॥ श्रीः ॥
चतुर्थोऽध्यायः
प्राक् क्रीताच्छः ॥ १ ॥
प्राक् कीतावधेश्छो वेदितव्यः ।
उगवादिभ्यो यत् || २ ||
उवर्णाद् गवादिभ्यश्च छविषये यद् भवति । शङ्कव्यं दारु । पिचव्यः कार्पास | सनङ्गव्यं चर्म । चरव्यास्तण्डुलाः । सक्तव्या धानाः । गव्यं वनम् । हविष्यास्तण्डुला ॥ गो । हविस् । अष्टका । बर्हिस् । युग । मेधा । स्रुच् । नाभेर्नभश्च । नभ्यं काष्ठम् । शुनो यण इग् वा च दीर्घत्वम् । शुन्यम् शून्यम् । ऊधसो नश्च । ऊधन्यः कूप. । अक्षर । दर । वेद । स्खदं । विष । गोरचि यद् [२|४|१५] इति सिद्धे पुनर्वचनं तदन्तविधि- ज्ञापनार्थम् । सुगव्यम् । प्रतिगव्यम् । कंम्बल्यमूर्णापलशतमिति विस्ता चितकम्बल्याद् [ २/३/२४ ] इति सिद्धम् ।
वा हविर्यूपादिभ्यः ॥ ३ ॥
हविर्वचनेभ्यो यूपादिभ्यश्च यद् वा भवति छविषये । पुरोडाश्यास्तण्डुला, पुरोडाशीया । हवि शब्दात् पूर्वेण नित्यम् । यूप्य काष्ठम्, यूपीयम् ॥ दीप्यम् दीपीयम् ॥ यूप । दीप । अपूप । तण्डुल । पृथुक । अभ्यूष । अम्योष । अवोष । किण्व । मुसल । कटक | कर्णवेष्टक । इर्गल । स्थूणा । अश्वपत्र | अन्नविकाराच्च । सुर्यम् सुरीयम् । तदन्तविधिना प्रदीप्यम् प्रदीपीयम् । यवा- पूप्यम् यवापूपीयम् ।
तस्मै हितम् ॥ ४ ॥
चतुर्थ्यन्ताद्धितेऽर्थे यथाविधि छयतौ भवत । वत्सेभ्यो हितो गोधुक् वत्सीयः । अवत्सीय | पटव्यः ।
राजाचार्यवृषन्त्राह्मणात् ॥ ५ ॥
एभ्यो हितेऽर्थे छो न भवति । राज्ञे हितम्, आचार्याय हितम्, वृष्णे हितम्, ब्राह्मणाय हितम् |
देहांशाद् यत् || ६ ||
शरीरावयवाद्धितेऽर्थे यद् भवति । दन्तेभ्यो हितम् दन्त्यम् । राज-दन्त्यम् | नाम्यम् । नभादेशोऽत्र नास्ति, प्राण्यङ्गत्वात् ।
खलयवमाषतिलवृषब्रह्मरथात् ॥ ७ ॥
खलादिभ्यो हितेऽर्थे यद् भुवति । खलाय हितम् खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृषाय हितम् वृष्यम् । ब्रह्मभ्यो हितम् ब्रह्मण्यम् । रथाय हिता रथ्या ।
अजाविभ्यां ध्यन् ॥ ८ ॥
आम्या हितेऽर्थे यन् भवति । अजध्या अविध्या ।
भोगान्तात्मनः खः ॥ ९ ॥
भोगान्तादात्मनश्च हितेऽर्थे खो भवति । मातृभोगीनः राजभोगीनः आचार्य भोगीन | आत्मनीन ।
पञ्चविश्वाज्जनान्तात्तदर्थात् ॥ १० ॥
पञ्चविश्वाभ्या जनान्ताभ्या जनार्थवाचिभ्या हितेऽर्थे खो भवति । पञ्चभ्यो जनेभ्यो हित, पञ्चजनीन । विश्वजनीन । तदर्थादिति किम् ? विश्वो जनोऽस्य विश्वजनस्तस्मै हितो विश्वेषा जनाय वा हितो विश्वजनीयः ।
सर्वात् ॥ ११ ॥
सर्वशब्दाज्जनान्ताद्धितेऽर्थे खो भवति । सर्वजनीनः । तदर्थादित्येव । सर्वजनीयः|
महतश्च ठञ् ॥ १२ ॥
महतः सर्वशब्दाच्च जनान्ताद्धितेऽर्थे ठञ् भवति । माहाजनिकः । सार्वजनिकः । तदर्थादित्येव । महाजनीयः । सर्वजनीयः ।
सर्वाण्णो वा ॥ १३ ॥
सर्वशब्दाद्धितेऽर्थे णो वा भवति । सर्वस्मै हित सार्वम् सर्वीयम् । पुनः सर्वग्रहणं जनान्तनिवृत्त्यर्थम् ।
पुरुषाड् ढञ् ॥ १४ ॥
पुरुषाद्धितेऽर्थे ढञ् भवति । पुरुषाय हितं पौरुपेयम् ।
माणवचरकात् खञ् ॥ १५ ॥
एताभ्यां हितेऽर्थे खञ् भवति । माणवीनः । चारकीणः ।
विकृतेः प्रकृतौ ॥ १६ ॥
विकृतिवाचिनश्चतुर्थ्यन्तात् प्रकृतावभिधेयाया यथाविधि छयतौ भवतः । अङ्गारेभ्य: काष्टानि अङ्गारीयाणि । पिचव्य कार्पास । विकृतेरिति किम् ? उदकाय कूपः । प्रकृतिग्रहणेन कारणमात्रग्रहणादिहापि स्याताम् । विकृति- साहचर्याद्धि तदुपादानकारणग्रहणम् । प्रकृताविति किम् ? असये कोशी । प्रकृतिग्रहणाभावे तदन्यविकृतेरपि तदर्थमात्रे स्याताम् । तस्मै इत्येव । सक्तूनां धानाः । इह कस्मान्न भवति – मूत्राय कल्पते यवागूरिति सापेक्षत्वात् ।
ऋषभोपानहो ञ्यः ॥ १७ ॥
ऋषभादुपानहश्च प्रकृतावभिधेयाया ज्यो भवति । ऋषभाय वत्स आर्षभ्यः । औपानो मुञ्जः, औपानह्यं चर्म ।
चर्मण्यञ् ॥ १८ ॥
…..प्रकृतावभिधेयाया तद्विकृतिवाचिनोऽञ् भवति । वारत्रं चर्म।
छदिर्बलिभ्यां ढञ् ॥ १९ ॥
आभ्यां ढञ् भवति प्रकृतावभिधेयायाम् । छादिषेयाणि तृणानि, छादिषेयं चर्म । बालेयास्तण्डुलाः ।
उपधेः ॥ २० ॥
उपधि-शब्दात् स्वार्थे ढञ् भवति योगविभागात् । उपधिरेव औपवेयः ।
तदस्यात्र स्यादिति ॥ २१ ॥
