सन्यङोराद्यमेकाज् द्विः || १ ||
सनन्तस्य यङन्तस्य च प्रथममेकाच्छब्दरूपं द्विरुच्यते । तितिक्षते जुगुप्सते चिकीर्षति । लोलूयते पापच्यते ।
चङ्लिटोः ॥ २ ॥
चङि लिटि च परत आद्यमेकाज् द्विरुच्यते । अपीपचत् । पपाच ।
आद्यादचः ॥ ३ ॥
प्रथमादचः परमेकाज् द्विरुच्यते । अटिटिषति अशिशिषति । अटाट्यते अशाश्यते । आटिटत् आशिशत् । प्रोर्णुनाव । आद्यादिति किम् ? जजागार । अच इति किम् ? पपाच ।
नन्द्रो हलि ॥ ४ ॥
नकारदकारबकारा हलि परतो न द्विरुच्यन्ते । उन्दिदिषति अड्डिडिषति उब्जिजिषति । न्द्व इति किम् ? ईचिक्षिपते । हलीति किम् ? प्राणिणिपति । आद्यादच इत्येव । दिद्रासति ।
अयि रः ॥ ५ ॥
अयकारे हलि परतो रेफो न द्विरुच्यते । अर्चिचिषति अर्दिदिषति । अयीति किम्? अरार्यते ।
पुनः || ६ ||
यद् द्विरुक्तं तत्पुनर्न द्विरुच्यते । जुगुप्सिषते लोलृयिषते ।
ईर्ष्यो यिः सन् वा ॥ ७ ॥
ईर्ष्यतेर्यिशब्दो द्विरुच्यते सन् वा । ईष्यियिषति ईष्यिविषति ।
सुपो यथेष्टम् ॥ ८ ॥
सुबन्तस्य यथेष्टमाद्यमेकाजन्यद् वा द्विरुच्यते । पुपुत्रीयिषति पुतित्रीयिषति पुत्रीयियिषति पुत्रीयिषिषति । कचिद् द्वितीयतृतीयौ । अशिश्रीयिषति अवीयियिप्रति । कण्वादीनां तृतीय एव । कण्डूयियिषति । असूयियिषति ।
दाश्वान् साह्वान् मीढ्वांश्चिक्लिदं चक्रसम् ॥ ९ ॥
दावानिति दाशे कसाव द्वित्वमनिट्त्वं च निपात्यते । साह्वानिति सहे. कसुदीर्घत्व च । मीद्वानिति मिहेर्हत्वं च । चिक्किदमिति किदे. के द्वित्वं च’ । चक्त्रसमिति कसेरचि द्वित्वम् । कथ चक्रम् बभ्रु ययुरिति ‘औणादिका: [ दशपादी ८/१०३, पञ्चपादी १।२२,२१ ] ।
चराचरचलाचलपतापतवदावद घनाघनपाटूपटा वा ॥ १०॥
चरिचलिपतिवदीनामचि द्वित्वं पूर्वस्यागागमो हलोऽनादिलोपाभावश्च निपात्यते हन्ते कुत्वं च, पाटेर्णिलुगूगागमो ह्रस्वाभावश्च।
द्विर्वचनं यणयवायावादेशाल्लोपोपान्तलोपणिलोपादिभ्यः पूर्वविप्रतिषेघेन । द्विर्वचनस्यावकाशः । बिभेदः | यणादीनामवकाश । दध्यत्र मध्वत्र कर्त्रत्र । चयनम् लवनम् । चायकः लावकः । गोदः कम्बलदः । पितन्घ्नः | कारणा । इहोभयं प्राप्नोति । चक्रतु चक्रु । चिचयिय लुलविय । चिचाय लुलाव | पपतु पपु । जग्मतु जग्मु । आटिटत् आशिगत् । द्विर्वचनं भवति पूर्वविप्रतिषेधेन । द्विर्वचनादिग् यण आत्त्व त्वम् ईम् इत्त्वम् उत्त्वम् अदेडादैच परविप्रतिषेधेन । द्विर्वचनस्यावकाशः स एव । एषामवकाशः। इष्टम् । ग्लाता । मात्रीयति । पीयते । आस्तीर्णम् । निपूर्ती | कर्ता चेता | कारक. । इहोभय प्राप्नोति । ईजु । जग्लौ मम्लौ । चेक्रीयते । पेपीयते । आतेस्तीर्यते । निपोपूर्यते । चिचयिय लुलविथ । चिचाय लुलाव । एते विधयो भवन्ति परविप्रतिषेधेन । एवमन्येऽपि द्रष्टव्या ।
ष्यङः प्रधानस्य पुत्रपत्योः स्वयोरिग् यणः ॥ ११ ॥
ष्यङोऽनुपसर्जनस्य पुत्रपत्योरात्मीययोः पर भूनयोर्यग् इग् भवति । कारीषगन्धीपुत्रः कौमुदगन्धीपतिः । करीषस्येव गन्धोऽस्य करीषगन्धिः | उपमानादित्वम् [४|४|१२६], तस्यापत्यम् [२|४|१६] इत्यण् । तस्य स्त्रिया यड् [२/३/८२], ततश्चान् । यणिक [ ५|१|११४] इति परपूर्वत्वम् | यण इक [५/२/१४७] इनि दीर्घत्वम् । ष्यङ इति किम् ? । इभ्यापुत्रः । प्रवानस्येति किम् ? अनिकारीषगन्ध्यपुत्रः । अत एव ज्ञापकात् परमकारीषगन्धीपुत्रः | पुत्रपत्योरिति किर? कारीगन्ध्याकुलम् । स्वयोरिनि किम् ? कारीषगन्ध्यापतिक | कारीपगन्ध्याया पुत्रकुलम् कारीषगन्ध्यापुत्रकुलम् इति कुलमत्र स्वम् । पुत्रस्य तु सा… स्वत्वमवगम्यते । कारीषगन्धीपुत्रकुलमिति विवक्षाया भवत्येव । कारीषगन्ध्यापरमपतिरिति व्यवधानान्न भवति । इग् यण इत्यधिकारः ।
बन्धावन्यार्थे ||१२||
बन्धुशब्दे परतोऽन्यपदार्थेऽभिधेये ष्यङः प्रवानस्य यग इग् भवति। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः | बन्धाविति किम् ? कारीषगन्ध्यादुहितृकः । अन्यार्थ इति किम् ? कारीगन्ध्याबन्धुः । प्रधानस्येत्येव । अतिकारीषगन्ध्यबन्धु |
मातमातृकमातृषु वा ॥ १३॥
मातादिषु परतोऽन्यपदार्थेऽभिधेये प्यङोऽनुपसर्जनस्य यण इग् वा भवति । कारीषगन्धीमातः कारीषगन्ध्यामातः । कारीषगन्धीमातृकः कारीषगन्ध्यामातृकः कारीषगन्धीमाता कारीषगन्ध्यामाता । अस्मादेव निपातनान् ङ्यूङृतो वा कप् ।
वचिस्वपियजादीनां लिट्यपिति ||१४||
