षष्ठ्या व्याश्रये तस् ॥ १ ॥
नानापक्षाश्रये षष्ठ्यन्तात् तस् परो भवति वा । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । देवा अर्जुनस्य पक्षेऽभवन् । व्याश्रय इति किम् ? वृक्षस्य शाखा ।
रोगात प्रतीकारे || २ ||
रोगवाचिन: षष्ठ्यन्तात् प्रतीकारे गम्यमाने तस् वा भवति । प्रवाहिकात प्रतिकुरु । प्रवाहिकायाः प्रतिकुरु । प्रतीकार इति किम् ? प्रवाहिकायाः कोपः ।
क्षेपातिग्रहाव्यथनेष्वकर्तरि तृतीयायाः ॥ ३ ॥
अकर्तरि विहिता या तृतीया तदन्तात् क्षेपादिषु गम्यमानेषु तस् वा भवति । वृत्ततः क्षिप्तः, वृत्तेन क्षिप्तः । वृत्ततोऽतिगृह्यते, वृत्तेनातिगृह्यते । अन्यानतिक्रम्य गृह्यते, अतिशयेन वा गृह्यत इत्यर्थः । वृत्ततो न व्ययते, वृत्तेन न व्यथते । न चलतीत्यर्थः । अकर्तरीति किम् ? देवदत्तेन क्षिप्तः |
हीयमानपापयुक्तात् ॥ ४ ॥
हीयमानेन पापेन च युक्तात् तृतीयान्तात् तस् वा भवति । वृत्ततो हीयते, वृत्तेन हीयते । वृत्ततः पापम्, वृत्तेन पापम् | तत्त्वाख्यानार्थं वचनम् ।
प्रतिना पञ्चम्याः || ५ ||
प्रतिना योगे पञ्चम्यन्तात् तस् वा भवति । प्रद्युम्नो वासुदेवतः प्रति, वासुदेवात् प्रति ।
अवधावहाग्रुहोः ॥ ६ ॥
अवधौ या पञ्चमी तदन्तात् तस् वा भवति स चेदवधिर्हाग्रुहोः सम्बन्धी न भवति । ग्रामत आगच्छति, ग्रामादागच्छति । चौरतो बिभेति, चौरेभ्यो बिभेति । अहागुरुहोरिति किम् ? सार्थाद्धीयते, सार्थाद्धीनः । पर्वता- दवरोहति । ककार किम् ? भूमित उज्जिहीते ।
सर्वादिबहुभ्योऽव्यादिभ्यः ॥ ७ ॥
सर्वादिभ्यो यादिवर्जितेभ्यो बहुभ्यश्च पञ्चम्यन्तेभ्यस्तस् वा भवति । सर्वतः सर्वस्मात् तत तस्मात् । बहुतः बहुभ्य । पूर्वेण सिद्धे हाग्रहार्थं वचनम् | अद्वयादिभ्य इति किम् द्वाभ्याम् । कथं त्वत्तो मत्तो युष्मत्तोऽस्मत्त इति अवधावहागुरुहो [६] इति तस् भविष्यति ।
कुतोऽत इतः ॥ ८ ॥
किम पञ्चम्यन्तात्तस् कुत्वं च निपात्यते वा एतदोऽश्, इदम इश्भाव । कुतः कस्मात् । अत एतस्मात् । इत अस्मात् । कथम् अभितः परित इति तस्योगे द्वितीयाभिधानात् [ २/१/५२] सिद्धम् ।
आद्यादिभ्यः ॥ ९ ॥
आद्यादिभ्यस्तस् वा भवति । आदौ आदितो मध्यतः अन्ततः पृष्ठतः पार्श्वतः मुखतः ।
सप्तम्यास्त्रल् | १० ||
सर्वादिभ्यो बहुभ्यो यादिवर्जितेभ्य, सप्तम्यन्तेभ्यस्त्रल् वा भवति । सर्वत्र सर्वस्मिन् । यत्र यस्मिन् । बहुत्र बहुषु । अब्यादिभ्य इत्येव । द्वयोः त्वयि मयि ।
क्व कुत्रेहात्र ॥ ११ ॥
किम सप्तम्यन्तस्य क्व कुत्रेति च वा निपात्यते इदम इहेति, एतदोऽत्रेति ।
भावद्दीर्घायुरायुष्मद्देवानाम्प्रियैस्तेऽन्याभ्यश्च ॥ १२ ॥
भवदादिभियोगे ते तसादयोऽन्याभ्योऽपि विभक्तिभ्यो वा भवन्ति । स भवान्, ततो भवान्, तत्र भवान् । तं भवन्तम्, ततो भवन्तम्, तत्र भवन्तम् तेन भवता, ततो भवता, तत्र भवता । तस्मै भवते, ततो भवते, तत्र भवते । तस्य भवतः, ततो भवतः, तत्र भवतः । एवं स दीर्घायुः। स आयुष्मन् स देवानाम्प्रिय इति सर्वत्र योज्यम् । एवं को भवान् कुतो भवानित्यादि । एवमयं भवान् इतो भवान् इह भवानित्यादि ।