प्रथमान्तात् षष्ठ्यर्थे सप्तम्यर्थे च छयतौ भवतः, यत्तत् प्रथमान्तं स्याच्चेत् । स्यादिति सम्भावने लिङ् इतिशब्दो विवक्षार्थः । प्रासादोऽस्य स्यात् प्रासादीयं दारु | परशव्यम् अयः । प्रासादोऽत्र स्यात् प्रासादीयो देशः । स्यादिति किम् ? प्रासादोऽत्रास्ति । इतिशब्दः किम् प्रासा –
परिखाया ढञ् ॥ २२ ॥
परिखायाः प्रथमान्ताया अस्यात्र स्यादित्यस्मिन्नर्थे ढञ् भवति । पारिखेयो देशः ।
प्राग्वतेष्टञ् || २३ ||
वतिसंशब्दनात् प्राक् ठञ् वेदितव्यः ।
संख्यादेवालुकः ॥ २४ ॥
अतः परं प्राग्वतेरलुगन्तात् संख्यादेरसंख्यादेश्च विधिर्वेदितव्यः । द्वैपारायणिकः । अलुक इति किम् ? द्वाभ्या शूर्पाभ्या क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीतं द्विशौपिंकम् ।
आर्हत् ॥ २५ ॥
आ अर्हशब्दाद्[७४ ] येऽर्थास्तेष्वत उत्तरो विधिर्वेदितव्य ।
कंसाद ठट्|| २६ ॥
कंसाया ठड् भवति, आर्हात् । कंसिकः कंसिकी । अर्धिकी
। ।
कार्षापणात् ॥ २७ ॥
कार्षापणादार्हीयेष्वर्थेषु ठड् भवति । कार्षापणिकः कार्षापणिकीं ।
प्रतिर्वास्य ॥ २८ ॥
कार्षापणशब्दस्य ठटि प्रतिरादेशो वा भवति । प्रतिक प्रतिकी ।
शूर्पादञ् ।। २९ ।।
शूर्पादञ् वा भवति । शौर्प: शौर्पिकः शौपिकी ।
सहस्रवसनविंशतिकशतमानादण् ॥ ३० ॥
एभ्योऽण् भवति । साहस्रं । वासनं । वैशतिकं । शातमानः ।
शतात् केवलाद् उन्यतावतस्मिन् || ३१ ॥
शतशब्दात् केवलाट् ठन्यतौ भवतः, न चेत्तदेव शतमभिधेयं
तेन क्रीत द्विशतकम् । अतस्मिन्निति किम् ? शतकं निदानम् । अन्यस्मिंस्तु शते भवत्येव । शतेन क्रीतं शाटकशतं शतिक शत्यम् ।
संख्याया अतिशत: कन् ॥ ३२ ॥
संख्यायाः कन् भवति त्यन्तं शदन्तं च वर्जयित्वा । पञ्चीकः बहुकः । अतिशत इति किम् ? आशीतिक चात्वारिंशत्कम् ।
कतिगणौ तद्वत् ॥ ३३ ॥
कतिशब्दो गणशब्दश्च सर्वत्र संख्यावद् द्रष्टव्यः । कतिकः गणकः । अन्यत्रापि । कतिधा गणधा । कतिशो गणशः । कतिकृत्वो गणकृत्वः ।
वतोः ॥ ३४ ॥
वत्वन्तस्य संख्यावत् कार्यमन्यत्रापि भवति । तावत्कः तावत्कृत्वः ।
इड् वा ॥ ३५ ॥
वतुप्सम्बन्धिन: कन इड् वा भवति । तावतिकः तावत्कः ।
विंशतित्रिंशद्धयाम् ॥ ३६ ॥
एताभ्यां कन् भवति । विशतिकः त्रिंशत्कः |
अनाम्नि वुन् || ३७ ॥
असंज्ञाया विंशतित्रिंशद्भयां ड्वुन् भवति । विंशकः त्रिंशकः । अनाम्नीति किम् ? विंशतिकः त्रिशत्कः ।
संख्याध्यार्धादे: संख्येयालुगद्विः ॥ ३८ ॥
संख्यादेरध्यर्धादेश्च संख्येयान्ताद्विहितस्य सकृल्लुग्भवति, न तु द्विः । द्विशूर्पः पञ्चशूर्पः अध्यर्धशूर्पः । अर्धपञ्चमः अव्यर्धपञ्चमः । संख्याध्यर्धादेरिति किम् ? परमनैष्किकम् । – संख्येयादिति किम् ? एकादशकः | अद्विरिर्ति किम् ? द्विशूर्पेण क्रीतं द्विशौर्पिकम् । अनाम्नीत्येव । पाञ्चलोहितिम्, पाञ्चकार्षापणिकः। अध्यर्धग्रहणमन्यत्र संख्याकार्यनिवृत्त्यर्थम् ।
कार्षापणसहस्रसुवर्णशतमानाद्वा ॥ ३९ ॥
एतेभ्यः संख्याध्यर्धपूर्वेभ्यो विहितस्य लुग् वा भवति । द्विकार्षापणः द्विकार्षापणिकः । अध्यर्धकार्षापणः अध्यर्धकार्षापणिकः । द्विसहस्रम् द्विसाहस्रम् | अध्यर्धसहस्रम् अध्यर्धसाहस्रम् । द्विसुवर्णम् द्विसौवर्णिकर | अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् । द्विशतमानम् द्विशातमानम् । अध्यर्धशतमानम् अध्यर्धशातमानम् ।
द्वित्रिवह्वादेर्निष्क विस्तात् ॥ ४० ॥
द्व्यादिपूर्वाभ्यां निष्कविस्ताभ्यां विहितस्य लुग् वा भवति । द्विनिकम् द्विनैष्किकम् । त्रिनिष्कम् त्रिनैष्किकम् । बहुनिष्कम् बहुनैष्किकर | द्विविस्तम् द्विवैस्तिकम् । त्रिविस्तम् त्रिवैस्तिकम् । बहुविस्तम् बहुवैस्तिकम् |
विंशतिकात् खः ॥ ४९ ॥
संख्याध्यर्धपूर्वाद् विशतिकात् खो भवति । द्विविशतिकीन अध्यर्धविंशतिकीनः ।
खारीकाकणीभ्य ईकन् ॥ ४२ ॥
खारीकाकणीभ्यां संख्याध्यर्धपूर्वाभ्यां बहुवचननिर्देशात् केवलाभ्यां च ईकन् भवति । द्विखारीकः अध्यर्धखारीकः खारीकः | द्विकाकणीकम् अध्यर्धकाकणीकम् काकणीकम् ।
पणपादमाषाद् यत् ॥ ४३ ॥
एभ्यः संख्याध्यर्धपूर्वेभ्यो यद् भवति । द्विपण्यः अध्यर्धपण्यः । द्विपाद्यम् अध्यर्धपाद्यम् । अप्राण्यङ्गत्वान्न पदादेशः । द्विमाष्यम् अध्यर्धमाष्यम् ।
शताद्वा ॥ ४४ ॥
