चान्द्रव्याकरणम्(प्रथमखण्डम्) तृतीयोऽध्यायः समाप्त:

प्राग यतष्ठक्  

प्राग् यत्सशब्दनाद् [ ७६ ] येऽर्थास्तत्र ठग् वेदितव्यम् । 

तेन जितं जयति दीव्यति खनति  

तृतीयान्ताज्जितादिष्वर्येषु ठग् भवति । अक्षैर्जितम् आक्षिकम् । शालाकिकम्। अक्षैर्जयति दीव्यति वा आक्षिकः | शालाकिकः । खनित्रेण खनति खानित्रिकः | कौद्दालिकः | 

देवदत्तेन जितम्, अङ्गुल्या खनतीति न भवति तदर्थाप्रतीते । 

संस्कृते ॥ ३  

ततीयान्तात् संस्कृतेऽर्थे ठग् भवति। दध्ना संस्कृतं दाधिकम्। । मारीचिकम् |  

कुलत्थकोपान्तादण् ॥४ 

कुलत्थात् ककारोपान्ताच्च तेन संस्कृते अण् भवति । कौलत्थम् । तैन्तिलीकम्, दार्दकम् । 

तरति ||||

तृतीयान्तात्तरतीत्येतस्मिन्नर्थे ठग् भवति । ओडुपिकः | गौपुच्छिकः । 

द्व्यच्नौभ्यां ठन् ६॥

द्व्यचो नौशब्दाच्च तेन तरतीत्यतस्मिन्नर्थे ठन् भवति । घटिकः । प्लविकः । नाविकः, नाविका । 

चरति ||||

तृतीयान्ताच्चरतीत्येतस्मिन्नर्थे ठग् भवति । घाण्टिकः । शाकटिकः । शार्ङ्गवेरिकः । भक्षणार्थमपि केचिद्वर्णयन्ति । 

पर्पादिभ्यः ष्ठन् ॥ ८॥

पर्पादिभ्यस्तेन चरतीत्यत्रार्थे ष्ठन् भवति । पर्पिकः, पर्पिकी । अविकः, अविकी || पर्प । अश्वत्थ । रथ । जाल । व्यास । व्याल | पाद | आकर्ष । 

श्वगणाद्वा |||| 

श्वगणात्तेन चरतीत्येतस्मिन्नर्थे ष्ठन् वा भवति । श्वगणिकः श्वगणिकी, श्वागणिकः, वागणिकी । 

वेतनादिभ्यो जीवति ||१०||

वेतनादिभ्यस्तेन जीवतीत्येतस्मिन्नर्थे ठग् भवति ।वैतनिकः, 

वाहिकः || वेतन | वाह । अर्धवाह । वेश । उपवेश । प्रेषण । सुख । शय्या | शक्ति । हय । उपहस्त । पद । उपस्थान । धनुस् । दण्ड | धानुष्क, दाण्डिक, धानुर्दण्डिक । 

वस्नक्रयविक्रयाट ठन् ||११||

वस्त्रादिभ्यस्तेन जीवतीत्येतस्मिन्नर्थे ठन् भवति । वस्निकः 

क्रयिकः, विक्रयिकः, क्रयविक्रयिकः | 

छश्चायुधात् ||१२|| 

आयुधात् तेन जीवतीत्येतस्मिन्नर्थे छो भवति ठश्च । आयुधीयः, आयुधिकः, आयुधिका । 

व्रातात् खञ् ॥१३॥ ।

नानाजातीया अनियतवृत्तय उत्सेधजीविनः सङ्घा व्राताः, 

तेषां कर्मापि व्रातम् । ततस्तेन जीवतीत्येतस्मिन्नर्थे खञ् भवति । व्रातीनः | 

हरत्युत्सङ्गादिभ्यः ॥ १४॥

उत्सङ्गादिभ्यस्तेन हरतीत्येतस्मिन्नर्थे ठग् भवति । ओत्सङ्गिकः। औद्वाहिकः ॥ उत्सङ्ग । उद्वाह । उत्तु (डु ? )पः । उत्पुटः । पिटकः । पिटाक । 

