बह्वल्पार्थात् कारकान्मङ्गले शस् वा ॥ १ ॥
बदल्पार्थाच्च कारकान्मङ्गलवचने गम्यमाने शस् वा भवति । बहु देहि, बहुशो देहि । प्रभूतं देहि, प्रभूतशो देहि । अल्प देहि, अल्पशो देहि । स्तोकं देहि, स्तोकशो देहि । बहुभिर्देहि, बहुशो देहि, अल्पशो देहि । बहुभ्यो देहि, बहुशो देहि, अल्पशो देहि । बहुषु देहि, बहुशो देहि, अल्पशो देहि । बह्वल्पार्थादिति किम् ? गा देहि । कारकादिति किम् ? बहूना स्वामी । मङ्गल इति किम् ? बहूनि श्राद्धानि देहि । अल्प- माभ्युदयिकं देहि ।
संख्यैकार्थाद्वीप्सायाम् || २ ||
संख्याया एकार्थाच्च वीप्सायां गम्यमानायां शस् वा भवति । द्वौ द्वौ देहि, द्विशो देहि । त्रिशो देहि । गणशः कतिशः तावच्छः । माषं माषे देहि, माषशो देहि । सङ्घशः पूगशः वृन्दशः । क्रमश इति क्रमवतां भेदात् क्रमभेदः । वीप्सायामित्येव सिद्धम् । संख्यैकार्थादिति किम् ? माषौ माषौ देहि । वीप्सायामिति किम् ? द्वौ देहि । कारकादित्येव । द्वयोर्द्वयो स्वामी ।
संख्यादेर्वुन् ॥ ३ ॥
सख्यादेर्वीप्सायां वुन् वा भवति । द्वौ द्वौ पादौ ददाति द्विपादिकां ददाति । द्विशतिकां ददाति । द्विमोदकिकां ददाति । वीप्सायामित्येव । द्वौ पादौ ददाति । व्यवस्थितविभाषया कचिन्न भवति । द्वौ द्वौ माषौ ददाति ।
दण्डदानयोः ॥ ४ ॥
दण्डे दाने च गम्यमाने संख्यादेर्वुन वा भवति । द्विपदिकां दण्डितः । द्विशतिकाम् । द्विमोदकिकाम् । द्विपदिकां ददाति । द्विशतिकाम् । द्विमोदकिकाम् । व्यवस्थितविभाषया क्वचिन्न भवति । द्वौ माषौ दण्डितः |
वारसंख्यायाः कृत्वसुच् ॥ ५ ॥
वारसम्बन्धिन्या सख्यायाः कृत्वसुज् भवति वा । पञ्च वारान् भुङ्क्ते पञ्चकृत्वोऽह्नो भुङ्क्ते । षट्कृत्वः । गणकृत्वः । कतिकृत्वः । तावत्कृत्वः । वारग्रहणं किम् ? पञ्च भुङ्क्ते । संख्याया इति किम् ? प्रभूतान् वारान् भुङ्क्ते ।
बहोर्धा चाविप्रकर्षे ॥ ६ ॥
वारसम्बन्धिन्या बहुसंख्याया धा भवति, कृत्वसुच् च, वाराणां चेदविप्रकर्षो भवति । बहुधा दिवसस्य भुङ्क्ते बहुकृत्वः | अविप्रकर्ष इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते ।
द्वित्रिचतुरः सुच् ॥ ७ ॥
व्यादिभ्यो वारसम्बन्धिभ्यः सुज् वा भवति । द्वौ वारौ भुङ्क्ते द्विर्भुङ्क्ते । त्रिर्भुङ्क्ते । चतुर्भुङ्क्ते ।
सकृत् ॥ ८ ॥
एकं वारमित्यस्मिन्नर्थे सकृदिति वा निपात्यते । एकं वार भुङ्क्ते सकृद् भुङ्क्ते ।
प्रकृते मयट् ॥ ९ ॥
प्रकृते वर्तमानान्मयड् वा भवति । अन्नं प्रकृतम् अन्नमयम् । यवागूमयम् । यवागूमयी । कथम् अन्नमयो यज्ञ वटकमयी यात्रेति? तत्प्राधान्यविवक्षाया तस्य विकार [३|३|१०३] इत्येव सिद्धम् । यथा श्रद्धामयोऽयं पुरुष [गीता १७| ३] इति । कथम् – अपूपा प्रकृता आपूपिकम्, अपूपाः प्रकृता अस्मिन्नापूपिको यज्ञ इति । तस्य समूह [३|१|४३] इत्येव सिद्धम् । यज्ञादिषु लोकतो लिङ्गम्, अर्शआदित्वाद् [ ४/२/१४७ ] अज् वा ।
अनन्तावसथेतिहभेषजाञ् ञ्यः ॥ १० ॥
अनन्तादिभ्य स्वार्थे ञ्यो वा भवति । अनन्त एव आनन्त्यम् । आवसथ एव आवसथ्यम् । इतिहैव ऐतिह्यम् । भेषजमेव भैषज्यम् ।
तीयादीकग् न विद्या चेत् ॥ ११ ॥
तीयान्तात् स्वार्थ ईकग् वा भवति, विद्या चेत्सा न भवति । द्वैतीयीकम् द्वितीयम् । तार्तीयीकम् तृतीयम् । न विद्या चेदिति किम् ? द्वितीया विद्या तृतीया विद्या ।
यावादिभ्यः कन् || १२ ||
यावादिभ्यः स्वार्थे कन् वा भवति । याव एव यावकः । मणिरेव मणिकः ॥ याव | मणि । अस्थि । चन्द्र । पीत । स्तब्ध । ऋतावुष्णशीते । पशौ लूनवियाते । अणु निपुणे । पुत्र कृत्रिमे । पुण्य । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे । बृहती आच्छादने । ईयसश्च ।। ज्ञातः । अज्ञातः । कुमारीक्रीडनकानि च । आकृतिगणोऽयम् । अविकः । अभिन्नतरकन् ।
लोहितान्मणौ ॥ १३ ॥
लोहितान्मणौ वर्तमानात् कन् वा भवति । लोहितको मणिः, लोहितः । मणाविति किम् ? लोहितो गौः ।
रक्तानित्ययोः ॥ १४ ॥
रक्तेऽनित्ये च वर्तमानाल्लोहितात् कन् वा भवति । लोहितकः लोहितः । कुसुम्भादिना रक्तः पटः लोहितकः । कोपेन लोहितकः । लोहितिका शाटी लोहिता वा । लिङ्गविशिष्टस्यापि ग्रहणाद् यदा लोहिनी- शब्दात् कन् तदा लोहिनिका लोहिनी वा । रक्तानित्ययोरिति किम् ? लोहितं रुधिरम् ।
कालात् ॥ १५ ॥