सर्वैकान्यकियत्तदः काले दा || १३ ||
एभ्यः काले वर्तमानेभ्यः सप्तम्यन्तेभ्यो दा वा भवति । सर्वस्मिन् काले सर्वदा । एकदा अन्यदा कदा यदा तदा । काल इति किम् सर्वत्र देशे ।
सदाधुनेदानीं तदानीम् ॥ १४ ॥
एते शब्दा निपात्यन्ते । सर्वस्मिन् काले सदा । अस्मिन् काले अधुना इदानीं च । तस्मिन् काले तदानीम् |
किंयदन्यादनद्यतने र्हिल् वा ॥ १५ ॥
किमादिभ्योऽनद्यतनवृत्तिभ्यः सप्तम्यन्तेभ्यो र्हिल् वा भवति । कर्हि कदा । यहि यदा । अन्यर्हि अन्यदा ।
तर्ह्येतर्हि सद्यः परेद्यवि ॥ १६ ॥
तर्ह्यदयः शब्दाः सप्तम्यन्तानाः तदादीना कालवृत्तीना वा निपात्यन्ते । तस्मिन् काले तर्हि । एतस्मिन् काले एतर्हि । समानेऽहनि सद्य । परस्मिन्नहनि परेद्यवि । अद्य परुत् परार्यैषमः [ ४ २ २१, ३/२/७८, १५] इति निपातनात् सिद्धम् ।
पूर्वान्यान्यतरेतरापराधरोत्तरादेद्युस् ॥ १७ ॥
पूर्वादिभ्यः कालवृत्तिभ्यः सप्तम्यन्तेभ्य एद्युस् वा भवति । पू र्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । अन्यतरस्मिन्नहनि अन्यतरेद्यु । अपरस्मिन्नहनि अपरेद्युः । अधरस्मिन्नहनि अधरेद्युः। उत्तरस्मिन्नहनि उत्तरेद्युः ।
उभयाद् द्युश्च ॥ १८ ॥
उभयात् कालवाचिनः सप्तम्यन्ताद् द्युस् वा भवति, एद्युस् च उभयस्मिन्नहनि उभयद्युः, उभयेद्युः ।
प्रकारे थाल ॥ १९ ॥
सर्वादिबहुभ्यो विशेषे थाल् भवति । सर्वेण प्रकारेण सर्वथा । यथा, तथा । कथमि लिड् [१|३|१०९ ] इति कथम् । इत्थम्भूतेषु [२|१| ५४ ] इति इत्थम् ।
धा संख्यायाः ॥ २० ॥
संख्यावाचिन प्रकारे धा परो भवति । द्वाभ्यां प्रकाराभ्यां द्वौ वा प्रकारौ करोति द्विधा करोति, बहुधा करोति । एकं राशिं पञ्चप्रकारं करोति पञ्चधा करोति । पञ्चप्रकारमेकप्रकारं करोति एकधा करोति ।
षोढा वा ॥ २१ ॥
षोढेति वा निपात्यते । षोढा षड्ढा ।
ऐकध्यम् ॥ २२ ॥
एकात् प्रकारे ध्यमुञ् वा निपात्यते । ऐकध्यं करोति एकधा करोति ।
द्वित्रेर्श्वमुञ् ॥ २३ ॥
द्वित्रिभ्यां प्रकारे ध्यमुञ् वा भवति । द्वैधम् त्रैधम् । द्विधा त्रिधा
एधा ।। २४ ।।
द्वित्रिभ्यां प्रकारे एधा भवति । द्वेधा त्रेधा ।
तद्वति धण् ॥ २५ ॥
प्रकारवति द्वित्रिभ्यां धण् भवति । द्वैधानि त्रैधानि ।
जातीयर् ॥ २६ ॥
प्रकारवति तत्सामान्यवाचिनः शब्दाज्जातीयर् भवति । पटुजातीयः मृदुजातीयः ।
स्थूलादिभ्यः कन् ॥ २७ ॥
स्थूलादिभ्यः प्रकारवति कन् भवति । स्थूलकः । अणुकः ॥ स्थूलः । अणुः माषेषु । कृष्णः तिलेषु । यवो व्रीहिषु । इक्षुतिलवाट्यकालावदात सुरायाम् । गोमूत्र आच्छादने । सुरा अहौ । जीर्ण शालिषु । पत्त्रमूले समस्तव्यस्ते । कुमारीपुत्रः । कुमारीश्वशुरः | मणिः । चञ्चत् । बृहत् ।
दिक्शब्दाद्दिग्देशकालार्थात्सप्तमीपञ्चमीप्रथमाभ्योऽस्तातिः ॥ २८ ॥
