अलुगुत्तरपदे || १ ||
अलुगू इत्युत्तरपद इति चैतदधिकृतं वेदितव्यम् ।
पञ्चम्याः स्तोकादिभ्यः || २ ||
स्तोकादिभ्यः परस्याः पञ्चम्याः उत्तरपदेऽलुग्भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । कृच्छ्रान्मुक्तः । कतिपयान्मुक्तः । असत्त्ववचनत्वादेकवचनमेव । उत्तरपद इत्येव । निष्क्रान्तः स्तोकात् निःस्तोकः ।
ब्राह्मणाच्छंसी ॥ ३ ॥
ब्राह्मणात् परस्याः पञ्चम्याः शसिन्युत्तरपदेऽलुग् निपात्यते ।
खितीच एकाचोऽमः || ४ ||
खिदन्त उत्तरपद इजन्तादेकाचः परस्यामोऽलुग्भवति । गामन्यः स्त्रीमन्यः स्त्रियमन्यः नावमन्यः श्रियमन्यः भुवंमन्यः । श्रियमिवात्मानं मन्यते ब्राह्मणकुलम् इति श्रियम्मन्यम् । आत्मसमानाधिकरणस्य नपुंसके वृत्त्यभावादाविष्टलिङ्गाच्च । श्रियमन्यमित्यन्ये पठन्ति । यथा किल प्रष्ठादयः शब्दाः स्त्रियां वर्तन्ते, तथायमपि नपुंसके वर्तत इति । न चायं स्वमोर्लु- कोऽपवादः, उत्तरपदे विधानात् । खितीति किम् ? स्त्रीमानी । इच इति किम् ? वाङ्मन्यः । एकाच इति किम् ? हरिणिमन्यः ।
ओजः सहोऽम्भस्तपोऽञ्जसस्तृतीयायाः ॥ ५ ॥
ओजः प्रभृतिभ्यः परस्यास्तृतीयाया उत्तरपदेऽलुग् भवति । ओजसाकृतम् सहसाकृतम् अम्भसाकृतम् तपसाकृतम् अञ्जसाकृतम् ।
मनसो नाम्नि || ६ |
मनस परस्यास्तृतीयायाः संज्ञायामलुग् भवति । मनसादेवी । नाम्नीति किम् । मनोदत्ता |
आज्ञायिनि ॥ ७ ॥
मनसः परस्यास्तृतीयाया आज्ञायिन्युत्तरपदेऽलुग् भवति । मनसाज्ञायी ।
पुंजनुर्भ्यामनुजान्धयोः ॥ ८ ॥
पुसो जनुषश्च परस्यास्तृतीयाया अनुजान्धयोरुत्तरपदयोरलुग् भवति । पुंसानुजा कन्या । जनुषान्धः ।
आत्मनः पूरणे ॥ ९ ॥
आत्मनः परस्यास्तृतीयायाः पूरण उत्तरपदेऽलुग् भवति । आत्मनापञ्चम आत्मनाषष्ठः | पञ्चमीभवने करणत्वादात्मनः समासः । कथं जनार्दनस्त्वात्मचतुर्थ एवेति [भाष्यम् ]? अन्यपदार्थे ।
नाम्नि पराच्च चतुर्थ्याः ॥ १० ॥
परादात्मनश्च परस्याचतुर्थ्यां संज्ञायामलुग् भवति । परस्मैपदम् । परस्मैभाषा । आत्मनेपदम् । आत्मनेभाषा ।
सप्तम्या बहुलम् ॥ ११ ॥
सप्तम्या उत्तरपदे बहुलमलुग् भवति । स्तम्बेरमः कर्णेजपः । अप्सुयोनि अप्सुमति । अप्सुचरो गोषुचरः । वर्षासुजः अप्सुजः । हृदिस्पृक् दिविस्पृक् । प्रावृषिजः शरदिजः कालेजः दिविजः । कचिद्विकल्प । वर्षजः वर्षेजः, क्षरजः क्षरेजः, शरजः शरेजः वरजः वरेजः । पूर्वाहृतरे पूर्वाह्नतरे, पूर्वाहृतमे पूर्वाह्नेतमे, पूर्वाहकाले पूर्वाह्नकाले, पूर्वाह्नतः पूर्वाहने, खरायः खेशयः, ग्रामवासः ग्रामेवासः, ग्रामवासी ग्रामवासी, मध्यगुरुः मध्येगुरुः, अन्तगुरुः अन्तेगुरुः हस्तबन्धः हस्तेबन्धः, चकबन्धः चक्रेबन्धः । कचिन्न भवति । अक्षशौण्डः कुरुचरः स्थण्डिलगायी स्थण्डिलवर्ती साङ्काश्यसिद्धः काम्पिल्यसिद्धः । अजन्ते । चक्रबन्धः चारकबन्धः समस्थः विनमस्थः कूटस्थः पर्वतस्य । क्वचिदनुत्तरपदेऽपि भवति । अप्सु भव अप्सव्यः । क्वचित् सज्ञायाम् । गविष्ठिरः युधिष्ठिरः त्वचिसारः । अरण्येतिलका अरण्येमाषका । सूपेशाण मुकुटेकार्षापण दृपदिभाषक हलेद्विपदिका । कचिन्न भवति । अभ्यर्हितपशुः यूथपशुः अविकटोरण नदीकुकुटिका भूमिपाशकः | क्वचिदन्यपदार्थे । कण्ठेकालः वहेग्डुः, उरसिलोमा उदरेमणिः । क्वचिन्न भवति । मूर्धशिखः मस्तकशिखः मुखकामः अङ्गुलित्राणः जङ्घावलिः
षष्ठ्या आक्रोशे ॥ १२॥
आक्रोशे गम्यमाने पष्ट्या उत्तरपदेऽलुग्भवति । चौरस्य कुलम्, दासस्य कुलम् । आक्रोश इति किम् ? ब्राह्मणकुलम् ।
पुत्रे वा ||१३||
पुत्र उत्तरपद आक्रोशे गम्यमाने षष्ट्या अलुगू वा भवति । दास्याः पुत्रः दासीपुत्रः । वृषल्याः पुत्रः वृषलीपुत्रः | आक्रोश इत्येव । ब्राह्मणपुत्रः
वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु || १४ ||
वागादिभ्यः परस्याः षष्ठ्या युक्त्यादिषूत्तरपदेष्वलुग् भवति । वाचोयुक्तिः, दिशोदण्डः पश्यतोहरः ।
अदसः फगवुञोः || १५ ||
अदसः परस्याः षष्ट्याः फकि वुञि चालुग् भवति । आमुष्यायणः । नडादित्वात् [ २/४/३५] फक् । आमुष्यकुलिका आमुष्यपुत्रिका । मनोज्ञादित्वात् [४।१।१४९] वुन् । पाठसामर्थ्यादेव वुञा व्यवधानमाश्रीयते । कथं देवानाप्रियः ? देवानाप्रियैस्तेऽन्याभ्यश्च [ ४ | ३ | १२] इति निपातनात् ।
शुनः शेफ पुच्छलाङ्गूलेषु नाम्नि ||१६||