भस्त्रादिभ्यः ष्ठन् || १५ ||

भस्त्रादिभ्यस्तेन हरतीत्यतस्मिन्नर्थे ष्ठन् भवति । भस्त्रिकः भस्त्रिकः | भरटिकः भरटिका || भस्त्रा । भरटः। भरणं । शीर्षभारः । असभारः । 

विविधवीवधाद्वा ।।१६

विवधवीवधाभ्यां तेन हरतीत्येतस्मिन्नर्थे ष्ठन् भवति वा । विवधिकः, विवधिकी। वीवधिकः वीवधिकी । वैवधिकः वैवधिकी । 

अण् कुटिलिकायाः ||१७||

कुटिलिकायास्तेन हरतीत्येतस्मिन्नर्थेऽण् भवति । कौटिलिकः ।

 निवृत्तेऽक्षद्यूतादिभ्यः || १८ ||

अक्षद्यूतादिभ्यस्तृतीयान्तेभ्यो निर्वृत्त इत्येतस्मिन्नर्थे ठगे भवति । अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकम् । जाड्घाप्रहृतिकम् ॥ अक्षद्यूतः | जङ्घाप्रहृतः । पादस्वेदनं | कण्टकमर्दनं । गतागतः । यातप्रयातः।गतानुगतः  । 

भावादिमप् ।। १९ ।।

भाववचनात्तेन निर्वृत्त इत्येतस्मिन्नर्थे इमब् भवति । पाकिमम्, सेकिमम्, कुट्टिमम् । 

त्रेः ||२०|| 

वान्तात् तेन निर्वृत्त इमब् भवति नित्य पुनर्विधानात् । कृत्रिमम् । पक्त्रिमम् । 

अपमित्ये कक् ||२१||

अपमित्यशब्दान्निर्वृत्ते ठग् भवति | आपमित्यकम् । कथ याचितकम् ? कुत्सायां कन् भवति । 

संसृष्टे || ||

तृतीयान्तात् ससृष्टे ठग् भवति । दध्ना ससृष्टं दाधिकम । पैप्पलिकम् । 

चूर्णादिनि ||२३||

चूर्णात् तेन संसृष्ट इनिर्भवति । चूर्णेन संसृष्टा चूर्णिनोऽपूपाः । लवणाल्लुक् ||२४||

लवणात् संसृष्टे विहितस्य लुग् भवति । लवणः सूपः, लवणा यवागूः । 

मुद्गादण् ॥२५

मुद्गात् संसृष्टेऽण् भवति । मौद्ग ओदनः । कथं दध्ना उपसिक्त ओदन दाधिक सार्पिष्क इति । संसृष्टे [२२] इत्येव सिद्धम् । 

ओजस्सहस्अम्भसा वर्तते २६॥

एभ्यस्तृतीयान्तेभ्यो वर्तत इत्येतस्मिन्नर्थे ठग् भवति । ओजसा वर्तते औजसिकः । साहसिकः । आम्भसिकः | 

तं प्रत्यनोरीपलोमकूलात् २७ 

द्वितीयान्तेभ्यः प्रत्यनुपूर्वेभ्य ईपलोमकूलेभ्यो वर्तत इत्येतस्मिन्नर्थे ठग् भवति । प्रतीपं वर्तते प्रातीपिकः | क्रियाविशेषणत्वाद् द्वितीया । आन्वीपिकः । प्रातिलोमिकः। आनुलोमिकः प्रातिकूलिकः। आनुकूलिकः । 

परेर्मुखपार्श्वत् ||२८||

परे पराभ्यां मुखपार्श्वभ्यां द्वितीयान्ताभ्यां वर्तत इत्येतस्मिन्नर्थे ठग् भवति । परिमखं वर्तते पारिमुखिकः । पारिपार्श्विकः । 