दिशि प्रसिद्धाद् दिग्देशकालेषु वर्तमानात् सप्तमीपञ्चमीप्रथमान्ताद् अस्ताति: परो वा भवति । पूर्वस्यां दिशि वसति पुरस्ताद् वसति । पूर्वस्या दिश आगतः पुरस्तादागतः । पूर्वा दिग् रमणीया पुरस्ताद् रमणीयम् । पूर्वस्मिन् देशे काले वा वसति पुरस्ताद् वसति । पुरस्तादागतः । पुरस्ताद् रमणीयम् । दिक्शब्दादिति किम् ? ऐन्द्र्यां दिशि वसति । दिग्देशकालार्थादिति किम् ? पूर्वस्मिन् गुरौ वसति । सप्तमीपञ्चमीप्रथमाभ्य इति किम् ? पूर्वं ग्रामं गतः । दिक्शब्दसम्बन्धाद्दिगादीनां सप्तम्यादीनां च परस्परासम्बन्ध इति यथासंख्यं नास्ति ।
अञ्चो लुक् ॥ २९ ॥
अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुग् भवति । प्राच्यां दिशि वसति प्राग् वसति । प्रागागतः । प्राग् रमणीयम् । लुगणादिलुकि [२|२|८७] इति ङीपो लुक् । एवं प्राचि देशे काले वा वसतीत्यादि योज्यम् ।
उपर्युपरिष्टात् ॥ ३० ॥
ऊर्ध्वशब्दस्यास्तातिविषये उपभावो रिल्-रिष्टातिलौ च निपात्येते । ऊर्ध्वायां दिशि वसति उपरि वसति । उपर्यागतः, उपरि रमणीयम् । उपरिष्टाद् वसति, उपरिष्टादागतः, उपरिष्टाद् रमणीयम् । एवमूर्ध्वे देशे’ काले वा वसतीति योज्यम् |
पूर्वाधरयोः पुरधौ च ॥ ३१ ॥
पूर्वाधरयो सप्तम्याद्यन्तयोरस्तातिर्भवति, पुरधौ चादेशौ भवतः । पुरस्ताद् वसति, पुरस्तादागतः, पुरस्ताद् रमणीयम् । अधस्ताद् वसति, अधस्तादागतः, अधस्ताद् रमणीयम् ।
अस् ॥ ३२ ॥
पूर्वाधरयोः सप्तम्याद्यन्तयोरस् भवति, पुरधौ चादेशौ भवतः । पुरो वसति, पुर आगतः, पुरो रमणीयम् । अधो वसति, अध आगतः, अधो रमणीयम् ।
अवरस्याव् ॥ ३३ ॥
अवरस्य सप्तम्याद्यन्तस्यास् भवति, अवादेशश्च । अवो वसति, अव आगतः, अवो रमणीयम् ।
वास्ताति ॥ ३४ ॥
अवरस्यास्ताति परभूतेऽवादेशो भवति वा । अवस्ताद् वसति, अवरस्ताद् वसति । अवस्तादागतः, अवरस्तादागतः । अवस्ताद् रमणीयम् अवरस्ताद् रमणीयम् ।
पश्चात् ।। ३५ ।।
अवरस्य पश्चभाव आतिश्च निपात्यते । पश्चाद् वसति, पश्चादागतः पश्चाद् रमणीयम् । कथं दक्षिणपश्चादिति । दक्षिणं च तत् पश्चाच्च दक्षिणपश्चात् ।
पश्चार्धम् ॥ ३६ ॥
पश्चार्धमिति निपात्यते अवरार्धमित्येतस्मिन्नर्थे । उत्तरं च तत् पश्चार्धंञ्च उत्तरपश्चार्धम् । लिङ्गस्यान्त्रत्वात् पश्वार्धः ।
परावरात्तस् वा ॥ ३७ ॥
परावराभ्यां सप्तमीप्रथमान्ताभ्यां तस् वा भवति । परतो वसति, परतो रमणीयम् । परस्ताद् वसति परस्ताद् रमणीयम् । अवरतो वसति, अवरतो रमणीयम् । अवरस्ताद् वसति, अवरस्ताद् रमणीयम् । परत आगतः, अवरत आगत इति पञ्चम्याः पूर्वेण सिद्धत्वात् पञ्चमीति निवृत्तम् । स्त्रियामपि पुंवद्भावात् सिद्धम् ।
दक्षिणोत्तरादा च ॥ ३८ ॥
दक्षिणादुत्तराच्च सप्तमीप्रथमान्तादा भवति, तस् च । दक्षिणा वसति, दक्षिणा रमणीयम् । दक्षिणतो वसति, दक्षिणतो रमणीयम् । उत्तरा वसति, उत्तरा रमणीयम् । उत्तरतो वसति, उत्तरतो रमणीयम् ।
आहि च दूरे || ३९ ॥
दक्षिणोत्तराभ्यां सप्तमीप्रथमान्ताभ्यामाहि परो भवति, आ च, दूरे चेदवधिमान् भवति । दक्षिणाहि वसति, दक्षिणाहि रमणीयम्; दक्षिणा चसति, दक्षिणा रमणीयम् । उत्तराहि वसति, उत्तरा हि रमणीयम्, उत्तरा वसति, उत्तरा रमणीयम् । दूर इति किम् ? दक्षिणतो वसति ।