वचे स्वपेर्यजादीनां च लिट्यपिति परे यण इग् भवति । ऊचतुः ऊचुः । सुषुपतुः सुपुपुः । ईजतुः ईजुः । ऊहतुः ऊहुः। अपितीति किम् ? उवाच सुष्वाप इयाज ।
ग्रहिव्यधोः || १५ ||
ग्रहिव्यधोर्लिट्य पति यण इग् भवति । जगृहतुः जगृहुः । विविदतुः विविदुः | अपितीत्येव । जग्राह विव्याध ।
शिन्ङितोः || १६ ||
ग्रहिव्यधो शिति ङिति च परतो यण इग् भवति । गृह्णाति । विध्यति । जरीगृह्यते । वेविध्यते ।
ज्यावश्वप्रच्छभ्रस्जाम् ॥ १७॥
ज्यादीनां शिन्ङितो परतो यण इग् भवति । जिनाति वृश्चति पृच्छति भृज्जति । जेजीयते वरीवृक्ष्यते परीपृच्छ्यते बरीभृज्ज्यते ।
वशस्तिङ्गशित्यपिति ॥ १८ ॥
वशेस्तिङि शिति चापिति परतो यण इग् भवति । उष्ट उशन्ति । उशन् । अपितीति किम् ? वष्टि |
व्यचोऽञ्णित्यनसि || १९||
व्यचेरञ्णित्यस्वर्जिते परतो यण इग् भवति । उद्विचिता उद्विचितुम् उद्विचितव्यम् | अणितीति किम् ? व्याकः । व्याचकः | अनसीति किम् ? उरुव्यचा कण्टकः |
किति तेषाम् ||२०||
तेषां वच्यादीनां किति यण इग् भवति । उक्त उक्तवान् । सुप्तः सुप्तवान् । इष्ट इष्टवान् । उप्त उप्तवान् । ऊढ ऊढवान् । गृहीतः गृहीतवान् । विद्धः विद्धवान् । जीनः जीनवान् । वृकूणः वृक्णवान् । पृष्टः पृष्टवान् । भृष्टः भृष्टवान् । उशित उशितवान् । विचितः विचितवान् ।
लिट्यश्वेर्द्विरुक्ते ॥ २१॥
लिट्परे द्विरुक्ते परतस्तेषां वच्यादीनां श्विवर्जिताना यण इग् भवति उवाच उवचिय । सुष्वाप सुष्वपिय । इयाज इयजिथ । उवाप उवपिथ | उवाह उवहिथ । जग्राह जग्रहिथ । विव्याध विव्यधिय । जिज्यौ जिज्यिथ । चत्रश्च वत्रश्चिय । पप्रच्छ पप्रच्छय । बभ्रज्ज बज्जिय । ग्रत्रिश्चिप्रच्छि- भ्रस्जाम् उरत्त्वात् [६।२।११८] अविशेष | उवास उवसिथ । विव्याच विव्यचिय । अश्वेरिति किम् ? शिवाय शिश्वयिथ ।
ग्रहिप्रच्छोः सनि ॥ २२॥
ग्रहे प्रच्छेश्व सनि यण इग् भवति । जिघृक्षति पिपृच्छिषति ।
स्वपः ||२३||
स्वपे सनि परतो यण इग् भवति । सुषुप्सति ।
चङि ||२४||
स्वपेश्वङि परत सामर्थ्याण्ण्यन्तस्य यण इग् भवति । असूषुपत्
चङीति किम् ? स्वापयति ।
यङि ॥ २५ ॥
स्वपेर्यङि यण इग् भवति । सोषुप्यते ।
व्येस्यमोः ||२६||
व्येञः स्यमश्च यङि यण इग् भवति । वेवीयते । सेसिम्यते । चायः कीः ||२७||
चायतेर्यञि कीभावो भवति । चेकीयते । दीर्घः किम् ? चेकीत ।
प्रे स्त्यश्च ततवतोः ||२८||
प्रे सति स्त्यायतेश्च ततवतोर्यण इग् भवति । प्रस्तीतः प्रस्तीतवान् । प्रस्त्यो म [ ६|३|८८] इति पक्षे मकारः | प्रस्तीमः । प्रस्तीमवान् । प्रसस्तीतः प्रसस्तीतवान् । प्र इति किम् ? स्त्यानः ।
स्पर्शद्रवमूर्त्योः श्यः||२९||
स्पर्शे द्रवमूर्तौ च विषये श्यायतेस्ततवतोर्यण इग् भवति । शीतो वायुः । शींन घृतम् । स्पर्शद्रवमूत्योरिति किम् ? सश्यानो वृश्चिकः शीतेन ।
प्रतेः ||३०||
प्रते परस्य श्यायते स्तनवतोर्यण इग भवति । प्रतिशीनः । प्रति-शीनवान् ।
वाभ्यवात् ||३१||
अभ्यवाभ्यां परस्य श्यायतेस्ततवतोर्यण इग् भवति वा । अभिशीनम् अभिश्यानम् । अवशीनम् अवश्यानम् ।
स्कायः स्फी ||३२||
स्फायस्ततवतो स्फीभावो भवति वा । स्फीनः स्फीतवान् । स्फीतमिति व्यवस्थितविभाषया नियतविषये प्रयोगः ।
शृतं क्षीरहविषोः ॥ ३३ ॥
शृतमिति निपात्यते श्राते श्रपयतेर्वा चौरादिकस्य ण्यन्तस्य क्षीरे हविषि चाभिधेये । श्रृतं हविः क्षीरं वा । प्रयोजकव्यापारे तु यो णिच् तदन्तस्य न भवति । श्रपितं क्षीरं देवदत्तेन । क्षीरहविषोरिति किम्? श्राणा यवागूः । श्रपिता यवागूः ।
प्यायः पीः ||३४||
प्यायस्ततवतो पीभावो भवति । पीनं मुखम् । पीनौ बाहू |
आङोऽन्धूधसोः ||३५||
आड एव परस्य प्यायः पीभावो भवति स चान्धूवसोरेव । आपी- नोऽन्धुः । आपीनभूवः । आङ इति किम् । प्रप्यानमूधः । अन्बूधसोरिति किम् आप्यानचन्द्रमाः |
लिड्यङोः ||३६||
लिटि यडि च परतः प्यायः पीभावो भवति । आपिप्ये, आपिप्याते । आपेपीयते ।
वा श्वेः ||३७||
श्वयतेर्लिड्यो यण इग् भवति वा । शुशाव शुशुवतु । शिश्वाय शिश्वियतु । शोशूयते शेश्वीयते । उभयत्र विभाषेयम् — लिट्यपिति यजादित्वात्प्राप्तेः, पिति यङि चाप्राप्तेः ।
गौ संवङोः ||३८||
सन्परे च परे च णौ विषयभूते श्वयतेर्यण इग् भवति वा । शुशा- वयिषति शिश्वाययिषति । असूशवत् अशिश्वयत् ।
ह्वः ||३९||
ह्वयते सन्परे चङ्परे च णौ विषयभूते यण इग् भवति । जुहा- वयिषति अजूहवत् । योगविभागो नित्यार्थः ।