सख्याध्यर्धपूर्वाच्छतशब्दाद् यद् वा भवति । द्विशत्यम् द्विशतम् । अध्यर्धशत्यम् अध्यर्धशतम् ।
शाणात् ॥ ४५ ॥
संख्याध्यर्धपूर्वाच्छाणाद् यद्वा भवति । द्विशाण्यम्, द्विशाणम् । अध्यर्धशाण्यम्, अध्यर्धशाणम् ।
द्वित्र्यादेरण् च ॥ ४६ ॥
शाणाद् द्वित्रिपूर्वादण् भवति, यच्च वा । द्वैशाणम्, द्विशाण्यम्, द्विशाणम् । त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम् ।
तेन क्रीतं मूल्यात् ॥ ४७ ॥
मूल्यवाचिनस्तृतीयान्तात् क्रीतमित्यस्मिन्नर्थे यथाविहितं ठञादयो भवन्ति । प्रास्थिक । शत्य शतिकः । पञ्चकः । मूल्यादिति किम् याणिना क्रीतम्, देवदत्तेन क्रीतम् । वृत्तौ संख्याविशेषानवगमादिह- प्रस्थाभ्यां प्रस्थैर्वा क्रीत न भवति । तदर्थावगमे तु भवत्येव । द्विकम्, त्रिकम्, पञ्चकम् । मुद्गैः क्रीतम् मौद्गिकम् ।
तस्य वापः || ४८ ||
षष्यन्ताद्वापेऽर्थे यथाविधि ठञादयो भवन्ति । उप्यतेऽस्मिन्निति वापः । प्रास्थिकः ।
पात्रात् ष्ठन् ॥ ४९ ॥
पष्ठ्यन्तात् पात्राद् वापेऽर्थे ष्ठन् भवति । पात्रिकः पात्रिकी । वातपित्तश्लेष्मसन्निपाताच्छमनकोपने ॥ ५० ॥
वातादिभ्यः पष्ठ्यन्तेभ्यः शमने कोपने चार्थे ठञ् भवति । वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः ।
निमित्ते संयोगोत्पाते ॥ ५१ ॥
षष्ठ्यन्तान्निमित्ते सयोगोत्पातस्वरूपे ठञादयो भवन्ति । शतस्य निमित्तं संयोग उत्पातो वा शत्यः, शतिकः । साग्रामिकः । सयोगोत्पात इति किम् ? शतस्य निमित्तं देवदत्तः।
अचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ५२ ॥
द्व्यचः षष्ठ्यन्तात् सख्यापरिमाणाश्वादिवर्जितान् निमित्ते संयोगोत्पाते यद्भवति । धनस्य निमित्तं सयोग उत्पातो वा धन्यः । संख्यादिवर्जितादिति किम् ? पश्चकः, प्रास्थिकः । आश्विकः औश्मिकः । कथं गव्यम् ? गोरचि यद् [ २/४/१५ ] इत्येव सिद्धम् ॥ अश्वः अश्मन् । गणः । ऊर्णा । उमा । भङ्गा । वर्षाः । वसु ।
ब्रह्मवर्चसात् ॥ ५३ ॥
ब्रह्मवर्चसात् षष्ठ्यन्तान्निमित्ते सयोगोत्पाते यद् भवति । ब्रह्मवर्चस्यः ।
पुत्राच्छश्च ॥ ५४ ॥
पुत्रात् षष्ठन्तान्निमित्ते सयोगोत्पाते छो भवति, यच्च । पुत्रीयः पुत्र्यः ।
पृथिवी सर्वभूमेरञणौ ॥ ५५ ॥
एताभ्यां षष्ठ्यन्ताभ्यां निमित्ते सयोगोत्पातेऽञ्णौ भवतः । पार्थिवः । सार्वभौमः ।
ईश्वरे ॥ ५६ ॥
पृथिवीसर्वभूम्योः पष्ठ्यन्तयोरीश्वरेऽर्थेऽञणौ भवतः । पार्थिवः सार्वभौमः ।
तत्र विदिते ॥ ५७ ॥
पृथिवीसर्वभूमे सप्तम्यन्ताद्विदितेऽञ्णौ भवतः । पार्थिवः । सार्वभौमः ।
लोकसर्वलोकात् ॥ ५८ ॥
एताभ्यां सप्तम्यन्ताभ्यां विदिते ठञ् भवति । लौकिकः । सार्वलौकिकः ।
तदत्रास्मै वृद्धयायलाभशुल्कोपद दीयते ॥ ५९ ॥ प्रथमान्तादत्रास्मै दीयत इत्यनयोरर्थयोर्यथाविधि ठञादयो भवन्ति, यत्तत्प्रथमान्तं वृद्ध्यादि चेत्तद्भवति । पञ्चास्मिन्नस्मै वा वृद्धिर्वायो वा लाभो वा शुल्को वोत्कोचो वा दीयते पञ्चकः । शत्यः शतिकः । वृद्ध्यादिग्रहणं, किम् ? पञ्च मूल्यमस्मिन् दीयते ।
पूरणार्धाट् ठन् ॥ ६० ॥
पूरणवाचिनोऽर्धाच्च प्रथमान्तादत्रास्मै दीयत इत्यनयोरर्थयोष्ठन् भवति, तच्च प्रथमान्तं वृद्धयादि चेद्भवति । पञ्चमोऽस्मै वास्मिन् वा वृद्धयादि दीयते पञ्चमिकः । अर्धिकः । पञ्चमिका, अर्धिका ।
भागाद् यच्च ॥ ६१ ॥
भागात् प्रथमान्तादस्मिन्नस्मै वा दीयत इत्यनयोरर्थयोर्यद् भवति ठंश्च, स चेद्वृद्ध्यादीनामन्यतमोऽर्थो भवति । भागोऽस्मिन्नस्मै वा दीयते भाग्यः भागिकः । भाग इति रूपकार्थे रूढिः ।
तदस्य परिमाणम् || ६२ ॥
प्रथमान्तादस्येत्यस्मिन्नर्थे यथाविधि ठञादयो भवन्ति, तच्चेत् प्रथमान्तं परिमाण भवति । प्रास्थिको व्रीहिः । खारशतिकः । खारसहस्रिकः । पञ्चकः सङ्घः । अष्टकं पाणिनीयं सूत्रम् । पञ्चकः पाठोऽधीतः । पञ्चकाः शकुनय इति पञ्च परिमाणमेषामित्यङ्गीकृतावयवभेदः समुदायः प्रकृत्यर्थः
तद्विशिष्टाः समुदायिनः कशब्दस्यार्थः । पुन: प्रथमानिर्देश: पुनर्विधानार्थः । अतः संख्यादे. [३८] इति लुग् न भवति । द्वे षष्टी जीवितपरिमाणमस्य द्विषष्टिकः । पङ्क्तिः विशतिः त्रिशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः शतमिति संख्याशब्दा एवैते, अयुतप्रयुतनियुतादिवत्, लोकप्रसिद्धाः ।