अधराच्चात् ॥ ४० ॥
अधरात् सप्तमीप्रथमान्ताद् दक्षिणोत्तराभ्यां चाद् भवति । अधराद् वसति, अधराद् रमणीयम् । दक्षिणाद् वसति, दक्षिणाद् रमणीयम् । उत्तराद् वसति, उत्तराद् रमणीयम् । अधरादागत, दक्षिणादागतः उत्तरादागतः इति पञ्चम्या सिद्ध एव, दिशि च दिग्भेदाश्रयणात् ।
एनवदूरे वा ॥ ४१ ॥
अधरदक्षिणोत्तरेभ्योऽदूरदिग्वृत्तिभ्यः सप्तमीप्रथमान्तेभ्य एनब् वा भवति । अधरेण वसति, अधरेण रमणीयम् । अधराद् वसति, अधराद् रमणीयम् । दक्षिणेन वसति, दक्षिणेन रमणीयम् । दक्षिणाद् वसति, दक्षिणाद् रमणीयम् । उत्तरेण वसति, उत्तरेण रमणीयम् । उत्तराद् वसति, उत्तराद् रमणीयम् । अदूर इति किम् ? उत्तरतो हिमवान् । केचिदधरादीन् नानुवर्तयन्ति । पूर्वेण वसति, पूर्वेण रमणीयम् ।
निन्द्ये पाशप् ॥ ४२ ॥
कुत्सिते वर्तमानात् स्वार्थे पाशब् भवति । कुत्सितो वैयाकरण:- वैयाकरणपाशः | छान्दसपाशः । निन्द्य इति किम् ? साधुर्वैयाकरणः । इह कस्मान्न भवति – वैयाकरणचौर इति । नात्र वैयाकरणत्वं कुत्सितम् । किं तर्हि ? चौर्यम् ।
भूतपूर्वे चरट् ॥ ४३ ॥
भूतः पूर्वं भूतपूर्वः । अरमादेव निपातनात् समासः, सुप् सुपा [२।२।१] इति वा । भूतपूर्वे वर्तमानाच्चरड् भवति । आढ्यचरः । दर्शनीयचरः ।
षष्ठ्या रूप्य च ॥ ४४ ॥
षष्ठ्यन्ताद् भूतपूर्वेऽभिधेये रूप्य च परो भवति, चरट् च । देव- दत्तस्य भूतपूर्वो देवदत्तरूप्यो गौ, देवदत्तचरः ।
द्विबहुषु प्रकर्षे तरप्तमपौ ॥ ४५ ॥
द्वयो बहुषु चैकानेकप्रकर्षे वर्तमानात् तरप्तमपौ भवतः । अयमनयोराढ्यतरः । अयमनयोः पाचकतरः । अयमेषामाढ्यतमः । इमावेषा पाचकतमौ । इमे त्रय एषां पाचकानां पाचकतमाः । कथं माथुराः पाटलिपुत्रकेभ्यः सुकुमारतरा इति? अत्रापि द्वयोर्द्वयोरर्थयोरेकस्य प्रकर्ष इति तरब् भवति । अवयवापेक्षं तु बहुवचनम्, यथा अस्मिन् ग्राम आढ्यतरा वणिज इति । तथा, अस्माकं च देवदत्तस्य च देवदत्तोऽभिरूपतरः । दन्तोष्ठस्य दन्ताः स्निग्धतरा इति समुदायापेक्षमेकवचनम् । साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतरा इति द्वयोर्द्वयोरेकस्यैव प्रकर्षः । साङ्काश्यकाना पाटलि- पुत्रकाणां च पाटलिपुत्रकाः सुकुमारतमा इति बह्वपेक्षः प्रकर्षः । द्वयापेक्षे तु तरपैव भवितव्यम् । एकस्याप्यवस्थाभेदेनान्यत्वाद् भवितव्यम् एव । परुद् भवान् पटुरासीत् पटुतरश्चैवम् इति । प्रकृष्टानामपि पुनः प्रकर्षे तरप्तमपौ भवत एव । यथा, युधिष्ठिर श्रेष्ठतमः कुरूणाम् इति ।
किमेतिङसंख्यादामन्तावद्रव्ये ॥ ४६ ॥
किमादिभ्य प्रकर्षे वर्तमानेभ्यस्तरप्तमपावामन्तौ भवतः, न चेद् द्रव्यमभिधेयं भवति । किन्तराम् किन्तमाम् । पूर्वार्ह्णेतराम् पूर्वाह्णेतमाम् । पचतितराम् पचतितमाम् । उच्चैस्तराम् उच्चस्तमाम् | अद्रव्य इति किम् ? उच्चैस्तरो वृक्षः |
गुणादीयसुनिष्ठनौ च ॥ ४७ ॥
द्विबहुषु प्रकर्षे वर्तमानाद् गुणवचनादीयसुनिष्ठनौ तरप्तमपौ च भवतः । अयमनयोः पटीयान् पटुतरः । अयमेपा पटिष्ठः पटुतमः । इमावेषां पटिष्ठौ पटुतमौ । इमे त्रय एषां पटिष्ठाः पटुतमाः । गुणवृत्तिभ्य: प्रकर्षाभावान्न भवतः ।
