धान्येभ्यः क्षेत्रे खञ् ॥ १ ॥
धान्येभ्यः षष्ठ्यन्तेभ्य. क्षेत्रे खञ् भवति । कुलत्थानां क्षेत्रम् कौलत्थीनम् । धान्येभ्य इति किम् ? तृणानां क्षेत्रम् | क्षेत्र इति किम् ? मुद्गानां कुसूल ।
व्रीहिशार्दक् ॥ २ ॥
व्रीहिशालिभ्यां षष्ठ्यन्ताभ्यां क्षेत्रे ढग् भवति । व्रैहेयम् । शालेयम् ।
यवयवकषष्टिकाद् यत् || ३ ||
यवादिभ्य षष्ठयन्तेभ्यः क्षेत्रे यद् भवति । यव्यम् । यवक्यम् ॥ यष्टिक्यम् ।
वा तिलमाषोमाभङ्गाणुभ्यः ॥ ४ ॥
तिलादिभ्यः क्षेत्रे यद् वा भवति । तिल्यम् तैलीनम् । माष्यम् माषीणम् । उम्यम् औमीनम् । भङ्गय्म् भङ्गीनम् । अणव्यम् आणवीनम् ।
अश्वादेकागमे खञ् ॥ ५ ॥
अश्वात् षष्ठ्यन्तादेकाहेन गम्यमाने खञ् भवति । आश्वीनोऽध्वा ।
गोष्ठाद् भूते ॥ ६ ॥
गावस्तिष्ठन्त्यस्मिन्निति गोष्ठ भवति, तस्माद् भूते वर्तमानात् स्वार्थे खञ् भवति। गौष्ठीनः । भूत इति किम् ? गोष्ठो वर्तते ।
साप्तपदीनं सख्ये ॥ ७ ॥
साप्तपदीनमिति सख्ये गम्यमाने निपात्यते । सप्तभिः पदैरवाप्यते साप्तपदीनं सख्यम् । साप्तपदीनः सखा । साप्तपदीनं मित्रम् ।
सर्वचर्मणा कृतः ॥ ८ ॥
सर्वचर्मशब्दात् तृतीयान्तात् कृतेऽर्थे खञ् भवति । सार्वचर्मीणः । अन्ये त्वसमर्थसमासमिच्छन्ति – सर्वश्वर्मणा कृतः सार्वचर्मीण इति ।
खः ॥ ९ ॥
सर्वचर्मणस्तृतीयान्तात् कृतेऽर्थे खो भवति । सर्वचमिणः ।
यथामुखसम्मुखं दृश्यतेऽस्मिन् ॥ १० ॥
यथामुखसम्मुखशब्दाभ्यां प्रथमान्ताभ्यां
दृश्यतेऽस्मिन्नित्यस्मिन्नर्थे
खो भवति । यथामुखं दृश्यतेऽस्मिन्निति यथामुखीनः आदर्शादि: । सम्मुखीनः । यथामुखमिति सादृश्येऽपि निपातनात् समासः, समं मुखं सम्मुखम् इति च सम्यग् वा मुखं सम्मुखम् ।
सर्वादिपथ्यङ्गकर्मपत्त्रपात्रं व्यामोति ॥ ११ ॥ पथिप्रभृतिभ्यो द्वितीयान्तेभ्यः सर्वादिभ्यो व्याप्नोतीत्यस्मिन्नर्थे खो भवति । सर्वपथं व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्त्रीणः । सर्वपात्रीणः ।
आग्रपदं प्राप्नोति ॥ १२ ॥
पदा प्रपदं तद् यावदाग्रपदम् । ततो द्वितीयान्तात् प्राप्नोतीत्य- स्मिन्नर्थे खो भवति | आग्रपदीनः पटः ।
अनुपदं बद्धा ॥ १३ ॥
अनुपदशब्दाद् द्वितीयान्ताद् बद्धाया खो भवति । अनुपदीनाम् उपानत् ।
अयानयं नेयः ॥ १४ ॥
अय प्रदक्षिणम्, अनयः प्रसव्यम् । तदुभयम् अयानयम् । ततो द्वितीयान्तान्नेयेऽर्थे खो भवति । अयानयीनः शार ।
सर्वान्नमत्ति ॥ १५ ॥
सर्वान्नाद् द्वितीयान्तादत्तीत्यस्मिन्नर्थे खो भवति । सर्वान्न भक्षयति सर्वान्नीनो ब्राह्मणः ।
परोऽवरपरम्परपुत्रपौत्रमनुभवति ॥ १६ ॥
परोऽवरादिभ्यो द्वितीयान्तेभ्योऽनुभवतीत्यस्मिन्नर्थे खो भवति । परं चावरं च परोऽवरम् । निपातनादुत्वम् । परं च परतरं च परम्परम् । निपातनान्नुम् । परोऽवरीण । परम्परीण । पुत्रपौत्रीणः ।
पारावारावारपारात्यन्तानुकामं गामी ॥ १७ ॥
पारावारादिभ्यो द्वितीयन्तेभ्यो यथायोगं समस्तासमस्तेभ्यो गामीत्यस्मिन्नर्थे खो भवति । पारावारं गामी पारावारीणः । अवारपारीणः । अवारीणः | पारीणः । अत्यन्तीनः । अनुकामीनः ।
अनुग्वलम् || १८ ||
अनुगुशब्दाद् द्वितीयान्ताद् अलंगामीत्यस्मिन्नर्थे खो भवति । अनुगवीनः ।
अध्वानं यच्च ॥ १९ ॥
अध्वन्-शब्दाद् द्वितीयान्ताद् अलंगामीत्यस्मिन्नर्थे खो भवति यच्च । अध्वनीन । अध्वन्यः ।
अभ्यमित्रं छथ ॥ २० ॥
अभ्यमित्रशब्दाद् द्वितीयान्ताद् अलंगामीत्यस्मिन्नर्थे खो भवति, छश्व, यच्च | अभ्यमित्रीणः | अभ्यमित्रीयः । अभ्यमित्र्यः ।
समांसमीनाद्यवीनागवीनाः ॥ २१ ॥
एते शब्दाः खान्ता निपात्यन्ते । समाया समाया विजायते समा-समीना गौः । अद्य श्वो वा विजायते भवति वा अद्यश्वीना । आ गोः प्रतिपादनाद् अर्पणात् कर्म करोति आगवीनः कर्मकरः |
अषडक्ष्वाशितंग्वलंकर्मालंपुरुषाध्यन्तात् ॥ २२ ॥
नास्मिन् षडक्षीणि विद्यन्त इत्यषडक्षः । आशिता गावोऽस्मिन्नाशितङ्गुः । निपातनान्नुम् | अलं कर्मणे । अलं पुरुषाय । कुप्रादयः [२|२/२४] इति समासः । राजन्यधिः । अस्मादेव निपातनात् खविषये समासः । एभ्यः स्वार्थे खो भवति । अपडक्षीणो मन्त्रः । आशितङ्गवीनमरण्यम् । अलं- कर्मणः । अलपुरुषीणः । राजाधीनः ।
अदिश्यश्वो वा ।। २३ ।।
अञ्चतेः क्विन्नन्तात् स्वार्थे खो वा भवति, न चेद्दिगुच्यते । प्राक् प्राचीनम् । अपाक् अपाचीनम् । उदक् उदीचीनम् । अदिशीति किम् ? प्राची दिक् ।
पील्वादीनां पाके कुणप् ॥ २४ ॥
पील्वादिभ्यः षष्ठ्यन्तेभ्यः पाके कुणब् भवति । पीलुकुणः ||
कर्णादीनां मूले जाहच् ॥ २५ ॥
