
रञ्ज शपि परतो नलोपो भवति । रजति । कथं रजनम् रजतम् रज इति औणादिका एते । तथाहि रञ्जेः क्युन् [ उ० ८०५/२४] पृषिरञ्जिभ्यां कित् [उ० द० ६११५] इत्यतच्, उषिरञ्जिभ्यां कित् [उ० द० ९/७६] इत्यसुन् ।
णौ मृगरमणे ||३०||
णौ परतो मृगरमणे गम्यमाने रञ्जेर्नलोपो भवति । रजयति मृगान् । अत्र मित्त्वाद्ध्रस्वत्वम् । मृगरमण इति किम् ? रञ्जयति वस्त्राणि । कथं रागी । इनिना सिद्धम् ।
यञि भावकरणयोः ||३१||
भावकरणयोर्यो घञ् तस्मिन् परतो रञ्जेर्नलोपो भवति । रञ्जनम् । रजत्यनेनेति रागः | भावकरणयोरिति किम्?रजन्त्यस्मिन्निति रङ्गः |
स्यदो जवे ||३२||
स्यद इति स्यन्देर्घञि निपात्यते जवेऽभिधेये । अन्यत्र तैलस्यन्दः |
अवोदधौद्मप्रश्रथहिमश्रथाः ॥ ३३ ॥
अवोद इत्युन्देर्घञि निपात्यते एध इतीन्धे, ओद्मेत्युन्देर्मनिनि, प्रश्रथः श्रन्थे प्रपूर्वस्य घञि हिमश्रथः इति हिमपूर्वस्य ।
लङ्गिकम्प्योरुपतापशरीरविकारयोः ||३४||
लङ्गे कम्पेश्चोपतापे शरीरविकारे चार्थे नलोपो भवति । विलगित: विकषितः । अन्यत्र विलङ्गितः विकम्पितः । वृहेरच्यनिटि [पा० ६।४।२४।२] इति न वाच्यम् । निवर्हति निबर्हक इति वृहिणा सिद्धम् । हलादाविटि च दृश्यते निवृह्यते निवर्हिता । वृंहेस्तु निवृहति निवृंहकः निर्वृह्यते निवृंहिता ।
तनाद्यनिट्वनां ल्यपि ञमः ||३५||
तनादीनामनिटां वनच ल्यपि परतो ञमो लोपो भवति । प्रतत्य प्रकृत्य । प्रहत्य प्रमत्य । प्रवत्य । एषामिति किम् ? प्रशस्य । ल्यपीति किम् ? यम्यते रम्यते ।
मो वा ||३६||
तनाद्यनिट्वनां ल्यपि परतो मकारस्य लोपो वा भवति । प्रयत्य प्रयम्य | विरत्य विरम्य। प्रणत्य प्रणम्य । आगत्य आगम्य ।
झलि तिङ्यपिति ||३७||
तिङ्यपिति झलादौ परतस्तनाद्यनिट्वना ञमो लोपो भवति । हतः हथः । झलीति किम् घ्नन्ति । तिडीति किम् ? हन्ता । अपितीति किम् ?हन्ति ।
क्ङिति ||३८||
किति ङिति झलादौ परतस्तनाद्यनिट्वना ञमो लोपो भवति । ततः ततवान् । क्षतः क्षतवान् । यतः यतवान् । रतः रतवान् । वति: क्तिनि, क्तिचि प्रतिषेधं वक्ष्यति [ ५९ ] ‘ । अन्यत्र चेटा भवितव्यम्। झलीत्येव । हन्यते गम्यते । तनाद्यनिट्वनामित्येव । शान्तः शान्तवान्। दान्तः दान्तवान् । ञम इत्येव । पक्वः ।
जनसनखनामात् ||३९||
जनादीनां झलि क्ङिति परतो ञम् आद्भवति । जातः जातवान् । सातः सातवान् । ख्यातः ख्यातवान् । झलीत्येव। जनित्वा ।
सनि ||४०||
जनादीनां सनि झलादौ परतो ञम् आद्भवति । सिषासति । जनखनोरिटा भवितव्यम् । झलीत्येव । सिसनिषति ।
ये वा ॥ ४१ ॥
ये क्ङिति परतो जनादीनामात्त्वं वा भवति । जायते जन्यते, जाजायते जञ्जन्यते । सायते सन्यते, सासायते ससन्यते । खायते खन्यते, चाखायते चङ्खन्यते ।
तनो यकि ॥ ४२॥
तनोर्यकि परत आत्वं वा भवति । तायते तन्यते ।
सनः क्तिचि लोपश्च ॥ ४३ ॥
सनः क्तिचि परतो लोप आत्त्वं च वा भवति । सति सातिः
लिङि तङि गमः ॥ ४४ ॥
लिङि त भूते परतो गमेर्लोपो वा भवति । सगसीष्ट सगसीष्ट । लिङीति किम् ? सजग्मे । तडीति किम् ? गम्यात् ।
सिचि ||४५ ||
सिचि तड्परे परतो गमेर्लोपो वा भवति । समगत । समगंस्त ।
हनः ॥ ४६||
हन्ते सिचि परतो लोपो भवति नित्यं योगविभागात् । आहत आहसाताम् ।
यमः सूचने ||४७ ||
यमे सूचने वर्तमानस्य सिचि तड्परे परतो लोपो भवति । उदायत उदायसाताम् । सूचन इति किम् ? आयस्तं पादम् । झलि तिड्यपित्यपि न भवति, सिचा व्यवधानात् । तडीत्येव । अयसीत् ।
वोद्वाहे ||४८ ||
उद्वाहे वर्तमानस्य यमे सिचि तङ्परे परतो लोपो वा भवति । उपायत कन्याम्, उपायम्न कन्याम् ।
गमादीनां कौ ॥ ४९ ॥
गमादीनां क्वौ परतो लोपो भवति । जनगत् संयत् परीतत् । कथम् अग्रेगूः । औणादिको डूर्भविष्यति ।
नाश्चः पूजायाम् ॥ ५० ॥
अञ्चते पूजायां गम्यमानायां नलोपो न भवति । अञ्चितमिव शिरो वहति । पूजायामिति किम् ? उदक्तमुदकं कूपात् ।
क्तिचि दीर्घश्च ॥ ५१ ॥
क्तिचि परतो नलोपो दीर्घश्च न भवति । तन्ति रन्ति वन्ति । क्तिचः सज्ञायां वचनात् [पा० ३।३।१७४] संक्त्यादीनामप्रयोगः । कथं सक्तिर्भक्तिरिति । क्तिना सिद्धम् । दीर्घसम्भवे वा लोपप्रतिषेधः ।