द्वित्वे ||४०||
द्वित्वविषये ह्वयतेर्यण इग् भवति । जुहाव जोडूयते जुहूषति । द्वित्व इत्येव सिद्धे णिचा व्यवधाने वचनमन्याद्वित्वनिमित्तव्यवधानेऽभावज्ञापनार्थम् । ह्वायकमिच्छति ह्वायकीयति । ह्रायकीयते सन् जिह्वायकी यिषति ।
न तस्मिन् ॥ ४१ ॥
तस्मिन् यण इकि परे पूर्वस्य यण इग् न भवति । विद्धः विचितः
संवीतः वृक्णः । अस्मादेव वचनात्परस्य तावद् विधिः ।
लिटि ॥ ४२ ॥
लिटि परतस्तस्मिन् यण इकि परे पूर्वस्य यण इग् न भवति । विव्याध विव्याच वश्च । पुनर्वचनं हलोऽनादिलोप [ ६/२/११२ ]- बाधनार्थम् ।
वयो यः ||४३||
वयतेर्यकारस्य लिटि परतो यण इग् न भवति । उवाय ऊयतुः ऊयुः ।
वेरपिति वा ||४४ ||
वयतेरपिति लिटि यण इग् वा भवति । ऊवतुः ऊवुः । ववतुः ववुः ।
ल्यपि च ॥ ४५ ॥
ल्यपि लिटि च वयतेर्यग इग् न भवति । प्रवाय उपवाय । ववौ वविथ । लिटि पृथग्वचनानर्थक्यात्प्रतिषेधस्यानुवृत्तिः |
ज्यः || ४६ ||
जिनातेर्व्यपि यण इग् न भवति । परिज्याय उपज्याय ।
व्यः ||४७ ||
व्ययतेर्ल्यपि यण इग् न भवति । प्रव्याय । उपव्याय ।
परेर्वा ||४८ ||
परे परस्य व्ययतेर्ल्यपि वा यण इग् न भवति । परिवीय परिव्याय ।
एचोऽशित्यात् ॥ ४९||
एजन्तस्य धातोरशिद्विषय आत्त्वं भवति । ग्लाता ग्लातुम् । म्लाता म्लातुम् । निगाता निगातुम् । एच इति किम् ? कर्ता । अशितीति किम् ? ग्लायति । कथं जग्ले मम्ले? श एवेत् शित् । शकारश्च केवलम् इन्नास्तीति शकारादौ प्रतिषेधः | चेता स्तोतेति न भवति दीडोऽक्ङिति [ ५२ ] इति ज्ञापकेन लाक्षणिकस्याग्रहणात् । अधातोर्न भवति, धातो प्रस्तावात्, अशितीति च प्रतिषेधस्य तत्रैव सम्भवात् । गोका नौका । विषयसप्तमीति किम् सुत्र सुग्ल |
अलिटि व्यः ||५०॥
व्ययतेरलिट्येचोऽशित्यात्त्वं भवति । संख्याता । संख्यातुम् । अलिटीति किम् ? संविव्याय संविव्ययिथ । अशितीत्येव । संव्ययति ।
स्फुरिस्फुलोर्घञि ॥ ५१ ॥
स्फुरेः स्फुलेश्च घञ्येच आत्त्वं भवति । विस्फारो विस्फालः |
दीङोऽक्ङित्सनि ल्यपि ॥५२॥
दीङोऽक्डित्सन्विषये ल्यब्विषये चात्त्वं भवति । उपदाता उप- दातुम् । उपदाय ईषदुपदानम् । उपदायो वर्तते । अक्डित्सनीति किम् ? दीनो देदीयते उपदिदीषते ।
मिम्योरखलचि ॥५३॥
मिनोतिमीनात्योर्मीयतेश्च खलज्वर्जितेऽडित्सन्विषये ल्यब्विषये चात्त्वं भवति । निमाता निमातुम् निमाय । प्रमाता प्रमातुम् प्रमाय । अखलचीति किम् ? ईषन्निमयः, निमयो वर्तते । ईषत्प्रमयः, प्रमयो वर्तते । अडिसनीत्येव । मितम् मेमीयते । सनीसादेशादेवा विधिः ।
लियो वा ॥ ५४ ॥
लीयतेर्लिनातेश्च खल्वर्जितेऽक्डित्सनि ल्यपि चात्वं भवति वा । विलाता विलेता । विलाय विलीय | अखलचीत्येव । ईषद्विलयः, विल्यो वर्तते । अक्डिसनीत्येव । लीनम् लीयते लिलीषते । व्यवस्थितविभाषया प्रलम्भनपूजाशालीनीकरणेषु णौ नित्यमात्त्वं भवति । कस्त्वामुल्लापयते ? जटाभिरालापयते । श्येनो वर्तिकामुल्लापयते’ |
अपगुरो णमुलि ॥५५॥
अपपूर्वस्य गुरोर्णमुल्येच आद् वा भवति । अपगारम् अपगारम् । अपगोरम् अपगोरम् ।
चिस्फुरोर्णौ ॥५६॥
चिनोतेः स्फुरतेश्च णौ परत एच आद् वा भवति । चापयति चाययति । स्फारयति स्फोरयति ।
प्रजने वियः ||५७॥
वेते प्रजने वर्तमानस्य णावेच आद् भवति वा । पुरोवातो गाः श्रचापयति, प्रवाययति । गर्भं ग्राहयतीत्यर्थं ।
भियः प्रयोजकात् ॥ ५८ ॥
भियो णावेच आद् वा भवति, सा चेद् भी प्रयोजकाद् भवति । मुण्डो भापयते । मुण्डो भीषयते । प्रयोजकादिति किम् ? कुश्चिकयैनं भाययति । करणादत्र भीर्नतु प्रयोजकात् ।
स्मेश्व ॥५९॥
स्मयतेर्णावेच आत्त्वं नित्यं योगविभागात्, स्मयश्चेत्प्रयोजकाद् भवति। मुण्डो विस्मापयते । जटिलो विस्मापयते । प्रयोजकादित्येव । तपसैनं विस्माययति ।
क्रीङ्जीनाम् ||६०||
क्रीणातेरिडो जयतेश्च णावेच आद् भवति । क्रापयति अध्यापयति जापयति । सिध्यतेरपारलौकिके [पा० ६।१।४९, स० ६ १/७० ] इति न वक्तव्यम् | अन्नं सावयति, ग्रामं साधयतीति साधिना सिद्धम् । अन्नं सेधयतीति भवितव्यमेव, भौवादिकस्याप्रतिषेधात्, सुब्धातोश्च सम्भवात् । नियत- विषयत्वेऽपि वा सिध्यतेरपि ण्यन्तस्यात्र प्रयोगो न भविष्यति । पारलौकिकेऽपि च दृश्यते । धर्मं साधयति, तपः साधयति, ज्ञानं साधयतीति । तपस्तापस सेधयतीति, खान्येवैन कर्माणि सेधयन्तीति नावश्यं पारलौकिकी सिद्धिः, ऐहिक्या अपि सम्भवात् । तपरतापसः साधयतीति भवितव्यमेव, साधेरप्रतिषेधात् ।