रक्तानित्ययोर्वर्तमानात् कालात् कन् वा भवति । कालकः कम्बलः कालः । कालकः शोकेन ।
क्तादनात्यन्तिके ॥ १६ ॥
कान्तादनात्यन्तिके वर्तमानात् कन् वा भवति । अनत्यन्तं भिन्नः भिन्नकः । छिन्नकः। अनात्यन्तिक इति किम् ? भिन्नः छिन्नः । सामिकृतमिति शब्दान्तरेणाभिधानात् कन् न भवति । ब्राह्मणजातीयः क्षत्रियजातीय इति जातीयरा [ ४ | ३ | २६ ] सिद्धम् । सामान्यस्य हि भेदको विशेषः प्रकारः । पितुरिव स्थानीयमस्य पितृस्थानीयः पितृस्थानम् इत्यर्थः । पितरीव वा स्थानीयमस्मिन् सगौरवं पितृस्थानीयः । पुत्र इव स्थानीयमस्मिन्निर्यन्त्रणम् पुत्रस्थानीयः ।
विनयादिभ्यष्ठक् ॥ १७ ॥
विनयादिभ्यः स्वार्थे ठग् वा भवति । विनय एव वैनयिकः । सामयिकः ॥ विनय । समय । उपायादुद्भ्रस्वत्व च । सङ्गति । अकस्मात् | उपचार | समाचार | व्यवहार | सम्प्रदान । समुत्कर्ष । समूह । विशेष । अत्यय | अनुगादिन् ।
वाचः सन्देशे ॥ १८ ॥
सन्देशे वर्तमानाया वाचष्टग् भवति । वाचिकं कथयति । ठका विना सन्देशवृत्त्यभावान्नित्यो विधिः | सन्देश इति किम् ? वाक् ।
तथा कर्मणोऽण् ॥ १९ ॥
यथा सन्देशे तथा कर्मणोऽण् भवति । कार्मणम् । वशीकरणमपि वृद्धसन्देशात् क्रियत इति तदपि कार्मणम् ।
ओषधेरजातौ ॥ २० ॥
ओषघेरजातौ वर्तमानाया अण् भवति । औषधम् । अजाताविति किम् ? ओषधिः ।
णजिनुणः ॥ २१ ॥
णजन्तादिनुणन्नाच्च स्वार्थेऽण् भवति । व्यावक्रोशी | व्यावचर्ची । साकूटिनं वर्तते । साराविणम् ।
प्रज्ञादिभ्यो वा ॥ २२ ॥
प्रज्ञादिभ्य स्वार्थेऽण् वा भवति । प्रजानातीति प्रज्ञ, स एव प्राज्ञः । मत्वर्थीयेन सिद्धे डीबर्थं वचनम् । प्राज्ञी स्त्री । वणिक् वाणिज् ॥ प्रज्ञ | वणिज् | उशिज् । उष्णि । प्रत्यक्ष । विदन्। षोडन् । विद्या | मनस् । जुहृत् । विसारिन् मत्स्ये । श्रोत्र शरीरे । कृष्ण मृगे । चिकीर्षित’ । चोर । शत्रु | धूर्त | योध । चक्षुस् । वसु । मरुत् । क्रुञ्च् । सत्वन् । दशार्ह । वयस् । असुर । रक्षस् । पिशाच । अशनि । देवता । बन्धु । आकृति- गणोऽयम् । वैकृत । वैयात । सान्तपन । आनुष्टुभम् । जागतम् । आग्नी- ध्रम् । साधारणम् । आग्रयणम् इति शकन्ध्वादित्वात् पररूपत्वञ्च | आग्रहायणमित्याग्रहायण्याष्ठक् [३|१|१९] इति निपातनात् ।
मृदस्तकिन्॥ २3॥
मृदस्तकिन् भवति। मृत्तिका मृत्।
सत्रौ स्तुतौ ॥ २४ ॥
मृदँ प्रशंसायां सस्नौ वा भवत । मृत्सा मृत्स्ना मृद्रूपा ।
नामरूपाद् धेयः || २५ ||
नामरूपाभ्यां स्वार्थे धेयो वा भवति । नाम नामधेयम् । रूपम्
रूपधेयम् ।
भागाद् यच्च ॥ २६ ॥
भागाद् यद् भवति धेयश्च । भाग्यानि भागधेयानि ।
सूरमर्तक्षेमयविष्ठात् ॥ २७ ॥
सूरादिभ्यो यद् वा भवति । सूरः सूर्यः । मरः मर्त्यः । क्षेमः
क्षेम्यः । यविष्ठः यविष्ठयः ।
नवात् ॥ २८ ॥
नवाद् यद् वा भवति । नवम् नव्यम् ।
त्नप्तनखा नू च ॥ २९ ॥
नवात् त्नप्तनखाः परे भवन्ति, नू चास्यादेशः । नूनम् नूतनम् नवीनम् ।
प्रात् पुराणे नश्च ॥ ३० ॥
प्रशब्दात् पुराणे वर्तमानान्नो भवति, त्नप्तनखाश्च । प्रणम् प्रत्नम् प्रतनम् प्रीणम् ।
देवतान्तात् तदर्थे यत् ॥ ३१ ॥
देवतान्तात् तदर्थेऽभिधेये यद् भवति वा । अग्निदेवतार्थमिदम् अग्निदेवत्यम् । पितृदेवत्यम् । अत एव निपातनात्, सास्य देवता [ ३|१|२१] इति वा, देवतेति सिद्धम् ।
अर्घात् ॥ ३२ ॥
अर्घात् तदर्थे यद् वा भवति । अर्घार्थम् अर्घ्यम् ।
पाद्यम् ॥ ३३ ॥
पादार्थेऽभिधेये पाद्यमिति निपात्यते ।
अतिथेर्ण्यः ॥ ३४ ॥
अतिस्तदर्थे ण्यो भवति । अतिथ्यर्थम् आतिथ्यम् ।
अभूततद्भावे कृभ्वस्तियोगे विकाराच् च्विः ॥ ३५ ॥
अवस्थावतोऽवस्थान्तरेणाभूतस्य तदात्मना भावे कृभ्वस्तिभि: सम्बन्धे सति विकारवाचिनश्च्विर्भवति । अशुक्ल शुक्लं करोति शुक्कीकरोति । अशुक्लः शुक्लो भवति शुक्लीभवति । शुक्लीस्यात् । अभूततद्भाव इति किम् ? घटं करोति । घटो भवति । दध्यस्ति । कृभ्वस्तियोग इति किम् ? अशुक्लः शुक्लो जायते । विकारादिति किम् ? प्रकृतेर्मा भूत् । सुवर्ण कुण्डलीभवति । यत् पुनः प्रयत्नेनापि शुक्ल न सम्पद्यते तत्राभूततद्भावाभावादेव न भविष्यति ।
अरुर्मनश्चक्षुश्वेतोरहोरजसां लोपश्च ॥ ३६ ॥
अरुर्प्रभृतीनामन्त्यस्य लोपो भवति च्विश्व पूर्वेण सिद्धः । अरूकरोति अरूभवति अरूस्यात् । उन्मनीकरोति उन्मनीभवति उन्मनीस्यात् । उच्चक्षूकरोति उच्चक्षूभवति उच्चक्षूस्यात् । विचेतीकरोति विचेतीभवति विचेतीस्यात् । विरहीकरोति विरहीभवति विरहीस्यात् । विरजीकरोति विरजीभवति विरजीस्यात् ।