क्तित्वं स्कन्दस्यन्दोः || ५२||
क्वि-परतः स्कन्दस्यन्देश्च नलोपो न भवति । स्कन्त्वा स्यन्त्वा ।
सेटि || ५३ ||
सेटि क्त्विपरतो नलोपो न भवति । स्रसित्वा ध्वंसित्वा स्यन्दित्वा ।
वञ्चिलुश्चिथफो वा ॥५४॥
‘वञ्चेर्लुञ्चेः स्थान्तानां फान्ताना च सेटि परतो नलोपो वा न भवति । वञ्चित्वा वचित्वा । लुञ्चित्वा लुचित्वा । श्रन्थित्वा श्रथित्वा । ग्रन्थित्वा ग्रथित्वा । गुम्फित्वा गुफित्वा ।
जनशः ||५५||
जान्तानां नशेश्च क्त्वि-परतो नलोपो वा भवति । भङ्क्ता भक्त्वा । नष्ट्वा नष्ट्वा । योगविभागोऽनिडर्थः ।
भञ्जेच्विणिः ॥५६॥
भञ्जेश्चिणि परतो नलोपो वा भवति । अभाजि अभञ्जि। शासः ङिति शिस् ||५७॥
शासः क्ङिति परतः शिसादेशो भवति । शिष्ट अन्वशिषत् । शेशिष्यते । मित्रशीः । आशीः । क्ङितीति किम् ? शास्ता ।
तिङि इल्यपिति || ५८ ||
तिङि हलादावपिति परतः शासः शिसादेशो भवति । तौ शिष्टः, वयं शिष्मः । तिङीति किम् ? शास्त्रम् । हलीति किम् ? शशासतुः । अपितीति किम् ? शास्ति ।
शा हौ || ५९ ॥
शासो हौ परतः शादेशो भवति । शाधि ।
हनो जः || ६०||
हन्तेर्हौ परतो जादेशो भवति । जहि ।
लिडाशीर्लिङतिङ्क्षिति ॥ ६१ ॥
लिट्याशीर्लिंङ्यतिङ्शिति चैतदधिकृतं वेदितव्यम् ।
भ्रस्जो भर्ज् वा ||२२||
भ्रस्जेलिंडादिषु भर्जादेशो वा नवति । बभर्ज वभ्रज्ज । भर्क्षीष्टः भ्रक्षीष्टः । भष्टः भ्रष्टा । कथं भृज्ज्यात् भृष्टः वरीभृज्ज्यत इति ?व्यवस्थितविभाषया, भ्रस्ज इति रूपाश्रयणाद् वा । पूर्वं च यण इक् पूर्वविप्रतिषेधात् ।
लोपोतः ||६३ ||
अदन्तायाः प्रकृतेर्लिङादिषु परतो लोपो भवति । चिकीर्षाञ्चकार लोलूयाञ्चक्रे । चिकीर्ष्यात् चिकीर्षिता । लोपविधेर्बलवत्त्वादाकारो न भवति । चिकीर्षकः चिकीर्ष्यते । लिडादिष्वित्येव । चिकीर्षति ।
यकि ||६४ ||
यकि परतः प्रकृतेरनो लोपो भवति । कुसुभ्यति । मगध्यति । ककारः किम् ? श्येनायते ।
यस्य हलः ||६५||
हलः परस्य यस्य लिडादिषु लोपो भवति । वेभिदाञ्चक्रे बेभिदिषीष्ट वेभिदिता । अकारः किम् ? ईर्ष्यिता मध्यिता । हल इति किम् लोलूयिता । अथवा हलन्ताया प्रकृतेर्विहितस्य लोपो भवति । हलन्ताया इति किम् ? ईर्ष्यिता मध्यिता । क पुनरनयोः सूत्रार्थयोर्विशेषः पूर्वस्तदा सोसूत्रिता शाशयितेति भवितव्यम् । यदापरस्तदा सोसत्रियता शाशय्यितेति भवितव्यम् । लिडादिष्वित्येव । बेभिद्यते ।
क्यस्य वा ॥ ६६ ॥
हल परस्य क्यस्य लिडादिषु लोपो वा भवति । समिधाञ्चकार समिध्याञ्चकार | दृपदाञ्चक्रे दृपद्याञ्चक्रे । समिधिषिष्ट समिध्यिषिष्ट । समिधिता समिध्यिता । हल इत्येव । पटीयिता पटायिता । केचिद्यकोऽपि वा लोपमिच्छन्ति । भिषज्यिता भिषजिता । तदनर्थक क्यचा क्यङा वा सिद्धत्वात् ।
णेरनिटि || ६७ ||
अनिटि लिडादौ परतो णेर्लोपो भवति । इय् यण्- अदेङ्-आदैज्-
दीर्घाणामपवाद । अततक्षत् आटिटत् कारणा कारक कार्यते । अनिटीति किम् ? कारयिता । लिडादिष्वित्येव । कारयति ।
ततवतीटि ॥ ६८ ॥
क्तक्तवतोरिडाघो परतो णेर्लोपो भवति । कारितम् कारितवान् । हारितम् हारितवान् । इटीति किम् ? इटि कृते णिलोपो यथा स्यात् । अन्यथा हि लोपे कृते एकाच [ ५|४ | १३० ] इतीड् न भवति । संज्ञपितः पशुः । इड्ग्रहणसामर्थ्यात् पूर्वेणापि न भवति । सनीवन्तर्ध [ ५|४|११९ ] इत्यादिना विकल्पित इट्, यतोऽपतेर्वा [ ५।४।१४०] इति प्रतिषेधः ।
अयामन्ताल्वाय्येनुषु ||६९||
आमादिषु परतो णेरयादेशो भवति । करयाञ्चकार गडयन्तः स्पृहयालुः स्पृहयाय्य स्तनयित्नुः ।
ल्यपि लघोः ॥७०॥
ल्यपि परतो लघो परस्य णेरयादेशो भवति । प्रशमय्य गतः। प्रवेभिदय्य गतः । प्रगणय्य गतः । वचनसामर्थ्याद्व्यवधानमाश्रीयते । यलोपा- ल्लोपयोर्व्याश्रयत्वादसिद्धत्वं नास्ति । णौ यलोपाल्लोपौ ल्यपि णेरयादेशः | लघोरिति किम् ? प्रतिपाद्य गतः ।
आपो वा ॥ ७१ ॥
आप परस्य णेर्ल्यपि परतोऽयादेशो वा भवति । प्रापय्य गतः
प्राप्य गतः । अध्याप्येति लाक्षणिकत्वान्न भवति ।
क्षेः क्षीः ॥७२॥
क्षेपि परतः क्षीभावो भवति । प्रक्षीय | उपक्षीय ।