पञ्चदशद्वर्गे वा ॥ ६३ ॥
पञ्चद् दशदिति वर्गेऽभिधेये वा निपात्यते । पञ्चद् वर्ग: पञ्चकः । दशद् वर्ग दशकः ।
स्तोमे डट्॥६४॥
प्रथमान्तात् परिमाणवाचिनोऽस्येत्यस्मिन्नर्थे स्तोमेऽभिधेये डड् भवति । पञ्चदश: स्तोमः, पञ्चदशी पङ्किः। स्तोमस्य संख्यैव परिमाणं भवति नान्यत् ।
त्रिंशच्चत्वारिंशतो ब्राह्मणाख्यायां डण् ॥ ६५ ॥
एताभ्यां प्रथमान्ताभ्यामस्येत्यस्मिन्नर्थे ब्राह्मणे तन्नाम्न्यभिधेये डण् भवति । त्रौशानि ब्राह्मणानि । चात्वारिंशानि । आख्याग्रहणं किम् ? चात्वारिंशत्कः । 1
भृतिवस्त्रांशाः ॥ ६६ ॥
प्रथमान्तादस्येत्यस्मिन्नर्थे यथाविधि ठञादयो भवन्ति यत्तत् प्रथमान्तं भृत्यादि चेद् भवति । पञ्च भृतिर्वा वस्त्रो वाशो वास्य पञ्चकः ।
सम्भवत्यवहरति च ॥ ६८ ॥
सम्भवत्यवहरति पचतीत्येतेष्वर्थेषु द्वितीयान्ताद् यथाविधि ठञादयो भवन्ति । प्रस्थं सम्भवत्यवहरति पचति वा प्रास्थिकः | खारीकः ।
पात्राचिताढकात् खो वा ॥६९॥
पात्रादिभ्यो द्वितीयान्तेभ्यः सम्भवत्यादिष्वर्थेषु खो वा भवति । पात्रीणा पात्रिकी । आचितीना आचितिकी । आढकीना आढकिकी ।
संख्यादेः ष्ठंश्च ॥ ७० ॥
संख्यादेः पात्राद्यन्तात् सम्भवत्यादिष्वर्थेषु ष्ठन् भवति खश्च वा । द्विपात्रिकी द्विपात्रीणा द्विपात्री । द्व्याचितिकी द्व्याचितीना द्व्याचिता । द्व्याढकिकी द्व्याढकीना द्व्याढकी ।
कुलिजाद्वा ॥ ७१ ॥
कुलिजात् संख्यादेः सम्भवत्यादिष्वर्येषु ष्ठन् भवति खो वा, यथाप्राप्तं च। खो वा [ ६९ ] इत्यनुवर्तमाने पुनर्वावचनं लुकोऽपि विकल्पार्थम् । द्विकुलिजिकी द्विकुलिजीना द्वैकुलिजिकी द्विकुलिजी ।
वंशादिभ्यो हरति वहत्यावहति भारात् ॥ ७२ ॥
वंशादिभ्यः पराद् भाराद् द्वितीयान्ताद्धरत्यादिष्वर्थेषु ठञ् भवति । वशभारं हरति वहत्यावहति वा वाशभारिकः । कौटजभारिकः । वंशादिभ्य इति किम् ? भारं वहति । अथवा वंशादिभ्यो भारभूतेभ्यो द्वितीयान्तेभ्यो वहत्यादिष्वर्थेषु ठञ् भवति । वंशान् भारभूतान् हरति वहत्यावहति वा वाशिकः । कौटजिकः । भारादिति किम् ? वंशं हरति ॥ वंश । कुटज । बल्बज । मूल । स्थूणा । अक्ष । अश्मन् । इक्षु । खट्वा ।
द्रव्यवस्त्रात् कन्ठनौ ॥ ७३ ॥
वस्तिक: । द्रव्याद् द्वितीयान्ताद्धरत्यादिष्वर्थेषु कन् भवति वस्नाट् ठन् । द्रव्यकः
अर्हति ॥ ७४ ॥
अर्हत्यर्थे द्वितीयान्ताद् यथाविधि ठञादयो भवन्ति । वस्त्रमर्हति वास्त्रिकः । शत्यः, शतिकः
छेदादिभ्यो नित्यम् ॥ ७५ ॥
छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमर्हतीत्येतस्मिन्नर्थे ठञ् भवति । सर्वदा छेदमर्हति छैदिकः। भैदिकः ॥ छेद । मेद | द्रोहः । दोह । नर्त। कर्ष । सम्प्रयोग । विप्रकर्ष । संप्रश्न । विराग विरङ्गं च ।
शीर्षच्छेदाद् यच्च ॥ ७६ ॥
शीर्षच्छेदाद् द्वितीयान्तान्नित्यमर्हतीत्येतस्मिन्नर्थे यद् भवति, ठञ् च । शीर्षच्छेद्यः, शैर्षच्छेदिकः।
यज्ञाद् घः ॥ ७७ ॥
यज्ञाद् द्वितीयान्तादर्हतीत्येतस्मिन्नर्थे घो भवति । यज्ञिय । योऽपि यज्ञकर्मार्हति यज्ञमसावर्हति ।
पात्राद् यश्च ।। ७८ ||
पात्राद् द्वितीयान्तादर्हत्यर्थे घो भवति, यश्च । पात्रियः, पात्र्यः ।
दण्डादिभ्यः ॥ ७९ ॥
दण्डादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यो भवति । दण्ड्यः । मुसल्यः ॥ दण्ड । मुसल | मधुपर्क | कशा । अर्घ । मेधा । मेघ । उदक । वध । युग । इभ ।
दक्षिणाकडङ्गरस्थालीबिलाच्छश्च ॥ ८० ॥
दक्षिणादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे छो भवति, यश्च । दक्षिणामर्हति दक्षिणीयः दक्षिण्यः | कडङ्गरीयः कडङ्गर्यः । स्थालिविलीयः स्थालीबिल्यः ।
आर्तिजीनः ॥ ८१ ॥
अयं शब्दो निपात्यते ऋत्विजमर्हति ऋत्विक्कर्म वार्हतीत्येतस्मिन्नर्थे ।
अधृष्टाकार्ययोः शालीन कौपीने ॥ ८२ ॥
शालामर्हति प्रवेष्टुम् शालीन इत्यधृष्टे निपात्यते, कूपमर्हति प्रवेष्टुं कौपीन इत्यकार्ये ।
पारायणतुरायणचान्द्रायणं वर्तयति ॥ ८३ ॥
एतेभ्यो द्वितीयान्तेभ्यो वर्तयतीत्यस्मिन्नर्थे ठञ् भवति । पारायणिकः तौरायणिकः चान्द्रायणिकः ।
संशयमापन्नः ॥ ८४ ॥
संशयाद् द्वितीयान्तादापन्न इत्यस्मिन्नर्थे ठञ् भवति । सांशयिकः ।
योजनं गच्छति ॥ ८५ ॥
योजनाद् द्वितीयान्ताद् गच्छतीत्यस्मिन्नर्थे ठञ् भवति । यौजनिकः ।