अभिविधौ सम्पदा च सातिर्वा ||३७||
अभिव्याप्तावेकदेशेन सर्वात्मना वा गम्यमानाया च्विविषये सम्पदा कृभ्वस्तिभिश्च योगे सातिर्वा भवति | अग्निसात् सम्पद्यते शस्त्रम् | अग्निसात् करोति, अग्निसाद् भवति, अग्निसात् स्यात् । अग्नीकरोति अग्नीभवति अग्नीस्यात् । पुनर्वावचनं त्रिविकल्पार्थम्’ ।
तदधीने || ३८ ॥
तदधीनेऽभिधेये तत्स्वामिवाचिन सातिर्वा भवति कृभ्वस्तिभि: सम्पदा च योगे । राजाधीनं करोति राजसात् करोति । राजसाद् भवति, राजसात् स्यात्, राजसात् सम्पद्यते ।
देये त्रा च ||३९||
यस्मै यद्देयं तदधीने तस्मिन्नभिधेये कृभ्वस्तिभिः सम्पदा च योगे त्रा भवति, सातिश्च । देवाधीनं देयं करोति देवत्रा करोति । देवेषु भवति देवत्रा भवति । देवत्रा स्यात्, देवत्रा सम्पद्यते । देवसात् करोति, देवसाद्भवति, देवसात्स्यात्, देवसात्सम्पद्यते ।
देवादिभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ४० ॥
देवादिभ्यो द्वितीयार्थे सप्तम्यर्थे च बहुलं कृभ्वस्तिभिरन्यैश्व योगे त्रा भवति । देवान् करोति, देवत्रा करोति । देवेषु भवति, देवत्रा भवति । देवेषु स्यात्, देवत्रा स्यात् । देवान् गच्छति, देवत्रा गच्छति । देवेषु वसति, देवत्रा वसति । एव मनुष्यान् गच्छति, मनुष्येषु वसति वा मनुष्यत्रा | पुरुषान् पुरुषेषु वा पुरुपत्रा । पुरून् पुरुषु वा पुरुत्रा । मर्त्यान् मर्त्येषु वा मर्त्यत्रा | बहुन् बहुषु वा बहुत्रा । अन्येभ्योऽपि च यथादर्शनम् ।
अव्यक्तानुकरणादनेकाचोऽनितौ डाच् ॥४१॥
अव्यक्तानुकरणादनेकाचः कृभ्वस्तियोगेऽनितिपराड् डाज् भवति । पटपटाकरोति पटपटाभवति पटपटास्यात् । अव्यक्तानुकरणादिति किम् दृपत्करोति । अनेकाच इति किम् ? श्रत्करोति । अनिताविति किम् ? पटिति करोति । चकारो विशेषणार्थः ।
कृञा द्वितीयतृतीयशस्त्रबीजात् कृषौ ॥ ४२ ॥
करोतिना योगे कृषिविषये द्वितीयादिभ्यो डाज् भवति । द्वितीयाकरोति । तृतीयाकरोति । शम्बाकरोति । पुनस्तिर्यक् कृत्रतीत्यर्थः । बीजाकरोति । कृषाविति किम् ? द्वितीयं पटं करोति ।
संख्यादेर्गुणात् ॥ ४३ ॥
गुणशब्दात् सख्यापूर्वाड् डाज् भवति करोतिना योगे । द्विगुणाकरोति त्रिगुणाकरोति । कृषावित्येव । द्विगुणां रज्जुं करोति ।
समयाद् यापनायाम् ॥ ४४ ॥
समयाद् यापनाया गम्यमानाया डाज् भवति करोतिना योगे । समयाकरोति । कालहरणं करोतीत्यर्थ । यापनायामिति किम् ? समयं करोति ।
सपत्त्रनिष्पत्त्रादतिव्यथने || ४५ ॥
सपत्त्रनिष्पत्त्राभ्यामतिव्यथने गम्यमाने डाज् भयति । सपत्राकरोति मृगम् । निष्पत्राकरोति कवचम् | अतिव्यथन इति किम् । सपत्त्रं करोति वृक्षम् । निष्पत्त्रं करोति काण्डम् ।
निष्कुलान्निष्कोषणे ॥४६॥
निष्कुलादन्तरवस्थितस्य निष्कोपणे डाज् भवति । निष्कुलाकरोति फलम् । निष्कोषण इति किम् निष्कुलं करोति शत्रुम् |
प्रियसुखादानुकूल्ये ॥ ४७ ॥
प्रियसुखाभ्यामानुकूल्ये गम्यमाने डाज् भवति । प्रियाकरोति सुखा- करोति । आनुकूल्य इति किम् ? सुखं करोति ।
दुःखात्प्रातिकूल्ये ॥ ४८ ॥
दुखात् प्रातिकूल्ये गम्यमाने डाज् भवति । दुःखाकरोति । प्रातिकूल्य इति किम् ? दुखं करोति ।
शूलात्पाके ॥ ४९ ॥
शूलात्पाके गम्यमाने डाज् भवति । शूले पचति मासं शूलाकरोति । पाक इति किम् ? शूलं करोति ।
सत्यादशपथे ॥ ५० ॥
सत्याच्छपथादन्यत्र डाज् भवति । सत्याकरोति वणिग् भाण्डम् | मयावश्य क्रेतव्यमिति प्रत्ययं करोति । अशपथ इति किम् ? सत्यं करोति ।
मद्रभद्राद् वपने ॥ ५१ ॥
मद्रभद्राभ्यां वपने गम्यमाने डाज् भवति । मद्राकरोति मद्राकरोति । वपन इति किम् ? मद्रं करोति ।
समासान्तः ॥५२॥
अतःपरमजादयो वक्ष्यमाणा समासान्तभूता वेदितव्या । अन्तर्भावे प्रयोजनं तत्रैव [ ५७ ] वक्ष्यामः |
न किमः क्षेपे ॥ ५३ ॥
क्षेपे य किंशब्दस्ततः परात् समासान्तो न भवति । किंराजा यो न रक्षति । किंगौर्यो न वहति । क्षेप इति किम् ? केषां राजा किंराजः |
पूजायां स्वतेः प्रागन्यार्थात् ॥ ५४ ॥
स्वतिभ्यां परात्पूजाया समासान्तो न भवति प्रागन्यार्थाधिकारात् [ ९५ ] | सुराजा अतिराजा । सुगौः अतिगौः । पूजायामिति किम् ? अतिक्रान्तो राजानमतिराजः । स्वतेरिति किम् ? परमराजः । प्रागन्यार्थादिति किम् ? सुसक्थः । स्वक्षः ।