उपदेशेऽज्झनग्रहदृग्भ्यः स्यसिच्सीयुट्तामां भावाप्ययोश्चिण्वदिड् वा ॥ ७३ ॥
उपदेशेऽजन्तेभ्यो हनादिभ्यश्च परेषां स्यादीनां भावाप्यविषये चिण्वदिडागमो वा भवति । चायिष्यते चेष्यते । दायिष्यते दास्यते । शमिष्यते शामिष्यते शमयिष्यते । घानिष्यते हनिष्यते । ग्राहिष्यते ग्रहीष्यते । दर्शिष्यते द्रक्ष्यते । अचायिषाताम् अचेत्राताम् । अदायिनाताम् अदिपाताम् । अशमिषाताम् अशामिषाताम् अशमयिषाताम् । अघानिषाताम् अवधियाताम् । अग्राहिपाताम् अग्रहीपाताम् । अदर्शिषाताम् अदृक्षाताम् । चायिषिष्ट चेषीष्ट । दायिषीष्ट दासीष्ट । शमिषीष्ट शामिषीष्ट शमयिषीष्ट । घानिषिष्ट वधिषीष्ट । ग्राहिषीष्ट ग्रहीषीष्ट । दर्शिषीष्ट दृक्षीष्ट । चायिता चेता । दायिता दाता । शमिता शामिता शमयिता । घानिता हन्ता । ग्राहिता ग्रहीता । दर्शिता द्रष्टा । उपदेश इति किम् ? कारिष्यते । अज्झनग्रहदृग्भ्य इति किम् ? पठिष्यते । स्यसिच्सीयुटतासामिति किम् ? चेतव्यम् । भावाप्ययोरिति किम् ? चेष्यति । चिण्वद्भावाश्चिणाश्रयं कार्यं भवति, लुडाश्रयं न भवति । अतो हनिणिडामादेशा न भवन्ति । अघानिषाताम् आयि- षाताम् अध्यायिषाताम् ।
दीङो लिटि युक् ॥ ७४ ॥
दीङो लिटि परतो युगागमो भवति । उपदिदीये उपदिदीयते ।
लिटीति किम्? उपदेदीयते ।
लोपोऽचि क्ङिति चातः ॥७५॥
अजादौ लिटि क्ङिति परत आदन्ताया: प्रकृतेर्लोपो भवति । गोदः कम्बलदः । सस्था अवस्था । ययौ ययतु ययु ययिथ । अचीति किम्? दीयते । क्ङितीति किम् ? दानम् ।
ईद्यति || ७६ ||
यति परत आत ईदादेशो भवति । ग्लेयम् ग्लेयम् देयम् धेयम् हेयम्।
मास्थासागापिबहाग्दाधां हलि ॥७७॥
मादीनां हलि क्ङिति परत ईद् भवति । मीयते मेमीयते । स्थीयते तेष्ठीयते । अवसीय अवसेसीयते । गीयते जेगीयते । पीयते पेपीयते । हीयते जेहीयते । दीयने देदीयते । धीयते देवीयते । पिबेति किम् ? पायते । ककारः किम्? हायते । हलीति किम् गोदः | क्ङित्येव । दाता ।
लिङयेत् ||७८||
लिङि परतो मादीनामेद् भवति । मेयात् । स्थेयात् । अवसेयात् | गेयात् । पेयात् । हेयात् । देयात् । वैयात् । क्ङितीत्येव । दासीष्ट ।
वा संयोगादेरस्थः ॥७९॥
संयोगादेगकारान्तायाः प्रकृतेः स्थावर्जिताया लिडयेद् वा भवति । ग्लेयात् म्लायात् । म्लेयात् म्लायात् । सयोगादेरिति किम् ? यायात् । अस्थ इति किम् ? स्थेयात् । क्ङितीत्येव । ग्ला सिष्ट । आशीर्लिंङीत्येव । म्लायेत । प्रकृतेरित्येव । निर्यायात् ।
न ल्यपि ||८०||
ल्यपि परतो मादीनां यदुक्तं तन्न भवति । प्रमाय प्रस्थाय ।
अवसाय | प्रगाय । प्रपाय | प्रहाय | प्रदाय | प्रवाय ।
मेङ इद्वा ॥८१॥
मेङो ल्यपि परत इदादेशो वा भवति । अपमित्य अपमाय । [
लुङ्लङ्लृङ्क्ष्वङमाङ्योगे || ८२ ॥
लुडादिषु परत प्रकृतेरडागमो भवति, न चेन्माङ्योगो भवति । अकार्षीत् अकरोत् अकरिष्यत् । अमादयोग इति किम् ? मा भवान् कार्षीत् । मास्म करोत् । प्रकृतेरित्येव । प्राकरोत् ।
अचि श्नुधातुभ्रुवां य्वोरियुवौ || ८३ ||
अचि परत इवर्णोवर्णयोरियुवौ भवतः। तौ चेच् श्रनुधातुभ्र- सम्बन्धिनौ भवतः । आप्नुवन्ति । चिक्षियतु चिक्षिय ।
। लुलुवतुः लुलुवुः । श्रियौ श्रियः । भ्रुवौ भ्रुवः । अचीति किम् ? प्राप्नुयात् । श्नुधातु- भ्रुवामिति किम् ? लक्ष्म्यौ लक्ष्म्य | य्वोरिति किम् ? चक्रतुः चक्र ! प्रकृतेरित्येव । श्र्यर्थः ।
द्वित्वे पूर्वस्यासमे ||८४||
द्विर्वचने सति पूर्वस्यातुल्येऽचीवर्णोवर्णयोरियुवौ भवतः । इयेष उवोष इयर्ति । असम इति किम् ? ईजतु ईजु । ऊपतुः ऊषु । अचीत्येव । इयाज उवाच ।
स्त्रियाः ||८५ ||
स्त्रिया इवर्णस्याचि परत इयादेशो भवति । स्त्रियौ स्त्रियः । अचीत्येव । स्त्रीभिः ।
वाम्शसोः ||८६||
स्त्रिया इवर्णस्यामि शसि च परत इयादेशो वा भवति । स्त्रियम्
स्त्रीम्, स्त्रियः, स्त्रीः ।
इणो यण् ||८७||
इणः प्रकृतेरचि परतो यणादेशो भवति । यन्ति यन्तु । इयोऽपवादः ।
एरसंयोगादनेकाचः ||८८ ||
असयोगात्परो य इवर्णस्तदन्तायाः प्रकृतेरनेकाचोऽचि परतो यणादेशो भवति । निन्यतु निन्यु । एरिति किम् ? लुलुवतुः लुलुवुः । असयोगादिति किम् ? चिक्रियतु चिक्रियु । अनेकाच इति किम् ? अधीयाते ।