क्रोशयोजनादेः शतादभिगमनार्हे च ॥ ८६ ॥
क्रोशादियोजनादेश्च शताद् गच्छतीत्यस्मिन्नर्थे ततोऽभिगमनार्हे च ठञ् भवति । क्रोशशतं गच्छति कौशशतिकः । यौजनशतिकः । क्रोश- शतादभिगमनमर्हति कौशशतिकः । यौजनशतिकः ।
पथः ष्ठन् ॥ ८७ ॥
पथो द्वितीयान्ताद् गच्छतीत्यस्मिन्नर्थे ष्ठन् भवति । पथिकः पथिकी।
णः पन्थश्च नित्यम् ॥ ८८ ॥
पथो द्वितीयान्तान्नित्यं गच्छतीत्यस्मिन्नर्थे णो भवति पन्थादेशश्च । नित्य पन्थानं गच्छति पान्थः, पान्था ।
अजशङ्कूत्तरवारिजङ्गलकान्तारादिनाहृते च ॥ ८९ ॥
अजादिपूर्वात् पथिशब्दात् तृतीयान्ताद् गच्छतीत्यस्मिन्नर्थ आहृते च ठञ् भवति । अजपथेन गच्छति अजपथेनाहृत आजपथिकः । शाङ्कुपथिकः। औत्तरपथिकः । वारिपथिकः । जाङ्गलपथिकः । कान्तारपथिकः ।
स्थलादिना ॥ ९० ॥
स्थलपूर्वात् पथिशब्दात् तृतीयान्ताद् आहृतं गच्छतीत्यनयोरर्थयोष्ठञ् भवति । स्थालपथिकः ।
मधुकमरीचयोरण् ॥ ९१ ॥
स्थलपथेनाहृते मधुके मरीचे चाण् भवति । स्थालपथं मधुकं
मरीचं च ।
कालात् ॥ ९२ ॥
अयमधिकारः ।
तेन निर्वृत्तः ॥ ९३ ॥
कालवाचिनस्तृतीयान्तान्निर्वृत्त इत्यस्मिन्नर्थे ठञ् भवति । मासेन निर्वृत्तं मासिकम् | आह्निकम् ।
तस्मै भृतोऽष्टः ॥ ९४ ॥
चतुर्थ्यन्तात् कालवाचिनो भृतोऽधीष्ट इत्यनयोरर्ययोष्ठञ् भवति । मासाय भृतोऽधीष्टो वा मासिकः । सावत्सरिकः ।
तं भूतो भावी ॥ ९५ ॥
द्वितीयान्तात् कालवाचिनो भूतो भावीत्यनयोरर्ययोष्ठञ् भवति । मासं भूतो भावी वा मासिकः । सावत्सरिकः । अतःपरं निर्वृत्तादिष्वर्येषु यथासम्भवं विधिर्वेदितव्यः ।
मासाद्वयसि यत्खञौ ॥ ९६ ॥
मासाद् द्वितीयान्ताद्वयसि गम्यमाने भूतेऽर्थे यत्खञौ भवतः । मासं भूतो मास्यः मासीनः । मासीना दुहितास्य मासीनादुहितृकः । ‘आदैज्झेतु [ ५/२/३६] इति पुंवद्भावो न भवति ।
संख्यादेर्यप् ॥ ९७ ॥
सख्यादेर्मासाद् वयसि गम्यमाने यप् परो भवति । द्वौ मासौ भूतौ द्विमास्यः ।
षषो ण्यच्च वा ॥ ९८ ॥
षडादेर्मासाद् वयसि गम्यमाने ण्यद् भवति, यप् च वा । षड् मासान् भूतः षाण्मास्यः षाण्मासिकः षण्मास्यः ।
ठंश्चान्यत्र ।। ९९ ।।
वयसोऽन्यत्र षडादेर्मासान् निर्वृत्तादिष्वर्थेषु ठन् भवति, ण्यच् च । षड्भिर्मासैर्निर्वृत्तः षड्भ्यो मासेम्यो भृतोऽधीष्टो वा षड् मासान् भूतो भावी वा षण्मासिकः षाण्मास्यः ।
समायाः खः ॥ १००॥
निर्वृत्तादिष्वर्थेषु समायाः खो भवति । समया निर्वृत्तः, समायै भृतोऽधीष्टो वा, समा भूतो भावी वा समीनः ।
संख्यादेर्व ॥ १०१ ॥
संख्यादेः समाया निर्वृत्तादिध्वर्थेषु खो वा भवति । द्विसमीन:
द्वैसमिकः ।
रात्र्यहः संवत्सरात् ॥ १०२॥
रात्र्यहःसवत्सरेभ्यः सख्यादिभ्यो निर्वृत्तादिष्वर्थेषु खो वा भवति । द्विरात्रीणो द्वैरात्रिकः । द्व्यहीनः द्वैयह्निकः । द्विसंवत्सरीणः द्विसावत्सरिकः ।
वर्षाल्लुक् च ॥१०३॥
वर्षात् संख्यादेर्निर्वृत्तादिष्वर्थेषु खो वा भवति ठञो लुक् च वा । द्विवर्षीण द्विवर्ष: द्विवार्षिक । भाविनि तु द्वैवर्षिक ।
प्राणिनि ॥ १०४ ॥
संख्यादेर्वर्षात् प्राणिनि खस्यापि लुगेव भवति पुनर्विधानात् । द्विवर्षः त्रिवर्षः । षष्टिका इति पूर्वेणैव कना सिद्धम् । षष्टिर्दिनानि पाकपरिमाणमेषामिति षष्टिकाः शाल्यः | रूढत्वान्न मुद्रादिष्वतिप्रसङ्गः ।
तेन सुकर कार्यलभ्यपरिजय्यम् ॥ १०५ ॥
तृतीयान्तात् कालवाचिन सुकरादिष्वर्थेषु ठञ् भवति । मासेन सुकरं वा कार्यं वा लभ्यं वा परिजन्यं वा मासिकम् ।
तदस्य ब्रह्मचर्ये ॥ १०६ ॥
द्वितीयान्तात् कालवाचिनोऽस्येति षष्ठ्यर्थे ठञ् भवति ब्रह्मचर्ये गम्यमाने । मासमस्य ब्रह्मचर्यं मासिको ब्रह्मचारी । अथवा तदिति प्रथमान्तादस्येति षष्ठ्यर्थे ब्रह्मचर्येऽभिधेये ठञ् भवति । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् ।
महानाम्न्यादीनाम् ॥ १०७॥
महानाम्न्यादीनां षष्ठ्यन्तानां ब्रह्मचर्येऽभिधेये ठञ् भवति । महानाम्नीनामृचा ब्रह्मचर्यं माहानाम्निकम् | आदित्यव्रतिकम् । गौदानिकम् |
तच्चरति ॥ १०८ ॥
महानाम्न्यादिभ्यो द्वितीयान्तेभ्यश्चरतीत्यस्मिन्नर्थे ठञ् भवति । महानाम्नीना व्रतं तच्छब्देनोच्यते । तच्चरति माहानाम्निकः ।
देवव्तादिभ्यो डिनिः ॥ १०९ ॥