नञोऽनन्यार्थे ॥ ५५ ॥
नञः परात् समासान्तो न भवति स चेदन्यपदार्थे न वर्तते । अराजा असखा । अनन्यार्थ इति किम् ? अनृचो माणवः । अधुरं शकटम् ।
पथो वा ॥ ५६ ॥
नञ्परात् पथिशब्दात् समासान्तो वा भवति । नायं पन्थाः अपन्थाः अपथम् | अनन्यार्थ इत्येव । अपथोऽयमुद्देशः ।
पुरब्धुरश्रानक्षस्याच् ॥ ५७ ॥
पुराद्यन्तस्य पथ्यन्तस्य च समासान्तोऽज् भवति, न चेदेषामक्षसम्बन्धः | दशपुरी द्विपुरी । द्वीपः समीपः । द्विधुरी त्रिधुरी । समासान्तग्रहणादतः संख्यादेः [२।३।२३ ] इति डीब् भवति । स्थलपतः देवपथः । अनक्षस्येति किम् | अक्षस्य धू अक्षधूः । दृढधूरक्षः ।
ऋचः ॥ ५८ ॥
ऋगन्तात्समासान्तोऽज् भवति । सप्तर्चो मन्त्रः | अर्धर्चः ।
नञ्वहोर्माणवचरणयोः ॥ ५९ ॥
नञ्बहुभ्यामृगन्ताभ्यां माणवचरणयोरज् भवति । अनृचो माणवः । बह्वृचश्चरणः । माणवचरणयोरिति किम् ? अनुक्कं साम । बह्वृक्कं सूक्तम् |
प्रत्यन्ववात् सामलोम्नः ॥ ६० ॥
प्रत्यादिभ्यः परे ये सामलोमनी तदन्तादज् भवति । प्रतिसामम् अनुसामम् अवसामम् । प्रतिलोमम् अनुलोमम् अवलोमम् ।
अक्ष्णोऽचक्षुषः ॥ ६१ ॥
अचक्षुर्यदक्षि तदन्तादज् भवति । लवणाक्षः गवाक्षः । अचक्षुष इति किम् ? ब्राह्मणाक्षि |
धेन्वनडुहर्ग्यजुषाऽक्षिभ्रुव-दारगवोर्वष्ठीन-पदष्ठीव-नक्तन्दिव- रात्रिन्दिवाऽहर्दिव – सरजम – पुरुषायुष- द्वयाऽयुष-त्र्यायुष – जातोक्ष-महोक्ष- वृद्धोश्रो- पशुन- गोष्ठवाः ॥ ६२ ॥
धेन्वनडुहादयोऽजन्ता निपात्यन्ते । धेनुश्चानड्वाश्च धेन्वनडुहौ । ऋक् च यजुश्च ऋग्यजुषम् । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऊरू चाष्ठीवन्तौ च ऊर्वष्ठीवम् । पादौ चाष्ठीवन्तौ च पदष्ठीवम् । नक्तं च दिवा च नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवं भुङ्क्ते । रात्रिश्च दिवा च रात्रिन्दिवम् अतीतम् । अहरहरिति वीप्सायामह – दिवमिति निपात्यते । समासप्रकरणाच्च वाक्यमपि न बाध्यते । सह रजसा सरजसम् | असख्यं साकल्ये [ २/२/२ ] इति समासः । पुरुपस्यायुः पुरुषायुषम् । द्वे आयुषी समाहृते द्व्यायुषम् । त्रीण्यायुषि समाहृतानि त्र्यायुषम् । जात उक्षा जातोक्षः । महान् उक्षा महोक्षः । वृद्ध उक्षा वृद्घोक्ष । समीपे शुन उपशुनम् । असंख्यं विभक्तिसमीप ० [ २/२ /२] इति समासः । गोष्ठे श्वा गोष्ठश्व । स्त्रीपुंसाभ्याम् ० [२|४|१३] इति निपातनादच् । ऋक्- सामे वाड्मन से इति न दधिपयआदिपाठात् [ २/२/६६] ।
ब्रह्महस्तिराजपल्याद् वर्चसः ॥ ६३ ॥
ब्रह्मादिभ्य पराद् वर्चसोऽज् भवति । ब्रह्मवर्चसम् हस्तिवर्चमम् राजवर्चसम् पल्यवर्चसम् ।
समवान्धात् तमसः ॥ ६४ ॥
समादिभ्य परात् तमसोऽज् भवति । सन्तमसम्। अवतमसम्
अन्धतमसम् ।
श्वसो वसीयसः || ६५ ||
श्वसः पराद् वसीयसोऽज् भवति । श्वोवसीयसम् । कल्याणमित्यर्थः ।
निसश्च श्रेयसः || ६६ ||
निसः श्वसश्च पराच्छ्रेयसः समासान्तोऽज् मयति । निश्चितं श्रेयो निश्रेयसम् निर्वाणम् । श्वःश्रेयसम् कल्याणम् ।
तप्तान्ववाद् रहसः || ६७ ॥
तप्तादिभ्यः पराद्रहसोऽज् भवति । तप्तरहसम् अनुरहसम् अवरहसम्।
प्रतेरुरस आधारात् ॥ ६८ ॥
प्रतेः परादुरसोऽधिकरणादज् भवति । उरसि वर्तते प्रत्युरसम् । विभक्त्यर्थे यदसख्यम्०[ २२ २] इति समासः| आधारादिति किम् ? प्रतिगतमुरः प्रत्युरः ।
अनुगवमायामे ॥ ६९ ॥
अनुगवमिति निपात्यत आयामे गम्यमाने । अनुगवं शकटम् । आयाम इति किम् ? गवा पश्चाद् अनुगुः ।
द्विस्तावा त्रिस्तावा वेदिः ॥ ७० ॥
द्विस्तावतीति त्रिस्तावतीत्यस्मिन्नर्थे द्विस्तावा त्रिस्तावेति समासोऽतिलोपश्च निपात्यते वेदिश्चेत् । प्रकृतियागे हि यावती वेदिः कचिद्विकृतियागे द्विस्तावा क्वचित् त्रिस्तावा । वेदिरिति किम् ? द्विस्तावती रज्जुः ।
प्रादिभ्योऽध्वनः ॥ ७१ ॥
प्रादिभ्यः परादध्वनोऽज् भवति । प्रगतोऽध्वानः प्राध्वो रथः । प्राध्वं शकटम् । अत्यध्वम् । प्रादिभ्य इति किम् ? परमाध्वा ।
पाण्डूद कृष्णाद् भूमेः ॥ ७२॥
पाण्ड्वादिभ्यो या परा भूमिस्तदन्तादज् भवति । पाण्डुभूमः उदभूमः कृष्णभूमः ।
संख्याया नदीगोदावर्योश्च ॥ ७३ ॥
सख्यायाः परयोर्नदीगोदावर्यो भूमेश्च समासान्तोऽज् भवति । पञ्चनदम् । सप्तगोदावरम् । द्विभूमः प्रासादः । दशभूमकं सूत्रम् ।