कारकासंख्यादोश्च सुप्यसुधियः ॥ ८९ ॥
कारकादसख्याच्च परस्याः प्रकृतेरिवर्णान्ताया उवर्णान्तायाश्च सुधीवर्जिताया सुप्यजादौ परतो यण् भवति, न चेत्संयोगात्पराविवर्णोवर्णौ भवतः । ग्रामण्यो ग्रामण्यः | उन्न्यौ उन्न्यः । खलप्त्रौ खलप्व । सकृल्ल्वौ सकृल्ल्व । कारकासख्यादिति किम् ? परमनियौ परमनिय । परमलुबौ परमलुव । नियौ निय । लुवौ लुव । सुपीति किम्? उपलुलुवु । असुधिय इति किम् ? सुधियौ सुधियः । असंयोगादित्येव । यवक्रियौ यवक्रियः । कटप्रुवौ कटप्रुवः ।
वर्षादृन्पुनःकाराद् भुवः ॥ ९०॥
वर्षादिभ्य एव परस्य भुवः सुप्यजादौ परतो यण् भवति । वर्षाभ्वौ वर्षाभ्वः | दृन्भ्वौ दृन्भ्वः । पुनर्भ्वौ पुनर्भ्वः | कारभ्वौ कारभ्वः । वर्षादिभ्य इति किम् । आत्मभुवौ आत्मभुवः । प्रतिभुवौ प्रतिभुवः ।
हुश्नुवोरलिटि || ९१||
हुश्नु इत्येतयोर्लिइवर्जितेऽजादौ परतो यण् भवति । जुह्वति जुह्वतु जुह्वत् । सुन्वन्ति चिन्वन्ति । हुश्नुवोरिति किम् ? युवन्ति रुवन्ति । अलिटीति किम् ? जुहुवतु जुहुवु । असयोगादित्येव । आप्नुवन्ति। राध्नुवन्ति ।
भुवो वुग्लुङ्लिटोः ॥९२॥
भवतेर्लुङि लिटि चाजादौ परतो वुगागमो भवति । अभूवन् बभूव बभूवतु बभूवु ।
ऊद् गोहोऽचः || ९३ ||
गोहेरजादौ परतोऽच ऊदादेशो भवति । निगूहयति निगूहकः । ओकारनिर्देशः किम् ? निजुगुहतु निजुगुहु । अच इति किम् ? अन्त्यस्य मा भूत् । अचीत्येव । निगोढा ।
दुषो णौ ॥ ९४ ॥
दुषो णौ परतोऽच ऊदादेशो भवति । दूषयति । णाविति किम्? दोषः।
वा चित्ते ||९५||
चित्तविषयस्य दुषो णावच ऊदादेशो वा भवति । दूषयति चित्तम्, दोषयति चित्तम् । चित्तग्रहणेनैव चैतसिकस्यापि ग्रहणात्, प्रज्ञा दोषयति, प्रज्ञा दृपयति ।
गमजनखनघसां ले लोपोऽपिति ॥९६॥
गमादीनां लादेशेऽजादावपिति परतोऽचो लोपो भवति । जग्मतुः जग्मुः जग्मिवान् । जज्ञतु जज्ञुः जज्ञे जज्ञाते जज्ञिरे । चख्नथुः चख्नुः । जक्षतुः जक्षुः जक्षित्रान् । ल इति किम् ? अगमत् । अपितीति किम् ? जगाम ।
किति च हनः ॥९७॥
किति लादेशे पिति चाजादौ परतो हन्तेरचो लोपो भवति । जायाघ्नः निघ्नः, विघ्नः | जघ्नतुः जघ्नुः जन्निवान् । अचीत्येव । हतः हथ ।
हुझलोऽनिटो हेर्धिः ||१८||
जुहोतेर्झलन्तायाश्च प्रकृतेः परस्यानिटो हेर्धिभावो भवति । जुहुधि भिन्धि छिन्धि । हुझल इति किम् । क्रीणीहि । अनिट इति किम् ? रुदिहि स्वपिहि । हेरिति किम् ? जुहोतु । जुहुतात् भिन्नादित्यन्तरङ्गत्वात्तातङ् । तस्य पुनर्न धिभावो हेरिति रूपस्याश्रयणात् ।
अतो लुक् ॥ ९९ ॥
अत परस्य हेर्लुग्भवति । पच पठ । अत इति किम् ? एहि । तपरः किम् ? याहि ।
उतोऽसंयोगादधातोः ॥ १०० ॥
असंयोगात्परो य उकारस्तस्मादधानो परस्य हेर्लुग् भवति । कुरु चिनु । उत इति किम् ? लुनीहि पुनीहि । असयोगादिति किम् । आप्नुहि शक्नुहि । अधातोरिति किम् ? यहि रुहि ।
वास्य व्मोः ॥ १०१ ॥
वकारमकारयोः परतोऽस्येत्युतोऽसंयोगादधातोः परस्य लुग् वा भवति । तन्वः तनुवः, तन्मः तनुमः । सुन्वः सुनुवः, सुन्मः सुनुमः असंयोगादित्येव । शक्नुवः शक्नुमः । अधातोरित्येव । युवः युमः ।
कृञो ये च ॥ १०२ ॥
करोते परस्योतो ये व्मोश्च परतो लुग् भवति । कुर्यात् कुर्याताम् । कुर्वः कुर्मः ।
अत उत् तत्रापिति ॥ १०३॥
करोतेरुति परतोऽत उद्भवति, पित्परे तु न भवति । कुरुतः कुर्वन्ति कुर्वन् | उदिति तपरत्वमदेङ्निवृत्त्यर्थम् । तत्रेति किम्? कर्ता । अपितीति किम्? करोति करोषि । ये चेत्येव । कुर्यात् । कुर्वः कुर्मः इत्युकारलोपस्यासिद्धत्वादुत्त्वं भवति ।
श्नसोर्लोपः ॥ १०४ ॥
श्नमोऽस्तेश्चापिति परतोऽतो लोपो भवति । रुन्द्धः रुन्धन्ति । स्तः सन्ति । अपितीत्येव । रुणद्धि अस्ति ।
श्नाद्विरुक्तयोरातः ॥ १०५ ॥
श्नो द्विरुक्तायाश्च प्रकृतेराकारस्यापिति परतो लोपो भवति । लुनते सुनताम् । पुनते पुनताम् । मिमते मिमताम् । सञ्जिहते सञ्जिहताम् । श्नाद्विरुक्तयोरिति किम् ? यान्ति वान्ति । आत इति किम् ? बिभ्रति अपितीत्येव । अलुनाम् अजहाम् ।