शुनः परस्याः पष्ठ्याः शेफादिषूत्तरपदेषु सज्ञायामलुग् भवति । शुनःशेफः शुनःपुच्छ शुनोलाङ्गल । नाम्नीति किम् ? श्वपुच्छः ।
दिवो दासे ||१७|
दिव परस्याः पष्ट्या दास उत्तरपदे सज्ञायामलुग् भवति । दिवोदासः ।
ऋतो विद्यायोनिसम्बन्धात्तत्र ॥ १८ ॥
ऋदन्ताद्विद्यासम्बन्धिनो योनिसम्बन्धिनश्च परस्याः षष्ठयास्तस्मिन्नेव विद्यायोनिसम्बन्धिन्युत्तरपदेऽलुग् भवति । होतुः पुत्र होतुरन्तेवासी पितुः पुत्र पितुरन्तेवासी । ऋत इति किम् ? आचार्यपुत्रः । मातुलपुत्रः । विद्यायोनिसम्बन्धादिति किम् ? दातृपुत्रः । तत्रेति किम् ? होतृधनम् पितृगृहम् ।
स्वसृपत्योर्वा ||१९||
स्वसृपति-इत्येतयोरुत्तरपदयोर्ऋतो विद्यायोनिसम्बन्धात् परस्याः षष्ठ्या अल्लुग्वा भवति । मातुः ष्वसा मातृष्वसा । पितुःष्वसा पितृष्वसा दुहितुः पतिः दुहितृपतिः ।
मातरपितरौ चार्थे ||२०||
मातरपितराविति चार्यसमासविषये वा निपात्यते । मातरपितरौ मातापितरौ । चार्थे इति किम् ? मातुः पितरौ ।
ऋतस्तत्रानङ् ॥ २१॥
ऋदन्तस्य विद्यायोनिसम्बन्धस्य तस्मिन्नेव ऋदन्ते विद्यायोनि- सम्बन्धिन्युत्तरपदे चार्यसमासविषय आनडादेशो भवति । होतापोतारौ मातापितरौ । नकारो रपरत्यनिवृत्त्यर्थः । ऋत इति किम् ? पतिभ्रातरौ । तत्रेति किम् ? पितृपितामहौ । चार्थे इत्येव । मातृष्वसा । विद्यायोनिसम्बन्धादित्येव । दातृभ्रातरौ । तत्रेत्येव । पितृभोक्त्तारौ ।
पुत्रे ||२२||
ऋदन्तस्य विद्यायोनिसम्बन्धस्य पुत्र उत्तरपदे चार्थसमासविषय आनडादेशो भवति । पितापुत्रौ नातापुत्रौ ।
देवतानामवायूनां वेदे सहश्रुतानाम् ||२३||
देवताशब्दानां वायुवर्जितानां वेदे सहश्रुतानां चार्थविषय उत्तरपदे आनड् भवति । सूर्याचन्द्रमसौ मित्रावरुणौ । देवतानामिति किम् ? यूपचवाले । अवायूनामिति किम् ? अग्निवायू वाय्वग्नी । वेद इति किम् ? शिववैश्रवणौ स्कन्दविशाखौ । सहेति किम् ? विष्णुशुक्रौ । श्रुतानामिति किम्? चन्द्रसूर्यौ दिवाकर-निशाकरौ ।
नादैच्यग्नेरविष्णौ ||२४||
अग्नेरादैजादावविष्णावुत्तरपदे विषय आनड् न भवति । आग्नि- मारुतः क्रियते । आदैचीति किम् ? अग्नामरुतौ । अविष्णाविति किम् ? आग्नावैष्णव चरुं निर्वपेत् ।
सोमवरुणयोरीत् ||२५||
सोमवरुणयोरुत्तरपदयोरग्नेरीद् भवति । अग्नीषोमो अग्रीवरुणौ । नादैचीत्येव । आग्निवारुणीमनड्वाहीमालभेत ।
दिवो द्यावा ||२६||
दिवो देवतानां चार्थे द्वावादेशो भवति । द्यावाभूमी |
दिवस्पृथिव्यां वा ||२७||
पृथिव्यामुत्तरपदे दिवो दिवसादेशो वा भवति । दिवस्पृथिव्यौ द्यावापृथिव्यौ । सकारनिर्देशो रुत्वाभावार्थः ।
उपासोषसः ||२८||
उषसो देवतानां चार्थे उत्तरपदे उषासादेशो भवति । उपासानक्तम् ।
स्त्रियां पुंवदुक्तपुंस्कमनूडेकार्थे स्त्रियामप्रधानपूरणीप्रियादौ ॥२९॥
स्त्रियां वर्तमानं भाषितपुस्कमनूङन्तं समानाधिकरणे स्त्रीलिङ्ग उत्तरपदे प्रधानपूरणीप्रियादिवर्जिते पुवद्भवति । कुमारभार्यः, पटुभार्य एतभार्यो दीर्घजङ्घो युवजानि । स्त्रियामिति किम् ? ग्रामणि कुल दृष्टिरस्य ग्रामणि- दृष्टि । उक्तपुस्कमिति किम् ? खट्वाभार्यः । अनूङ् इति किम् ? ब्रह्मबन्धूभार्यः । एकार्थ इति किम् ? कल्याण्या माता कल्याणीमाता । स्त्रियामिति किम् ? कल्याणी प्रधानमेषां कल्याणीप्रधाना इमे । अप्रधानपूरणीप्रियादाविति किम् ? कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः । कल्याणीप्रियः कल्याणीमनोज्ञः । प्रधानग्रहणं किम् ? कल्याणपञ्चमीकः पक्षः || प्रिया । मनोज्ञा ।कल्याणी । सुभगा । दुहिता । वापना । स्त्रियामपूरणीप्रियादिषु ।
प्रसूताप्रजातागर्भिण्यः ॥३०॥
प्रसूतादयः समानाधिकरणे स्त्रीलिङ्ग उत्तरपदे पुंवद् भवन्ति । प्रसूतभार्यः प्रजातभार्यः गर्भिभार्यः । पूर्वेण सिद्धे प्रसूतादिग्रहणं नियमार्थम् । असमानायामाकृतौ भाषितपुंस्काः प्रसूतादय एव पुवद्भवन्ति नान्ये । द्रोणीभार्यः कुटीभार्यः ।
त्रतस्तरतमचरकल्पब्देश्यरूपप्पाशप्शसथ्यन्क्यमानिषु ||३१||
एतेषु त्रादिषु परतो मानिनि चोत्तरपदे स्त्रियां वर्तमानं पुवद्भवति । बहुत्र बहुतः पटुतरा पटुतमा पटुचरी पटुकल्पा पटुदेश्या पटुरूपा पटुपाशा । बह्वीभ्यो देहि, बहुशो देहि । त्रादिसाहचर्यादविभक्ते शसो ग्रहणम् । अजथ्या । एनी एतायते, श्येनी श्येतायते । दर्शनीयमान्ययमस्याः, दर्शनीय- मानिनीयमस्याः | मानिन्ग्रहणमस्त्यर्थमसमानाधिकरणार्थं च ।