अष्ठिवष्वकादेः षः सः ॥ ६१ ॥
ष्ठिवष्वक्किवर्जिताना धातूनामादेः षकारस्य सकारादेशो भवति ।षह सहते । षिच् षिञ्चति । ष्टिवुष्वक्कपर्युदासः किम् ? ष्ठीव्यति ष्वक्कते । आदिग्रहणं किम् कषति । ष्ठिवुष्वक्किसदृशग्रहणादिह न भवति -षण्ड षण्डीयति । अज्दन्त्यपरा सादयः षोपदेशाः खिदिस्वदिस्वञ्जिस्वपयश्च सृपिसृजिस्तॄस्त्यासेकृसृवर्जम् ।
णो नः ||६२॥
धातूनाम् आदेर्णकारस्य नकारो भवति । णह नह्यति । णम नमति । आदेरित्येव । रणति । ष्ठिवुष्वक्कसदृशप्रस्तावादिह न भवति । णकार णकारोयति । सर्वे नादयो णोपदेशाः। नृतिनर्दिनन्दिनक्किनटिनावृनाथृवर्जम् ।
यो वलि लोपः ||६३॥
यकारस्य वलि परतो लोपो भवति । क्रोपयति पचेरन् । वलीति किम् ? क्नूय्यते । कथं जीरदानुरास्त्रेमाणमिति छान्दसो वर्णलोपः ।
वेरनचः ||६४ ||
वेरनच्कस्य लोपो भवति । द्विट घृतस्पृक् । अनच इति किम् ? दर्वि जागृवि ।
हलस्तिप्सिपः ||६५||
हल उत्तरस्य तिपः सिपश्वानच्कस्य लोपो भवति । अबिभर्भवान्, अजागर्भवान् । अभिनोऽत्र, अच्छिनोऽत्र । हल इति किम् ? अपचत् अपच । तिसिप इति किम् ? अभैत्सीत् । अनच इत्येव । जागर्ति । बिभेद ।
सोः ||६६||
हल उत्तरस्य सोरनच्कस्य लोपो भवति । राजा तक्षा । हे राजन्, हे तक्षन् । अनच इत्येव । राजसु ।
ड्यापो दीर्घात् ॥ ६७॥
ड्यन्तादाबन्ताच्च दीर्घात्परस्य सोर्लोपो भवति । कुमारी गौरी । खट्वा कारीगन्ध्या । ड्याप इति किम् ? ग्रामणी शुभया । दीर्घादिति किम् निष्कौशाम्बिः बहुखट्वः । अनच इत्येव । खट्वासु ।
एङ्हस्वात्सम्बुद्धावतः || ६८||
एडन्ताद्ध्कस्वान्ताच्च परस्य सोरतकारकस्य सम्बोधने लोपो भवति । हे अग्ने, हे वायो, हे ब्राह्मण, हे नदि । हे कुण्डेति परत्वादम्भावाल्लोपः। एङ्ह्रस्वादिति किम् ? हे श्रीः । सम्बुद्धाविति किम् ? वृक्ष । अत इति किम् ? हे कतरत् ।
ह्रस्वस्यातिङि पिति तुक् || ६९||
अतिङि पिति परतो हस्वान्तस्य वातोस्तुगागमो भवति । अग्निचित् सोमसुत् । प्रकृत्य प्रस्तुत्य । हस्त्रस्येति किम् ? आलूय । अतिङि पिनीति किम् ? पचति । अतिडीनि तिसदृगस्य साधनार्थस्य ग्रहणाद्विपि सुबादिषु च न भवति । अश्वति पटुयु पटुतम । ग्रामणिकुलमिति बहिरङ्गस्य ह्रस्व- स्यासिद्धत्वात्, वृत्रहकुलमिति नलोपस्यासिद्धत्वात्तुग् न भवति ।
छे ॥७०॥
छकारे परतो ह्रस्वस्य तुग् भवति । इच्छति गच्छति यच्छति 1 सहितायामिति न वक्तव्यमावारस्यौपश्लेपिकत्वात् ।
आङ्माङः ॥ ७१ ॥
छे परत आडो माङश्च तुग् भवति । आच्छायायाः । माच्छैत्सीत् । ङकार किम् ? आच्छाया आछाया । प्रमाच्छन्दः प्रमाछन्दः ।
दीर्घस्य ||७२ ||
दीर्घस्य च्छे परतस्तुग् भवति । ह्रीच्छति, म्लेच्छति ।
पदान्तस्य वा ॥७३॥
पदान्तस्य दीर्घस्य च्छे परतस्तुग् वा भवति । कुटीच्छाया कुटीछाया । कुवलीच्छाया कुवलीछाया ।
इको यणचि ॥७४॥
अचि य उपश्लिष्ट इक् तस्य यणादेशो भवति । दध्यत्र । मध्वत्र । कर्त्रर्थः ।
एचोऽयवायावः ॥ ७५ ॥
एचः स्थानेऽचि परतोऽय् अव् आय् आव् इत्येत आदेशा भवन्ति । चयनम् लवनम् चायकः लावकः ।
यि परेऽवावौ ||७६ ||
यकारादौ परे परत एचो यथास्वमवावौ भवत । गव्यम् नाव्यम् । यीति किम् ? गोभि । पर इति किम् ? गोयानम् नौयानम् । सप्तमीनिदेशादेव परत्वे सिद्धे परवचन प्रकृतिनिवृत्त्यर्थम् । अवावाविति किम् ? रैयति ।
धातोस्तत्रैव ॥७७॥
धातोर्य एच तत्रैव यकारादौ विहितस्तस्यैचो यथास्वमवावौ भवतः । लव्यम्, अवश्यलाव्यम् । धातोरिति किम् ? अवातोर्नियमो मा भूत् । तन्नियमे हि गव्यं नाव्यमिति न स्यात् । तत्रेनि किम् ? तत्राविहितस्य मा भूत् । उपोयते लौयमानि । एवकार इष्टतोऽवधारणार्थः । विपरीतावधारणे हि बाभ्रव्यो माण्डव्य इति न स्यात् । अवात्रावित्येव । चेयम् जेयम् ।
गव्यूतिरध्वमाने ॥७८॥
गव्यूतिरध्वपरिमाणे निपात्यते । गोयूतिरन्यत् । कथं शरव्यम् ? शरो शरार्थाद् यत् । शरान् व्ययतीति वा क. ।
शक्ये क्षिज्योरय् ॥ ७९ ॥
शक्येऽर्थे क्षिज्योरेचो यकारादावयादेशो भवति । शक्यः क्षेतुं क्षय्यः । शक्यो जेतु जय्यः । शक्य इति किम् ? क्षेयं पापम्, जेयो वृषलः । क्षिज्योरिति किम् ? शक्यश्चेतुम् चेयः ।
क्रियः क्रयार्थे ||८०||
क्रीणातेर्यकारादौ परत एचोऽयादेशो भवति, क्रयार्थेऽभिधेये । क्रय्यः पटः, क्रयार्थं यः प्रसारित । क्रयार्थ इति किम् ? क्रेयं नो धान्यं न चास्ति क्रय्यम् [महाभाष्यम् ] ।