देवत्रतादिभ्यो द्वितीयान्तेभ्यश्चरतीत्यस्मिन्नर्थे डिनिर्भवति । देवव्रती तिलव्रती अवान्तरदीक्षी ।
अष्टाचत्वारिंशतो ड्वुंश्च ॥ ११० ॥ द्वितीयान्तादष्टाचत्वारिशतश्चरतीत्यस्मिन्नर्थे ड्वुन् भवति, डिनिश्च । अष्टाचत्वारिंशत् वर्षाणि व्रतं चरति अष्टाचत्वारिशकः अष्टाचत्वारिंशी ।
चातुर्मास्याद् यलोपश्च ॥ १११ ॥
चातुर्मास्याद् द्वितीयान्ताच्चरतीत्यस्मिन्नर्थे ड्वुन् भवति, डिनिश्च, यकारस्य च लोपः । चातुर्मास्यव्रतं चरति चातुर्मासकः चातुर्मासी ।
तस्य दक्षिणा यज्ञेभ्यः ॥ ११२ ॥
षष्ठ्यन्तेभ्यो यज्ञवाचिभ्यो. दक्षिणायामर्थे ठञ् भवति । अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । वाजपेयिकी ।
तत्र दीयते ॥ ११३ ॥
तत्रेति सप्तम्यन्तेभ्यो यज्ञवाचिभ्यो दीयत इत्यस्मिन्नर्थे ठञ् भवति । अग्निष्टोमे दीयते आग्निष्टोमिकः । वाजपेयिक: । राजसूयिकः ।
कालात् कार्यं च भववत् ॥ ११४॥
कालवाचिभ्यः सप्तम्यन्तेभ्यः कार्यं दीयत इत्यनयोरर्थयोर्भव इव ठञादयो भवन्ति । मासे कार्यं दीयते वा मासिकम् । वासन्तम् । प्रावृश्रेण्यम् । वार्षिकम् । हैमन्तम्, हैमनम् । सायन्तनम् ।
व्युष्टादिभ्योऽण् ॥ ११५ ॥
व्युष्टादिभ्यः सप्तम्यन्तेभ्यः कार्यं दीयत इत्यनयोरर्थयोरण् भवति । व्युष्टे कार्यं दीयते वा वैयुष्टम् । नैत्यम् ॥ व्युष्ट । नित्य । निष्क्रमण । प्रवेशन । तीर्थ । संग्राम । सङ्घात। अग्निपद । पीलुमूल । आकृतिगणश्चायम् ।
यथाकथाचाण् णः ॥ ११६॥
यथाकथाचशब्दात् कार्यं दीयत इत्यनयोरर्थयोर्णो भवति । यथाकथाचं कार्यं दीयते वा याथाकथाचं कार्यम्, ” यायाकथाचा दक्षिणा ।
तेन हस्ताद् यत् ॥ ११७ ॥
तृतीयान्ताद्धस्तात् कार्यं दीयत इत्यनयोरर्थयोर्यद् भवति । हस्तेन कार्यं दीयते वा हस्त्यम् ।
शोभते ॥ ११८ ॥
तृतीयान्ताच्छोभत इत्यस्मिन्नर्थे ठञ् भवति । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । वास्त्रयुगिकं शरीरम् |
कर्मवेशाद् यत् ॥ ११९॥
कर्मवेशाभ्या तृतीयान्ताभ्यां शोभत इत्यस्मिन्नर्थे यद् भवति । कर्मण्यं शौर्यम् । वेश्यो नटः ।
तस्मै प्रभवति सन्तापादिभ्यः ॥ १२० ॥
चतुर्थ्यन्तेभ्यः सन्तापादिभ्यः प्रभवतीत्यस्मिन्नर्थे ठञ् भवति । सन्तापाय प्रभवति सान्तापिकः । सान्नाहिकः || सन्ताप । सन्नाह । संग्राम । संयोग | सम्पराय | संवेश । निर्घोष | निसर्ग | विसर्ग | उपसर्ग | प्रवास | उपवास । सङ्घात। सम्पाद | सक्तु । मासौदनाद् विगृहीतादपि ।
योगाद् यच्च ॥ १२१ ॥
चतुर्थ्यन्ताद् योगात् प्रभवतीत्यस्मिन्नर्थे यद् भवति, ठञ् च । योगाय प्रभवति योग्यम्, यौगिकम् ।
कर्मेण उकञ् ॥१२२॥
कर्मणश्चतुर्थ्यन्तात् प्रभवतीत्यस्मिन्नर्थ उकञ् भवति । कार्मुकम् ।
सोऽस्य प्राप्तः समयात् ॥ १२३॥
समयशब्दात् प्रथमान्तादस्येति षष्ठ्यर्थे ठञ् भवति, स चेत् प्राप्तो भवति । समय प्राप्तोऽस्य सामयिकः ।
ऋन्वादिभ्योऽण् ॥ १२४॥
ऋत्वादिभ्य प्रथमान्तेभ्योऽस्येति षष्ठ्यर्थे ऽण् भवति प्राप्ताश्चेत्ते भवन्ति । ऋतुं प्राप्तोऽस्य आर्तवम् । औपवस्त्रम् । प्राशित्रम् । |
कालाद्यत् ॥ १२५॥
कालशब्दात् प्रथमान्तादस्येति षष्ठ्यर्थे यद् भवति स चेत् प्राप्तो भवति । काल्यं हिमम् ।
प्रकृष्टः ॥ १२६॥
कालात् प्रथमान्तादस्येति षष्ठ्यर्थे ठञ् भवति, स चेत् प्रकृष्टो भवति । कालः प्रकृष्टोऽस्य कालिकमृणम् ।
प्रयोजनम् ॥ १२७॥
प्रथमान्तादस्येति षष्ठ्यर्थे ठञ् भवति, तच्चेत् प्रयोजनं भवति । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकः ।
एकागाराचौरे ॥ १२८॥
एकागारात् तदस्य प्रयोजनमित्यस्मिन् विषये चौर एव ठञ् भवति । ऐकागारिकश्चौर । चौर इति किम् ? एकागारं प्रयोजनमस्य भिक्षो ।
आकालाद् ठंश्च ॥ १२९॥
आकालाब्दात् तदस्य प्रयोजनमित्यस्मिन् विषये ठन् भवति, ठञ् च । य एव तस्योत्पत्तिकाल स एव यावद् भवति । आकालिकोऽनध्यायः । आकालिका विद्युत् । आकालिकी ।
चूडादिभ्योऽण् ॥ १३० ॥
चूडादिभ्यस्तदस्य प्रयोजनमित्यस्मिन्नर्थेऽण् भवति । चूडा प्रयोजनमस्य चौडं श्राद्धम् ।
विशाखाषाढान्मन्थदण्डयोः ॥ १३१ ॥
विशाखापादाभ्या तदस्य प्रयोजनमित्यस्मिन् विषये मन्थदण्डयोरभि – धेययोरण् भवति । वैशाखो मन्थः । आपाढो दण्डः । मन्थदण्डयोरिति किम् ? वैशाखिक: आषाढिक. ।