यच्यणादौ ||३२||
यकारादावजादौ चाणादौ परतः स्त्रियां वर्तमानं पुवद्भवति । श्येन्या भाव श्येत्यम् । इयमासामतिशयेन पट्वी पटिष्ठा । णाविष्टवद्भावात् श्येतयति, पटयति । हस्तिनीनां समूहो हास्तिकम् | अणादाविति किम् ? हस्तिनीयति, हस्तिन्यः ।
ढेऽग्नायी||३३||
ढविषयेऽग्नाय्येव पुंवद्भवति । अग्नायी देवतास्य आग्नेयः । अन्यो न पुंवत् । श्यैनेयः, रौहिणेयः ।
न त्यादिवुकोपान्तम् || ३४॥
त्यादीनां वोश्च यः ककारस्तदुपान्तं पुंवन्न भवति । मद्रिकाभार्यः वृजिकाभार्यः मद्रिकाकल्पा वृजिकाकल्पा, मद्रिकायते वृजिकायते । विलेपिकाया धर्म्यम् वेलेपिकम् | याचिकाभार्यः याचिकाकल्पा, कारिकाभार्यः कारिकाकल्पा । कोपान्तमिति सिद्धे त्यादिग्रहणमन्यककारनिवृत्त्यर्थम् । पाकभार्यः ।
संज्ञापूरण्योः ||३५||
सज्ञायाः पूरण्याश्च स्त्रियां वर्तमानं पुंवन्न भवति । दत्ताभार्यः दत्ताकल्पा । पञ्चमीभार्यः पञ्चमीकल्पा |
अच आदैज्झेतुररक्तविकारे ||३६||
अचः स्थाने य आदैचस्तेषां निमित्तं रक्तविकाराभ्यामन्यत्र यद्विहितं तदन्तमुत्तरपदे पुंवन्न भवति । सौतङ्गमीभार्यः वैदिशीभार्यः नादेयीभार्यः । सौतङ्गमीकल्पा वैदिशीकल्पा नादेयीकल्पा । अच इति किम् ? तावद्भार्यः वैयाकरणभार्यः । आदैज्झेतुरिति किम् ? अर्धप्रस्थे भवा अर्धप्रस्थी सा भार्या यस्य अर्वप्रस्यभार्यः । नात [ ६ | ११३७ ] इत्यादैचामभावः । अरक्तविकार इति किम् ? कापायी बृहतिकास्य कापायबृहतिकः । लौहीत्रास्य लौहेषः । रक्तविकारप्रतिषेधाद किशोर धेनुन्यायेन सुपो विहितानां ग्रहणादिह न भवति । कुम्भकारभार्यः ।
स्वाङ्गादीदमानिनि ||३७||
स्वाङ्गात्परो य ईकारस्तदन्तोऽमानिन्युत्तरपदे पुंवन्न भवति । दीर्घकेशीभार्यः दीर्घकेशीपाशा । स्वाङ्गादिति किम् ? पटुभार्यः । ईदिति किम्? अकेशभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी ।
जातिरष्फादौ च ॥ ३८ ॥
जातिवाचि स्त्रियां वर्तमानमष्पादावमानिनि च पुंवन्न भवति । कठीभार्यः बहुवृचीभार्यः । अष्फादाविति किम् ? हास्तिकम् । चकारः किम् ? कठमानिनी ।
पुंवत्स्वपदार्थजातीयदेशीयेषु ||३९||
उक्तपुंस्कमनूङन्त स्त्रियां वर्तमांन समानाधिकरणे स्त्रीलिङ्ग उत्तरपदे स्वपदार्थेऽभिधेये जातीयदेशीययोश्च परतः पुवद्भवति । मद्रकवृन्दारिका पाचकवृन्दारिका । दत्तवृन्दारिका पञ्चमवृन्दारिका सौघ्नवृन्दारिका श्लक्ष्णमुखवृन्दारिका वातण्ड्यवृन्दारिका कठवृन्दारिका । इड्विड्वृन्दारिका ऐडविडवृन्दारिका, दरद्वृन्दारिका दारदवृन्दारिका, पृथुवृन्दारिका पार्थववृन्दारिका, उशिग्वृन्दारिका औशिजवृन्दारिका । मद्रकजातीया मद्रकदेशीया, पाचकजातीया पाचकदेशीया, दत्तजातीया दत्तदेशीया, पञ्चमजातीया पञ्चमदेशीया, सौन्नजातीया सौन्नदेशीया, लक्ष्णमुखजातीया लक्ष्णमुख देशीया, कठजातीया कठदेशीया । उक्तपुंस्कमित्येव । खट्वावृन्दारिका । अनूङित्येव । ब्रह्मबन्धूवृन्दारिका ।
त्वतलोर्गुणः ||४०||
त्वतलो परतो गुणे स्त्रियां वर्तमानः पुंवद्भवति । पट्व्या भावः पटुत्वम् पटुता । गुण इति किम् ? कठीत्वम् ।
सर्वादयो वृत्तिमात्रे ॥ ४१ ॥
सर्वादयः स्त्रीवृत्तयो वृत्तिमात्रे पुंवद्भवन्ति । तस्याः सुखम् तत्सुखम् । यस्याः सुखम् यत्सुखम् । तस्या इदम् तदीयम् ।
यदीयम् । भवत्या इदम् भावत्कम् भवदीयम् । तस्याम् तत्र यत्र । तस्याः ततः यतः कुतः । कया वृत्त्या कथम् । तया वृत्त्या तथा । तस्याः वेलायाम् तदा तर्हि । कथं कुक्कुट्या अण्डम् कुक्कुटाण्डम्, मृग्याः क्षीरं मृगक्षीरम्, मृग्याः पदम् मृगपदम्, काक्या शावः काकशाव इति । जातेर्विवक्षितत्वात्पुंलिङ्गेन समासो भविष्यति । स्त्रीविवक्षायां तु कुक्कुट्यण्डादिभिर्भवितव्यमेव, अवीक्षीरम् अजाक्षीरम् इति यथा ।
तरतमरूपकल्पचेलड्ब्रुवगोत्रमतहते ङयो ह्रस्वः ॥ ४२ ॥
तरादिषु चेलडादिषु च परेषु ङ्यन्तस्य भाषितपुंस्कस्य ह्रस्वो भवति । ब्राह्मणितरा ब्राह्मणणितमा ब्राह्मणिरूपा ब्राह्मणिकल्पा ब्राह्मणिचेली ब्राह्मणिब्रुवा । अस्मादेव वचनाद् ब्रुवोऽचि न वचादेग उवादेशश्च । ब्राह्मणिगोत्रा ब्राह्मणिमता ब्राह्मणिहता । ङ्यइति किम् ? दत्तातरा । उक्तपुस्कमित्येव । आमलकीतरा ।
वैकाचः ||४३||
एकाच परस्य ङ्यस्तरादिषु ह्रस्वो वा भवति । स्त्रितरा स्त्रीतरा । ङ्य इत्येव | श्रीतरा।