कर्णादिभ्यः षष्ठ्यन्तेभ्यो मूले जाहज् भवति । कर्णजाहम् । अक्षिजाहम् || कर्ण | अक्षि | नख । मुख । केश । पाद । गुल्फ । भ्रू । शृङ्ग । दन्त । ओष्ठ । पुष्प |
तेन वित्तचुञ्चुप्चणपौ ॥ २७ ॥
तृतीयान्ताद् वित्तेऽर्थे चुञ्चुप्चणपौ भवतः । केशैर्वित्तः केशचुञ्चुः केशचणः ।
विना नाना ॥ २८ ॥
एतौ शब्दौ निपात्येते ।
सम्प्रोन्नेश्च कटच् ॥ ३० ॥
समः प्राद् उदो नेर्वेश्च कटज् भवति । सङ्कटः । प्रकटः । उत्कटः । निकटः । विकटः ।
अवात् कुटारच्च ॥ ३१ ॥
अवात् कुटारज् भवति, कटच्च । अवकुटारः । अवकटः ।
नासानतौ टीटज्नाटज्भ्रटचः ॥ ३२ ॥
नासिकाया नमने वाच्ये अवाट्टीटजादयो भवन्ति । अवटीटम् नासानमनम् । अवनाटम् । अवभ्रटम् । तद्योगाद् अवटीटा नासिका । अवटीट: पुरुषः ।
निबिडनिबिरीषचिकचिकिनचिपिटाः ॥ ३३॥
एते शब्दा नासानतेरन्यत्रापि यथायोगं निपात्यन्ते । निविड : । निविरीष । चिक्कः | चिकिनः । चिपिटः ।
क्लिन्नचक्षुषि चिल्लीपिल्लचुल्लाः ॥ ३४ ॥
क्लिन्ने चक्षुषी यस्य तस्मिन्नभिधेये चिल्लपिल्लचुल्ला इति निपात्यन्ते ।
उपत्यकाधित्यके || ३५ ॥
एतौ शब्दौ निपात्येते । समीपभूमिरुपत्यका । उपरिभूमिरधित्यका । अलाबूतिलोमाभङ्गाना रजसि कटज् न वक्तव्यः, कटशब्दस्य तद्रजोवाचित्वात् । अलाबूना रजः अलाबूकटम् । तिलकटम् । उमाकटम् । भङ्गा- कटम् । क्वचित् सङ्घातेऽपि वर्तते । अवीना सङ्घात अविकटः । उष्ट्रकटः । पटशब्दोऽपि विस्तारे दृश्यते । अवीना विस्तार अविपट । गोष्ठजादयोऽपि स्थानादिषु पशुनामादिभ्यः स्वभावसिद्धत्वान्न वक्तव्या, स्थानपर्यायो हि गोष्टशब्दः । गोगोष्ठम् महिषीगोष्ठम् । उष्ट्रगोयुगम् अश्वगोयुगम् इति नरपुङ्गववत्समासः । एवं हस्तिषङ्गवम् उष्ट्रषङ्गवमिति । घृतादन्यत्र स्नेहे तैलमिति रूढि । सर्षपतैलम् इङ्गुदीतैलम् इति । शाकटः शाकिनम् इति क्षेत्रपर्यायः । इक्षुशाकटम् मूलशाकिनमिति ।
कर्मणि घटतेऽच् || ३६ ||
कर्मण सप्तम्यन्ताद् घटमानेऽठज् भवति । कर्मठः ।
तदस्य सञ्जातं तारकादिभ्य इतच् ॥३७॥ प्रथमान्तेभ्यस्तारकादिभ्योऽस्येति पष्ठयर्थ इतज् भवति, सञ्जाताश्चेत् ते भवन्ति । तारकाः सञ्जाता अस्य तारकितं नभः । पुष्पितो वृक्षः ॥ तारका । पुष्प । कण्टक। ऋजीप । मूत्र । निष्क्रमण । पुरीष । उच्चार | विचार | कुड्मल | प्रचार | मुकुल | कुसुम । स्तबक | किसलय | वेग । निद्रा । तन्द्रा । बुभुक्षा | पिपासा । श्रद्धा । अभ्र । रोग | अङ्गार । पल्लव | द्रोह । दोह । सुख । दुःख । उत्कर्ष । उत्कण्ठा । गर । व्याधि । व्रण | गर्भादप्राणिनि ।
माने मात्रट् ॥ ३८ ॥
प्रथमान्तान्मानवृत्तेरस्येत्यस्मिन्नर्थे मात्रड् भवति । पलमुन्मानमस्य पलमात्रम् । हस्तः प्रमाणमस्य हस्तमात्रम् । प्रादेशमात्री समित् । शतं मानमस्य शतमात्रम् । प्रस्थः परिमाणमस्य प्रस्थमात्रम् । अभेदोपचारात् प्रस्थ इत्यपि भवति ।
ऊर्ध्व दघ्नड् द्वयसट् च ॥ ३९ ॥
ऊर्ध्वमानवृत्तेरस्थेत्यस्मिन्नर्थे दघ्नड् द्वयसड् मात्रड् भवति । ऊरुदन्नम् ऊरुद्वयसम् ऊरुमात्रम् । जानुदघ्नी जानुद्वयसी जानुमात्री नदी । विशतिमात्रास्त्रिंशन्मात्रा वा पुरुषाः, जानुद्वयसमूरुद्वयस वा नदीजलम् इति संश- येsपि प्रयुज्यत एव तथाभ्यूहनात् । तावत्परिमाणमस्येति यथा वाक्यं भवति, तथा वृत्तिरपि भविष्यति – तावन्मात्रम् तावद्वयसमिति ।
हस्तिपुरुषादण् च ॥ ४० ॥
एताभ्यां प्रथमान्ताभ्यामूर्ध्वमानवृत्तिभ्याम् अण् भवति, मात्रड्, दघ्नड् द्वयसट् च । हस्ती परिमाणमस्य हास्तिनम् पौरुषम् । हस्तिमात्रम् पुरुषमात्रम् । हस्तिदघ्नम् पुरुषदघ्नम् । हस्तिद्वयसम् पुरुषद्वयसम् ।
संख्यादेः संख्येयाल्लुक् ॥ ४१ ॥
संख्यादेः संख्येयान्तान्मानवृत्तेरुक्तस्य लुग् भवति । द्विप्रस्थम्, द्विप्रस्थी । द्विपुरुषम्, द्विपुरुषी । संख्येयादिति किम् ? एकादशमात्रा ब्राह्मणाः सन्ति ।
शञ्शच्छतेर्डिनिर्वा ॥ ४२ ॥
शनन्ताच् शदन्ताच् शत्यन्ताश्च तदस्य परिमाणमित्यस्मिन्नर्थे डिनिर्वा भवति । पञ्चदशिनोऽर्धमासाः । त्रिंशिनो मासाः । विंशिनोऽङ्गिरसः । पश्चदशमात्रा : त्रिंशन्मात्रा : विंशतिमात्राः ।
यत्तदेतो वतुप् ॥ ४३ ॥
यदादिभ्यः प्रथमान्तेभ्यो मानवृत्तिभ्योऽस्येत्यस्मिन्नर्थे वतुब् वा भवति यत् परिमाणमस्य यावत् तावत् एतावत् । यन्मात्रम् तन्मात्रम् एतन्मात्रम् ।
इयत् कियत् ॥ ४४ ॥
इदमः किमश्च वतुप्, तत्र चैतद्रूपं निपात्यते वा ।
कतिः संख्यायाम् ॥ ४५ ॥
कतीति निपात्यते वा संख्याया विषये । कत्येते ? कियन्त एते?