ई हलि तिङयदाधः ॥ १०६॥
श्नोः द्विरुक्तयाश्च प्रकृतेर्दाधावर्जिताया आकारस्य हलादावपिति परत ईकारो भवति । लुनीत पुनीत मिमीते सञ्जिहिते । हलीति किम् ? लुनन्ति पुनन्ति । मिमते । तिङिति किम् ? सञ्जिहासते । अदाध इति किम् ? दत्तः धत्तः । अपितीत्येव । लुनाति जहाति ।
भियो वा ॥ १०८॥
बिभेतेर्हलि तिङ्यपिति परत इकारो वा भवति । बिभित बिभीत । विमिथ विमीथ । हलीत्येव । बिभ्यति । तिङीत्येव । बिभीषति भीत | अपितीत्येव । बिभेति ।
हाकः ॥ १०९ ॥
जहातेर्हलि तिङ्यपिति परत इकारो वा भवति । जहित जहीत | हलीत्येव । जहति । तिङीत्येव । जिहासति । अपितीत्येव । जहाति ।
हौ वा ॥ ११०॥
जहातेर्हौ परत इत्वमीत्त्वं च वा भवति । जहिहि जहीहि जहाहि ।
यि लोपः ॥ १११ ॥
यकारादौ तिङि परतो जहातेर्लोपो भवति । जह्यात् जह्याताम् । तिङीत्येव । हीयते । कथं हेयात ? लिङ्येद् [ ७८ ] इति, अनवकाशत्वात् ।
दरिद्रः किति ॥ ११२ ॥
दरिद्रातेर्यकारादौ किति परतो लोपो भवति । दरिद्र्यते दरिद्र्यात् । कितीति किम् ? दरिद्रायात् ।
अच्ययुवौ ॥११३॥
अजादौ युववर्जिते परतो दरिद्रातेर्लोपो भवति । दरिद्रति अदरिद्रन् । दरिद्रिता । दरिद्रितुम् । दिदरिद्रिषति । दरिद्रः । आतो णेऽपि युग् न भवति लोपविधेबलवत्त्वात् । अचीति किम् ? दिदरिद्रासति । अयुवाविति किम् ? दरिद्राणाम् दरिद्रायकः । अपितीत्येव । अदरिद्राम् ।
लुङि वा ॥ ११४ ॥
लुङि परतो दरिद्रातेर्लोपो वा भवति । अदरिद्रीत् अदरिद्रासीत् ।
अस्दाधां हावेदद्विश्च ॥ ११५ ॥
अस्तेर्दाघश्व हौ परत एद् भवति, द्विः प्रयोगश्च न भवति । एधि देहि धेहि ।
लिटयनादेशादेरेकहल्मध्येऽतः ||११६ ||
लिटि परभूते आदेश आदिर्यस्याः प्रकृतेर्नास्ति तस्याः अकारस्यासहाययोर्हलोर्मध्ये वर्तमानस्यैत्वं भवति, द्विः प्रयोगश्च न भवति । रेणतुः रेणुः, येमतुः येमुः । लिटीति किम् ? ययम्यते । अनादेशादेरिति किम्? बभणतुः बभणुः । लिडादेशविशेषाणां किम् ? नेमतुः नेमुः । सेहे सेहाते । अनैमित्तिके नत्त्वसत्त्वे इति नाय लिट्यादेशादिः । एकहलमध्य इति किम् तनक्षतुः ततक्षुः । अत इति किम् ? दिदिवतुः दिदिवुः । तपर किम् ? ररासे ररासाते । इह प्रकृतेर्द्विरुक्तौ पूर्वस्यादेशः प्रकृत्यादेश इत्युच्यते, अभेदात् । शसिददिप्रतिपेधाच्च भिन्नरूपादेशो गृह्यते । अपितीत्येव । अहं पपच, अह पपठ |
थलीटि ॥११७॥
इडादौ थलि परतोऽनादेशादेरेकहलमध्येऽत एव भवति, अद्विश्च । पेचिथ शेकिय । इटीति किम् ? पपक्थ । अनादेशादेरित्येव । बभणिथ | एकहलमध्य इत्येव । ततक्षिय । अत इत्येव । दिदेविथ |
तॄफलभजत्रपः ॥ ११८ ॥
तत्यादीनां लिट्यपिति यलि चेडादौ परतोऽत एत्वं भवति, अद्विश्च । तेरतुः तेरुः तेरिथ । फेलतुः फेलुः फेलिथ । भेजतुः भेजुः भेजिथ । त्रेपे त्रेपाते त्रेपिरे । अपितीत्येव । अह ततर ।
राधो हिंसायाम् ||११९||
राधो हिंसार्थस्य य आकारस्तस्य लिट्यपिति थलि चेटि परत एत्वं भवति, अद्विश्च । अपरेवतुः अपरेधुः अपरेधिथ । हिंसायामिति किम् ? आरराधतुः आरराधुः | अपितीत्येव । अपरराध ।
वाजॄभ्रमत्रसाम् ॥ १२०॥
जॄप्रभृतीनां लिट्यपिति थलि चेटि परतोऽत एद्वा भवति, अद्विश्च । जेरतुः जेरुः जेरिथः, जजरतुः जजरुः जजरिथ । भ्रेमतुः भ्रेमुः भ्रमिथ, बभ्रमतुः बभ्रमुः बभ्रमिथ । त्रेसतुः त्रेसुः त्रेसिथ, तत्रसतुः तत्रसुः तत्रसिथ । अपितीत्येव । अहं जजर ।
फणादीनां सप्तानाम् ॥१२१॥
फणादीनां सप्तानां लिट्यपिति थलि चेडादौ परतोऽवर्णस्य एत्वं भवति वा, अद्विश्व | फेणतुः फेणुः फेणिथ । पफणतुः पफणुः पफणिथ । अपितीत्येव । अह पफण | सप्तानामिति किम् ? दध्वनतुः दध्वनुः ।
दम्भश्रन्थग्रन्थाम् ॥१२२॥
दभादीनां लिट्यपिति परतोऽत एव भवति, अद्विश्च । देभतुः देभुः । श्रेथतुः श्रेथुः । ग्रेथतु ग्रेथुः | अपितीत्येव । ददम्भ | दम्भेर्नलोपस्यासिद्धत्वाच्चारम्भः । थलीटि [ ११७] इति निवृत्तम्, तत्र नलोपाभावात् ।
मनिपचिमचां नाम्नि || १२३ ||
मन्यादीनां सज्ञायामत एत्वं भवति । मेना मेनका, पेचा पेचका, मेचा मेचका ।
नशोऽङि ॥ १२४ ॥