उगितः || ४४ ||
उगितः परस्य ङ्यस्तरादिपु ह्रस्वो वा भवति । श्रेयसितरा श्रेय – सीतरा । विदुषितरा विदुषीतरा । कथं श्रेयस्तरा विद्वत्तरेति? प्रकर्षयोगात् प्राक् स्त्रीत्वस्याविवक्षितत्वात् सिद्धम् ।
ऊङः || ४५||
ऊङस्तरादिषु हस्त्रो वा भवति । ब्रह्मबन्धुतरा ब्रह्मबन्धूतरा । [
आन्महतो जातीयैकार्थयोरच्व्यर्थे ॥ ४६ ॥
महच्छब्दस्य जातीयरि समानाधिकरणे चोत्तरपदे आत्त्वं भवति न चेच्च्व्यर्थे वर्तते । महाजातीयः महापुरुषः महाबाहुः । जातीयैकार्थ इति किम् ? महतः पुत्रो महत्पुत्रः । अच्व्यर्थ इति किम् ? अमहान् महान् सम्पन्नो महद्भूतचन्द्रमाः । न चायं गौणस्तथाभावात् मृत्पिण्डो घटीभूत इति यथा ।
घासकरविशिष्टेषु पुंवच्च ||४७ ||
घासादिषु व्यधिकरणेषु परतो महत आत्त्वं भवति, पुंवद्भावश्च । महत्या घासः महाघासः । महत्याः करः महाकरः । महत्या विशिष्टः महाविशिष्टः ।
इचि ॥ ४८ ॥
इजन्ते [ ४|४|११६] परत आत्त्वं भवति । केशाकेशि मुष्टामुष्टि ।
नाम्न्यष्टनः ॥४९॥
अष्टन उत्तरपदे संज्ञाविपय आत्त्वं भवति । अष्टावक्रो मुनिः ।
नाम्नीति किम् ? अष्टदष्ट्रः |
कपाले हविषि || ५० ||
कपाल उत्तरपदे हविर्विषये अष्टन आत्वं भवति । अष्टाकपालं
हविः । हविषीति किम् ? अष्टकपालमन्नम् ।
घासकरविशिष्टेषु पुंवच्च ||४७ ||
घासादिषु व्यधिकरणेषु परतो महत आत्त्वं भवति, पुवद्भावश्च । महत्या घास महाघास । महत्या कर महाकर । महत्या विशिष्ट, महाविशिष्ट ।
इचि ॥४८॥
इजन्ते [ ४|४|११६ ] परत आत्त्वं भवति । केशाकेशि मुष्टामुष्टि ।
नाम्न्यष्टनः ॥४९॥
अष्टन उत्तरपदे सज्ञाविषय आत्त्वं भवति । अष्टावक्रो मुनिः ।
नाम्नीति किम् ? अष्टदष्ट्रः |
कपाले हविषि || ५० ||
कपाल उत्तरपदे हविर्विषये अष्टन आत्त्वं भवति । अष्टाकपालं
हविः । हविषीति किम् ? अष्टकपालमन्नम् |
गवि युक्ते ॥५१॥
गव्युत्तरपदे तद्युक्तेऽभिधेयेऽष्टन आत्त्वं भवति । अष्टागवेन शकटेन । युक्त इति किम् ? अष्टगवधनं ब्राह्मणस्य |
द्वेश्च संख्यायां प्राक् छतादनन्यार्थाशीत्योः ॥ ५२ ॥
द्वैरष्टनश्च प्राक् छतात्सख्यायामुत्तरपदेऽशीतिवर्जित आत्त्वं भवति, अन्यपदार्थश्चेन्नाभिधेयः । द्वादश द्वाविंशतिः द्वात्रिशत् । अष्टादश अष्टाविंशतिः अष्टात्रिंशत् । द्वेश्चेति किम् ? पञ्चदश । संख्यायामिति किम् द्वैमातुरः अष्टमातुरः । प्राक् छतादिति किम् ? द्विशतम् द्विसहस्रम् । अष्टशतम् अष्टसहस्रम् | अनन्यार्थाशीत्योरिति किम् ? द्वित्राः द्वयशीतिः ।
नेत्रयः || ५३ ||
त्रिशब्दस्य सख्यायां त्रयसादेशो भवति । त्रयोदश त्रयोविशतिः त्रयस्त्रिंशत् । सख्यायामित्येव । त्रैमातुरः । प्राक् छतादित्येव । त्रिशतम् त्रिसहस्रम् | अनन्यार्थाशीत्योरित्येव । त्रिदशाः त्र्यशीतिः ।
चत्वारिंशदादौ वा ॥ ५४ ॥
सख्यायां यदुक्त तच्चत्वारिंशदादौ वा भवति । द्वाचत्वारिंशत् द्विचत्वारिंशत् । अष्टाचत्वारिंशत् अष्टचत्वारिंशत् । त्रयश्चत्वारिंशत् त्रिचत्वारिंशत् । द्वापञ्चाशत् द्विपञ्चाशत् । अष्टापञ्चाशत् अष्टपञ्चाशत् । त्रयपञ्चाशत् त्रिपश्चाशत् । कथम् एकादश? दशैकादशकुसीदात्° [३ | ४ | ३८] इति निपातनादेकादशेति सिद्धम् ।
हृदयस्याणि हृत् ||५५||
हृदयस्याणि परतो हृदादेशो भवति । हार्दम् ।
लेखे ॥५६॥
लेखेऽणन्ते परतो हृदयस्य हृदादेशो भवति । हृदयं लिखति हृल्लेखः । अणीत्येव । हृदयलेखः । अणीत्येव सिद्धे लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे तदन्ताग्रहणस्येति ।
लासयतोः ||५७||
लासे यति च परतो हृदयस्य हृदादेशो भवति । हल्लासो हृद्यः । हृच्छब्देन सिद्धे हृदयशब्दनिवृत्त्यर्थं देशवचनम् । अन्यत्रो भयोरपि प्रयोगः । हृच्छोकः हृदयशोकः । सौहार्यम् सौहृदय्यम् । हृद्रोगः हृदयरोगः । हृच्छूलः हृदयशूलः । हृच्छल्यः हृदयशल्यः |
पादस्याज्यातिगोपहते पदः || ५८ ||
पादशब्दस्याजावातौ ग उपहते च परतः पदभावो भवति । पादाभ्यामजतीति पदाजिः । पदाति, पदगः, पदोपहतः ।
हिमहतिकाषिष्ठयति पद् ॥५९॥
हिमादिषु परतः पादस्य पद्भावो भवति । पद्धिमम् पद्धतिः पत्काषी । पादाभ्या चरति पदिकः । पर्पादित्वात् [ ३|४|८ ] ष्ठन् । पादौ विध्यन्ति पद्या शर्करा । प्राण्यङ्गप्रस्तावादिह न भवति । द्विपाद्यम् |
ऋचः शि ॥६०॥