द्वयोरेकः ॥ ८१ ॥
द्वयोर्निमित्तनिमित्तिनो पूर्वपरयोरेको भवतीत्येतदधिकृतं वेदितव्यम् । अन्तादिवद्भावो न वाच्यः । द्वादशान्यिक इति बह्वचपूर्वपदाट् ठच् [३|४| ६५ ] भविष्यति, समासे पूर्वोत्तरपदव्यपदेशस्य वाक्यापेक्षत्वात् । एतेन क्षीरपेणेति त्वमेकाची व्याख्यातम् । पिवन्तीति शिदाश्रयः पिबादेशो नाशिदाश्रयः प्रतिषेध । अभी अमू इत्यदस इत्वोत्वे कृतैकादेशस्यापि तद्वयपदेशात् । कार्येति स्वरितत्वमेकादेशाद्विप्रतिषेवेन । एवमुदके मिश्र इति गुडोदके पूर्वपदान्तोदात्तत्वम् । प्राटितेति प्रादिकारकोपपदादुत्तरपदप्रकृतिस्वरत्वम् । उत्तरपदादैच्च पूर्वैकामशमीति, नेन्द्रस्य परस्य [ ६ | १/३२ ] इति च ज्ञापकात् । अग्नी इति वायू इति द्विवचनान्तम् ईदूदन्तमचि न सन्धीयत एव, अत एवादिवद्भावानर्थक्यम् । वृक्षे पचे खट्वेति सुप्तिडाबन्ता एव । अद्याहत इति सस्कृतयो पदयोरुत्तरकालः पदसन्धिः । एवमद्यैहिष्टेति । धारय इत्यर्थत्वादेव बुत्पत्तिः । अन्तादिवद्भावे वा उपेयाजेति द्विरुक्तौ पूर्वस्य हस्वत्वं स्यात् । उपोह्यत इत्यूहे, अम्बात्र कुमारीदमिति सम्बुद्धौ, आराशस्त्रोदमिति नपुंसके, निष्कौशाम्बीदमित्युपसर्जनस्य ह्रस्वत्वं स्यात्, खट्वाभिरित्यतो भिस् ऐस् [ २|१|२ ] स्यात् । जुहावेति णल ओत्वम् [ १|४|१४ ] | अस्यै अश्वमित्येड् पदान्तात् [ पा० ६ |१| १०९२ ] इति परपूर्वं स्यात् । षत्वतुकोरसिद्ध [ पा० ६ | १|८६ ] इत्यपि न वाच्यम् । कोऽसिचदिति बहिरङ्गत्वादसिद्धत्वम्, अधीत्येति द्विपदाश्रयत्वात् । तद्वचने वा शक्षु परिवीष्विति षत्व न स्यात्, वृक्षे छत्रम् अपचे छत्रमिति तुम्विकल्पो न स्यात् ।
आददेङ् ||८२ ॥
अवर्णात्परो योऽच्, अचि च पूर्वं यदवर्णम्, तयोर्द्वयोरेकोऽद् भवति, एङ् च । तत्र प्रत्यासत्तेरवर्णेवर्णयोरेकारः । तवेदम् खट्वेयम् । तवेहते खट्वेहते । अर्णोवर्णयोरोकार | नवोदकम खट्वोदकम् । तवोहते खट्वोहते’ । पाणामकार । तवर्षि वर्षि तवल्कार खट्वकार ।
अवर्णे दीर्घं वक्ष्यति [ १०६ ], एच्यादैचम् [ ८४ ] | अचीत्यनुवृत्तेर्न व्यञ्जनस्य । आदिति किम् दधदम् । तपर किम् ? द्विमात्रबहुमात्राणा स्थानिना स्थाने द्विमात्र बहुमात्रा आदेशा मा भूवन्निति ।
आदैजेवाद्यटः || ८३ ||
पदादेरटः परो योऽच्, तस्माच्च पूर्वो योऽट्, तयोर्द्वयोरेक आद् भवति, ऐच्च । आर्ध्नोत् ऐक्षत औम्भीत । एवकारादादैजेव भवति, ओमाडो, उस्यनादौ, अतोऽदेडि [ ५/१/९९ १०१] इति पररूपं न भवति । ओङ्कारमैच्छत् औङ्कारीयत् । आ ऊढा ओढा, तामैच्छत् औढीयत् । आ उस्रा ओस्रा, ओस्रामैच्छत औस्रीयत । आटीत् आसीत् । आदिग्रहणं किम् ? अस्वपोऽत्र । आयन् आसन् इत्यन्तरङ्गत्वादेकादेशः ।
एचि ॥८४॥
एचि पूर्वो यदवर्णः तस्माच्च परो य एच् तयोर्द्वयोरेक ऐज् भवति । ब्रह्मैडका खट्वैडका, ब्रह्मौदनः खट्वौदनः, ब्रह्मतिकायतः खट्वैतिकायनः, ब्रह्मौपगवः खट्वौपगवः । वृक्ष भवत्यै खट्वायै सरस्यै । आदित्येव । ढध्येतत् ।
इणेधोः ||८५ ॥
एत्येधत्योर्य एच् ततः पूर्वः यदवर्णः तस्माच्च परो य एच् तयोरेक ऐज भवति । उपैति उपैषि उपैमि उपैधते । एचीत्येव । उप इतः उपेत ।
ऊठि || ८६||
ऊठि पूर्वो यदवर्णः तस्माच्च परो य ऊठ् तयोर्द्वयोरेक ऐच् प्रत्यासन्नो भवति । धौतः धौतवान् ।
अक्षादुहिन्याम् ||८७॥
अक्षशब्दादृहिन्या परतो द्वयोरेक ऐज् भवति । अक्षौहिणी ।
स्वादीरेरिणोः ||८८ ||
स्वशब्दादीरेरिणो परतो द्वयोरेक ऐज् भवति । स्वैरः स्वैरी । इनिना सिद्धे पृथग्वचनमेङ्निवृत्त्यर्थम् ।
प्रादुढोढ्येषैष्येषु ॥ ८९ ॥
प्रशब्दादूढादिषु परतो द्वयोरेक ऐज् भवति । प्रौढः प्रौढिः, प्रैषः प्रैष्यः । प्रादिति किम् ? उपोढः । एङि पररूपे [९५] ‘प्राप्ते वचनम् ।
ऋते तृतीयासमासे ॥९०॥
ऋते परतोऽवर्णात् तृतीयासमासे द्वयोरेक आदैज् भवति । सुखार्तः दु.खार्तः । ऋत इति किम् ? सुखेत । तृतीयाग्रहणं किम् ? परमर्तः । समास इति किम् ? सुखेनर्तः ।
प्रदशर्णवसनकम्बलवत्सरागणे ॥९१॥
प्रादिभ्य ऋणे परतो द्वयोरेक आदैज् भवति । प्रार्णम् दशार्णम् ऋणार्णम् वसनार्णम् कम्बलार्णम् वत्सरार्णम् ।
ओतोऽम्शसोरात् ||९२||
ओतोऽम्शसो परतो द्वयोरेक आद् भवति । गां पश्य, गाः पश्य ।
द्यां पश्य, द्याः पश्य । अमिति द्वितीयैकवचनं गृह्यते शस्साहचर्यात् । इह न भवति — अचिनवम् असुनवम् ।