उत्थापनादिभ्यच्छः ॥ १३२॥
उत्थापनादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये छो भवति । उत्थापनीयम् । उपस्थापनीयम् ॥ उत्थापन | उपस्थापन । अनुप्रवचन | प्रवेशन | संवेशन | अनुवेशन | अनुवचन | अनुवासन | अनुरोहण | आरोहण । आरम्भण । विशिपूरिप दिरुहिसमापिप्रकृतेरनात् सपूर्वपदात् । गृहप्रवेशनीयम् प्रपापूरणीयम् अश्वप्रपदनीयम् प्रासादारोहणीयम् व्याकरणसमापनीयम् ।
स्वर्गादिभ्यो यत् ॥ १३३॥
स्वर्गादिभ्यस्तदस्य प्रयोजनमित्यस्मिन्नर्थे यद् भवति । स्वर्ग्यम् । धन्यम् | यशस्यम् । आयुष्यम् । काम्यम् |
पुण्याहवाचनादिभ्यो लुक् ॥ १३४ ॥ पुण्याहवाचनादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये ठञो लुग् भवति | पुण्याहवाचनम् । स्वस्तिवाचनम् । शान्तिवाचनम् ।
इवे वतिः ॥ १३५ ॥
इवार्थे वतिर्भवति । राजेव वर्तते राजवत् । राज्ञेव व्यवहर्तव्यमनेन राजवत् । ब्राह्मणस्येव वृत्तमस्य ब्राह्मणवत् । मथुरायामिव पाटलिपुत्रे प्रासादा: मथुरावत् । देवमिव भवन्तं पश्यामि देववत् । पर्वताद् इवासनादवरोहति पर्वतवत् । ब्राह्मणायेव देवदत्ताय ददाति ब्राह्मणवत् । अत्रापि तदर्हम् इत्येतेनेष्यत एव – देवमर्हति यद्दर्शनम्, पर्वतमर्हति यदवरोहणम्, ब्राह्मणमर्हति यद्दानमिति । यद्येवमिवार्थोऽस्त्येवेत्यनेनैव सिद्ध: । गुणसाम्येऽपि । देवदत्त इव स्थूल: देवदत्तवत् स्थूलः । गुणादपि । अन्धवत्, जडवत् । द्रव्यसाम्येऽपि । देवदत्तवद् गोमान् । अत्रापि वतिर्भवति । सद्भावात् क्रियासाम्यमस्तीति सर्वत्र भवितव्यम् ।
तस्य भावस्त्वतलौ ॥ १३६॥
षष्ठ्यन्ताद् भावे त्वतलौ भवतः । कः पुनर्भावः? भवतोऽस्मादभिधानप्रत्ययाविति भावः | शब्दस्य प्रवृत्तिनिमित्तम् । शुक्लस्य पटस्य भावः शुक्लत्वम् शुक्लतेति गुणो भाव । शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेति शुक्लगुणजातिः । गोत्वम् गोतेति गोजाति । पाचकत्वम् दण्डित्वम् विषाणित्वम् राजपुरुपत्वमिति क्रियादिसम्बन्धित्वम् । देवदत्तत्वम् चन्द्रत्वम् सूर्यत्वम् इति तदवस्थाविशेषसामान्यम् । आकाशत्वम् अभावत्वम् इत्युपचरितभेदसामान्यम् ।
नञोऽनन्यार्थे ॥१३७॥
नञ् परादनन्यपदार्थे वर्तमानाद् भावे त्वतलावेव भवतः । अमृदुत्वम् अमृदुता । नञ इति किम् । मार्दवम् । अनन्यार्थ इति किम् ? नास्य पटुरस्ति अपटुः, अपटोर्भावः आपटवम् ।
चतुरसङ्गतलवणवडबुधकतरसलसाद् वा ॥ १३८ ॥
चतुरादिभ्यो नञपूर्वेभ्यो भावे त्वतलौ वा भवतः । अचतुरत्वम् अचतुरता आचतुर्यम् । असङ्गतत्वम् असङ्गतता आसङ्गत्यम् । अलवणता आलवण्यम् । अवडत्वम् अवडता आवड्यम् । अबुधत्वम् अबुधता आबुध्यम् । अकतत्वम् अकतता आकत्यम् । अरसत्वम् अरसता आरस्यम् । अलसत्वम् अलसता आलस्यम् ।
पृथ्वादिभ्य इमनिच् ॥ १३९॥
पृथ्वादिभ्यो भाव इमनिज् भवति । प्रथिमा पार्थवम् पृथुत्वम् पृथुता । म्रदिमा मार्दवम् मृदुत्वम् मृदुता ॥ पृथु | मृदु । महत् । पटु । तनु । लघु । बहु | साधु | आशु | उरु | गुरु । बहुल | खण्ड | चण्ड | अकिञ्चन । वाल । होड । पाक । वत्स । मन्द | स्वादु । ऋजु । ह्रस्व । दीर्घ । क्षुद्र । क्षिप्र । प्रिय ।
वर्णदृढादिभ्यः ष्यञ् च ॥ १४०॥
वर्णविशेषवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ् भवति, इमनिज् वा । शौक्ल्यम् शक्लिमा शुक्लत्वम् शुक्लता । दार्ढ्यं द्रढिमा दृढत्वं दृढता । षकारो डीपर्थः। औचिती । याथाकामी ॥ दृढ । परिवृढ । वृष । भृश । कृश । चुक्र । आम्र । आम्ल । कृष्ण । लवण । शीत । उष्ण । जड । बधिर । मूक । मूर्ख । पण्डित । मधुर ।
गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १४१ ॥ गुणमुक्तवद्भ्यो ब्राह्मणादिभ्यश्च कर्मणि भावे च ष्यञ् वा भवति । जडस्य कर्म भावो वा जाड्यम्, जडिमा, जडत्वम्, जडता । ब्राह्मण्यम् ब्राह्मणत्वम् ब्राह्मणता | माणव्यम् माणवत्वम् माणवता ॥ ब्राह्मण। माणव । वाडव । अर्हतो नुम् च । आर्हन्त्यम् । चोर । धूर्त । दूत । आराध्य | उपराध्य । एकभाव | द्विभाव । त्रिभाव । अन्यभाव । क्षेत्रज्ञ | संवादिन् । सवेशिन् । सम्भाषिन् । बहुभाषिन् । शीर्षघातिन् । समस्थ । विषमस्थ । निपुण । पण्डित | वणिज् । परमस्थ । मध्यस्थ । अनीश्वर । कुशल । चपल । निष्कुल । पिशुन । बालिश । अलस । दुष्पुरुष । राजन् । पुरोहित । खण्डिक । पत्यन्त । राजपुरुप । गणपति । अधिपति । गडुल | दायाद | विशस्ति । वियात । चातुर्वर्ण्यादीना स्वार्थे । चत्वार एव वर्णा चातुर्वर्ण्यम् चातुर्वेद्यम् चातुराश्रम्यम् | त्रैलोक्यम् । सर्ववेदस्योभयपदादादैच्च । सार्ववैद्यम् । आकृतिगणोऽयम् ।