ऋक्-सम्बन्धिनः पादशब्दस्य शकारादौ परतः पद्भावो भवति । पच्छो गायत्रीं शासति । ऋच इति किम् ? पादगः कार्षापणं ददाति पच्छब्देन सिद्धे पादशब्दनिवृत्त्यर्थमादेशवचनम् । अन्यत्रोभयोरपि प्रयोगः | पद्घोषः पादघोषः । पन्मिश्रः पादमिश्रः । पच्छब्दः पादशब्दः । पन्निष्कः पादनिष्कः ।
नस् नासिकायास्तःक्षुद्रे ॥ ६१ ॥
नासिकायास्तसि क्षुद्रे च परतो नसादेशो भवति । नस्त नःक्षुद्रः ।
यत्यवर्णे ॥ ६२॥
यति परतो वर्णादन्यत्र नासिकाया नसादेशो भवति । नस्य तैलम् । अवर्ण इति किम्? नासिक्यो वर्णः । कथं नासिक्यं नगरमिति । [३|१|६८] चातुरर्थिको ण्यो भवति ।
शिरसः शीर्षन् वा ॥ ६३॥
शिरसो यति परतः शीर्षन्नादेशो वा भवति । शीर्षण्यः शिरस्यः । अवर्ण इति न वर्तते ।
शीर्षोऽचि ॥६४॥
अजादिविपये शिरसः शीर्षादेशो भवति । हास्तिशीर्षिः स्थौलशीर्षिः मार्गशीर्षः । अधः शिरसो [ ६ ४ ४१] इति ज्ञापकाद् विभक्तौ न भवति। कथम् इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृता इति । शीर्षशब्द प्रकृत्यन्तरमस्ति ।
नाम्न्युदकस्योदः || ६५ ॥
उदकस्य संज्ञायामुत्तरपद उदभावो भवति । उदमेघ उदपान:
उदवाह उदधिः ।
उत्तरस्य ॥ ६६॥
उत्तरपदस्योदकस्य संज्ञायामुदभावो भवति । क्षीरोदो नाम समुद्रः । अच्छोदो नाम सरः ।
वासवाहने ||६७ ||
वासे वाहने चोत्तरपदे उदकस्योदभावो भवति । उदवासः
उदवाहनम् ।
पेषे पिषौ ॥ ६८ ॥
पिषि परतो यः पेपस्तस्मिन्नुत्तरपद उदकस्योदभावो भवति । उदपेषं पिनष्टि । पिपाविति किम् ? उदकपेषः ।
एकहलादौ भाण्डे वा ॥ ६९||
एको हल् आदिर्यस्य तस्मिन् भाण्डवाचिन्युत्तरपद उदकस्योदादेशो वा भवति । उदकुम्भ उदककुम्भः । उदपात्रम् उदकपात्रम् । एकहलादाविति किम् ? उदकस्थालम् । भाण्ड इति किम् ? उदकपातः ।
मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहेषु ॥ ७० ॥
मन्थादिषु परत उदकस्योदादेशो वा भवति । उदमन्थ उदकमन्थः । उदौदन उदकौदनः । उदसक्तुः उदकसक्तुः । उदबिन्दुः उदकबिन्दुः | उदवज्र उदकवज्रः । उदभार उदकभारः । उदहार उदकहारः । उदवीवध उदकवीवधः | उदगाह उदकगाहः ।
इको ह्रस्वः ॥ ७१ ॥
इक उत्तरपदे ह्रस्वो वा भवति । ग्रामणिपुत्रः ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः ब्रह्मबन्धूपुत्रः ।
न च्चिङीयणियुवामभ्रूकुंसादीनाम् ॥७२॥
च्विङ्येर्यण इयुवश्च सम्वन्धिन इको ह्रस्वो न भवति, भ्रूकुंसादीनां तु भवत्येव । पटीभूतास्तन्तवः । पभूतोऽपटुः । गार्गीपुत्रः गौरीपुत्रः कारीषगान्धीपुत्रः । इन्द्रपुत्रः श्रीकुलम् भ्रुकुलम् । अभ्रकुंसादीनामिति किम्? भ्रुकुंसः, भ्रुकुटिः । अपर आह—- भ्रकुसादीनामकारो भवति । भ्रकुसः भ्रुकुटिः । कथम् एकस्याः आगतम् एकरूप्यम् एकमयम्, एकस्याः क्षीरम् एक्क्षीरमिति । सर्वादित्वादेव सिद्धम् ।
ङथापोस्त्वनानोर्बहुलम् ||७३ ॥
डापोस्त्वे परतः संज्ञाया चोत्तरपदे बहुल ह्रस्वो भवति । रोहिणित्वम् रोहिणीत्वम् । अजत्वम् अजात्वम् । रेवति मित्रम् रेवतीमित्रम् । शिंशपस्थलम् शिशपास्थलम् । क्वचिन्न भवति । नान्दीकरः लोमकाषण्डः ।
इष्टकेषीकामालानां चिततूलमारिषु ||७४||
इष्टकादीनां चितादिषुः परतो ह्रस्वो भवति । इष्टकचितम् इषीकतूलम् मालभारी । तदन्तेष्वपीष्टकादयः सन्तीति भवत्येव ह्रस्वत्वम् । पक्त्रेष्टकचितम् । मुझेषीकतूलम् । उत्पलमालभारिणी कन्या ।
खिति ससंख्यस्य मुम् च ॥७५॥
खिदन्त उत्तरपदे ससख्यस्य ह्रस्वो भवति, मुम् च । हरिणिम्मन्या कालिम्मन्या । ससंख्यस्येति किम् ‘ दोपामन्यमहः दिवामन्या रात्रिः [ माष्यम् १|१|४१] । अस्मादेव ससख्यग्रहणात् खिदन्तग्रहणम् ।
अरुषः ॥७६॥
अरुष्ब्दस्य खिदन्त उत्तरपदे मुम् भवति । अरुन्तुदः | कारेऽस्तुसत्यागदस्य ||७७||
कारशब्दे परतोऽस्तुसत्यागदानां मुम् भवति । अस्तुंकारः सत्यंकारः अगदकारः ।
लोकस्य पृणे ॥७८॥
पुणे परतो लोकस्य मुम् भवति । लोकम्पृणः ।
इत्येऽनभ्याशस्य ||७९ ॥
इत्ये परतोऽनभ्याशशब्दस्य मुम् भवति । अनभ्याशमित्यः । भ्राष्ट्राग्न्योरिन्धे ||८०||
भ्राष्ट्रस्याग्नेश्चेन्धे परतो मुम् भवति । भ्राष्ट्रमिन्धः । अग्निमिन्धः ।
अगिलस्य गिले ॥ ८१ ॥
गिले परतो गिलादन्यस्य मुम् भवति । तिमिगिलः | अगिलस्येति किम् ? गिलगिलः ? कथम् अयं तिमिंगिलगिलः? गिलगिलशब्दे गिलशब्दोऽस्तीति गिल इत्येव सिद्धम् ।
भद्रोष्णयोः करणे ॥ ८२॥
भद्रस्योष्णस्य च करणे परतो मुम् भवति । भद्रंकरणम् उष्णं-
मध्यस्य दिने || ८३ ||