अंशे संख्यायास्तयट् ॥ ४६ ॥
अवयववृत्तेः संख्यायाः प्रथमान्ताया अस्येति षष्ठ्यर्थे तयड् भवति । पच अंशा अस्य पञ्चतयः सङ्घः । पचतयी शाला ।
द्वित्रिभ्यामयड् वा ॥ ४७ ॥
द्वित्रिभ्यामंशवृत्तिभ्यां प्रथमान्ताभ्यामस्येति षष्ठयर्थेऽयड् वा भवति । द्वावंशावस्य द्वयम् | त्रयम् । द्वितयम् । त्रितयम् ।
उभात् ॥ ४८ ॥
उभशब्दादंशवृत्तेः प्रथमान्तादस्येति षष्ठ्यर्थेऽयड् भवति नित्यं योगविभागात् । उभयो मणिः । उभयी स्थितिः । उभये देवमनुष्याः ।
निमाननिमेययोर्मयट् ॥ ४९ ॥
निमाननिमेययोरंशे वर्तमानायाः संख्याया अस्येति षष्ठ्यर्थे निमाने निमेये वा मयड् भवति । द्वौ यवांशौ निमानमस्योदश्वितः द्विमयमुदश्विद्यवानाम् । त्रिमयम् । द्वावुदश्विदंशौ निमेयमेषा यवानाम् द्विमया यवा उदश्वितः । त्रिमयाः । निमाननिमेयसम्बन्धे षष्ठी । इह कस्मान्न भवति – द्वौ यवांशौ निमानमेषामुदश्विदंशानामिति । समुदितानां यवाशसंख्यासम्बन्धाभावात् । प्रत्येकसम्बन्धे तु भवितव्यमेव । तथा द्वावुदश्विदंशौ निमेयमेषा यवाशानामिति । एको यवांशो निमानमस्योदश्वित इति न भवति, एकस्याशाशिकल्पनाभावात् । समता तु तदावगम्यते । अथवा निमाननिमेययोरंशभूतायाः संख्याया अस्येति षष्ठ्यर्थे तस्मिन्नेव निमाने निमेये वा मयड् भवति । द्वावंशावेषा निमानमूताना यवाना द्विमया यवा उदश्वितः । त्रिमयाः । द्वावंशावस्य निमेयभूतस्योदश्वितः द्विमयमुदश्विद् यवानाम् । त्रिमयम् । एंकोऽंशो यवानामिति कस्मान्न भवति । निमेयाशानवगमात् । एकोऽंश उदश्वित इति कस्मान्न भवति । निमानाशानवगमात् । अध्यर्धं यवानामिति कस्मान्न भवति ? अध्यर्धं न संख्या, सख्याध्यर्धादेः [ ४|१|३८ ] इति पृथग् ग्रहणात् । अंश इत्येव । द्वौ व्रीहियवौ निमानमस्योदश्वितः । संख्याया इत्येव । अंशो निमानमस्योदश्वित ।
शतिशद्दशान्ताधिकास्मिञ् शतसहस्रे डः ॥ ५० ॥
शत्यन्ताया शदन्ताया दशान्तायाश्च सख्यायाः प्रथमान्ताया अस्मिन्निति सप्तम्यर्थे डो भवति सा चेत्सख्याधिका भवति, यत्तदस्मिन्निति तच्चेच्छतं सहस्रं शतसहस्रं वा भवति । विशतिरधिकास्मिन् शते विंशं शतम्, एकाविश शतं सहस्रं वा । त्रिंश शतम्, एकत्रिंशम् । एकादशम्, द्वादशम् । शन्ग्रहणेन सिद्धे दशान्तग्रहणं केवलनिवृत्त्यर्थम् । शतिशदन्तात्तु केवलादकेवलाञ्च भवति, तदन्तमात्रग्रहणात् । शतिशद्दशान्तेति किम् ? षडधिका अस्मिन् शते । अधिकेति किम् ? पञ्चदशहीना अस्मिन् शते । अस्मिन्निति किम् ? विशतिरधिकास्माच्छतात् । शतसहस्र इति किम् ? एकादशाधिका अस्या विंशतौ । इह कस्मान्न भवति – एकादश पणा अधिका अस्मिन् कार्षापणशतम् इति ? पणाधिक्यानवबोधात् । एकादशं कार्षापणशतमिति ह्युक्ते समानजातीयानामेव कार्षापणानामाधिक्यं प्रतीयते ।
तस्य पूरणे डट् ॥ ५१ ॥
षष्ठ्यन्तायाः संख्यायाः पूरणे डड् भवति । सा संख्या पूर्यते येन तत् पूरणम् । एकादशानां पूरणम् एकादशः । द्वादशः द्वादशी । संख्यापूरणग्रहणादिह न भवति । द्वादशानां मुष्टिकाना पूरणो घट इति ।
विंशत्यादिभ्यस्तमड् वा ॥ ५२ ॥
विंशत्यादिभ्यः षष्ट्यन्तेभ्य पूरणे तमड् वा भवति । विंशतितमः विंशः | एकविंशतितमः एकविंशः । त्रिंशत्तमः त्रिंशः । पञ्चाशत्तमः पञ्चाशः । अष्टापञ्चाशत्तमः अष्टापञ्चाशः |
शतादिमासार्धमाससंवत्सरात् ॥ ५३ ॥
शतादिभ्यो मासादिभ्यश्च पष्ठ्यन्तेभ्य पूरणे तमड् भवति नित्यं पुनर्विधानात् । शततम एकशततम । सहस्रतम एकसहस्रतमः । मासतमः अर्धमासतमः संवत्सरतमः |
षष्ट्यादेरसंख्यादेः || ५४ ॥
षष्ट्यादिभ्योऽसंख्यादिभ्य पूरणे नित्यं तमड् भवति । षष्टितमः । सप्ततितम: । अशीतितमः । नवतितमः । असंख्यादेरिति किम् ? एकषष्टः एकषष्टितमः ।
नो मट् ॥ ५५ ॥
नान्तादसंख्यादेः पूरणे मड् भवति । पञ्चमः । सप्तमः । असंख्यादेरित्येव । एकादशः ।
षट्कतिकतिपयात् थट् ||५६ ||
एतेभ्यः पूरणे थड् भवति । षष्ठः । कतिथः । कतिपयथः ।
चतुरः ॥ ५७ ॥
चतुरः पूरणे थड् भवति । चतुर्थः ।
यच्छौ चलोपश्च ॥ ५८ ॥
चतुरः पूरणे यच्छौ भवतः, चकारस्य च लोपः । तुर्यः तुरीयः ।
द्वितीयतृतीयौ ॥ ५९ ॥
एतौ शब्दौ पूरणे निपात्येते ।