उञ्छति ||२९||

द्वितीयान्तादुञ्छतीत्येतस्मिन्नर्थे ठग् भवति । बदराण्युञ्छति 

बादरिकः | श्यामाकिकः । 

रक्षति ||३०||

द्वितीयान्ताद्रक्षतीत्येतस्मिन्नर्थे ठग् भवति । समाजं रक्षति। 

सामाजिकः | सान्निवेशिकः । 

शब्ददर्दरं करोति ॥ ३१॥

शब्ददर्दराभ्यां करोतीत्येतस्मिन्नर्थे ठग् भवति । शाब्दिकः। दार्दरिकः । 

पक्षिमत्स्यमृगान् हन्ति ||३२||

पक्ष्यादिभ्यो द्वितीयान्तेभ्यो हन्तीत्यतस्मिन्नर्थे ठग् भवति । पाक्षिकः मात्स्यिकः मार्गिकः ।  अर्थप्रधानत्वान्निर्देशस्य तत्पर्यायविशेषेभ्योऽपि । शाकुनिकः, श्यैनिकः,मैनिकः शाफरिकः, हारिणिकः, सौकरिकः । 

परिपन्थं तिष्ठति ||३३||

परिपन्थाद् द्वितीयान्तात्तिष्ठति हन्तीत्यनयोरर्थयोष्ठग् भवति । पारिपन्थिकः | अस्मादेव वचनात् परिपन्थशब्दोऽपि साधु | 

माथान्तपदव्यनुपदाक्रन्दं धावति ||३४||

माथान्तात् पदव्यादिभ्यश्च धावतीत्येतस्मिन्नर्थे ठग् भवति । दाण्डमायिकः, शौल्कमाथिकः, पादविकः, आनुपादिकः, आक्रन्दिकः । 

पदान्तप्रतिकण्ठार्थललामं गृह्णाति ||३५||

पदोत्तरपदात् प्रतिकण्ठादिभ्यश्च गृह्णातीत्येतस्मिन्नर्थे ठग् भवति । पूर्वपदं गृह्णाति पौर्वपदिकः । प्रातिकण्ठिकः, आर्थिकः, लालामिकः | 

गर्ह्ये ३६

द्वितीयान्ताद् गृह्णातीत्येतस्मिन्नर्थे गर्ह्येऽभिधेये ठग् भवति । द्विगुणं गृह्णाति द्वैगुणिकः । त्रैगुणिकः । 

वृद्धेर्वृधुष् ३७

वृद्धेष्ठक्सन्नियोगेन वृधुष् आदेशो भवति । वृद्धिं गृह्णाति 

वार्धुषिकः । 

दशैकादशकुसीदात् ष्टन् ||३८||

दशैकादश-शब्दात् कुसीदाच्च गृह्णातीत्येतस्मिन्नर्थे ष्ठन् भवति । दशानामेकादशं गृह्णाति दशैकादशिकः, दशैकादशिकी । कुसीदिकः, कुसीदिकी । 

धमाधर्मं चरति ||३९||

आभ्यां चरतीत्येतस्मिन्नर्थे ठग् भवति । धार्मिकः, आधर्मिकः ।

प्रतिपथमेति ठंश्च ॥ ४०

प्रतिपथाद् द्वितीयान्तादेतीत्येतस्मिन्नर्थे ठग् भवति, ठंश्च । प्रतिपथिकः, प्रातिपथिकः । 

समाजर्थात् समैवति ॥ ४१ 

समाजार्थाद् द्वितीयान्तात् समवैतीत्येतस्मिन्नर्थे ठग् भवति । सामाजिकः, सामवायिकः, सामूहिकः । 

परिषदो ण्यः ॥ ४२

परिषच्छब्दात् समवैतीत्येतस्मिन्नर्थे ण्यो भवति । पारिषद्यः | सेनायां वा ॥ ४३ ॥

सेनायां समवैतीत्येतस्मिन्नर्थे ण्यो वा भवति । सैन्यः सैनिकः | कथं सैन्यमिति ? चातुर्वर्ण्यादित्वात् । 