मध्यस्य दिने परतो मुम् भवति । मध्यन्दिन ।
श्येनतिलयोः पाते ञे ||८४ ॥
श्येनस्य तिलस्य च पाते जान्ते परतो मुम् भवति । श्यैनम्पाता क्रीडा । तैलम्पाता । ञ इति किम् ? श्येनपातः तिलपातः ।
रात्रेर्धातौ वा ॥ ८५||
रात्रेर्धातावुत्तरपदे मुम् वा भवति । रात्रिञ्चरः रात्रिचरः | रात्रिमटः रात्र्यटः । खिति तु नित्यमेव । रात्रिम्मन्यः ।
धेनोर्भव्यायाम् ||८६||
धेनुशब्दस्य भव्यायामुत्तरपदे मुम् वा भवति । धेनुम्भव्या धेनुभव्या । सूतादिभ्यो दुहितुः पुत्रङ् न वाच्यः, पुत्रशब्दस्य गौरादिपाठात् [२|३|३७] | तथा दुहितुः पुत्री शैलपुत्रोत्यपि दृश्यते ।
मांसस्य पचि घञल्युटोर्लोपः ||८७||
मासस्य पचतौ घञ्ल्युट्परे परतो लोपो वा भवति । माᳲपाक: मासपाकः । माᳲपचनी मासपचनी । पचीति किम् ? मासदाहः मासदहनी । घञ्ल्युटोरिति किम् ? मासपक्तिः ।
समस्तते ॥८८॥
समस्तते परतो लोपो वा भवति । सततम् सन्ततम् । कथं सहितम् सहितम् इति । ऊरोरुपमासहितसहित [ २/३ /७९] इति निपातनात् ।
तुमश्च काममनसोः || ८९॥
तुमः समश्च कामे मनसि चोत्तरपदे लोपो भवति । भोक्तुकाम: भोमनाः । सकाम समनाः ।
तव्यादिषट्केऽवश्यमः ॥९०॥
अवश्यमस्तव्यादिषु षट्केषु परतो लोपो भवति । अवश्यकर्तव्यम् अवश्यकार्यम् । षट्क इति किम् ? अवश्यकारकः
पञ्चमेऽध्याये द्वितीय. पाद:
नञो नः ॥९१॥
नञो नकारस्योत्तरस्योत्तरपदे लोपो भवति । अब्राह्मण अवृषलः | ञकार किम् ? केवलस्य मा भूत् । पामनपुत्रः ।
तिङयवक्षेपे ||९२ ||
तिङन्ते परतोऽवक्षेपे गम्यमाने नञो नकारस्य लोपो भवति अपचसि त्वं जाल्मः । अकरोषि त्वं जाल्मः ।
ततोऽचि नुट् ॥ ९३ ॥
तस्माल्लुप्तनकारान्नञोऽजादावुत्तरपदे नुडागमो भवति । अनव अनुष्ट । तत इति किम् ? नञो मा भूत् । टकार किम् ? ङमो द्वित्वं मा भूत् ।
एकादन्नाद्रौ संख्यायाम् ||९४||
एकात्परस्य ना सख्यायामुत्तरपदे अन्नं अद्नं इत्येतावादेशौ भवतः । एकेन न विंशतिः एकान्नविंशति एकाद्नविंशतिः । एकान्नत्रिंशत् एकाद्नत्रिंशत् ।
नखादयः ॥९५॥
नखादयः शब्दाः अलुप्तनकारा निपात्यन्ते । नास्य खमस्तीति नखम् । अखमन्यत् । सज्ञाशब्देषु च व्युत्पत्तिमात्रं यथाकथञ्चित्कर्तव्यम् । नास्य कुलमस्तीति नकुलः । अकुलोऽन्यः ॥ नख । नकुल । नपुसक । नक्षत्र । नक्र । नाक । नमेरु । नासत्य । नमुचि । नभ्राट् । नपात् । नवेदा । असुन्नौणादिकः ।
नगोऽप्राणिनि वा ॥९६॥
नग इत्यप्राणिनि वा निपात्यते । नगा वृक्षाः, नगाः पर्वताः । अगा वृक्षाः, अगाः पर्वताः । अप्राणिनीति किम् ? अगो वृषलः शीतेन ।
सहस्य सोऽन्यार्थे ॥ ९७॥
अन्यपदार्थवृत्तौ समासे सति सहशब्दस्योत्तरपदे सो वा भवति । सपुत्रः सहपुत्रः । सच्छास्त्रः सहच्छात्रः | अन्यार्थ इति किम् ? सहयुध्वा सहकृत्वा । कथं सहकृत्वप्रियः प्रियसहकृत्वेति । अन्यपदार्थे समासे यदुत्तरपदं तत्परः सहशब्दो न भवतीति न सादेश: ।
नाम्नि ॥ ९८ ॥
सज्ञायामुत्तरपदे सहशब्दस्य सादेशो भवति । साश्वत्थः सपलाशः ।
अनुपाख्ये ॥९९॥
अप्रत्यक्षे गम्यमाने सहशब्दस्योत्तरपदे सादेशो भवति । साग्निः कपोतः, सपिशाचा वात्याः ।
अकाले स्वार्थे ॥ १०० ॥
स्वार्थप्रधानस्य सहशब्दस्याकाल उत्तरपदे सादेशो भवति । सम्पन्नं ब्रह्म सब्रह्म बाभ्रवाणाम् । सचक्रं निधेहि । सधुरम् | अकाल इति किम् ? सहपूर्वाह्नम् सहापराह्णम् ।
ग्रन्थान्ताधिक्ये || १०१॥
ग्रन्थान्ते आधिक्ये च वर्तमानस्य सहशब्दस्य सादेशो भवति । सकलं ज्योतिषमधीते सज्योतिः । समुहूर्तम् । कालार्थ आरम्भ । आधिक्ये सद्रोणा खारी । समाषः कार्षापणः । नित्यार्थ आरम्भः |
नाशिष्यगोवत्सहले ||१०२ ||
आशिषि विषये गवादिवर्जित उत्तरपदे सहशब्दस्य सादेशो न भवति । स्वस्तिः देवदत्ताय सहपुत्त्राय सहच्छात्राय । अगोवत्सहल इति किम् ? स्वस्तिः भवते सगवे सवत्साय महलाय ।
समानस्य पक्षादिषु ॥ १०३ ॥
समानस्य पक्षादिषूत्तरपदेषु सभावो भवति । सपक्षः सज्योतिः । पक्षादिष्विति किम् ? समानशीलः || पक्ष | ज्योतिस् । जनपद | रात्रि | नाभि । बन्धु | पत्नी | ब्रह्मचारिन् । ब्रह्म वेद, तदध्ययनार्थं व्रतमपि ब्रह्म । तच्चरतीति ब्रह्मचारी । समानो ब्रह्मचारी सत्रह्मचारी |
नामगोत्ररूपस्थानवर्णवयोवचनधर्मजातीये वा ॥ १०४ ॥