विन्मतोर्लुक् ॥ ४८ ॥
विनन्तान्मत्वन्ताच्च द्विबहुषु प्रकर्षे वर्तमानादीयसुनिष्ठनौ भवतः, विनो मतोश्च लुग्भवति, श्रुतत्वात् । अयमनयो स्रग्विणो स्रजीयान् । अयमेषां स्रग्विणा जिष्ठ । अयमनयो स्रुग्वतो सुचीयान् । अयमेषा स्रुग्वता सुचिष्ठः । णाविष्टवद्भावात् स्रजयति स्रूचयति ।
प्रशस्यस्य श्रः || ४९ ॥
प्रशस्यस्य ईयसुनिष्ठन्संयोगे श्र-आदेशो भवति । श्रेयान् श्रेष्ठः ।
वृद्धस्य च ज्यः ॥ ५० ॥
प्रशस्यस्य वृद्धस्य च ईयसुनिष्ठन्संयोगे ज्य-आदेशो भवति । अनयोः प्रशस्ययोरयं ज्यायान् । एषां प्रशस्यानामयं ज्येष्ठः । अनयोर्वृद्धयोरयं ज्यायान् । एषां वृद्धानामयं ज्येष्ठः ।
वाढान्तिकयोः साधनेदौ ॥ ५१ ॥
बाढस्यान्तिकस्य च ईयसुनिष्ठन्संयोगे साध नेद इत्येतावादेशौ भवतः । अयमनयोः साधीयोऽधीते । अयमेषां साधिष्ठमधीते । इदमनयोर्नेदीयः । इदमेषां नेदिष्ठम् । निमित्तयोर्न यथासख्यम्, प्रत्येकं द्वयोरपेक्षणात् । तथानुक्रान्तम् ।
युवाल्पयोः कन् वा ॥ ५२ ॥
युवाल्पशब्दयोरीयसु निष्ठन् संयोगे कनादेशो वा भवति । अयमनयोर्यूनोः कनीयान् यवीयान् । अयमेषां यूना कनिष्ठः यविष्ठः । अयमनयोरल्पयोः कनीयान् अल्पीयान् । अयमेपामल्पानां कनिष्ठ अल्पिष्ठः । णाविष्ठवद्भावात्, युवानमाचष्टे कनयति ।
तिङश्च रूप ॥ ५३ ॥
प्रकर्षे वर्तमानात्तिङन्तात् सुबन्ताच्च रूपब् भवति । पचतिरूपम्, यजतिरूपम् । वैयाकरणरूपः, चौररूपः, दस्युरूपः ।
किञ्चिदूने कल्पब्देश्यदेशीयरः ॥ ५४ ॥
ईपदसमाप्ते वर्तमानात्तिङन्तात् सुबन्ताच्च कल्पब्देश्यदेशीयरो भवन्ति । पटुकल्पः पटुदेश्यः पटुदेशीयः । पचतिकल्पम् पचतिदेश्यम् पचतिदेशीयम् । कथं बहुकृतमिति । बहुशब्द एवायम् | बहुकृतं किञ्चिन्न कृतमित्यर्थः । यदापि बहुकृतं देवदत्तस्य यज्ञदत्तेन बहुकरोऽस्माकं यज्ञदत्त इति तदापि बहुतैव स्फुटो गम्यते । बहुतैलं प्रसन्ना बहुगुडो द्राक्षेत्यपि बहुः । तथा किञ्चिदन्यथेत्ययमर्थो गम्यते । तिङन्तेष्वपि बहु करोतीत्ययमर्थो गम्यते, न च तत पूर्वस्य बहोर्विधिरस्ति ।
प्राग् ढञः कः ॥ ५५ ॥
प्राग् ढञ् संशब्दनाद् [ ७९] वक्ष्यमाणेष्वर्थेषु को विहितो वेदितव्यः | अवकः । गर्दभकः ।
तिङसंख्यानामचो ऽन्त्यात् पूर्वोऽकच् ॥ ५६ ॥
तिङन्तानामसख्यानां च प्राग् ढञोऽचोऽन्त्यात् पूर्वोऽकज् विहितो वेदितव्यः | पचतकि । उच्चकैः ।
कश्च दुः ॥ ५७ ॥
असंख्यानां य ककारान्तानामकज् भवति तत्सन्नियोगेन ककारस्य दकार-आदेशो भवति । हिरकुत् । पृथकत् ।
तूष्णीकाम् ॥ ५८ ॥
अयं शब्दो निपात्यते ।
शीले तूष्णीकः ॥ ५९ ॥
तूष्णींशीले तूष्णीक इति निपात्यते ।
सर्वादीनाम् ॥ ६० ॥
सर्वादीना प्राग् ढञोऽचोऽन्त्यात् पूर्वोऽकज् भवति । सर्वकः विश्वकः । युष्मकाभिः अस्मकाभिः । युष्मकासु अस्मकासु ।
सुपः ॥ ६१ ॥
सर्वादीनामजेव यः सुप् ततः पूर्वोऽकज् भवति । त्वयका मयका स्वयकि मयकि ।
अज्ञातकुत्सयोः ॥ ६२ ॥
अज्ञाते कुत्साया च गम्यमानाया यथाविधि काकचौ भवतः ।