नशेरङि परतोऽत एत्त्वं भवति । अनेशम् ।
न शसर्ददेवाद्यदेङाम् ॥ १२५॥
शसेर्ददेर्वादीनामदेङ्विधानविहितस्य चात एत्त्वं न भवति । विशशसतुः विशशसुः विशशसिथ । दददे दददाते दददिरे । ववमतुः ववमुः ववमिथ । विशशरतुः विशशरुः विशशरिथ । चिचयिथ लुलविथ । अर्वन्तम् अर्वन्ताविति शत्रा सिद्धम् । अर्वाणम् अर्वाणाविति वनिपा सिद्धम् । मघवन्तम् मघवन्ताविति मतुपा सिद्धम् । मघवन्निति प्रकृत्यन्तरमस्ति ।
यच्यशिसुटि ॥ १२६ ॥
यकारादावजादौ च शिसुड्र्जित इत्येतदधिकृतं वेदितव्यम् ।
पादः पत् ॥ १२७॥
पादान्तायाः प्रकृतेर्यच्यशिसुटि परतः पाच्छव्दस्य पदादेशो भवति । वैयाघ्रपद्यः । द्विपदं पश्य । द्विपदा कृतम् । द्विपदिकां ददाति । यचीत्येव । द्विपाद्भ्याम् । अशिसुटीत्येव । द्विपान्दि कुलानि । द्विपादौ द्विपादः । स्वादिग्रहणाद किशोर धेनुन्यायेन द्विपाद्यति ।
वसोर्व उत् ॥ १२८ ॥
वसोर्वकारस्य यच्यशिसुटि परत उदादेशो भवति । विदुषः पश्य, विदुषा कृतम् । पेचुप पश्य, पेचुपा कृतम् । यचीत्येव । विद्भयाम् । अशि- सुटीत्येव । विद्वासौ विद्वास |
वसो सम्प्रसारणम् । पा० ६|४|१३१, मतौ च वसो सम्प्रसारणम् । स० ६|३|१२९]
श्वयुवमघोनामनणादौ ॥ १२९ ॥
श्वादीनामनणादौ यच्यशिसुटि परतो वकारस्योदादेशो भवति । शुनः शुना शुनी । यूनः यूना यूनी । मघोनः मघोना मघोनी । अनणादाविति किम् ? शौवं मांसम् । यौवनं वर्तते । माघवनं स्थालीपाकः । नकारनिर्देशः किम् ? युवत्या मघवत्येति शब्दान्तरत्वात् ।
अल्लोपोऽनः ॥ १३० ॥
अनन्तायाः प्रकृतेर्यच्यशिसुटि परतोऽतो लोपो भवति । राज्ञः राज्ञा । तक्ष्ण तक्ष्णा ।
षपूर्वहन्घृतराज्ञामणि ॥ १३१ ॥
षपूर्वस्य हन्तेर्घृतराज्ञश्चानोऽणि परतोऽल्लोपो भवति । औक्ष्णः ताक्ष्ण भ्रौणघ्नः धार्तराज्ञ । एषामिति किम् ? सामनः वैमनः । अणीति किम् ? ताक्षण्यः । कारुत्वाण्ण्यः [ २/४/८५ ] |
ङिश्योर्वा ॥ १३२ ॥
ङिशीत्येतयोः परतोऽनन्तायाः प्रकृतेरतो लोपो भवति । साम्नि सामनि । साम्नी सामनी ।
न संयोगाद् वमः || १३३॥
न संयोगाद् वकारान्मकाराच्च परस्यानन्ताया अतो लोपो भवति । चर्मणा चर्मणे । पर्वणा पर्वणे । संयोगादिति किम् ? प्रतिदीव्ना | साम्ना । वम इति किम् ? तक्ष्णा ।
अचः ॥ १३४ ॥
अञ्चतेर्यच्यशिसुटि परतोऽतो लोपो भवति । दधीचः दधीचा । मधूचः मधूचा | प्राप्त्यभावात्प्रतिषेधो नानुवर्तते ।
उद ईत् ॥ १३५ ॥
उद परस्याञ्चतेर्यच्यशिसुटि परतोऽत ईदादेशो भवति । उदीचः उदीचा ।
आतः ॥ १३६||
आकारान्ताया प्रकृतेर्यच्यशिसुटि परतो लोपो भवति । कीलालप: कीलालपा | शुभयः शुभया । यचीत्येव । कीलालपाभ्याम् । अशिसुव्येव । कीलालपां पश्य । कथं खट्वां पश्य, खट्वया कृतम्? टि चापः [६/२/४३ ] कुलटाया वा [२/४/५७] इत्यादिज्ञापकात् ।
विंशतेर्डिंति तेः ॥ १३७||
विंशतेर्डिति परतस्तिशब्दस्य लोपो भवति । विंशक | विंशं शतम् । विंगत्या क्रीत विंशकः। विंशं शतम्।
अन्त्याजादेः || १३८||
अन्त्योऽजादिर्यस्य तस्य प्रकृत्यवयवस्य डिति परतो लोपो भवति । त्रिंशकः । कुमुद्वान नवान् । उपसरजः | डित्करणमामर्थ्यादस्वादावयच्यपि भवति ।
नोऽणादौ ॥१३९॥
अणादौ यचि परतो नकारान्तायाः प्रकृतेरन्त्याजादिलोपो भवति । आग्निशर्मि औडुलोमिः । न इति किम् ? सात्वतः । अणादाविति किम् ? शर्मणा शर्मणे ।
कलाप्यादीनाम् ॥ १४०॥
कलापिन्नित्येवमादीनामणादौ यचि परतोऽन्त्याजादिलोपो भवति । कलापिना प्रोक्त वेद विदन्त्यधीयते वा कालापाः | कौथुमाः । तैतली जाजली चाचार्यौ, तत्कृतो ग्रन्थस्तच्छब्देनोच्यते । तमधीयते तैतला: जाजलाः । एव लाङ्गलाः ॥ कलापिन् । कुथुमिन् । तैतलिन् । जाजलिन् । लाङ्ग लिन् । ब्रह्मचारिन् । पीठमर्दिन् । सूकरमर्दिन् । सुपर्वन् । अश्मनो विकारे । आम । आश्मनोऽन्य । चर्मण कोशे । चार्म । कोश इति किम्? चार्मणम् । शुनोऽवयवसङ्कोचयो । शौवं मांसम् । शौवं सङ्कोचः | शौवनोऽन्यः | असंख्यस्यानाराच्छश्वतोऽसिति । सायप्रातिकः पौनपुनिकः । अनाराच्छश्वत इति किम् ? आरातीयः शाश्वतिक । असितीति किम् ? शंयुः कंयुः ।
अह्नः खे || १४१ ॥