नामादिषु परतः समानस्य सभावो वा भवति । सनामा समाननामा । सगोत्रः समानगोत्रः । सरूपः समानरूपः | संस्थानं समानस्थानं । सवर्णः समानवर्णः । सवयाः समानवयाः | सवचनः समानवचनः | सधर्मा समानधर्मा । सजातीयः समानजातीयः ।
उदरे ये ॥ १०५ ॥
उदरे यकारपरे परतः समानस्य सभावो वा भवति । सोदर्यः समानोदर्यः । य इति किम् ? समानोदरता ।
दृग्दृश्दृक्षे ||१०६ ||
दृगादिषु परतः समानस्य सभावो भवति । सदृक् सदृशः सदृक्षः|
वतौ चेदं किमोरीश्की ॥ १०७॥
तौ दृगादिषु च परत इदंकिमोरीश्की इत्येतावादेशौ भवतः । इयान् कियान् । ईदृक् कीदृक् । ईदृशः कीदृशः |
आः सर्वादीनाम् ॥ १०८ ॥
वतौ दृगादिषु च परतः सर्वादीनामाकारो भवति । यावत् तावत् । यादृक् तादृक् । यादृग याहा । यादृक्ष तादृक्ष |
विष्वग्देवयोश्च डदृगञ्चि वौ ॥१०९॥
विष्वग्देवयो सर्पादीनां चाञ्चतौ विपरे परतो डदृगागमो भवति । विष्वगञ्चति विष्पद्र्यड् । देवद्र्यड् | यद्र्यङ् तद्र्यड् | वाविति किम् ? विष्वगञ्ची ।
समः समिः ॥ ११० ॥
समोऽञ्चतौ विपरे सम्यादेशो भवति । सम्यङ् सम्यञ्चौ सम्यञ्चः ।
सहस्य सध्रिः ॥ ९५ ॥
सहस्याञ्चतौ विपरे परतः सध्यादेशो भवति । सव्यञ् सध्र्यञ्चौ सध्र्यञ्च । सध्रीचः सध्रीचा |
तिरसस्तिर्यति ॥ ११२||
तिरसोऽश्चतावकारादौ परतस्तिर्यादेशो भवति । तिर्यङ् तिर्यञ्चौ तिर्यञ्च । अतीति किम् । तिरश्व तिरश्चा ।
द्वयन्तः प्रादेरनादप ईत् ॥११३॥
द्वेरन्तशब्दात्प्रादिभ्यश्चानवर्णान्तेभ्य परस्याप ईदादेशो भवति । दीपः अन्तरीपः | समीपः नीपः | अनादिति किम् ? प्रापम् परापम् ।
देशेऽनूपः ॥ ११४ ॥
देशेऽभिधेयेऽनूप इति निपात्यते। अन्यत्रान्वीपः।
समापो नाम्नि ॥ ११५ ॥
समाप इति संज्ञाया निपात्यते । समाप नाम देवयजनम् । समीपमन्यत् ।
छकारकेऽन्यस्य दुक् ॥ ११६॥
छे कारके च परतो ऽन्यस्य दुगागमो भवति । अन्यदीयः अन्यत्कारकः ।
अषष्ठीतृतीयस्याशीराशास्थास्थितोत्सुकोतिरागेषु ॥ ११७ ॥
अषष्ठ्यन्तस्यातृतीयान्तस्य चान्यस्याशीरादिषु परतो दुगागमो भवति । अन्या आशीः अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदृतिः । अन्यद्रागः । अषष्ठीतृतीयस्येति किम् ? अन्यस्याशीः अन्याशीः । अन्येनास्थित अन्यास्थितः |
अर्थे वा ॥ ११८ ॥
अर्थे परतोऽन्यस्य दुगागमो वा भवति । अन्यदर्थः अन्यार्थः |
कोः कदच्युत्तरार्थे ॥ ११९॥
कुशब्दस्योत्तरपदार्थे वर्तमानस्याजादावुत्तरपदे कदादेशो भवति । कदुष्ट्रः कदश्व | अचीति किम् ? कुब्राह्मणः । उत्तरार्थ इति किम् कूष्ट्रो राजा ।
त्रिरथवदेषु || १२० ||
त्र्यादिषु परतः को कदादेशो भवति । कुत्सितास्त्रयः कत्त्रयः । कद्रथः | कद्वदः |
तृणे जातौ ॥१२१॥
तृणे परतो जातावभिधेयाया को कदादेशो भवति । कत्तृणम् । जाताविति किम् ? कुत्सितानि तृणानि कुतृणानि ।
काक्षपथोः ॥ १२३ ॥
अक्षे पथि च परत को कादेशो भवति । काक्षः कापथः ।
ईषदर्थे || १२३ ||
ईषदर्थे वर्तमानस्य को कादेशो भवति । कामधुरम् | कालवणम्। काम्लम् ।
पुरुषे वा || १२४ ||
पुरुष उत्तरपदे को काभावो वा भवति । कापुरुषः कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे तु पूर्वेण नित्यं भवति । ईषत्पुरुषः कापुरुषः ।
कवं चोष्णे ॥ १२५ ॥
उष्णे परत को कवमादेशो भवति, कादेशश्च वा । कवोष्णम् कोष्णम् कदुष्णम् ।
दिक्छब्दात्तीरस्य तारः || १२६||
दिक्छब्दात् परस्य तीरस्य तारादेशो वा भवति । दक्षिणतारम् दक्षिणतीरम् । उत्तरतारम् उत्तरतीरम् ।
पृषोदरादीनि ॥ १२७॥
पृषोदरादीनि शब्दरूपाणि साधूनि भवन्ति । पृषदुदरमस्य पृषोदरः । पृषदुद्दानमस्य पृषोद्वानः | वारिवाहको वलाहकः । जीवनस्य भूतो जीभूतः । शवस्य शयनम् श्मशानम् । ऊर्ध्वं खमस्य उदूखलम् उल्वखलं वा । पिशितश्नातीति पिशाचः । ब्रुवन्तोऽस्याः सीदन्तीति वृसी । मह्या रौतीति मयूरः । मह्या शेते महिषः । षट् च दश षोडश। कृच्छ्रेण दाश्यते दूडाशः । कृच्छ्रेण नाश्यते दूणाशः । कृच्छ्रेण दभ्यते दूडभ । दुष्टं ध्यायतीति दूढ्यः । वाग्वादस्यापय वाड्वलि । दिव्योक एषां ते दिवौकसः । एवमन्येऽपि कपित्थदधित्याश्वत्थमहित्यादयः शिष्टप्रयोगा अनुगन्तव्याः ।
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
वातोस्तदर्यातिशयेन योग एतच्च तत्पञ्चविधं निरुक्तम् ॥
संख्याविसायादेरह्नस्यान् ङौ वा ॥ १२८॥