दयायाम् ॥ ६३ ॥
[ दयाया गम्यमानाया यथाविधि काकचौ भवतः । ] वत्सकः । एहकिः । हन्त ते धानकाः । गृहाद् दूरं मा गाः ।
नृनाम्नि ठज्घनिलचो वा ॥ ६४ ॥
मनुष्यनामविनये दयाया गम्यमानाया ठज्घनिलचो वा भवन्ति । देविको देवियो देविलो देवोक देवदत्तको देवदत्तः । दत्तिको दत्तियो दत्तिलो दत्तको देवदत्तः । व्यात्रिको, व्यात्रियो, व्याधिलो, व्याघ्रको व्याघ्रः | [ कृष्णाजिन कृष्णक. अजिनकः ।प्रजापतिदत्तः प्रजापतिकः प्रजापतियः प्रजापतिलः प्रजापतिदत्तक । शेवलिकः शेवलियः शेवलिलः शेवलक: शेवलदत्तकः शेवलेन्द्रदत्तः । एवं सुपरिकः विशालिकः वरुणिकः अर्यमिकः इत्यादि योज्यम् । वागाशीर्दत्तः वागाशीर्दत्तको वाचिको वाचियो वाचिलः । एवं त्वचिकः स्रुचिकः ।
डश्चोपात् ॥ ६५ ॥
उपान्मनुष्यनाम्नि ठजूघनिलचो वा भवन्ति, डश्च, दयायां गम्यमानायाम् । उपिक उपिय उपिल उपड उपकः पूर्ववदेव । उपेन्द्रदत्तः । डकार श्रवणार्थ ।
षषः ।। ६६ ।।
षषष्ठजादयो वा भवन्ति, डश्चान्तादेशः । पडिकः षडियः षडिल: षट्कः ।
ऋतो लयौ ॥ ६७ ॥
ऋदन्तान्मनुष्यनाम्नो दयायां गम्यमानायां लयौ वा भवतः । सवितृलः सवितृयः सवितृकः सवितृदत्तकः।
उदन्तात् ॥ ६८ ॥
उदन्तान्मनुष्यनाम्नो दयायां गम्यमानायां लयौ वा भवतः भानुल: भानुयः भानुकः । अन्तग्रहणात् प्रकृतिभावः । भानुदत्तकः । एवम्प्रकाराणि नामान्तराण्येवेति न कस्यचिल्लोपो वक्तव्यः । लहोड:, लहिकः । कहोड : काहिकः इत्येतान्यपि नामान्तराण्येव ।
अल्पे ॥ ६९ ॥
अपचितपरिमाणे वर्तमानाद् यथाविधि काकचौ भवतः । अल्पं तैलं तैलकम् । घृतकम् । पचतकि । उच्चकैः ।
ह्रस्वे ॥ ७०
दीर्घविपरीते वर्तमानात् काकचौ भवतः । वृक्षकः प्लक्षकः | संज्ञायामपि वंशको नडकः ।
कुटीशमीशुण्डाभ्यो रः ॥७१॥
कुट्यादिभ्यो रः परो भवति । कुटीरः शमीरः शुण्डारः | स्वभावतः पुंलिङ्गाः ।
कुतुपः ॥ ७२ ॥
कुतुप इति ह्रस्वे निपात्यते ।
कासीगोणीभ्यां ष्टरच् || ७३॥
कासूगोणीभ्यां हस्वाभ्यां ष्टरज् भवति । ह्रस्वा कासूः कासूतरी । गोणीतरी ।
वत्सोक्षाश्वर्षभाणां तनुत्वे ॥ ७४ ॥
वत्सादीनां स्वभावस्य तनुत्वे गम्यमाने ष्ठरज् भवति । शैशवस्य तनुत्वे वत्सतरः । यौवनस्य तनुत्व उक्षतरः । अश्वभावस्य तनुत्वेऽश्वतरः । सामर्थ्यस्य तनुत्व ऋषभतरः ।
यत्तदेकाद् द्वाभ्यां निर्धारणे उतरच् ॥ ७५ ॥
यदादिभ्यो द्वाभ्यामेकस्य निर्धारणे उतरज् भवति वा । यतरो भवतो देवदत्तः तर आगच्छतु । यो भवतो देवदत्तः स आगच्छतु । यको भवतो देवदत्तः सक आगच्छतु । एकतरो भवतो देवदत्तः, एको भवतो देवदत्तः, एकको भवतो देवदत्तः
जातौ डतमज् बहुभ्यः ॥ ७६ ॥
जातौ वर्तमानेभ्यो यदादिभ्यो बहुभ्य एकस्य निर्धारणे उतमज् वा भवति । यतमो भवता कठ ततम आगच्छतु । यो भवतां कठः स आगच्छतु । कतमो भवता कठः को भवतां कठः? जाताविति किम् ? यो भवतां देवदत्तः स आगच्छतु ।
तौ किमः ॥ ७७ ॥
निर्धारणे किमस्तौ उतरज्डतमचौ वा भवतः । कतरो भवतोर्देवदत्तः कतरो भवता कठः ? कतमो भवता कठः? भारद्वाजानां कतमोऽसि ब्रह्मन्?