असंख्याच्चाङ्गुलेरनन्यासंख्यार्थे ॥ ७४ ॥
असख्यात् सख्यायाश्च परस्या अङ्गुलेरज् भवति, न चेदन्यपदार्थे संख्यार्थे च समासो वर्तते । निर्गतमङ्गुलिभ्यो निरङ्गुलम् । अत्यङ्गुलम् । अङ्गुली समाहृते द्व्यङ्गुलम् । अनन्यासंख्यार्थ इति किम् ? पञ्चाङ्गुलिर्हस्तः । उपाङ्गुलिः । कथं द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलमिति । नात्र समासोऽन्यपदार्थे विहितः, मात्रादीनां तु लुकि कृते तत्र वर्तते । अङ्गुलशब्दो वा प्रमाणवाची प्रकृत्यन्तरम् । यथा – स्वेनाङ्गुलप्रमाणेनाङ्गुलानां शतं पूर्णम्, चतुर्दश वाङ्गुलानि इति । द्व्यङ्गुलावयवो हस्त इति समुदायोऽन्य- पदार्थे वर्तते । अङ्गुल्यन्तस्य तु विशेषणमेकार्थेन [२|२|१८] इति समासः ।
अहः सर्वैकदेशसंख्यातपुण्यवर्षादीर्घाच्च रात्रेः ॥ ७५ ॥
अहरादिभ्योऽसंख्यात् सख्यायाश्च पराद् रात्रिशब्दादज् भवति । अहश्च रात्रिश्च अहोरात्रः । सर्वरात्रः । पूर्वरात्रः, अपररात्रः । एकदेशेऽत्र रात्रिशब्दो वर्तते, अन्यत्र पूर्वरात्रि । संख्यातरात्रः । पुण्यरात्रः । वर्षारात्रः | दीर्घरात्रः | अतिरात्रः | नीरात्रः । द्वे रात्री समाहृते द्विरात्रम् । अनन्यासंख्यार्थ इत्येव । दीर्घरात्रिर्हेमन्तः । उपरात्रि |
सख्यहोराज्ञां टच् ॥ ७६ ॥
सख्याद्यन्तानां टज् भवति । राजसखः । परमाहः । मद्रराजः । अनन्यासख्यार्थ इत्येव । इन्द्रसखा उपसखि । सख्यहोराज्ञामिति निर्देशाच्चार्थे न भवति । कथं मद्राणां राज्ञीति मद्रराज्ञीति ? नेह लिङ्गविशिष्टग्रहणम्, विशेपाश्रयणात् ।
गोरलुक्यचार्थे ॥ ७७ ॥
गोशब्दादलुग्विषयाट्टज् भवति न चेच्चार्थे समासः । राजगवः परमगवः । पञ्चवधनम् दशगववनम् | अलुकीति किम् ? पञ्चभिर्गोभिः क्रीत पञ्चगुः । अचार्थ इति किम् ? अजाश्वगावः | अनन्यासख्यार्थ इत्येव । चित्रगुः । उपगुः ।
उरसोऽग्रे ॥ ७८ ॥
प्रधाने वर्तमानादुरस समासान्तष्टज् भवति । अश्वोरसम् । हस्त्युरसम् । तेषां प्रधानमित्यर्थः । अग्र इति किम् ? अश्वोरः ।
अनोऽश्मायः सरसा जातिनाम्नोः ॥ ७९ ॥
अनसाद्यन्ताज्जातौ सज्ञाया च टज् भवति । उपानसमितिः जातिः, महानसमितिः सज्ञा । अमृतास्म इति जाति पिण्डाश्म इति संज्ञा । कालायसमिति जातिः, लोहितायसमिति सज्ञा । मण्डूकसरसमिति जातिः, जलसरसमिति संज्ञा । कथं बिन्दुसरो बकसर इति । नैषां संज्ञा, रूढ्या तु सज्ञात्वेन विज्ञानं शूर्पनखीवत् ।
ग्रामकोटात् क्ष्णः ॥ ८० ॥
ग्रामकौटाभ्यां यः परस्तक्षन् शब्दस्तदन्ताट्टज् भवति । ग्रामतक्षः साधारण इत्यर्थः । कुट्या भव कौटः, कौटस्तक्षा कौटतक्षः | स्वगृहस्थायी स्वतन्त्रः, न कस्यचित् प्रतिबद्ध इत्यर्थ । ग्रामकौटादिति किम् ? राजतक्षा | अचार्थ इत्येव । ग्रामतक्षाणौ । अनन्यार्थ इत्येव । कौटस्तक्षास्य कौटतक्षा |
अतेः शुनः ॥ ८१ ॥
अते पराच्छुनष्टज् भवति । अतिक्रान्त: श्वानम् अतिश्वो वराहः । अतिजवन इत्यर्थ । अतिश्वः सेवकः । सुष्ठु स्वामिभक्त इत्यर्थ । अतिश्वी सेवा । अतिनीचेत्यर्थः ।
उपमानादप्राणिनि ॥ ८२ ॥
अप्राणिविषय उपमाने य श्वा तदन्तादृज् भवति । आकर्षः श्वेव आकर्षश्व । फलकश्व । उपमानादिति किम् ? उत्तमश्वा । अप्राणिनीति किम् ? व्याघ्रः श्वेव व्याघ्रश्वा ।
मृगपूर्वोत्तराच्च सक्थनः ॥ ८३ ॥
मृगादिभ्य उपमानाच्च परो य सक्थिशब्दस्तदन्तादृज् भवति । मृगसक्थम् । पूर्वसक्थम् । उत्तरसक्थम् । फलकमित्र सक्थि फलकसक्थम् ।
संख्यार्धान्नाव एकार्थात् ॥ ८४ ॥
सख्याया अर्धाच्च समानाधिकरणात् परा या नौस्तदन्ताट्टज् भवति । द्विनावम् । त्रिनावम् | लोकाश्रयत्वाल्लिङ्गस्य स्त्रीलिङ्गं न भवति । अर्धनावम् एकार्थादिति किम्? द्वयोर्नौ द्विनौ । अनन्यार्थ इत्येव । द्विनौकः ।
खार्या वा ॥ ८५ ॥
सख्याया अर्धाच्च परा या खारी तदन्ताट् टज् भवति वा । द्विखारम् द्विखारी । अर्धखारम् अर्घखारी | विधानसामर्थ्यादेव टजन्तस्य न स्त्रियाः वृत्ति । एकार्थादित्येव । द्वयोः खारी द्विखारी । अनन्यार्थ इत्येव । द्विखारीकः |
द्वित्रिभ्यामञ्जलेः || ८६ ॥
द्वित्रिभ्या परो योऽञ्जलिशब्दस्तदन्ताट्टज् भवति वा । द्व्यञ्जलम्, त्र्यञ्जलम् । द्यञ्जलिः, त्र्यञ्जलिः | एकार्थादित्येव । द्वयोरञ्जलिः द्व्यञ्जलिः | अनन्यार्थ इत्येव । द्व्यञ्जलिकः |
कुमहद्भयां ब्रह्मणः ॥ ८७ ॥