प्रादीनामृति धातौ ॥९३॥
प्रादीनामवर्णान्तानामृकारादौ धातौ परतो द्वयोरेक आद् भवति ।
प्रार्छति उपार्छति । प्रार्ध्नोति उपार्ध्नोति । प्रादीनामिति किम् ? खट्वर्छति । ऋतीति किम् ? उपेतः । तपर इति किम् ? ऋकारात् क्यचि, उपर्कारीयतीति परेण विकल्पो मा भूत् । प्रादीनां क्रियायो गित्वाद् यत्क्रियायुक्तास्तत्र विधिः । इह न भवति । प्रगता ऋच्छका अस्माद्देशात् प्रार्छको देशः । उत्तरत्र सुब्ग्रहणादिह धातौ सिद्धे धातुग्रहणं पक्षे हस्वनिवृत्त्यर्थम् ।
वासुप्य्ऌति च ॥ ९४ ॥
सुब्धातावृकारादावऌकारादौ च परतः प्रादीनामवर्णान्तानां द्वयोरेक आद् वा भवति । उपाल्कारीयति उपकारीयति । उपार्षभीयति उपर्षभीयति।
एङि पररूपम् ||९५ ||
एङादौ धातौ परतः प्रादीनामवर्णान्तानां द्वयोरेक पररूपो भवति । उपेलयति प्रेलयति । उपोखति प्राखति । वा सुपीत्येव । उपेकीयति उपैकीयति । उपोदनीयति उपौदनीयति ।
अनियोग एवे || ९६ ||
एवे परतोऽकारस्य नियोगादन्यत्र पररूपं भवति । अद्येव इहेव । अनियोग इति किम् ? इहैव तिष्ठ, मा गाः ।
ओष्ठोत्वोः समासे वा ॥ ९७॥
ओष्ठ ओतौ च परतोऽवर्णस्य समासे पररूपं वा भवति । स्थूलोष्ठः स्थूलौष्ठः । स्थूलोतु स्थूलौतु । समास इति किम् ? हे देवदत्तौष्ठं पश्य ।
शकन्ध्वादयः ॥ ९८॥
शकन्ध्वादय कृतपररूपा साधवो भवन्ति । शक अन्धु शकन्धुः । कुल अटा कुलटा । सीमन्तः केशेषु । केशेष्विति किम् ? ग्रामसीमान्तः । तुन्वोर्वकारादावसख्ये पररूपं न वक्तव्यम्, तु वै वै नु वै न्वै इति, असख्यान्तरत्वात् । आकृतिगणत्वात् पिनद्धादयः ।
ओमाङोः ॥ ९९ ॥
ओनाङोः परतोऽवर्णस्य पररूपं भवति । का ओमित्यवोचत् कोमित्यबोचत् । आ ऊढा ओढा, अद्य ओढा अद्योढा । आ ऋश्यात् अर्श्यात्, अद्य अर्श्यात् अद्यर्श्यात् । दीर्घस्यापवादः | आङि पररूपवचनं ज्ञापकमन्तरङ्गबलीयस्त्वस्य ।
उस्यनादौ ॥ १०० ॥
उस्यपदादौ परतोऽवर्णस्य पररूपं भवति । भिन्द्युः छिन्द्युः । अनादाविति किम्? का उस्रा कोस्रा । का उषिता कोषिता । आदित्येव । चक्रुः ।
अतोऽदेङि ॥ १०१ ॥
अकारस्यात्येङि चापदादौ परतः पररूपं भवति । पचन्ति पचे | अत इति किम्? यान्ति । अदेङिति किम् ? वृक्षे । अनादावित्येव । दण्डाप्रम् |
अव्यक्तानुकरणस्यानेकाचोऽत इतौ ॥ १०२ ॥
अव्यक्तस्य यदनुकरणमनेकाच् तदीयस्याच्छब्दस्येतौ परतः पररूपं भवति । पटत् इति पटिति । घटत् इति घटिति । अव्यक्तानुकरणस्येति किम् जगदिति । अनेकाच इति किम् ? श्रद् इति । अत इति किम् ? मरडिति । तकार किम्? ऋणदिति दकारान्तस्य मा भूत् । इताविति किम् ? पटदत्र |
न द्वित्वे || १०३ ||
द्विर्वचने सत्यव्यक्तानुकरणस्य योऽच्छब्दस्तस्येतौ पररूपं न भवति । पटत्पटदिति करोति । आभीक्ष्ण्ये द्विर्वचनम् । समुदायानुकरणस्य तु न प्रतिषेधः । पटत्पटिति करोति ।
तो वा ॥ १०४ ॥
द्वित्वे सति तकारस्येतौ परतः पररूपं वा भवति । पटत्पटदिति
पटपटेति ।
डाचि पूर्वस्य ॥ १०५ ॥
डाचि परतोऽव्यक्तानुकरणस्य द्वित्वे सति पूर्वस्य तकारस्य पररूपं भवति । पटत्पटाकरोति दमदमाकरोति ।
अकोऽकि दीर्घः ॥ १०६॥
अकोऽकि परतो द्वयोरेको दीर्घो भवति । दण्डाग्रम्, दधीन्द्रः मधूष्ट्रः । अक इति किम् ? गायति । अकीति किम् ? दध्येतत् ।
ऋत्यृत ऋर्वा ॥ १०७ ॥
ऋति परत ऋतो द्वयोरेक ऋ भवति, दीर्घो वा । होतृ ऋकार:
होतृकारः होतॄकारः ।
लति लः || १०८ ||
ऌति परत ऋकारस्य द्वयोरेक ऌ भवति, दीर्घो वा । होतृऌकार: होत्ऌकारः होतॄकारः । ऌवर्णस्य दीर्घाभावादृतश्च दीर्घासम्भवादुकारः ।
प्रथमयोरचि ॥ १०९ ॥
प्रथमयोर्विभक्त्योरजाद्योः परतोऽको यो दीर्घः स द्वयोरेको भवति । अग्नी वायू वृक्षाः । प्रत्यासत्तेर्न व्यतिकरः । प्रथमयोरिति किम् ? अग्न्योः वाय्वोः | अचीति किम् ? वृक्षः अग्निः । अक इत्येव । नावौ नावः |
ततः शसो नः पुंसि ॥ ११० ॥
तस्माद्दीर्घो भूतात्परस्य शसोऽवयवस्य पुंसि नकारो भवति । वृक्षान् अग्नीन् वायून् कर्तॄन् । पण्डकान् पण्डकान् । तत इति किम् ? एतान् गाः पश्य । शस इति किम् ? वृक्षाः | पुसीति किम् ? कुमारी वधूः ।
नादिचि ॥ ११९॥
अवर्णादिचि परतः प्रथमयोर्द्वयोरेको दीर्घो न भवति । वृक्षौ खट्वे कुण्डे सर्वे । आदिति किम्? अग्नी । इवीति किम्? वृक्षाः ।
दीर्घाञ्जसि च ॥ ११२ ॥
दीर्घाजसीचि च परतः प्रथमयोर्द्वयोरेको दीर्घो न भवति । कुमार्यौ