इवे संज्ञाप्रतिकृत्योः ॥ ७८ ॥
कतमो भवतां देवदत्तः इवार्थे वर्तमानात् संज्ञायां प्रतिकृतौ च को वा भवति । अश्व इवायम् अश्वकः । गर्दभकः । सज्ञाप्रतिकृत्योरिति किम् ? गौरिव गवयः । चञ्चैव चञ्चा । वार्ध्रिकेव वर्ध्रिका । इति । सोऽयमित्यभिनिवेशात्तच्छब्देना- भिधानम् । एवं प्रतिमासु स्कन्दो विष्णुरिति । आलेख्ये भीमोऽर्जुन इति । ध्वजेषु सिंहो गरुड इति । तथा देवपथो हसपथ इत्येवमादिषु व्यवस्थितविभाषया को न भविष्यति । कचिदिष्यत एव । हस्तको दण्डक इति । पुष्पकमिति च ।
वस्तेर्ढञ् ॥ ७९ ॥
वस्तेरिवार्थे वर्तमानाड् ढञ् भवति । वस्तिरिव वास्तेयम् ।
शिलाया ढश्च ॥ ८० ॥
शिलाया इवार्थे वर्तमानाया ढो भवति ढञ्च । शिलेयं दधि, शैलेयम् ।
शाखादिभ्यो यः ॥ ८१ ॥
शाखादिभ्य इवार्थे यो भवति । शाखेव शाख्यम् || शाखा | मुख । जघन । शृङ्ग । मेघ । चरण । स्कन्ध । उरस् । अग्र । द्रु | दुरिव द्रव्यम् । सारमित्यर्थः । अभव्येष्वपि घटादिषु दृश्यते ।
कुशाग्राच्छः || ८२ ।।
कुशाग्रादिवार्थे छो भवति । कुशाग्रीया बुद्धिः ।
आकस्मिके ॥ ८३ ॥
इवार्थे वर्तमानादाकस्मिकेऽभिधेये छो भवति । काकतालयोरिव मिलनं यदाकस्मिकं किश्चित् तत् काकतालीयम् । अजाकृपाणीयम् ।
शर्करादिभ्योऽण् ॥ ८४ ॥
शर्करादिभ्य इवार्थेऽण् भवति । शार्करम् । कापालिकम् ॥ शर्करा । कपालिका । कपाटिका । पुण्डरीक । शतपत्र । गोलोमन् । गोपुच्छ । नराची । नकुल । सिकता ।
अङ्गुल्यादिभ्यष्ठक् ॥ ८५ ॥
अङ्गुल्यादिभ्य इवार्थे ठग् भवति । आङ्गुलिकः । भारुजिकः || अड्गुलि । भरुज | बभ्रु । वल्गु । मण्डर । मण्डल । शष्कुल । हरि । कपि । मुनि । भरु | खल | उदश्वित् । गोणी । तरस् । कुलिश |
एकशालायाष्टच् च ॥ ८६ ॥
एकशालाया इवार्थे ठञ् भवति, ठक् च । एकशालिक ऐकशालिकः ।
कर्कलोहितादीकक् ॥ ८७ ॥
कर्कलोहिताभ्यामिवार्थ ईकग् भवति । कार्कीक । लौहितीकः ।
पूगाञ् ञ्यः ॥ ८८ ॥
नानाजातीयानामनियतवृत्तीनां सङ्घः पूगः । पूगवाचिनः स्वार्थे व्यो भवति । लौहध्वज्यः लौहध्वज्यौ । शैव्यः शैव्यौ । समुदायशब्दोऽवयवेऽपि वर्तते । इह कस्मान्न भवति देवदत्तो ग्रामणीरेपाम् देवदत्तका इति ? नैष स्वभावतः पूगवचनः ।
वातादस्त्रियाम् ॥ ८९ ॥
नानाजातीयानामनियतवृत्तीनामुत्सेधजीविनां सङ्घो व्रातः । तद्वाचिनः स्वार्थे ञ्योऽस्त्रियां भवति । कापोतपाक्यः कापोतपाक्यौ । व्रैहिमत्यः व्रैहिमत्यौ । अस्त्रियामिति किम् ? कपोतपाकी स्त्री ।
बाहीकेष्वब्राह्मणराजन्याच्छत्रजीविसङ्घाञ् ञ्यट् ॥ ९० ॥