कुमहद्भयां परो यो ब्रह्मन्शब्दस्तदन्ताट्टज् भवति वा । कुब्रह्म: कुब्रह्मा । महाब्रह्म महाब्रह्मा । अनन्यार्थ इत्येव । महाब्रह्मकः ।
जनपदात् ॥ ८८ ॥
जनपदशब्देभ्यः परो यो ब्रह्मन्शब्दस्तदन्ताट्टज् भवति, नित्यं योगविभागात् । अवन्तिषु ब्रह्मा अवन्तिब्रह्मः । काशीषु ब्रह्मा काशीब्रह्मः । जनपदादिति किम् ? देवब्रह्मा नारदः । अचार्थ इत्येव । अवन्तयश्च ब्रह्मा अवन्तिब्रह्माणः । अनन्यार्थ इत्येव । अवन्तिब्रह्मकः ।
चार्थे चुदषहः समाहारे ॥ ८९ ॥
चार्थे समाहारे वर्तमानाच्चवर्गदकारपकारहकारान्ताट् टज् भवति । वाक्त्वचम् । श्रीस्रजम् । समिद्दृष्टपदम् । वाक्त्विषम् । छत्रोपानहिनीति समासान्तत्वादतश्चार्थादिनिर्भवति । चार्थ इति किम् ? द्विदृषत् । चुदषह इति किम् ? वाक्समित् । समाहार इति प्रावृट्छरदौ ।
शरदादिभ्योऽसंख्यार्थे ॥ ९० ॥
शरदादिभ्योऽसख्यार्थे वर्तमानेभ्यः समासान्तष्टज् भवति । उपशरदम् । उपविपाशम् | असख्यार्थ इति किम् ? परमशरत् || शरद् । विपाशू | मनस् । उपानह । दिव् । हिमवत् । अनडुइ । चेतस् । चतुर् । तद् । यद् । जराया जरस् च । दृश् । प्रतिपरस्समनुभ्योऽक्ष्णः । पथिन् । झयन्तानां पाठो नित्यार्थः ।
अनः ॥ ९१ ॥
अनन्तादसख्यार्थे समासान्तष्टज् भवति । अध्यात्मम् प्रत्यात्मम् उपराजम् । समासान्तत्वान्नातोऽमपञ्चम्या [२|१|४१ ] इत्यम् भवति ।
नपुंसकाद् वा ॥ ९२ ॥
अनन्तान्नपुंसकादसंख्यार्थे समासान्तष्टज् वा भवति । उपचर्मम्।
गिरिनदीपौर्णमास्याग्रहायणीयः ॥ ९३ ॥
गिर्यादिभ्यो झयन्ताच्चासख्यार्थे समासान्तष्टज् वा भवति । अन्तर्गिरम् अन्तर्गिरि । उपनदम् उपनदि । उपपौर्णमासम् उपपौर्णमासि । उपाग्रहायणम् उपाग्रहायणि । उपसमिवम् उपसमित् । उपदृषदम् उपदृषत् ।
निसः शतो डच ॥ ९४ ॥
निसः परो यः शदन्तस्तदन्नाज् वा भवति । निर्गतानि त्रिंशतो वर्षाणि निस्त्रिंशानि | निश्चत्वारिंशानि । निर्गतत्रिंशतोऽङ्गुलिभ्यो नित्रिंश: खड्गः ।
संख्याया अबहोरन्यार्थे ॥ ९५ ॥
बहुवर्जिता या सख्या तदन्तादन्यपदार्थे वर्तमानाड् डज् भवति । उपदशा । आसन्नदशा । अदूरदशा । अधिकदशा । त्रिर्दशैषा संख्या त्रिदशा । द्वौ वा त्रयो वा द्वित्राः । अबहोरिति किम् । उपबह्व । अन्यार्थ इति किम् ? द्वादश । अन्यार्थाधिकार आ कप [ १३९ ] ।
सक्थ्यक्ष्णः स्वाङ्गात् षच् ॥ ९६ ॥
स्वाङ्गेये सक्थ्यक्षिणी तदन्तात् षज् भवति । दीर्घसक्थः दीर्घसक्थी । विशालाक्षः विशालाक्षी । सक्थ्यक्ष्ण इति किम् ? दीर्घजानुः । स्वाङ्गादिति किम् ? दीर्घसक्थिः शकटम् | स्थूलाक्षिरिक्षु । अन्यार्थ इत्येव । परमसक्थिः । षकारो ङीषर्थ ।
अङ्गुलेर्दारुणि ॥ ९७ ॥
अङ्गुल्यन्तादन्यपदार्थे दारुणि वर्तमानात् षज् भवति । द्व्यङ्गुलं दारु | पञ्चाङ्गुलम् । अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपकाष्ठमुच्यते । प्रमाणे तु पूर्ववत् सिद्धम् ।
द्वित्रिभ्यां मूर्ध्नः ॥ ९८ ॥
द्वित्रिभ्यां परो यो मूर्धा तदन्तात् षज् भवति । द्विमूर्धः त्रिमूर्धः । अन्यार्थ इत्येव । द्वयोर्मूर्धा द्विमूर्धा ।
अप् पूरण्यास्तासु ॥ ९९ ॥
पूरणे यो विह्नितस्तदन्तायाः स्त्रियास्तास्वेव पूरणीष्वन्यपदार्थे वर्तमानाया समासान्तोऽब् भवति । कल्याणी पञ्चम्यासां रात्रीणां कल्याणीपञ्चमा रात्रयः । तास्विति किम् ? कल्याणपञ्चमीकः पक्षः । पुंवद्भावप्रतिषेधोऽपि पूरणीष्वेवाभिधेयासु ।
प्रमाण्याः || १०० ||
प्रमाणीशब्दादब् भवति । स्त्रीः प्रमाण्येषां स्त्रीप्रमाणाः कुटुम्बिनः । भार्याप्रमाणाः । प्रमाणशब्देन सिद्धे कब्बाधनार्थं वचनम् ।
अन्तर्बहियां लोम्नः ॥ १०१ ॥
अन्तर्बहिर्भ्यां परो यो लोमन्शब्दस्तदन्तादब् भवति । अन्तर्लोमः बहिर्लोम |
नक्षत्रान्नेतुः ॥१०२॥
नक्षत्रात् परो यो नेता तदन्तादब् भवति । मृगनेत्रा रात्रयः । पुष्यनेत्रा । नक्षत्रादिति किम्? देवदत्तनेतृक? । नेत्रशब्देन सिद्धे कब्बाधनार्थं वचनम् ।
नञ्सुव्युपत्रेश्चतुरोऽच् ॥ १०३॥
नञादिभ्यः परो यश्चतुरशब्दस्तदन्तादज् भवति । नास्य चत्वार्यक्षीणि विषयीभवन्ति अचतुःर । सुतरामस्य चत्वारि विपयीभवन्ति सुचतुरः । विविधमस्य चत्वारि विषयीभवन्ति विचतुर । चत्वारि समीप एषामुपचतुरा । त्रयो वा चत्वारो वा त्रिचतुरा |
नाभेः ॥ १०४ ॥
नाभ्यन्तादज् भवति । पद्मनाभः । ऊर्णनाभः |