अह्न खे परतोऽन्त्याजादिलोपो भवति । द्वे अहनी भूतो द्व्यहीनः । त्र्यहीनः । ख इति किम् आह्निकः ।
असर्वासंख्यैकदेशाट्टे ॥ १४२॥
टेः परतोहोऽन्त्याजादिलोपो भवति नचेत्सर्वशब्दादसंख्यादेकदेशवाचिनश्च परो भवति । परमाह उत्तमाहः पुण्याहः संख्याताहः । सर्वादिपर्युदासः किम् ? सर्वाह्नः प्रत्यह्नः निरह्नः पूर्वाह्नः अपराह्नः ।
समाहारे || १४३ ||
अह्नः समाहारे टे परतो ऽन्त्याजादिलोपो भवति । द्वे अहनी समाहृते द्व्यहः । त्र्यहः ।
एकात् || १४४ ||
एकापरस्याहृष्टे परतोऽन्त्याजादिलोपो भवति । एकाहः ।
अन्तिकस्य तमे तादेः || १४५ ||
अन्तिकस्य तमे परतस्तादेरवयवस्य लोपो भवति । अन्तमः ।
कादेर्बहुलम् || १४६ ||
अन्तिकस्य तमेऽन्यत्र च परतः ककारादेरवयवस्य लोपो बहुलं भवति । अन्तिकतमः अन्तितमः । अन्तितः अन्तिकतः । अन्तिके सीदतीत्यन्तिकसत् अन्तिषत् |
ओरोत् ॥ १४७॥
उवर्णान्तायाः प्रकृतेर्यच्यणादौ परतो बहुलमोत्वं भत्रति । बाभ्रव्यः माण्डव्यः | औपगवः कापटवः | बहुलभित्येव । स्वायम्भुवः ।
ढे ॥ १४८ ॥
ढे परत उवर्णान्ताया प्रकृतेर्बहुलं लोपो भवति । कामण्डलेयः शैतिबाहेयः । माद्रबाहेयः । बहुलमित्येव । काद्रवेयः ।
यस्य || १४९||
इवर्णान्ताया अवर्णान्तायाश्च प्रकृतेर्यच्यणादौ परतो बहुलं लोपो भवति । साकृत्य गार्ग्य ऐतिकायनः कालेयः दौलेयः दाक्षिः प्लाक्षिः । बहुलमित्येव । ऊर्णायुः ।
ङयाम् ॥ १५०॥
ङ्यां परतो यस्य लोपो भवति । दाक्षी प्लाक्षी कुमारी किशीरी गौरी ।
मत्स्यस्य यः || १५१॥
मत्स्यस्य ङ्या परतो यकारस्य लोपो भवति । मत्सी ।
हलो यञादेः || १५२ ||
हलः परस्य यञादियकारस्य ङ्यां परतो लोपो भवति । गार्गी सौमी । हल इति किम् ? कारिकेयी । यजादेरिति किम् ? वैद्यस्य भार्या वैद्यी ।
सौर्यागस्त्ययोश्छे च ॥ १५३॥
सौर्यस्यागस्त्यस्य च छे ङ्यां च परतो यकारस्य लोपो भवति । सौरीयः सौरी । आगस्तीयः आगस्ती । छडीभ्यां यकारविशेपणादिह न भवति । आगस्त्यचरी ।
तिष्यपुष्ययोर्नक्षत्रेऽणि ॥ १५४ ॥
तिष्यपुष्ययोर्नक्षत्रे वर्तमानयोरणि परतो यस्य लोपो भवति । तैषी रात्रिः, तैषमहः । पौपी रात्रिः, पौपमहः । नक्षत्रम् इति किम् ? पुष्यस्य माणवकस्येदम् पौष्यम् ।
आपत्यस्यानात्यणादौ ॥ १५५॥
हल: परस्थापत्ये विहितस्य यकारस्य यच्यणादावनात परतो लोपो भवति । गार्ग्याणां समूहो गार्गकम् । वात्सकम् । आपत्यस्येति किम् ? साङ्काश्यकः, काम्पिल्यकः । अनातीति किम् ? गार्ग्यायणः । अणादाविति किम् ? गार्ग्ये । हल इत्येव । कारिकेयि ।
क्यच्व्योः ॥१५६॥
क्यच्व्योः परतो हल उत्तरस्यापत्यस्य यकारस्य लोपो भवति । गार्गीयति गार्गीयते । गार्गीभूतः । आपत्यस्येत्येव । साङ्काश्यीयति साङ्काश्यीभूतः | हल इत्येव । कारिकेयीयति ।
विल्वकीयादीनामीयः ॥ १५७ ॥
बिल्वकीयादीनां यच्यणादौ परत ईयशब्दस्य लोपो भवति । बिल्वा अस्याः सन्ति बिल्वकीयाः, तस्या भवा बैल्वकाः । एव वैणुकाः ॥ बिल्वकीय | वेणुकीय | वेतसकीय । वेत्रकीय । इक्षुकीय | काष्ठकीय । कपोतकीय । क्रुञ्चकीय ।
इष्ठेमेयःस्वन्त्याजादेः ॥ १५८ ॥
इष्ठादिषु परतः प्रकृतेरन्त्याजादिलोपो भवति । पटिष्ठः पटीयान् पटिमा । लघिष्ठः लघीयान् लघिमा । इष्ठवद्भावाण्णावपि भवति । पटयति लघयति ।
स्थूलदूरयुवक्षिप्रक्षुद्राणां यणादेर्य्वोरेङ् च ॥१५९॥
स्थूलादीनामिष्ठादिषु यथासम्भवं यणादेरवयवस्य लोपो भवति, इवर्णोवर्णयोश्चैडौ भवतः । स्थविष्ठः स्थवीयान् स्थविमा | दविष्ठः दवीयान् दविमा। यविष्ठः यवीयान् यविमा । क्षेपिष्ठः क्षेपीयान् क्षेपिमा । क्षोदिष्ठः क्षोदीयान् क्षोदिमा । णाविष्टवद्भावात् स्थवयति दवयति यवयति क्षेपयति क्षोदयति ।
बहोरेर्भू च ॥ १६०॥
बहो परेषामिष्ठादीनामिवर्णस्य लोपो भवति, भू च बहोरादेशः । भूयान् भूमा ।
इष्ठे यिक् च ॥ १६९ ॥
इष्ठे परतो बहोर्भूरादेशो भवति यिक् चागमः । भूयिष्ठः । णाविष्ठवद्भावात् । भूययति ।
ज्यायान् ॥ १६२ ॥
ज्याशब्दात्परस्येयस आत्त्वं निपात्यते ।
प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घहस्ववृद्धवृन्दारकाणां प्रस्थस्फवरगरबंहत्रपद्राघह्वस्वर्षवृन्दाः ॥ १६३ ॥