सखिदूतवणिग्भ्यो यः ॥ १४२॥
सख्यादिभ्यो भावे कर्मणि च यो भवति वा । सख्यम् सखित्वम् सखिता । दूत्यम् दूतत्वम् दूतता दौत्यम् । वणिज्या वणिक्त्वम् वणिक्ता वाणिज्यम् ।
स्तेयम् ॥१४३॥
स्तेनस्य भावे कर्मणि च स्तेयमिति निपात्यते वा । स्तेयम् स्तैन्यम् स्तेनत्वम् स्तेनता ।
कपिज्ञात्योर्दक् ॥ १४४॥
आभ्यां भावे कर्मणि च वा ढग् भवति । कापेयम् कपित्वम् । कपिता । ज्ञातेयम् ज्ञातित्वम् ज्ञातिता ॥ वानस्पत्यम् पौरोहित्य मित्यादि ब्राह्मणादित्वात् [ १४१] ष्यञैव सिद्धम् ।
प्राणिजातिवयोऽर्थोद्गात्रादिभ्योऽञ् ॥ १४५ ॥
प्राणिजातिवाचिभ्यो वयोवचनादुद्गात्रादिभ्यश्च भावकर्मणोरम् वा भवति । आश्वम् अश्वत्वम् अश्वता । कौमारम् कुमारत्वम् कुमारता । औद्गात्रम् उद्गातृत्वम् उद्गातृता । औन्नेत्रम उन्नेतृत्वम् उन्नेतृता ॥ उद्गातृ । उन्नेतृ । प्रतिहर्तृ । प्रशास्तृ । होतृ । कर्तृ । भर्तृ । रथगणक । पत्तिगणक । सुष्ठु । दुष्ठु | अध्वर्यु | वधू | सुभग ।
हायनान्तयुवादिभ्योऽण् ॥१४६॥
हायनान्ताद् युवादिभ्यश्च भावकर्मणोरण् वा भवति । द्वैहायनम् द्विहायनत्वम् द्विहायनता । यौवनम् युवत्वम् युवता । स्थाविरम् स्थविरत्वम् स्थविरता ॥ युवन् । स्थविर । होतृ । यजमान । पुरुषादसमासे । भ्रातृ । कुतुक | कन्दुक | श्रवण । कमण्डलु । कुस्त्री । सुखी । दुःखी । सुहृदय । सुहृद् । दुर्हृद् । सुभ्रातृ । दुर्भ्रातृ । वृषल । परिव्राजक । ब्रह्मचारिन् । अनृशंस | हृदयादसमासे । चपल । कुशल । निपुण । पिशुन । कुतूहल | क्षेत्रज्ञ । श्रोत्रियस्य यलोपश्च । श्रौत्रम् । मनोज्ञादिपाठात् [ १४९ ] श्रीत्रियकम् ।
लघोरिकोऽकवेः || १४७॥
लघोः परो य इक् तदन्तादकवेर्भावकर्मणोरण् वा भवति । शौचम् शुचित्वम् शुचिता । पार्थवम् पृथुत्वम् पृथुता । लघोरिति किम् ? पाण्डुत्वम् । इक इति किम् ? रसत्वम् । अकवेरिति किम् ? काव्यम् । ब्राह्मणादित्वात् [ १४१ ] ष्यञ् ।
योपान्ताद् गुरुपोत्तमादसुप्रख्याद् बुञ् ॥ १४८॥
यकारोपान्ताद् गुरूपोत्तमात् सुप्रख्यवर्जिताद् भावकर्मणोर्वुञ् वा भवति । रामणीयकम् रमणीयन्वम् रमणीयता । साहायकम् सहायत्वम् सहायता । साहाय्यम् । योपान्तादिति किम् ? वितानत्वम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम् । असुप्रख्यादिति किम् ? सुप्रख्यत्वम् सौप्रख्यम् ।
चार्थसमासमनोज्ञादिभ्यः ॥ १४९॥
चार्थे यः समासस्ततो मनोज्ञादिभ्यश्च भावकर्मणोर्वुञ् वा भवति । शैष्योपाध्यायिका शिष्योपाध्यायत्वम् शिष्योपाध्यायता । मानोज्ञकम् मनोज्ञत्वम् मनोज्ञता । प्रैयरूपकम् प्रियरूपत्वम् प्रियरूपता ॥ मनोज्ञ । प्रियरूप । अभिरूप | अहोरूप | कल्याण । मेधाविन् । आढ्य । कुलपुत्र । छान्दस | छात्र । श्रोत्रिय । चोर । धूर्त | विश्वदेव । युवन् । ग्रामपुत्र | ग्रामषण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शरपत्त्र ।
गोत्रचरणाच्छ्लाघाधिक्षेपावगतेषु ॥ १५० ॥
गोत्रवाचिनश्चरणवाचिनश्च भावकर्मणोः श्लाघादिविषये वुञ् वा भवति । गार्गिकया श्लाघते, गार्ग्यत्वेन श्लाघते । काठिकया श्लाघते, कठत्वेन श्लाघते । गार्गिकयात्याकुरुते, गार्ग्यत्वेनात्याकुरुते । काठिकयात्याकुरुते, कठत्वे- नात्याकुरुते । गार्गिकाम् गार्ग्यत्वम् अवगतवान् प्राप्तवान् वा । काठिकाम् कठत्वम् अवगतवान् प्राप्तवान् वा । श्लाघादिष्विति किम् ? गार्ग्यत्वम् कठत्वम् ।
ऋत्विग्भ्यश्छः ॥ १५१ ॥
ऋत्विग्विशेषवाचिभ्यो भावकर्मणोश्छो वा भवति । अच्छावाकीयम् । अच्छावाकत्वम् । मित्रावरुणीयम् मित्रावरुणत्वम् ।
ब्रह्मणस्त्वः ॥ १५२ ॥
ऋत्विग्वाचिनो ब्रह्मणस्त्व एव भवति । ब्रह्मत्वम् । ब्राह्मणपर्यायस्य तु ब्रह्मत्यपि भवति ।
इति चान्द्रे व्याकरणे चतुर्थस्याध्यायस्य प्रथम पाद समाप्तः ।