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्राः ॥ १०५ ॥
सुप्रातादयोऽजन्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्व । शोभनं दिवास्य सुदिवः । शारेरिवि कुक्षिरस्य शारिकुक्षः | चतस्रोऽश्रयोऽस्य चतुरश्रः । एणीपदोऽजपदः प्रोष्ठपद इति भद्रपदवत्पदशब्देन सिद्धम् । रूढेचैषां नियतविषयत्वम् ।
नञ्सुदुर्भ्यः सक्थ्नो वा ॥ १०६॥
नञादिभ्यः परो य सक्थिशब्दस्तदन्तादज् वा भवति । असक्थः असक्थिः | सुसक्यः सुसक्थिः । दुसक्थः दुसक्थिः । नञादिभ्य इति किम् दीर्घसक्थि शकटम् ।
प्रजाया असिच् ॥ १०७ ॥
नञादिभ्यः परो य प्रजाशब्दस्तदन्नादसिज् भवति । अप्रजा । सुप्रजा । दुष्प्रजा ।
मन्दाल्पाच्च मेधायाः || १०८॥
मन्दाल्पाभ्यां नञादिभ्यश्च परा या मेधाः तदन्तादसिज् भवति । मन्दमेधाः । अल्पमेधाः । अमेधाः सुमेधाः दुर्मेधाः ।
नाम्नि नासाया नसोऽस्थूलात् ॥ १०९ ॥
स्थूलादन्यस्मात् परा या नासा तस्याः सज्ञायाः समासान्तो नसादेशो भवति । गोनसो वाध्रीणस । नाम्नीति किम् ? दीर्घनासः । अस्थूलादिति किम्? स्थूलनासः ।
प्रादिभ्यः ॥ ११० ॥
प्रादिभ्यः परस्याः नासाया नसादेशो भवति । प्रणसं मुखम् ।
वेः ख्रः ॥ १११ ॥
विपूर्वात्परस्या नासाया ख्र आदेशो भवति । विगता नासास्य विख्रः।
खुरखराण्णस् वा ॥ ११२ ॥
खुरखराभ्यां परस्या नासाया णस् वा भवति । खुरणाः खुरणसः । खरणाः खरणसः |
धर्मादनिच् केवलात् ॥ ११३॥
केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्तादनिज् वा भवति । कल्याणधर्मा कल्याणधर्मक: । तद्धर्मा तद्धर्मकः। विपरीतधर्मा विपरीतधर्मकः | केवलादिति किम् ? परमस्वधर्मकः |
सुहरिततृणसोमाज्जम्भात् ॥ ११४ ॥
स्वादिभ्यः परो यो जम्भशब्दस्तदन्तादनिज् भवति । सुजम्भा हरितजम्भा तृणजम्भा सोमजम्भा । स्वादिभ्य इति किम् ? पतितजम्भः ।
दक्षिणेर्मा लुब्धयोगे ॥११५॥
दक्षिर्णेर्मेत्यनिजन्तो निपात्यते व्यावयोगे मति । ईर्मं व्रणम् । दक्षिणम् ईर्ममस्य दक्षिणेर्मा मृगः । लुब्धयोग इति किम् ? दक्षिणेर्मं शकटम् ।
इज् व्यतिहारे ॥ ११६ ॥
क्रियाव्यतिहारे गम्यमानेऽन्यपदार्थे वर्तमानादिज् भवति । केशाकेशि । दण्डदण्डि । चकार इचि [ ५।२।४८ ] इति विशेषणार्थः ।
द्विदण्ड्यादीनि ॥११७॥
द्विदण्ड्यादीनि शब्दरूपाणीजन्तानि निपात्यन्ते । द्वौ दण्डावस्य द्विदण्डि । द्विमुसलि । निपातनादर्थविशेाश्रयणादिह न भवति द्विदण्डा शालेति ॥ द्विदण्डि । द्विमुसलि । उभान्जलि | उभयाञ्जलि | उभादन्ति उभयादन्ति । उभाणि । उभयाकर्णि । उभाहस्ति । उभयाहस्ति । उभापाणि । उभयापाणि । उभाबाहु । उभयाबाहु । एकपदि । प्रोह्यपदि । आच्यपदि । निकुच्यकर्णि । सहतपुच्छि । प्रोह्यपदि धावति, निकुच्यकर्णि धावतीति क्रियाविशेषणत्वात् क्रियैवान्यपदार्थः |
भृतिमासाद् ठच् ॥११८॥
मृत्युपलक्षितान्मासाट् ठज् भवति । पञ्चको मासोऽस्य पञ्चकमासिकः। दशकमासिक ।
सम्प्राजानुनो ज्ञुः ॥ ११९ ॥
सम्प्रपूर्वाज्जानुनो ज्ञादेशो भवति । सगते जानुनी अस्य सज्ञुः । प्रज्ञुः ।
ऊर्ध्वाद् वा ॥१२०॥
ऊर्ध्वशब्दात्परस्य जानुनो ज्ञ्वादेशो वा भवति । ऊर्ध्वे जानुनी अस्य ऊर्ध्वज्ञः ऊर्ध्वजानुः ।
धनुर्नाम्नि ॥ १२१ ॥
सज्ञायामेवान्यपदार्थे धनु-शब्द प्रयुज्यते । दृढधनुः शतधनुः । नाम्नीति किम् ? गाण्डीवधन्वा । धन्वन्निति प्रकृत्यन्तरमविशेषेण सज्ञायामसज्ञायां वा ।
जायाया निङ् || १२२||
जायान्तस्य निङ् भवति । युवजानिः वधूजानिः ।
सूत्पूतिसुरभेर्गन्धस्येत् ॥ १२३॥
स्वादिभ्यः परस्य गन्धस्येद् भवति । सुगन्धि चन्दनम् । उद्गन्धि कुसुमम् । पूतिगन्धि शरीरम् । सुरभिगन्धि केसरम् ।
आगन्तोर्वा ॥ १२४॥
स्वादिभ्यः परस्यागन्तोर्गन्धस्येद्वा भवति । सुगन्धिरापणः सुगन्धः | उद्गन्धिः उद्गन्ध । पूतिगन्धिः पूतिगन्धः । सुरभिगन्धिः सुरभिगन्धः ।
अल्पे || १२५||
अल्पेऽर्थे वर्तमानस्य गन्धस्येद् वा भवति । सूपस्य गन्धोऽस्य सूपगन्धि भोजनम् । सूपगन्धम् । अन्नगन्धि अन्नगन्धम् ।
उपमानात् ॥ १२६॥
उपमानात्परस्थेद् वा भवति । उत्पलगन्धिः उत्पलगन्धः |
पादस्य पदहस्त्यादिभ्यः ॥ १२७॥
पादस्य हस्त्यादिवर्जितादुपमानात्परस्य पादित्ययमादेशे भवति । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्य इति किम् ? हस्तिपादः || हस्तिन् । कपाट | कटोल | कटोलक | गण्डोल । गण्डोलक । महेला । दासी । गणिका । कुसूल ।