बाहीकेषु यः शस्त्रजीविसङ्घो ब्राह्मणराजन्यवर्जितस्तद्वाचिनो ञ्यड् भवति । क्षौद्रक्यः क्षौद्रक्यौ । मालव्यो मालव्यौ । वाहीकेष्विति किम् शबरा । अब्राह्मणराजन्यादिति किम् ? शालङ्कायना राजन्या । राजन्य इति स्वरूपग्रहणम् । स्त्रियां स्वरे च विशेषात् प्रतिपेधः । शस्त्रजीविसङ्घादिति किम् ? मल्ला । सङ्घग्रहणं किम् ? चक्रघोण । टकारो ङीबर्थ ।
वृकाण्णेण्यट् ॥ ९१ ॥
वृकशब्दाच्छत्रजीविसङ्घवाचिनो णेण्यड् भवति । वार्केण्य वार्केण्यौ । पशुवाचिनो न भवति । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव ।
दामन्यादिभ्यश्छः || ९२ ॥
दामन्यादिभ्यः शस्त्रजीविसङ्घवाचिभ्यश्छो भवति । दामनीयः । औलपीयः ॥ दामनि । औलपि । बैजवापि । औद कि । आच्युतन्ति । काकन्तकि । शाकुन्तकि । सार्वसेनि । बिन्दु | तुलभ | मौञ्जायन | सावित्रीपुत्र । त्रिगर्तेषु षष्ठा । कौण्डोपरथ । दाण्डकि । कौष्टुकि । जालमानि । ब्रह्मगुप्त । जानकि । कौण्डोपरथीयः, दाण्डकीयः, कौटुकीयः, जालमानीयः, ब्रह्मगुप्तीयः, जानकीयः । त्रिगर्तेष्विति किम्? कौण्डोपरथ्य । पूगाञ् ञ्यो भवति ।
पर्श्वादिभ्योऽस्त्रियाम् ॥ ९३ ॥
पर्श्वादिभ्यः शस्त्रजीविसङ्घवाचिभ्योऽस्त्रियामण् भवति । पार्शवः। आसुरः । अस्त्रियामिति किम्? पर्शूः । शस्त्रजीविसङ्घादित्येव । पर्शुः ॥ पर्शु । असुर । रक्षस् । बाह्लीक । वयस् । वसु । मरुत् । सत्वन्तु । दशाह | पिशाच । अशनि । कार्पापण’ । त्रिगर्त । भरत । उशीनर । कथं यौधेय इत्यादि । युधाया “द्वयचः”[२/४/५१] इति ढक् । शुभ्रधृतवृत्तज्यबाणेभ्यः शुभ्रादित्वात् [२|४|५३] । यौधेयीत्यादिषु ढगन्तादेव डीप् । स्वरविशेष तु स्वराध्याये वक्ष्यामः |
ञ्यादीनां बहुषु लुक् ॥ ९४ ॥
ञ्यादीनां बहुषु लुग् भवति । लोहध्वजा । कपोतपाका । क्षुद्रकाः । वृकाः । दामनयः । अस्त्रियामित्येव । लौहध्वज्याः स्त्रिय: । कपोतपाक्यः । दामनीया ।
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदुर्गावच्छ्रमद्भ्योऽप- त्याणो यञ् ॥ ९५ ॥
अभिजिदादिभ्योऽपत्ये योऽण् तदन्तेभ्यः स्वार्थे यञ् भवति । आभिजित्यः वैदभृत्यः शालावत्यः शैखावत्यः शमीवत्यः और्णावत्यः श्रौमत्यः । अपत्यग्रहणं किम् ? अभिजितः स्थालीपाकः । बहुषु लुगित्येव । आभिजिता । अस्त्रियामित्येव । अभिजित्यः स्त्रियः । अपत्यस्वार्थिकस्य चास्य यञञोः [२|४|१०७] इति लुगस्त्रिया नास्त्येव । आभिजित्यस्यापत्यं गुर्वायत्तः अभिजित्यायनः । यञिञ [ २/४/३७ ] इति फक् । अभिजित्यस्य च्छात्रः आभिजितक: । गोत्राद् वुम् [३/३/६६ ] | अभिजितानां सङ्घ आभिजितः । सङ्घाङ्कघोषलक्षणेष्वञ्यञिञः [३/३/९८] इत्यण् |
इति चान्द्रे व्याकरणे चतुर्थस्याध्यायस्य तृतीय: पाद: समाप्तः