लालाटिककौक्कुटिकौ ||४४ ॥

एतौ शब्दौ निपात्येते । ललाटं पश्यति लालाटिकः सेवकः । ललाटदर्शनेन दूरावस्थानं लक्ष्यते। तेनानुपश्लेषः कार्येषु चानुपस्थानम् । यः सेवकः स्वामिन कार्येषु न प्रयुज्यते स लालाटिकः । ललाटमेव वा कोपप्रसादचिह्नसलक्षणाय पश्यतीति लालाटिकः | कुक्कुटीम् पश्यति कौक्कुटिकः । कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन देशस्याल्पता । योऽपि भिक्षुरविक्षिप्तदृष्टिः पादविक्षपदेशे चक्षुः संयम्य गच्छति स कोक्कुटिकः । योऽपि वातथाविधमात्मानं तथाविधं सन्दर्शयति [स] कौक्कुटिकः, कुक्कुटीति दाम्भिकाना चेष्टोच्यते । तामाचरति कोक्कुटिकः । सोऽयमतिमहानर्थभारो निपातनाल्लभ्यते । 

परदारादीन् गच्छति ॥ ४५

परदारादिभ्यो द्वितीयान्तेभ्यो गच्छतीत्येस्मिन्नर्थे ठग् भवति । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः । 

सुस्नातादीन् पृच्छति ॥४६॥

सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छतीत्येतस्मिन्नर्थे ठग् भवति । सुस्नातं पृच्छति सोस्नातिकः । सौखरात्रिकः, सौखशायिकः, सौखशय्यिकः | 

प्रभूतादीनाह ४७

प्रभूतादिभ्यो द्वितीयान्तेभ्य आहेत्यस्मिन्नर्थे ठग् भवति । प्रभूतम् आह प्राभूतिकः । प्राप्तिकः । 

माशब्द इत्यादिभ्यः || ४८ ||

माशब्द इत्येवमादिभ्य आहेत्यस्मिन्नर्थे ठग् भवति । माशब्द इत्याह माशब्दिकः । नित्यः शब्द इत्याह नैत्यशब्दिकः | कार्यः शब्द इत्याह कार्यशब्दिकः | वाक्यादिदं ठको विधानम् । 

तस्य धर्म्यम् ४९

 षष्ठान्ताद्धर्म्यमित्यस्मिन्नर्थे ठग् भवति । शुल्कशालायां धर्म्यम् शौल्कशालिकम् | आपणिकम् । 

ऋमहिष्यादिभ्योऽण् ५०

ऋवर्णान्तान्महिष्यादिभ्यश्च तस्य होतुर्धर्म्यम् हौत्रम्, औद्गात्रम्, नारम् । प्रजापति । विलेपिका | प्रलेपिका । 

मणिपाली । अनुवाक । यजमान । 

वैशस्त्रवैभाजित्रे ५१  

विशसितुर्विभाजयितुश्च धर्म्येऽर्थेऽणि इटो णिचश्च लोपो निपात्यते । वैशस्त्रम् वैभाजित्रम् । 

अवक्रयः ५२

अवक्रीयतेऽनेनेत्यवक्रयः । क्लृप्तकः पिण्डः उच्यत । तत्र षष्ठ्यन्ताट् ठग् भवति । शुल्कशालाया अवक्रयः शौल्कशालिकः । गौल्मिकः । 

तदस्य पण्यम् ||५३

प्रथमान्तात् पण्यवाचिनोऽस्येत्यस्मिन्नर्थे ठग् भवति । अपूपा पण्यमस्य आपूपिकः | 

लवणाट् ठञ् ||५४ ||

लवणात्तदस्य पण्यमित्यस्मिन्नर्थे ठञ् भवति । लवणं पण्यमस्य लावणिकः । स्वरे विशेषः । 

किसरादिभ्यः ष्ठन् ॥ ५५

किसरादिभ्यस्तदस्य पूण्यमित्यत्रार्थे ष्ठन् भवति । किसरा पण्यमस्य किसरिकः किसरिकी । नलदिकः, नलदिकी ॥ किसर । नलद । स्थगल । तगर । गुग्गुलु । उशीर । हरिद्री | हरिनु । पर्णी । 