कुम्भपद्यादयः ॥ १२८ ॥
कुम्भपद्यादयः स्त्रिया डीबन्ता एव कृतपदादेशाः साधवो भवन्ति । कुम्भपदी । जालपदी । शतपदी । मुनिपदी । शितिपदी । सूत्रपदी । निष्पदी । शकृत्पदी | गोधापदी । कलशीपदी । विपदी । दासीपदी । अपदी । आर्द्रपदी । कुणिपदी । कृष्णपदी । द्रोणपदी । सूकरपदी | अष्टापदी | सूचिपदी । एकपदीति न पठितव्यम् एकपादिति दर्शनात् ।
सुसंख्यादेः ॥१२९||
सुपूर्वस्य सख्यापूर्वस्य च पादस्य पादित्ययमादेशो भवति । सुपात् द्विपात् ।
वयसि दन्तस्य दतृ ॥ १३० ॥
वयसि गम्यमाने सुसंख्यादेर्दन्तस्य दत्रादेशो भवति । सुदन् । द्विदन् । त्रिन् । वयसीति किम् ? सुदन्तो दाक्षिणात्यः । द्विदन्तः कुञ्जरः |
षोडन् ॥ १३१ ॥
षोडन्निति वयसि निपात्यते षड्दर्शन इत्यस्मिन्नर्थे ।
स्त्री नाम्नि || १३२ ||
स्त्रीसंज्ञाविषये दन्तस्य दत्रादेशो भवति । अयोदती हलदती । नाम्नीति किम् समदन्ती । स्निग्धदन्ती ।
अग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकश्यावशिखरारोकाद्वा ॥ १३३ ॥
अग्रान्ताच्छुद्धादिभ्यश्च परस्य दन्तशब्दस्य दत्रादेशो वा भवति । कुड्मलाग्रदन् कुड्मलाप्रदन्तः । शुद्धदन् शुद्धदन्तः । शुभ्रदन् शुभ्रदन्तः । वृषदन् वृषदन्तः । वराहदन् वराहृदन्तः । अहिदन् अहिदन्तः । मूषिकदन् मूषिकदन्तः । श्यावदन् श्यावदन्तः । शिखरटन् शिखरदन्तः । अरोकदन् अरोकदन्तः । अरोकोऽदीप्तिः ।
ककुत् ककुदस्यावस्थायाम् || १३४||
ककुदस्य शरीरावस्थाया गम्यमानाया ककुदादेशो भवति । असञ्जातककुद् बालः । यष्टिककुद् युवा | पूर्णककुद् मध्यमः । पनितककुजीर्णः | स्थूलककुद् बलवान् । अवस्थायामिति किम् ? श्वेतककुदः |
त्रिककुत्पर्वते ||१३५||
त्रिककुदिति पर्वतेऽभिधेये निपात्यते । त्रिककुत् पर्वतः । पर्वत इति किम् ? त्रिककुदः । ककुदशब्द निवृत्त्यर्थं वचनम् ।
व्युदः काकुत् काकुदस्य ॥ १३६ ॥
व्युद्भयां परस्य काकुदस्य काकुदित्ययमादेशो भवति । विकाकुत् उत्काकुत् । काकुद तालुच्यते ।
पूर्णाद् वा ॥ १३७॥
पूर्णात्परस्य काकुदस्य काकुदादेशो वा भवति । पूर्णकाकुत् पूर्णकाकुदः।
सुहृददुर्हृदौ मित्रामित्रयोः ॥ १३८ ॥
सुहृन्मित्रे निपात्यते, दुर्हृन्मित्रे । मित्रामित्रयोरिति किम् ? सुहृदयः साधुः, दुर्हृदयश्चौरः । हृच्छब्देन सिद्धे हृदयशब्दनिवृत्त्यर्थं वचनम् ।
उरोभ्यः कप् ॥ १३९॥
उरःप्रभृत्यन्तात् कब् भवति । व्यूढोरस्कः प्रियसर्पिष्कः ॥ उरस् । सर्पिस् । उपानद् । पुमान् । अनड्वान् । पय । नौ । लक्ष्मीः । दधि । मधु । शालि । येपामेकवचनान्ताना पाठस्तेपामन्यवचनान्ताना शेपाद्वा [ १४२ ] इति कव् विकल्पेन भवति । द्विपुमान् द्विपुस्कः । द्विनौ द्विनौकः |
इनः स्त्रियाम् ॥१४०॥
इनन्तात् स्त्रियामभिधेयाया कब् भवति । बहुदण्डिका बहुस्वामिका नगरी । स्त्रियामिति किम् ? बहुदण्डी राजा, बहुदण्डिकः ।
ड्यूद्धृतोऽभ्रुवः ॥ १४१ ॥
ड्यन्तम्डन्तमृदन्तं च यत्तदन्ताद् भ्रूवर्जितात् कब् भवति । बहु- कुमारीकः बहुब्रह्मबन्धूः बहुकर्तृकः । अभ्रुव इति किम् ? सुभ्रूः ।
शेषाद्वा ॥ १४२ ॥
यतोऽन्यपदार्थे वर्तमानात्समासान्तो नोक्तस्ततः कब वा भवति । बहुखट्वाको बहुखट्वः ।
न नाम्नि || १४३ ॥
संज्ञायां कब् न भवति । विश्वदेवः । विश्वयशाः |
ईयसः || १४४ ||
ईयसन्तात् कब् न भवति । बहुश्रेयान् !
ङय ईत् ॥ १४५॥
ईयस परस्य डीप ईद् भवति । कपो हस्वस्य चापवादः । बह्वयः श्रेयस्योऽस्य बहुश्रेयसी पुरुषः । विद्यमानश्रेयसी ।
स्तुतौ भ्रातुः ॥ १४६॥
स्तुतौ गम्यमानायां भ्रातुः कब् न भवति । पटुभ्राता । स्तुताविति किम् ? मूर्खभ्रातृकः ।
नाडीतन्त्र्योः स्वाङ्गे ॥ १४७॥
नाडीतन्त्र्यो खाने वर्तमानयो कब् न भवति । बहुनाडिः कायः बहुतन्त्रार्ग्रीवा । तन्त्रीरत्र धमन्युच्यते । स्वाङ्ग इति किम् ? बहुनाडीक: । स्तम्बः । बहुतन्त्रीका बीणा । अथवा स्वाङ्गमन्यपदार्थस्यावयव उच्यते । बहुनाडिः स्तम्ब । स्वाङ्ग इति किम्? बहुनाडीको गृहस्थ? । बहुतन्त्रीको नटः |
निष्प्रवाणिः || १४८ ||
कबभावो निपात्यते । प्रोयतेऽस्यामिति प्रवाणी, तन्त्रवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणि पटः । तन्त्रादचिरापहृत इत्यर्थः ।
इति चान्द्रे व्याकरणे चतुर्थोऽध्यायः समाप्तः ।