पियादीनामिष्ठादिषु यथासम्भवं प्रादय आदेशा भवन्ति । प्रेष्ठः प्रेयान् प्रेमा । स्थेष्ठः स्थेयान् स्थेमा । स्फेष्ठः स्फेयान् स्फेमा । वरिष्ठः वरीयान् वरिमा । गरिष्टः गरीयान् गरिमा । वंहिष्ठः वंहीयान् बंहिमा । त्रपिष्ठः त्रपीयान् त्रपिमा । द्राघिष्ठः द्राघीयान् द्राघिमा । ह्रसिष्ठः हसीयान् हसिमा | वर्षिष्ठः वर्षीयान् वर्षिमा | वृन्दिष्टः वृन्दीयान् वृन्दिमा । णाविष्ठवद्भावात् प्रापयति स्थापयति स्फापयति वरयति गरयति बंयति त्रपयति द्वाघयति ह्रसयति वर्षयति वृन्दयति ।
र ऋतः पृथुमृदुकृशभृशदृढपरिवृढानाम् ॥१६४॥
पृथ्वादीनामृकारस्येष्ठादिषु परेषु रेफो भवति । प्रथिष्ठः प्रथीयान् प्रथिमा । म्रदिष्ठः म्रदीयान् म्रदिमा । क्रशिष्टः कशीयान् क्रशिना । भ्रशिष्टः भ्रशीयान् भ्रशिमा । द्रढिष्टः द्रढीयान् द्रढिमा । परिव्रदिष्ठः परिव्रढीयान् परिव्रढिमा । णाविष्टवद्भावात् प्रथयति म्रदयति क्रशयति भ्रशयति द्रढयति परिव्रढयति । पृथ्वादीनामिनि किम् ? ऋजिष्ठः ऋजीयान् । कृच्छ्रयति कृतयति ।
नैकाचः || १६५॥
इष्टादिषु परतो यदुक्तं तदेकाचो न भवति । स्रजिष्टः स्रजीयान् स्वजयति । सुचिष्टः सुचीयान् सुचयति । एकाच इति किम् ? वसुमत्तमः वसिष्ठ |
अके राजन्यमनुष्ययूनाम् || १६६ ||
अके परतो राजन्यादीनां यदुक्तं तन्न भवति । राजन्यकम् मानुष्यकम् । मनोज्ञादित्वाद् [४|१|१४९] वुञ् । यौवनिका ।
आत्माध्वनोः खे ॥ १६७॥
आत्मनोऽध्वनश्च खे परतो यदुक्तं तन्न भवति । आत्मनीन अध्वनीन । ख इति किम् ? प्रत्यात्मम् प्राध्वम् ।
अभावकर्मणोरनो ये || १६८ ||
अनन्तस्य ये परतो यदुक्तं तन्न भवति स चेद्भावकर्मणोर विहितो भवति । सामसु साधुः सामन्यः । ब्रह्मण्यः | अभावकर्मणोरिति किम् ? राज्ञो भावः कर्म वा राज्यम् । य इति किम् ? महाराजः |
अणि ॥ १६९ ॥
अणि परतोऽनन्तस्य यदुक्तं तन्न भवति । सामनः वैमन: ।
कर्मणोऽशीले ||१७० ॥
कर्मणोऽणि परतो यदुक्तं तन्न भवति, शीलं चेन्न गम्यते । कार्मणः । अशील इति किम् ? कार्मः । अणित्येव । कार्मुकम् ।
माद्वर्मणोऽपत्ये ॥ १७१ ॥
मादेव परस्य वर्मणः एवापत्येऽनन्तस्याणि परतो यदुक्तं तन्न भवति । चाक्रवर्मणः । मादिति किम् ? सौत्वनः । वर्मण इति किम् ? सौषामः ।
हितनाम्नो वा ॥ १७२ ॥
हितनाम्नोऽपत्येऽणि यदुक्तं तन्नेति वा भवति । हैतनामनः ।
हैतनामः |
ब्रह्मणो जातौ ॥ १७३॥
ब्रह्मणोऽपत्येऽणि जातावभिधेयाया यदुक्तं तन्न भवति । ब्राह्मणः । जाताविति किम् ? ब्राह्मो मनुः । अपत्यम् इत्येव । ब्राह्मी ओषधिः ।
उक्ष्णः ॥ १७४॥
उक्षन्-शब्दस्यापत्येऽणि यदुक्तं तन्न भवति । औक्षणः | पुनर्विधानादलोप | अपत्य इत्येव । औक्षं पदम् ।
संयोगादिनोऽसमूहे ॥ १७५॥
सयोगात्परो य इन् तदन्तस्यासमृहेऽणि यदुक्तं तन्न भवति । शाङ्खिनः वाज्रिणः | असमूह इति किम् ? दण्डिना समूहो दाण्डम् ।
गाथिविदथिकेशिगणिपणिनाम् ॥ १७६॥
गाथ्यादीनामसमूहेऽणि यदुक्तं तन्न भवति । गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः । असमूह इत्येव । गणिना समूह: गाणम् ।
अनपत्ये च ॥ १७७॥
इनन्तस्य शेषस्यापत्ये समूहे चार्थे यदुक्तं तन्न भवति । साङ्कूटिनम् । साराविणम् । स्रग्विण इदं स्राग्विणम् । अपत्ये तु भवत्येव | मेधाविनोऽपत्यं मैधावः । असमूह इत्येव । रथिना समूहो राथम् ।
दाण्डिनायनहास्तिनायनजैह्माशिनेयवासिनायनिभ्रौणहत्यधैव- त्यसारवैक्ष्वाकहिरण्मयानि || १७८ ||
दाण्डिनायनादीनि शब्दरूपाणि यथायोगं निपात्यन्ते । दण्डिहस्तिभ्यामपत्ये नडादित्वात् [ २|४| ३५ ] फकि लोपाभावः | दाण्डिनायन: हास्तिनायनः । जिह्माशिनः शुभ्रादित्वाड् [२|४|५३ ] ढकि जैह्माशिनेयः । बासिनो गोत्रादादैजाद्यच् [२/४/९०] इति फिञ् । वासिनायनि । भ्रूणघ्नो धीव्नश्च नावे ष्यञि तत्वम् । श्रौणहत्यम् धैवत्यम् । सरय्वा भवेऽणि यलोपः सारवः । इक्ष्वाकोरणि जनपदादञि वोकारलोपः | इक्ष्वाकोरिदमपत्यं वा ऐक्ष्वाकः| हिरण्यस्य विकारे मयटि यलोपः । हिरण्मयम् ।
इति चान्द्रे व्याकरणे पञ्चमस्याध्यायस्य तृतीयः पादः समाप्तः ।