शिल्पम् ॥ ५७  

प्रथमान्तादस्येत्यस्मिन् विषये ठग् भवति यत्तत् प्रथमान्तं शिल्पं चेत्तद्भवति । मृदङ्गः शिल्पमस्य मार्दङ्गिकः पाणविकः | मृदङ्गवादने मृदङ्गशब्दस्तद्विषयत्वात् । 

मड्डुकझर्झराण् वा ५८

आभ्यां तदस्य शिल्पमित्यस्मिन् विषयेऽण् वा भवति । माड्डकः माड्डुकिकः । कार्भरः झार्झरिकः । 

प्रहरणम् ||५९||

प्रथमान्तादस्येत्यस्मिन्नर्थे ठग् भवति यत्तत् प्रथमान्तं प्रहरणं चेद्भवति । तोमरः प्रहरणमस्य तौमरिकः । धानुष्कः । पारश्वधिकः । 

शक्तियष्ट्योष्टीकक् ६० 

शक्तियष्टिभ्यां तदस्य प्रहरणमित्यस्मिन् विषये टीकग् भवति । शाक्तीकः,याष्टीकः । शाक्तीकी, याष्टीकी । 

अस्तिनास्तिदिष्टमिति मतिः ६१ ॥

अस्त्यादिभ्य इति मतिरस्येत्यस्मिन् विषये ठग् भवति । अस्तीति मतिरस्य आस्तिकः | नास्तिकः | देष्टिकः । दिष्टं दैवम् । 

छत्रादिभ्यो णः॥६३

छत्त्रादिभ्यस्तदस्य शीलमित्यस्मिन् विषये णो भवति । छत्त्रं शीलमस्य छात्रः | छत्त्रमिव गुरो सुखहेतुरित्यर्थः । छत्त्र | शिक्षा । बुभुक्षा | भिक्षा | पुरोद । स्था । स्थाशब्दोऽन्तः प्रादिपूर्वो गृह्यते । अन्तःस्था संस्था अवस्था उपस्था । चुरा । उदस्थान | कृषि | कर्मन् । विश्वधा । तपस् । सत्य । अनृत । विशिखा । 

कर्माध्ययने वृत्तम् ॥ ६४॥

प्रथमान्तादस्येत्यस्मिन्नर्थे ठग् भवति, यत्तत् प्रथमान्तं कर्म चेदध्ययनविषये वृत्तं भवति । एकमन्यत् कर्म स्खलितरूपम् अध्ययने वृत्तम् अस्य ऐकान्यिकः द्वैयन्यिकः । अध्ययन इति किम् ? एकमन्यत् कर्म स्खलितं गमने वृत्तमस्य । 

बह्वच्पूर्वपदाट् च् ॥६५॥

बह्वच्पूर्वपदात् तदस्य कर्माध्ययने वृत्तमित्यस्मिन् विषये ठञ् भवति । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । 

हिता भक्षाः ॥ ६६॥

प्रथमान्तेभ्यो भक्षेभ्योऽस्येत्यस्मिन् विषये ठग् भवति हिताश्चेरो भवन्ति । अपूपा हिता अस्य आपूपिकः शाष्कुलिकः । ओदनात् तदस्य दीयते नियुक्तमित्यस्मिन् विषये ठड् भवति । औदनिक औदनिकी । कथम् श्राणिकः श्राणिकी मासौदनिकः मासोदनिकी मासिकः मासिकीति ? पूर्वेण मिद्धम् । स्वरं तु वक्ष्याम | 