कुमार्य, वध्वौ, वध्वः
अमि पूर्वः ॥ ११३ ॥
अमि परतोऽको द्वयोरेकः पूर्वो भवति । वृक्षम् अग्निम् वायुम् खट्वाम् कुमारीम् वधूम् । अक इत्येव । नावम् ।
यणिकः ॥ ११४ ॥
यण स्थाने य इक् तस्मात्परः पूर्वो भवति । इष्टम् उप्तम् गृहीतम् । यण इति किम् ? शकह्वर्थः परिव्यर्थः । इकः स्थाने हि दीर्घत्वम् ।
एङोऽति पदादौ ॥ ११५ ॥
एडः पदादावति परतो द्वयोरेकः पूर्वो भवति । अग्नेऽत्र वायोऽत्र । एङ इति किम् ? दध्यत्र । अतीति किम् ? वायविति । तपरः किम् ? वायवायाहि । पदादाविति किम् ? चयनम् लवनम् ।
ङसिङसोः ॥ ११६॥
ङसिङसोरति परत एङो द्वयोरेकः पूर्वो भवति । अग्नेरागच्छति, अग्ने स्वम् । वायोरागच्छति, वायो स्वम् ।
ऋत उत् ॥ ११७ ॥
ऋतो ङसिङसो परतो द्वयोरेक उद्भवति । कर्तुरागच्छति, कर्तुः स्वम् । उभयो स्थाने यो भवति लभतेऽसावन्यतरव्यपदेशमिति रपरत्वम् ।
सख्युः पत्युः ॥ ११८ ॥
सखिपतिभ्यां ङसिङसोरिदं रूपं निपात्यते । सख्युरागच्छति, सख्युः स्वम् । पत्युरागच्छति, पत्युः स्वम् । अथवा सखीयते क्विवन्तस्य सख्युरिति निपात्यते, पतीयते पत्युरिति । केवलस्य निपातनात्तदन्तस्य न भवति । अतिसखे अतिपते । येषां ख्यत्यात् परस्य [पा० ६।१।११२, स०६।१।१३३] इति सूत्रं तेषामिहैव स्यात् सख्यात् गार्हपत्यादिति साच्कस्य श्रवणात् । अनच्कव्याख्यानेऽपि लूनीयते किपि लून्युरिति न भवितव्यमेव, त्यशब्दस्याश्रवणात् । असिद्धत्वात् सिद्धमिति चेत्, न, बहिरङ्गत्वादीत्वयणादेशयोरप्यसिद्धेः ।
हशि चातो रोः ॥ ११९||
हश्यति च परतोऽतः परस्य रोरुकारो भवति । देवो हसति, देवो याति । देवोऽत्र । हशि चेति किम् ? देव इह । अतीति तपरत्वादिह न भवति । देव आश्रयः । पय आ३ग्निदन्त । अत इति किम् ? अग्निर्याति वायुरत्र । तपरः किम् ? मेघा यान्ति । वृक्षा अत्र | सुस्रोता३ अत्र न्वसि । स्वरसन्धिप्रतिषेधात् प्लुतस्य सिद्धत्वम् ।
गोरो वा ॥ १२० ॥
गोशब्दस्याति परत ओकारो वा भवति । गोऽयम् गोअग्रम् ।
अच्यवङ् ॥ १२१ ॥
अचि परतो गोरवङादेशो वा भवति । गवाग्रम् गोऽग्रम् गोअग्रम् । गवाजिनम् गोऽजिनम् गोअजिनम् । गवोष्ट्रौ गवुष्ट्रौ । गवौदनम् गवोदनम् ।
अक्षेन्द्रे ॥ १२२॥
अक्षे इन्द्रे च परतो गोरवङ् भवति नित्यं पुनर्विधानात् । गवाक्षः,गवेन्द्रः।
न प्लुतोऽनितौ ॥ १२३ ॥
प्लुतोऽनितावचि न सन्धीयते । देवदत्ता३ अत्र । यज्ञदत्ता३ इदम् । अनिताविति किम् ? सुश्लोका३ इति सुश्लोकेति ।
कचिद्वा ॥ १२४ ॥
प्लुतः कचिद्वा न सन्धीयते । अस्तु ही३ इत्यब्रवीत् । अस्तु हीत्य ब्रवीत् । चिनु ही३ इदम्, चिनु हीदम् । वशा३ इयम् वशेयम् ।
ईदृद्देद्द्द्विवचनम् ॥१२५॥
ईदन्तमूदन्तमेदन्तं च द्विवचनान्तमचि परतो न सन्धीयते । अग्नी इति । वायू इति । कुण्डे इति । खट्वे इति । पचेते इति । पचेथे इति । ईदूदेदिति किम् ? वृक्षावत्र | द्विवचनमिति किम् ? कुमार्यत्र ।
अमू अमी || १२६ ||
एतौ शब्दावचि न सन्धीयेते । अमू अत्र । अमी अत्र ।
अजनाङ् ॥१२७॥
आङोऽन्यो योऽच् तदचि न सन्धीयते । अ अपेहि । इ इन्द्रम् | उ अपकस । आ एवं नु मन्यसे । आ एव किल तत् । अनाङिति किम् ? आ उदकान्तात् ओदकान्तात् । आसदृशस्यासंख्यस्य ग्रहणादिह न भवति । चकारात्र । जानु उ अस्य रुजति, जान्वस्य रुजतीति कृतैकादेशस्य शब्दान्तरत्वाद् यणादेशः ।
ईपदर्थं क्रियायोगे मर्यादाभिविधौ च य ।
एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित् ॥ [भाष्यम्१|१|११]
ओत् ॥ १२८॥
ओदन्तमचि न सन्धीयते । अहो इति, उताहो इति । आङ्सदृशस्य प्रस्तावादिह न भवति । गो अजिनम् गोऽजिनम्, गो इति गविति ।
सौ वेतौ ॥१२९॥
सावकार इतौ परतो वा न सन्धीयते । भानो इति भानविति । पटो इति पटविति । साविति किम् ? गवित्ययमाह । इताविति किम् ?
उञ् ॥ १३० ॥
उञ् इतौ परतो वा न सन्धीयते । उ इति विति ।
ऊँ ॥ १३१ ॥
ऊँ इत्ययमादेश उञो वा भवति, न च सन्धीयते । ऊँ इति,उ
इति, विति ।
इकोऽसस्थाने ह्रस्वश्वासमासे ॥ १३२ ॥
इकोऽसमानस्थाने वर्णे परतोऽसमासे ह्रस्वो वा भवति न च सन्धीयते । कुमारि अत्र कुमार्यत्र । दधि अत्र दध्यत्र । मधु अत्र मध्वत्र । इक इति किम् ? खट्वेन्द्रः । असस्थान इति किम् ? कुमारीन्द्रः | असमास इति किम् ? वाप्यश्व । ह्रस्ववचनात् सिद्धेः स्वरसन्धिप्रतिषेधस्यापूर्वस्य विधानात्प्लुतादिषु न ह्रस्वत्वम् । हे कुमारी३ अत्र । अग्नी अत्र !