बहुपूगगणसङ्घात् तिथट् || ६०||
एतेभ्यः पूरणे तिथड् भवति । बहुतिथः । पूगतिथः । गणतिथः । सङ्घतियः ।
वतोरिथट् ॥ ६१ ॥
वत्वन्तात् पूरण इथड् भवति । यावतिथः । तावतिथः ।
भागेऽष्टमाञ् ञो वा ॥ ६२ ॥
भागे वर्तमानादष्टमात्स्वार्थे ञो वा भवति । अष्टमो भागः आष्टमः । पवनेऽप्यनेनैव सिद्धम् ।
षष्ठात् ॥ ६३ ॥
भागे वर्तमानात् षष्ठात् स्वार्थे जो वा भवति । षष्ठो भागः षाष्ठः।
माने कंश्च ॥ ६४ ॥
मानविषये भागे वर्तमानात् षष्ठात् स्वार्थे कन् भवति ञश्च वा । षष्ठको भागः, षाष्ठः, षष्ठः ।
तेन गृह्णातीति लुक् च ॥ ६५ ॥
तृतीयान्तात् पूरणार्थाद् गृह्णातीत्यस्मिन्नर्थे कन् भवति, लुक् व पूरणार्थानां डडादीनाम् । षष्ठेन रूपेण गृह्णाति षट्कः । पञ्चकः । इतिशब्दो विवक्षार्थः, तेन ग्रन्थग्रहणम् एव भवति । इह न भवति पञ्चमेन दिनेन शत्रुं गृह्णाति ।
ग्रहणे वा ॥ ६६ ॥
येन रूपेण गृह्यते तस्मिन् पूरणे विहितस्य कन् भवति, लुक् च वा । द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकग्रहणम्, द्वितीयकम् । त्रिकम् तृतीयकम् ।
एकादा किनिच्चासहाये ॥ ६७॥
एकादसहाये कन् भवति, आकिनिच् च वा । एककः एकाकी एकः।
आकर्षादिषु कुशलः ॥ ६८ ॥
आकर्षादिभ्यः सप्तम्यन्तेभ्यः कुशल इत्यस्मिन्नर्थे कन् भवति । आकर्षकः । त्सरुकः ॥ आकर्ष । त्सरु । पिशाच । पिचण्ड । अशनि । अश्मन् । निचय । जप । नय । पाद । हृद । ह्लाद | शकुनि ।
पथक: ।। ६९ ।
अय शब्दो निपात्यते पथि कुशल इत्येतस्मिन्नर्थे ।
धनहिरण्ये कामः ॥ ७० ॥
एताभ्यां सप्तम्यन्ताभ्यां कामे कन् भवति । धने काम धनकः । हिरण्यकः |
स्वाङ्गेषु सक्तः ॥ ७१ ॥
स्वाङ्गेभ्य सप्तम्यन्तेभ्य सक्ते कन् भवति । दन्तेषु सक्तः दन्तकः | मुखकः । दन्तोष्ठकः । केशनखकः ।
औदरिकोऽलसे || ७२ ॥
ओदरिक इत्यलसे निपात्यते उदरे सक्त इत्यस्मिन्नर्थे । उदरकोऽन्यः ।
सस्येन परिजातः ॥ ७३ ॥
सस्यशब्दात् तृतीयान्तात् परिजातेऽर्थे कन् भवति । सस्यक खड्ग । सस्यको मणिः । सारेण सर्वत सम्पन्न इत्यर्थः ।
अंशं हारी ॥ ७४ ॥
अंशाद् द्वितीयान्तादवश्यहारिणि कन् भवति । अंशक । तन्त्रान्नवोद्धृते ॥ ७५ ॥
तन्त्रात्पञ्चम्यन्तादचिरापहृते कन् भवति । तन्त्रकः पटः ।
ब्राह्मणान्नाम्नि ॥ ७६॥
ब्राह्मणशब्दात्सज्ञायाः कन् भवति । ब्राह्मणको नाम देशः, यत्र काण्डस्पृष्टा ब्राह्मणाः ।
उष्णात् ॥ ७७ ॥
उष्णान्नाम्नि कन् भवति । उष्णिका यवागूः । अल्पान्ना । नदीति केचित् ।
शीताच्च कारिणि ॥ ७८ ॥
शीतादुष्णाच्च कारिणि कन् भवति । आवश्यके णिनिः [१/२/५५ ] | शीतमुष्णं च क्रियाविशेपणम् । शीतकोऽलस, उष्णको दक्ष’ ।
अधिकम् ॥ ७९ ॥
अध्यारूढस्य कन् भवति वृत्त्युत्तरपदलोपश्च निपात्यते । अध्यारूढो द्रोणः खार्याम् अधिकः । अध्यारूढा खारी द्रोणेन, अधिका द्रोणेन ।
अनुकामिकाभीकं कमिता ॥ ८०॥
एते शब्दा निपात्यन्ते कमिता चेत्। अनुकाम्यते अनुकः। अभिकाम्यते अभिक अभीकः ।
पार्श्वेनान्विच्छति ॥ ८१ ॥
पार्श्वशब्दात् तृतीयान्तादन्विच्छतीत्यस्मिन्नर्थे कन् भवति पार्श्वकः । अप्रगुणेन पथा योऽर्थानन्विच्छति स एवोच्यते ।
अयःशूलदण्डाजिनाभ्यां ठक् ॥ ८२ ॥
एताभ्यां तृतीयान्ताभ्यामन्विच्छतीत्यस्मिन्नर्थे ठग् भवति । तीक्ष्ण उपायोऽयं शूलम् । तेनान्विच्छति आयः शूलिकः । राभसिक इत्यर्थः । दम्भोपलक्षणं दण्डाजिनम् । तेनान्विच्छति दाण्डाजिनिकः । दाम्भिक इत्यर्थः ।
सोऽस्य ग्रामणीः || ८३ ||
प्रथमान्तादस्येति षष्ठ्यर्थे कन् भवति यत्तत्प्रथमान्त ग्रामणीश्चेत्तद् भवति । देवदत्तो ग्रामणीरेषा देवदत्तका । यज्ञदत्तकाः । ग्रामणीरिति किम् ? देवदत्तः शत्रुरेपाम् ।
शृङ्खलं बन्धनं करभे ॥ ८४ ॥
शृङ्खला प्रथमान्तादस्येति पष्ठ्यर्थे करभेऽभिधेये कन् भवति, तच्चेच्छृङ्खलं बन्धनं भवति । शृङ्खलं बन्धनमस्य शृङ्खलकः करभः । बन्धनमिति किम् ? शृङ्खलमस्य वाह्यः करभस्य । करभ इति किम् ? शृङ्खलमस्य बन्धनं गोः ।
उत्क उन्मनाः ॥ ८५ ॥
उत्क इति निपात्यत उन्मनाश्चेद् भवति ।
कालहेतुफलान्नानि ॥ ८६॥