भक्तादण् वा ॥ ६९॥

भक्तात् तदस्य दीयते नियुक्तमित्येतस्मिन् विषयेऽण् भवति वा । भाक्तः, भाक्तिकः । 

तत्र नियुक्तम् ७०॥

सप्तम्यन्तान्नियुक्तमित्यस्मिन् विषये ठग् भवति । शौल्कशालिकः, दौवारिकः । 

अगारान्ताट् ठन् ॥ ७१ ॥

तत्र नियुक्तमित्यस्मिन् विषयेऽगारान्ताट् ठन् भवति । देवागरिकः।

 अदेशकालादधीते ॥७२

प्रतिषिद्धदेशकालवाचिनः सप्तम्यन्तादधीत इत्येतस्मिन्नर्थे ठग् भवति । श्मशानेऽधीते इमाशानिकः । चातुर्दशिकः | अदेशकालादिति किम् ? स्रुध्नेऽधीते पूर्वाधीते । 

कठिनान्तप्रस्तारसंस्थानाइ व्यवहरति ||७३ || 

निकटादेस्तत्र वसतीत्यस्मिन्नर्थे ठग् भवति । नैकटिको भिक्षुः । श्माशानिकः [आभ्यवकाशिकः ] वार्क्षमूलिकः, आवसथिकः । 

सतीर्थ्यः ७५ 

समानतीर्थे वसतीति सतीर्थ्य इति निपात्यते । 

प्राग्घिताद्यत् ॥ ७६

प्राग्घिताद्येऽर्थास्तेष्वर्थेषु यद् वेदितव्यः । 

तद् वहति युगप्रासङ्गात् ७७

 युगप्रासङ्गाभ्यां तदिति द्वितीयान्ताभ्यां वहतीत्यस्मिन्नर्थे यद् भवति । युगं वहति युग्यः, प्रासङ्ग्यः । 

धुरो ढक् च ॥७८॥

धुरं वहतीत्यस्मिन् विषये ढग् भवति यच्च । धौरेयः धुर्यः ।

सर्वोत्तरदक्षिणादेः खः ॥७९॥

सर्वादिपूर्वाया धुरस्तद्वहतीत्यस्मिन् विषये खो भवति । सर्वधुरां 

वहति सर्वधुरीणः, उत्तरधरीणः, दक्षिणधुरीणः | 

नाम्नि जन्याः८१ ॥ 

संज्ञायां जनीशब्दाद्वधूवाचिनस्तद्वहतीत्यस्मिन् विषये यन्निपात्यते बहुवचनञ्च । जनीं वहन्ति जन्या नवोढाया ज्ञातिभृत्याः | 

विध्यत्यकरणेन ८२

द्वितीयान्ताद्विध्यतीत्यस्मिन्नर्थे यद् भवति न चेत् करणेन व्यधनं भवति । पादौ विध्यन्ति शर्कराः पद्याः । उरस्याः कण्टकाः । अकरणनेति किम् ? चौरं विध्यति धनुषा । रिपून् विध्यति शक्त्या । 

धनगणं लब्धा ॥८३॥

धनगणाभ्यां लब्धरि यद्भवति । धनं लब्धा धन्यः, गण्यः । अन्नाण्णः ॥ ८४

अन्नाद् द्वितीयान्ताल्लब्धरि णो भवति । आन्नः । 

वशं गत ॥ ८५

 वशं गतेऽर्थे यद्भवति । वश्यः । 

पदमस्मिन् दृश्यम् ||८६

पदात् प्रथमान्ताद् दृश्यमस्मिन्नित्यस्मिन्नर्थे यद्भवति । पद्यः कर्दमः । 

मूलमस्यादृढम् ||८७||

मूलशब्दात् प्रथमान्तादस्येत्यस्मिन्नर्थे यद् भवति, न तच्चेन् मूलं दृढं भवति । मूल्या भाषा | मूल्या मदगा । श्लथमूला न सुष्ठु निष्पन्ना इत्यर्थः । 