ऋद्ऌत्यकः ॥ १३३॥
ऋति ऌति च परतोऽको ह्रस्वो वा भवति, न च सन्धीयते । खट्वऋश्यम् खट्वर्श्यम्। खट्वऌकारः खट्वल्कारः । ऋद्ऌतीति किम्? खट्वौदनः । अक इति किम् । वटो ऋक्ष वटवृक्षः |
एतत्तदोः सुलोपो कोरनञ्समासे हलि ॥ १३४ ॥
एतत्तदयावककारको तयोर्हलि परतः सुलोपो भवति, नञ्समासे चेन्न वर्तेते । एष ददाति, एष भुङ्क्ते । स ददाति स भुङ्क्ते । एतत्तदोरिति किम् ? यो ददाति यो भुङ्क्ते । सुग्रहणं किम्? एतौ गच्छतः, तौ गच्छतः । अकोरिति किम् ? एषको ददाति, सको ददाति । अनञ्समास इति किम् ? अनेषो ददाति असो ददाति । हलीति किम् ? एषोऽत्र, सोऽत्र ।
दिवोऽन्ते चोत् ॥ १३५॥
दिवः पदान्ते वर्तमानस्य हलि च परत उत्वं भवति । द्युकामः द्युमान् शुभ्याम् द्युभिः विमलद्युः अह । अन्ते चेति किम्? दिवौ दिवः । निरनुबन्धकग्रहणादिह न भवति । अक्षद्यूभ्याम् अक्षद्युभिः । तपरत्वमूडभावार्थम्।
सम्परेः कृञः सुट् ॥ १३६॥
सपरिभ्यां परस्य करोतेः सुडागमो भवति । सस्करोति संस्कृतम् संस्कारः । परिष्करोति परिष्कृतम् परिष्कारः । सञ्चस्करतु सञ्चस्करुरिति द्विर्वचनात् सुट्परत्वात् । समस्करोत् समस्कार्षीदित्यतः सुङन्तरङ्गत्वात् । पूर्वं हि धातुः प्रादिभिर्युज्यते पश्चात् साधनेन । सकृतिरिति गर्गादिपाठात् [२|४|२४] सिद्धम् । सङ्कारः सङ्कर इति किरतेर्घञपौ बहुलाधिकारात् [१|१|१०३] |
उपाद् भूषणसमवाययत्न वैकृताध्याहारेषु || १३७ ||
उपात्परस्य करोतेर्भूषणादिष्वर्थेषु सुड् भवति । उपस्करोति कन्याम् । तत्र न उपस्कृतम् । काण्डो गुणस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । सोपस्कारं सूत्रम् । एतेष्विति किम् ? उपकरोति ।
किरो लवने ॥ १३८ ॥
उपात्परस्य किरतेर्लवनविषये सुड् भवति । उपस्कार मद्रका लुनन्ति । विक्षिप्य लुनन्तीत्यर्थः । णमुल् बहुलाधिकारात् [१|१|१०३ ] | लवन इति किम् ? उपकिरति ।
हिंसायां प्रतेश्व ॥ १३९ ॥
प्रतेरुपाच्च परस्य किरतेर्हिंसायां गम्यमानायां सुड् भवति । प्रतिस्कीर्णं ते वृषल भूयात् । उपस्कीर्णो ह ते वृषलो भूयात् । हिंसायामिति किम् ? प्रतिकीर्णम् उपकीर्णम् ।
अपाञ्चतुष्पाच्छकुनिपु हृष्टान्नकुलायार्थिषु ॥ १४० ॥
अपात्परस्य किरतेश्वतुष्पाच्छकुनिषु हृष्टेष्वन्नार्थिषु कुलायार्थिषु च वर्तमानस्य सुड् भवति । अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते वा निवासार्थी । चतुष्पाच्छकुनिष्विति किम् ? अपस्किरति मल्लो हृष्टः । हृष्टादिष्विति किम् अपकिरति श्वौदनपिण्डमाशित ।
अपरस्पराः सातत्ये ॥ १४१ ॥
अपरस्परा इति सातत्ये गम्यमाने निपात्यते । अपरस्परा स्वार्था गच्छन्ति । सार्थानां गतिविशिष्टानामत्र सातत्यम् । क्रियाविशेषणे तु अपरस्परं गच्छन्ति । सातत्य इति किम् ? अपरपरा ब्राह्मणा भोज्यन्ताम् । अपरे च परे च । कथं परस्परमिति । व्यतिहारे सर्वादीनां सुर्बहुलम् [ ६/३/९] इति द्विवम् । पूर्वस्य कस्कादित्वात् [६/४/४५ ] सत्वम् ।
पारस्करादीनि नाम्नि ॥ १४२ ॥
पारस्करादीनि शब्दरूपाणि सज्ञायां निपात्यन्ते । पारस्करो देशः । कारस्करो वृक्षः । अवस्करो वर्चस्कम् । अपस्करो रथाङ्गम् । रथष्पा नदी। आस्पदं प्रतिष्टा । गोष्पदम् अल्पम् । योऽपि गोभिः सेवितो गोष्पदो देशस्तत्रापि ग्रामसामीप्यादध्वनोऽल्पत्वं गम्यते । यत्पुनर्गोभिरसेवितमगोष्पदमरण्यम् तत्रापि दूरत्वादध्वनोऽल्पत्वं न गम्यते । गोष्पदमात्रं क्षेत्रम्, गोष्पदपुरो वृष्टो देव इत्यल्पत्वमेव गम्यते । अल्पमिति किम् ? गोपदम् । किष्कु प्रमाणम् । किष्किन्धा गुहा । तस्करश्चौरः । बृहस्पतिर्देवता । वनस्पतिरपुष्पतरुः | प्रस्तुम्पति गौः प्रतुम्पयन्यः । कुस्तुम्बुरु धान्यकम् । धान्यकमिति किम् ? कुत्सितानि तुम्बुरूणि कुतुम्बुरुणि धान्यकसदृशानि । आश्चर्यमद्भुतम् । विष्किरः शकुनिर्विकिरो वा । प्रतिष्कशः सहायो वार्त्तिकोऽग्रगामी वा । प्रस्कण्वहरिश्चन्द्रावृषी । ऋषी इति किम्? प्रकण्वो देशः । हरिचन्द्रो माणवकः । मस्करमस्करिणी वेणुपरिव्राजकौ । मकरो मकरी चान्यः । कास्तीराजस्तुन्दे नगरे | कातीरमजतुन्दः चान्यत् । प्रायश्चित्त-प्रायश्चित्ती । आकृतिगणोऽयम् ।
इति चान्द्रे व्याकरणे पञ्चमाध्यायस्य प्रथमः पादः समाप्तः ।