कालवृत्तेः प्रथमान्तात्करणात्कार्याच्चास्येति षष्ठ्यर्थे संज्ञायां कन् भवति । तृतीयो दिवसोऽस्याविर्भावाय तृतीयको ज्वरः । चतुर्थकः । विषपुष्पं कारणमस्य विषपुष्पकम् । शीतं कार्यमस्य शीतकम् । उष्णकम् । नाम्नीति किम् द्वितीय दिवसोऽस्य जातस्य ।
प्रायोऽन्नमस्मिन् ॥ ८७ ॥
प्रथमान्तात्प्रायो ऽन्नवाचिनोऽस्मिन्निति सप्तम्यर्थे संज्ञायां कन् भवति । त्रिपुटास्याः पौर्णमास्याः प्रायेणान्नं त्रिपुटिका पौर्णमासी । कृसरिका । नाम्नीत्येव । सक्तवः प्रायेणान्नमस्मिन् ।
कुल्माषादण् ॥८८॥
प्रथमान्तात् कुल्माषादस्मिन्निति सप्तम्यर्थेऽण् भवति । कुल्माषाः प्रायेणान्नमस्या कौल्माषी पौर्णमासी ।
वटकादिनिः ॥ ८९ ॥
वटकशब्दात्प्रथमान्तादस्मिन्निति सप्तम्यर्थ इनिर्भवति । बेटेकाः प्रायेणान्नमस्या वटकिनी पौर्णमासी ।
साक्षाद् द्रष्टा ॥ ९० ॥
साक्षाच्छब्दाद् द्रष्टेत्यस्मिन्नर्थे इनिर्भवति । असख्यत्वादन्त्याजादिलोप । साक्षी । नाम्नीत्येव । साक्षाद् द्रष्टा |
श्राद्धमनेनाद्य भुक्तं ठंच ॥ ९१ ॥
श्राद्धात्प्रथमान्तादनेनेति तृतीयार्थ इनिर्भवति ठंश्च तच्चेदद्य मुक्तं भवति । श्राद्धी श्राद्धिकः |
पूर्वात् ॥ ९२ ॥
पूर्वशब्दादनेनेत्यस्मिन्नर्थ इनिर्भवति । पूर्वमनेन भुक्तं पीतं कृतं वा पूर्वी । नाक्रियः कर्तास्तीति सामर्थ्याद् भुक्तादिक्रियाध्याहियते । पूर्वमिति तद्विशेषणम् ।
सपूर्वात् ॥ ९३ ॥
पूर्वशब्दात्सपूर्वपदादनेनेत्यस्मिन्नर्थ इनिर्भवति । भुक्त पूर्वमनेन भुक्तपूर्व्योदनम् । कृतपूर्वी कटम् ।
इष्टादिभ्यः ॥ ९४ ॥
इष्टादिभ्योऽनेनेत्यस्मिन्नर्थ इनिर्भवति । इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे ॥ इष्ट । पूर्त । उपसादित । निगदित । परिगदित । निकथित । निपठित । संकलित । परिकलित । संरक्षित । परिरक्षित । अर्चित । गणित । अवकीर्ण । आयुक्त । गृहीत । आम्नात । श्रुत | आसेवित । अवधारित । उद्गृहीत । अवकल्पित । निराकृत । उपकृत । उपाकृत | अनुयुक्त । अनुगणित | अनुपठित । व्याकुलित ।
अनुपद्यन्वेष्टा ॥ ९५ ॥
अनुपदीति निपात्यते, अन्वेष्टा चेत् ।
क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ ९६ ॥
परक्षेत्रे चिकित्स्य इत्यस्मिन्नर्थे क्षेत्रियजिति निपात्यते । स्वरार्थः । क्षेत्रं शरीरम् | परशरीरे संक्रम्य चिकित्स्यं विषम् क्षेत्रियम् । परलोकशरीरे चिकित्स्यो व्याधि क्षेत्रिय । अचिकित्स्य इत्यर्थ: । परक्षेत्रे सस्यार्थे चिकित्स्यानि तृणानि क्षेत्रियाणि । परक्षेत्रे परकलत्रे चिकित्स्यो निग्राह्यः क्षेत्रिय पारदारिकः ।
इन्द्रियम् ॥ ९७ ॥
इन्द्रियमिति निपात्यते सर्वेन्द्रियाणाम् । इन्द्रस्यात्मनो लिङ्गमिति वा, करणस्य कर्तृप्रयोज्यत्वात् । तेन सृष्टमिति वा, तत्कर्मनिर्जातत्वात् । तेन जुष्टमिति वा, तदर्शनद्वारभूतत्वात् ।
तदस्यास्त्यत्रेति मतुप् ॥ ९८ ॥ प्रथमान्तादस्यास्मिन्नस्तीत्यनयोरर्थयोर्मतुब् भवति । गावोऽस्य सन्तीति गोमान् । वृक्षा अस्मिन् देशे सन्ति वृक्षवान् । अस्तीति वर्तमानकालोपादानाद् भूताभिर्भविष्यन्तीभिर्वा गोभिर्न गोमान् । कथं गोमानासीत् गोमान् भवितेति । तदापि वर्तमानाभिरेव गोभिर्गोमान् । भूतो भावी चेति पदान्तरम् । इतिशब्दो विवक्षार्थः । अतो
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षाया भवन्ति मतुबादयः || [५/२/९४ श्लो०वा०]
इति विवक्षार्थत प्रयोगनियम उपपन्नो भवति । शुक्ल पट इति शुक्लशब्दस्य द्रव्याभिधानसामर्थ्यान्मतुब् न भवति, यथा जातिशब्देभ्यो गौरश्व इति । येषां तु गुणशब्दानां द्रव्याभिधानसामर्थ्यं नास्ति ततो भवत्येव, यथा रसवान् रूपवान् गन्धवान् स्पर्शवानिति । रसादिभ्य इति न वक्तव्यम्, इष्यते हि रसी रसिकः, रूपी रूपिकः इति । अथ रसादिविशेषणार्थं गुणादिति पाठः, तथापि गन्धिक इति न सिध्यति ।
प्राण्यङ्गादातो लज् वा ॥ ९९ ॥ आकारान्तात्प्राण्यङ्गवाचिनो मत्वर्थे लज् वा भवति । चूडालः चूडावान् । प्राणिग्रहणं किम् ? शिखावान् प्रदीपः । अङ्गग्रहणं किम् ? इच्छावान् । अत इति किम् ? हस्तवान् । चकारश्चूडालोऽसीति स्वरित- बाधनार्थः । वेत्यधिकारः ।