सख्या विसायादेरहृशब्दस्य डौ परतोऽहनादेशो भवति वा । द्वयोरह्नोर्भवेद्वह्निः द्व्यह्नि द्व्यहनि द्व्यह्ने । विगतेऽहनि व्यह्नि व्यहनि व्यह्ने । सायाह्नि सायाहनि सायाह्ने । सख्याविसायादेरिति किम् ? पूर्वाह्ने अपराह्णे । णाविति किम् द्र्यह्नः व्यह्नः सायाह्नः ।
विश्वस्य वसुरटोर्दीर्घः ॥१२९||
वसुरटोरुत्तरपदयोर्विश्वस्य दीर्घो भवति । विश्वावसुः विश्वाराट् । राडिति निर्देशादिह न भवति । विश्वराजौ विश्वराजः |
नरे नाम्नि ॥ १३० ॥
नरे परतः सज्ञायां विश्वस्य दीर्घो भवति । विश्वानरः । नाम्नीति किम् ? विश्वनरः ।
ऋषौ मित्रे || १३१ ||
ऋषावभिधेये मित्रे परतो विश्वस्य दीर्घो भवति । विश्वामित्रः । ऋपाविति किम् ? विश्वमित्रो माणवकः | नाम्नीत्येव । विश्वमित्रो मुनिः ।
वनगिर्योः कोटराञ्जनादीनाम् ॥ १३२ ॥
बने गिरौ च परतः कोटरादीनामन्ञ्जनादीनां च दीर्घो भवति । कोटरावणम् मिश्रावणम् सिध्रकावणम् । अञ्जनागिरिः भञ्जनागिरिः किंशुकागिरिः । कोटराञ्जनादीनामिति किम् ? कुवेरवनम् । असिपत्त्रवनम् । कृष्णगिरिः । नाम्नीत्येव । अञ्जनगिरिः ।
मतौ वह्वचोऽनजिरादीनाम् || १३३ ||
मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति । उदुम्बरावती वीरणावती । बह्वच इति किम् ? ब्रीहिमती | अन जिरादीनामिति किम् ? अजिवती खदिरवती । नाम्नीत्येव । वलयवती || अजिर । खदिर । पुलिन । मलय । कारण्डव । चक्रवाक |
शरादीनाम् || १३४||
शर इत्येवमादीना मतौ परतो दीर्घो भवति । शरावती वशावती । नाम्नीत्येव । शरवती ॥ शर । वा । धूम | अहि । कपि । मणि । मुनि । शुचि । आकृतिगणोऽयम् ।
वले ||१३५||
वले परतो दीघों भवति । कृषीवलं । आसुतीवलं । दन्तावलं ।
चितेः कपि ॥ १३६||
चितिशब्दस्य कपि परतो दीर्घो भवति । एकचितोकः । द्विचितीकः |
ढ्रलोपेऽणः ॥ १३७॥
ढकाररेफयोर्लोपो यस्मिंस्तत्र पूर्वस्याणो दीर्घो भवति । लीढम् गूढम् नीरक्तम् दृरक्तम् । अण इति किम् ? आवृढम् ।
सहिवहोरोत् ॥ १३८ ॥
सहिवहोर्द्वलोपेऽण ओत्त्वं भवति । सोढा वोढा । सोढुम् वोढुम् । उदवोढाम् उदवोढम् । कथम् ऊढम् ? प्रादूढ’ [५|१|८९] इत्यादिलिङ्गात् ।
कर्णे चिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रनस्वस्तिकस्य ||१३९||
कर्णे परतचिह्नस्य विष्टादिवर्जितस्य दीर्घो भवति । दात्राकर्णः द्विगुणाकर्णो द्व्यङ्गुलाकर्णः । चिह्नस्येति किम् ? शोभनकर्णः । अविष्टादेरिति किम् ? विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिन्नकर्णः । सुवर्णः । स्वस्तिककर्णः ।
नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥१४०॥
नह्यादिषु क्विबन्तेषु परतो दीर्घो भत्रति । उपानत् । नीवृत् । प्रावृट् । मर्मावित्। नीरुक् । ऋतीपट् । परीतत् । गमादीनां क्वौ [ ५/३/४९ ] इत्यनुनासिकलोपः | क्वाविति किम् ? उपनद्धम् ।
प्रादीनां घञि बहुलम् ॥ १४१ ॥
प्रादीनां घजन्ते परतो बहुलं दीर्घो भवति । प्रतिविगत्यस्मिन्निति अतीवेशः प्रतिवेशः । प्रतिबोधनं प्रतीबोधः प्रतिबोधः । प्रतिहरन्ति ज्ञाप यन्त्यनेनेति प्रतीहारः प्रतिहारः । प्रतिकुर्वन्ति तेनति प्रतीकारः प्रतिकारः । क्वचिद् भिन्नविषये | प्रकारः प्राकारः | प्रसादः प्रासादः । क्वचिन्न भवति । निपादः विपादः । क्वचिद्भवत्येव । नीवारः नीहारः नीशारः ।
इकः काशे ॥ १४२॥
इगन्तस्य काशे परतो दीर्घो भवति । नीकाशः वीकाशः अनूकाशः प्रतीकाशः । इक इति किम् ? प्रकाशः । बहुलमित्येव । निकाशः विकाशः । अजर्थ आरम्भः |
दस्ति || १४३ ||
दा इत्यस्य यस्तकारादेशस्तस्मिन् परतः प्रादीना मिगन्ताना दीर्घो भवति । नीत्तम् परीत्तम् वीत्तम् । तीति किम् सुदत्तम् । इक इत्येव ।
प्रत्तम् अवत्तम् ।
वहे ॥ १४४ ॥
वहे परत इगन्तस्य दीर्घो भवति । ऋषीवहः कपीवहः कृषीवहः । इक इत्येव । पिण्डवहः । बहुलमित्येव । पीलुवहः चारुवहः ।
अन्येषामपि ॥ १४५॥
अन्येपामपि शब्दानामुत्तरपदे बहुलं दीर्घो भवति । श्वादन्तः श्वादंष्ट्रः श्वाकर्ण । क्वचिन्न भवति । श्वफल्कः श्वमुखः । क्वचिद्विकल्पः । श्रापुच्छः श्वपुच्छः । क्वचिद्विषयान्तरेऽपि । श्वपदम् श्वापदम् । क्वचिदनुत्तरपदेऽपि । पुरुष पुरुष ।
चौ ॥ १४६॥
अञ्चतौ लुप्ताकारे परतो दीर्घो भवति । दधीचः दधीचा । मधूचः मधूचा ।
यण इकः || १४७॥
यण स्थाने य इक् तस्योत्तरपदे दीर्घो भवति । कारीषगन्धीपुत्रः कौमुदगन्धीपतिः । यण इति किम् ? भूमिपतिः ।
इति चान्द्रे व्याकरणे पञ्चमस्याध्यायस्य द्वितीय पादः समाप्तः ।