धेनुष्यागार्हपत्यौ नाम्नि ॥८

एती शब्दौ सज्ञायां निपात्येते । षुक् च निपात्यते । 

मूलेनानाम् ॥ ८९ ॥

मूलात्तृतीयान्तादनमनीयेऽर्थे यद् भवति । मूलेनानाम्यं मूल्यम्

अनाम्य इत्यत एव वचनाण्ण्यत् । नाम्नीत्येव । मूलेनानाम्यं काष्ठम् । 

वयसा च तुल्ये ॥ ९०

वयसो मूलाच्च तृतीयान्तात् समेऽर्थे यद्भवति । वयसा तुल्यः वयस्यः । मूलेन तुल्यो मूल्यः पटः । नाम्नीत्येव । वयसा तुल्यो रिपुः ।

नौतुलाविषैस्तार्यसम्मितवध्येषु ॥९१॥

नावादिभ्यस्तृतीयान्तेभ्यस्तार्यादिष्वर्थेषु यद्भवति । नावा तार्यं नाव्यमुदकम् । तुलया सम्मितं तुल्यम् । असम्मितमपि नाम्नीत्यधिकारात् [ ८८], दृष्टितुलया वा परिच्छेदात् । विषेण वध्यो विष्यः | 

सीतया समिते ॥ ९२

सीताशब्दात् तृतीयान्तात् समितेऽर्थे यद्भवति । सीतया समितं सीत्यम् । द्विसीत्यम्, त्रिसीत्यम् । 

धर्मेण प्राप्ये ॥ ९३

धर्मात् तृतीयान्तात् प्राप्येऽद्भवति । धर्म्यः | छन्दसस्तृतीयान्तान्निमितेऽर्थे यद्भवति । छन्दस्यः । 

उरसाण् च ९६ 

उरसस्तृतीयान्तान्निर्मितेऽर्थे अण् भवति यच्च । औरसः पुत्रः 

उरस्यः । 

हृदयस्य प्रिये ॥ ९७ ॥

हृदयात् षष्ठान्तात् प्रियेऽर्थे यद्भवति । हृद्यः । वशीकरणमन्त्रेऽपि प्रियत्वकरणे वैदिकेऽन्यत्र च प्रियत्वमस्त्येवेत्यनेनैव सिद्धम् । 

मतजनयोः करणजल्पयोः ||१८|| 

मतजनाभ्यां करणजल्पयोरर्थयोर्यद् भवति । मतस्य करणं भावसाधन वा मत्यम् । जनस्य जल्पो जन्यः | 

हलस्य कर्षे ॥ ९९

हलात् षष्ठ्यन्तात् कर्षे भावे साधने वा यद् भवति । हल्यः। द्विहल्यः । विशेषणत्वात् तदन्तस्य विधिः । 

तत्र साधुः १००

सप्तम्यन्तात् साधुरित्यस्मिन्नर्थे यद् भवति । कर्मणि साधुः कर्मण्यः,शरण्यः, सभ्यः । साधुः कुशलो योग्यो हितो वा । भक्तात् तत्र साधुरित्यिस्मन् विषये णो भवति । भाक्तः । 

परिषदो ण्यश्च ॥ १०३ 

परिषदस्तत्र साधुरित्यस्मिन् विषये ण्यो भवति णश्च । पारिषद्यः पारिषदः | 

कथादिभ्यष्ठक् ॥ १०४

कथादिभ्यस्तत्र साधुरित्यस्मिन् विषये ठग् भवति । काथिकः चकथिकः | कथा | विकथा । विश्वकथा । वितण्डा । जनवाद । वृति । संग्रह | गुण | गण | आयुर्वेद | गुड । कुल्माष । इक्षु । सक्तु । अपूप । मासोदन । वेणु । सग्राम । सधात | प्रवास | निवास | 

उपवास  

पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ १०५

पथ्यादिभ्यस्तत्र साधुरित्यस्मिन् विषये ढञ् भवति । पाथेयः आतिथेयः, वासतेयः, स्वापतेयः । 

समानोदरे शयितः ॥ १०६  

समानोदरात् सप्तम्यन्ताच्छयिते यद् भवति । समानोदर्यः । सोदर्यः । 

इति चान्द्रे व्याकरणे तृतीयोऽध्यायः समाप्तः |

Previous Post
Next Post

© 2025 All rights reserved.