सिध्मादिभ्यः || १००||
सिध्मादिभ्यो मत्वर्थे लज् वा भवति । सिध्मलः सिध्मवान् । गडुलः गडुमान् ॥ सिध्म । गडु | मणि । नाभि । बीज । निष्पाव । पासु । हनु । सक्तु । मास । पर्शु । पार्ष्णिधिमन्योर्दीर्घश्च । वात- दन्त-बल-ललाटानाम् च। जटा घाटा क्षेपे । पर्ण । उदक । प्रज्ञा । क्षुद्रजन्तूपतापाच्च । क्षुद्रजन्तुभ्यः । यूकालः । मक्षिकालः। मक्षिकालः । उपतापात् । विचर्चिकालः । विपादिकालः । मूर्छालः ।
वत्सांसात्स्नेहबलिनोः ॥ १०१ ॥
वत्सात् स्नेहवति, अंसाद् बलवति लज् भवति वा । वत्सला गौः । अंसलः पुरुषः । स्नेहबलिनोरिति किम् ? वत्सवती गौः । अंसवान् दुर्बलः । अर्थ विशेषाश्रयणाद्वेत्यनुवर्तमानमप्यकिञ्चित्करम् । एवमन्यत्रापि द्रष्टव्यम् ।
फेनात् ॥ १०२ ॥
फेनान्मत्वर्थे लज्भवति वा । फेनलः फेनवान् ।
पिच्छादिभ्यश्चेलच् ॥ १०३ ॥
पिच्छादिभ्यः फेनाच्च मत्वर्थे इलज् भवति वा । पिच्छिलः पिच्छवान् । उरसिलः उरस्वान् । फेनिलः फेनवान् ॥ पिच्छ । उरस् । ध्रुवका । जटा । घाटा । कालात् क्षेपे । पर्ण । उदक । प्रज्ञा । तुन्द | उदर । पिचण्ड | यव । व्रीहि । स्वाङ्गाद् विवृद्धौ ।
लोमादिपामादिभ्यः शनौ ॥ १०४ ॥
लोमादिभ्यः शो वा भवति मत्वर्थे, पामादिभ्यो नो वा भवति । लोमशः रोमशः । पामनः वामनः । लोमवानित्यादि ॥ लोमन् । रोमन् । बभ्रु | वल्गु | हरि । कपि । मुनि । भरु’ । लोमादिः हेमन् । श्लेष्मन् । दद्रु । बलि । कृमि । सामन् । पामन् । वामन् । अङ्गात् कल्याणे । शाकी – पलाली – कद्रूणा हस्वत्वं च । शाकिनः पलालिनः कद्रुणः | विष्व- गित्युत्तरपदलोपश्चाकृतसन्धेः । विषुणः | लक्ष्म्या अच्च । लक्ष्मणः । पामादिः ।
प्रज्ञाश्राद्धावृत्तिभ्यो णः ॥ १०५ ॥
प्रज्ञादिभ्यो मत्वर्थे णो वा भवति । प्राज्ञः श्राद्धः आर्चो वार्त्तः । प्राज्ञा श्राद्धा आर्ची वार्त्ता । प्रज्ञावानित्यादि ।
तपः सहस्राभ्यामण् ॥ १०६॥
आभ्यां मत्वर्थेऽण् वा भवति । तापसः तपस्वान् । तपस्वीत्य- स्मायामेधास्रजो विनि. [१३७ ] | साहस्रः सहस्रवान् । सहस्रीत्यत इनि: [११९] ।
ज्योत्स्नादिभ्यः ॥ १०७॥
ज्योत्स्नादिभ्यो मत्वर्थेऽण् वा भवति । ज्यौत्स्नः । तामिस्रः | कौण्डलः । कौतुपः । वैसर्पः । वैपादिकः । ज्योत्स्नावानित्यादि ।
सिकताशर्कराभ्याम् || १०८॥
आभ्यामण् वा भवति । सैकतम् शार्करम् । सिकतावान् इत्यादि ।
इलज् देशे ॥१०९॥
सिकताशर्कराभ्यां देशेऽभिधेय इलज् वा भवति । सिकतिलो देशः सैकत । शर्करिलो देशः शार्करः । सिकतावान् । शर्करावान् । सिकता देशः शर्करा देश इत्यभेदोपचारात्, यथा, कुन्तान् प्रवेशय यष्टीः प्रवेशयेति तद्वन्त उच्यन्ते ।
दन्तुरः ॥ ११०॥
दन्तादुरन्निपात्यत उन्नतदन्तार्थे ।
ऊषादिभ्यो रः ॥ १११ ॥
ऊषादिभ्यो मत्वर्थे रो भवति । ऊषरः । सुषिरः । मुष्करः । मधुरः । खरः । मुखरः । नखरः । कुञ्जरः | नगरः । पाण्डुरः । पासुरः । कच्छ्रवा ह्रस्वत्वं च । कच्छुरः । इतिशब्दस्य विवक्षानियमार्थत्वाद् ऊषवान् घट, मधुमान् वृक्ष, कुञ्जवान् गिरिरिति रो न भवति ।
द्युद्रुभ्यां मः ॥१९२॥
दुद्रुभ्यां मत्वर्थे मो वा भवति । द्युमः । द्रुमः । रूढित्वान्न मतुप् ।
केशादिभ्यो वः ॥ ११३॥
केशादिभ्यो मत्वर्थे वो वा भवति । केशवः केशवान् केशी केशिकः । मणिवः मणिवान् । राजीवम् । कुररावम् । इष्टकावम् । बिम्बवम् | अर्णसो लोपश्च [स०५/२/१६० ] | अर्णवः । गाण्ड्यजकात् संज्ञायाम् । गाण्डीवम् गाण्डिवम् । अजकावम् अजकवम् ।
मेवास्थादिरः ॥ ११४ ॥
आभ्यां मत्वर्थे इरो वा भवति । मेधिरो मेधावी मेधावान् । रथीरो रथी रथिको रथवान् ।
काण्डाण्डादीरच् ॥ ११५ ॥
आभ्यां मत्वर्थ ईरज् वा भवति । काण्डीरः अण्डीरः । काण्डवान् । अण्डवान् ।
कृष्यादिभ्यो वलच् ॥ ११६॥
कृष्यादिभ्यो वलज् वा भवति | कृषीवलः । वले [ ५/२/१३५] इति दीर्घत्वम् । आसुतीवलः । पर्षद्वलः । रजस्वला । भ्रातृवलः । पुत्रवल: । उत्सङ्गवलः । दन्तशिखात् सज्ञायाम् । दन्तावलः । शिखावल । विवक्षा- नियमात् क्वचिदेवैषां प्रयोगः । कृषिमत् क्षेत्रम् । रजस्वान् वायुः ।
ज्योत्स्नातमिस्रोर्जस्विन्नूर्जस्वलमलीमसाः ॥ ११७ ॥
ज्योत्स्नादयो मत्वर्थे यथाविषयं वा निपात्यन्ते । ज्योत्स्ना चन्द्रप्रभा, अन्यत्र ज्योतिष्मती । तमिस्रा रात्रिः तमिस्रः पक्षः, अन्यत्र तमस्वती गुहा । ऊर्ग ऊर्जा वास्यास्तीत्यूर्जस्वी ऊर्जस्वल । मलीमसो मलवान् ।
नावादिभ्यष्ठन् ॥ ११८ ॥
नौ इत्येवमादिभ्यो मत्वर्थे ठन् वा भवति । नाविकः | नौः । यवखदः | कुमारी । करणः ।
व्रीह्याद्यत इनिश्च ॥ ११९॥
व्रीह्यादिभ्योऽकारान्ताच्च मत्वर्थे इनिर्भवति, ठश्च वा । व्रीही व्रीहिकः व्रीहिमान् । अर्थस्यापि ग्रहणाच्छाली शालिकः शालिमान् । मायी मायिकः मायावान् । शीर्षी शीर्षिकः शीर्षवान् । अकारान्तात् । दण्डी दण्डिकः दण्डवान् । इतिशब्दस्य विवक्षानियमार्थत्वात् कचिन्न भवतः । पाचकवान् द्रव्यवान् धनवान् । उत्तमर्णे तु भवतः । धनी धनिकः । घञाद्यन्तात् कचिन्न भवतः । पाकवान् स्नेहवान् शब्दवान् प्रचयवान् स्वनवान् । क्वचिद् भवतः । भोगी भोगिकः । विजयी विजयिकः | तरी तरिकः । सयमी सयमिकः । जातिशब्दात् कचिन्न भवतः । व्याघ्रवान् सिंहवान् । कचिद् भवतः । तण्डुली तण्डुलिकः । लजादिविषयेऽपि कचिन्न भवतः । सिध्मलः । फेनिलः । कचिद् भवति । बीजी बीजिकः । पर्णी पर्णिकः । तुन्दी तुन्दिकः|
नैकाचः ॥१२०॥
अकारान्तादेकाच इनिठनौ न भवतः । स्ववान् । खवान् ।
सप्तम्याम् ॥१२१॥
सप्तम्यर्थे ऽदन्तादिनिठनौ न भवतः । दण्डवद् गृहम् ।
एकगोपूर्वाट् ठन् ॥ १२२ ॥
एकपूर्वाद् गोपूर्वाच्च ठन् भवति । ऐकवस्त्रिको गौसहस्रिकः । इति शब्दस्य विवक्षानियमार्थत्वादिह न भवति । एकद्रव्यवान् । अत इत्येव । गोविंशतिमान् ग्रामः । कथम् ऐकगविकः ? समासान्ते कृते भविष्यति । कथं गौशकटिकः? शकटशब्दाद् भविष्यति ।
निष्कादेः शतसहस्रात् ॥ १२३॥
निष्कपूर्वाच्छतात् सहस्राच्च ठञ् भवति । नैष्कशतिको नैष्कसहस्रिकः |
नवयज्ञादिभ्यः || १२४||
नवयज्ञादिभ्यष्टञ् भवति । नावयज्ञिकः कालः । पाकयज्ञिको देशः । योऽपि यत्र वर्तते स तत्रास्त्येवेत्यनेनैव सिद्धम् ।
चार्थरोगगर्हितात्प्राणिस्थादस्वाङ्गादिनिः ॥ १२५॥
चार्यवृत्तेः समासाद्रोगाद्गर्हिताच्च प्राणिस्थादस्वाङ्गान्मत्वर्थ इनिरेव भवति । कटकवलयिनी । ज्वरी । कुष्ठी । ककुदावर्ती । काकतालुकी । प्राणिस्थादिति किम् पुष्पफलवान् वृक्षः | अस्वाङ्गादिति किम् ? स्तनकेशवती । अत इत्येव । चित्रललाटिकावती ।
वातातीसारपिशाचानां कुक् च ॥ १२६॥
वातादीनामिनिर्भवति कुक् चागमः । वातकी । अतीसारकी ।
पिशाचकी ।
वयसि पूरणात् ॥ १२७॥
पूरणे यो विहितस्तदन्ताद्वयसि गम्यमान इनिरेव भवति । पञ्चमी बालकः । वयसीति किम् ? पञ्चमवान् ग्रामरागः ।
सुखादिभ्यः || १२८ ||
सुखादिभ्य इनिरेव भवति । सुखी दुखी ॥ सुख । दुख | तृप्र । कृच्छ्र । अस्र । कक्ष | अलीक । करुण । कृपण । सोढ । प्रतीप । हल | माला क्षेपे । बलाद्बाहूरुपूर्वपदात् । बाहुबली । ऊरुबली । सर्वादेः । सर्वबीजी सर्वधनी सर्वकेशी । कथम् अर्थी ? अर्थनमर्थः । सोऽस्यास्तीत्यर्थी अर्थिकः । प्रत्यर्थात्प्रत्यर्थिकः । धान्येनार्थो धान्यार्थो सोऽस्यास्ति धान्यार्थी ।
धर्मशीलवर्णान्तात् ॥ १२९ ॥
धर्माद्यन्तान्मत्वर्य इनिरेव भवति । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ।
हस्तदन्ताजातौ ॥ १३०॥
एताभ्यां जाताविनिरेव भवति । हस्ती दन्ती । जाताविति किम् ? हस्तवान् दन्तवान् ।
पुष्करादिभ्यो देशे ॥ १३२॥
पुष्करादिभ्यो देश इनिरेव भवति । पुष्करिणी । पद्मिनी । देश इति किम् ? पुष्करवान् हस्ती || पुष्कर । पद्म । उत्पल । तमाल । कुमुद । नड । कपित्थ । बिस । मृणाल | कर्दम । शालूक । करीष । शिरीष । यवास । हिरण्य |
मन्मान् नानि ॥ १३३॥
मनन्तान्मान्ताच्च संज्ञायामिनिर्भवति । प्रथिमिनी, दामिनी । सोमिनी, धूमिनी, होमिनी । नाम्नीति किम् ? सोमवान् ।
शिखादिभ्यो वा ॥ १३४ ॥
शिखादिभ्यो मत्वर्थ इनिर्वा भवति । शिखी शिखावान् । माली मालावान् ॥ शिखा । माला । मेखला । वीणा । संज्ञा । वडवा । अष्टका । बलाका । पताका । कर्मन् । वर्मन् । बल । उत्साह । उद्यम’ । चूडा । दल’। कुल । मूल। आयाम । व्यायाम । प्रयाम’ । उपयाम । आरोह | अवरोह | बालादिभ्यः पुनर्विधानादिनिष्ठनं बाधते, वावचनान्न मतुपम् ।
रूपादाहतप्रशंसयोर्यप् ॥ १३५ ॥
रूपादाहते प्रशस्ये च यप् परो भवति । रूप्य कार्षापणः । रूप्या गौः । आहतप्रशस्ययोरिति किम् ? रूपवान् ।
हिमादिभ्यः ॥ १३६॥
हिमादिभ्यो यब् वा भवति । हिम्यः पर्वतः हिमवान् । गुण्यो ब्राह्मणः
अस्मायामेधास्त्रजो विनिः || १३७||
असन्तान्मायादिभ्यश्च विनिर्भवति वा । यशस्वी तपस्वी मायावी मेधावी स्रग्वी । यशस्वानित्यादि ।
आमयावी ॥ १३८ ॥
आमयान्मत्वर्थे विनिर्दीर्घत्वं च निपात्यते । आमयावी ।
वृन्दादारकन् ॥ १३९॥
वृन्दादारकन् वा भवति । वृन्दारकः, वृन्दी, वृन्दवान् ।
शृङ्गात् ॥ १४०॥
शृङ्गादारकन् वा भवति । शृङ्गारकः, शृङ्गी, शृङ्गवान् । फलबर्हमलाच्चेनच् ॥ १४१ ॥
फलादिभ्यः शृङ्गाच्चेनज् वा भवति । फलिनः । बर्हिणः । मलिनः । शृङ्गिणः । फलवानित्यादिः ।
पर्वमरुद्भयां तप् ॥ १४२ ॥
एताभ्यां मत्वर्थे तब् वा भवति । पर्वतः पर्ववान् । मरुत्तः मरुत्वान् ।
स्वामिन्नीशे ॥ १४३॥
स्वामिन्नितीश्वरे निपात्यते । स्ववानन्यः ।
गोमिन् पूज्ये ॥ १४४ ॥
गोमिन्निति पूज्ये निपात्यते । गोमानन्यः ।
वाचो ग्मिनिः ॥ १४५॥
वाचो मत्वर्थे ग्मिनिर्भवति । वाग्मी ।
आलजाटचौ कुत्सायाम् || १४६||
वाच कुत्साया गम्यमानायामालजाटचौ भवतः । वाचालः वाचाटः ।
अर्शआदिभ्योऽच् ॥ १४७॥
अर्शप्रभृतिभ्यो मत्वर्थेऽज् भवति । अर्शसः । उरसः || अर्शस् । उरस् । तुन्द | चतुर । पलित । जटा | घाटा । अभ्र । अम्ल’ । लवण | स्वाङ्गा- दीनात् । वर्णात् । आकृतिगणश्चायम् । यत्राभिन्नेन शब्देन तद्वतोऽभिधानं तत्सर्वमिह द्रष्टव्यम्
तुण्डिवलिवटेर्भः ॥ १४८ ॥
तुण्ड्यादिभ्यो मत्वर्थे भः परो भवति । तुण्डिभः । वलिभः । वटिभः ।
कंशंभ्याम् ॥ १४९ ॥
कम् शम् इत्येताभ्यां मकारान्ताभ्यां भो भवति । कम्भः शम्भः ।
तितुवयस्ताः ||१५० ॥
एते कंशंभ्यां परे भवन्ति । कन्तिः शान्तिः । कन्तुः शन्तु । कम्बः शम्बः । कंयः शंयः । कन्तः शन्तः ।
युस् || १५१ ||
कंशंभ्यां युस् भवति । कंयुः शंयुः ।
ऊर्णाहंशुभंभ्यः ॥ १५२॥
ऊर्णादिभ्यो युस् भवति । ऊर्णायुः अहंयुः शुभयुः ।
सूक्तसाम्नोः ||१५३॥
सूक्तसाम्नोरभिधेययोर्मत्वर्थे छो भवति । अच्छावाकीयम् । अस्यवामीयं सूक्तम् । अनुकरणशब्दानां स्वरूपार्थत्वान्नैवेयं विभक्तिः । यज्ञा- यज्ञीयं साम ।
अध्यायानुवाकयोर्लुग् वा ॥ १५४॥
अध्यायानुवाकयोरभिधेययोर्मत्वर्थे छो भवति, लुक् चास्य वा । गर्दभाण्डोऽध्यायः गर्दभाण्डीयः । पलितस्तम्भोऽनुवाकः पलितस्तम्भीयः ।
विमुक्तादिभ्योऽण् ॥ १५५॥
विमुक्तादिभ्योऽध्यायानुवाकयोर्मत्वर्थेऽण् भवति । वैमुक्तः । दैवासुरः ॥ विमुक्त । देवासुर । रक्षोऽसुर । परिसारक । उपसद् । वसुमन्तु’ । पत्नीवन्तु । दशाहः । सत्वन्तु । दशार्ण । वयस् । हविर्धान | महित्री । सोमापूषन् । इडा । अग्नाविष्णू । वृत्रहन् । अस्यहत्य |
गोषदादिभ्यो वुन् || १५६॥
गोषदादिभ्योऽध्यायानुवाकयोर्मत्वर्थे वुन् भवति । गोषदकः । इषेत्वकः ॥ गोषद् । इषेत्वा । मातरिश्वन् । देवस्यत्वा । देवीराप । कृष्णोऽस्याखरेष्ठ | देवींधिय । रक्षोहण | अञ्जन । प्रतूर्त | कृशानु |
निद्रातन्द्रा श्रद्धादयाहृदयाद् वालुच् ॥ १५७॥
निद्रादिभ्यो मत्वर्थ आलुज् वा भवति । निद्रालुः | तन्द्रालुः | श्रद्धालुः | दयालुः । हृदयालुः । निद्रावानित्यादि ।
गोमन्तोऽस्मिन् देशे सन्तीति मतुप् कस्मान्न भवति ? स्वात्मनि क्रियाविरोधात् न हि मनुविधानकाले मतुबन्ता प्रकृतिरस्ति, या पुनरस्ति ततो भवत्येव । दण्डमती शालेति ।
शीतोष्णतृप्रं न सहते ॥ १५८॥
शीतादिभ्यो द्वितीयान्तेम्यो न सहत इत्यस्मिन्नर्थे आलुज् भवति । शीतालुः उष्णालुः तृप्रालुः ।
हिमं सहते चेलुः ॥ १५९ ॥
हिमाद् द्वितीयान्तात् सहत इत्यस्मिन्नर्थे चेल्लुर्भवति । हिमेलः |
बलवातं चूलः ॥ १६०॥
बलाद् वाताश्च द्वितीयान्तात् सहत इत्यस्मिन्नर्थे चूलो भवति । बलूल वातूल |
इति चान्द्रे व्याकरणे चतुर्थस्याध्यायस्य द्वितीय पाद समाप्तः ।