चान्द्रव्याकरणम्(प्रथमखण्डम्) तृतीयस्य तृतीयः पाद:

तत्र जाते प्रावृषष्ठम् ॥ १ 

प्रावृट्शब्दात् सप्तम्यन्ताज्जाते ठञ् भवति । प्रावृषि जातः 

प्रावृषिकः । कथ स्रुघ्ने जात स्रौघ्नः, राष्ट्रियः, पारावारीणः इत्यादि । शेषे [ ३1२1१] इत्येव सिद्धम् । यद्येवमनियमात् ‘तत्रास्ते तत्र शेते’ इत्यपि सर्वत्राणादयो घादयश्च प्राप्नुवन्ति । न तेभ्यस्तदर्थाप्रतीते । बाधकबाधनार्थं तु जाताद्यनुक्रमणम् । कथं शारदका दर्भाः, गारदका मुद्गा इति । ऋत्वणन्तात् संज्ञायां कन् । 

पूर्वाह्नापराह्णर्द्रामूलमदोषावस्करात् कन्नाम्नि  

पूर्वाह्णादिभ्यः सप्तम्यन्तेभ्यो जाते संज्ञायां कन् भवति । पूर्वाह्णकः, अपराह्नकः आर्द्रकः । केऽण [ ६ |२|७० ] इति ह्रस्वत्वम् । मूलकः, प्रदोषकः, अवस्करकः । नाम्नीति किम् ? पूर्वाह्णेतनः । 

पन्थकः |||| 

पथि जाते संज्ञाया कन्निपात्यते पन्थादेशश्च पन्थकः | 

सिन्ध्वपकाराद्वा |||| 

सिन्ध्वपकराभ्यां कन् वा भवति । सिन्धुकः, सैन्धवः । कच्छादिपाठादण् । अपकरकः, आपकरः | नाम्नीत्येव सैन्धवको मनुष्यः | 

अमावस्यार्थादश्च ||||

अमावस्यार्थवाचिनो जाते कन् भवति वा, अश्च वा । 

अमावस्यायां जातः, अमावस्यकः, अमावस्यः, आमावस्यः । अमावास्यकः, अमावास्यः, आमावास्यः । सन्ध्यादित्वादण् । नाम्नीत्येव । आमावास्यः । 

स्थानान्तगोशालखरशालाल्लुक् ||||

स्थानान्तादिभ्यो जाते विहितस्य लुग् भवति । गोस्थाने जातो गोस्थानः | अश्वस्थानः । गोशाले जातो गोशालः । लिङ्गविशिष्टस्यापि ग्रहणात् गोशालायां जातो गोशालः । एवं खरशालः । 

वत्सशालानक्षत्रेभ्यो बहुलम् |||| 

वत्सशालान्नक्षत्रेभ्यश्च जाते विहितस्य बहुलं लुग् भवति । वत्सशाले जात वत्सशालायां वा जातः वात्सशालः । वत्सशालः । अनुराध | स्वाति । तिष्य । पुष्य । पुनर्वसु । हस्त । विशाख । बहुल ( बहुला इति कृत्तिका उच्यन्ते ) । एतेभ्यो लुगेव । क्वचिद्विकल्पः | मृगशिराः मार्गशीर्षः । अभिजित् आभिजितः । अश्वयुक् आश्वयुजः । शतभिषक् शातभिषज । चित्र चैत्र । रेवतः रैवतः । रोहिणः रौहिणः । स्त्रियां तु चित्रादिभ्यां लुगेव | चित्रा | रोहिणी । रेवती । प्रापोरपि लुकि कृते पुनर्डाप् । गौरादित्वान् ङीष् ।

डिदण् ॥८ 

नक्षत्रेभ्यो बहुलं डिदण् भवति । शातभिषजः । शातभिषः । 

श्रविष्ठाषाढाच्छण्  

एताभ्यां जाते छण् भवति बहुलम् । श्राविष्ठीयः, श्राविष्ठः, श्रविष्ठः । आषाढीयः, आषाढः, अषाढः  

फल्गुन्याष्टः १०

फल्गुन्या जाते टो भवति बहुलम् । फल्गुनः, फल्गुनी, फाल्गुनः । केषाञ्चिदत्र यावन्नाम्नीत्यव | फाल्गुनः । कथं स्रुघ्ने क्रीतो वा लब्धो चा कृतो वा कुशलो वा सम्भूतो वा भवो वा स्रौघ्न राष्ट्रिय इति । शेषे [ ३२1१] इत्येव सिद्धम् । तथा हेमन्ते साधु हैमनमनुलेपनम् हैमन्तः हैमन्तिकः वा । वसन्ते पुष्प्यन्ति वासन्त्यः, सुमनसः । शरदि पच्यन्ते। 

शारदाः शालयः । हेमन्त उप्ता हैमना यवाः । 

अश्वयुज्यामुप्ते वुञ् ॥ ११ 

अश्वयुजीशब्दात् सप्तम्यन्तादुप्ते वुञ् भवति । आश्वयुजका माषाः । 

ग्रीष्मवसन्ताद्वा || १२ ||

एताभ्यामुप्ते वा वुञ् भवति । ग्रैष्मकं सस्यम्, ग्रैष्मम् । वासन्तकं वासन्तम्  

कालादेयमृणम् १३ 

कालेभ्यः सप्तम्यन्तेभ्यो देये यथाविहितं ठञादयो भवन्ति यत्तद्देयमृणं चेत् । मासे देयमृणं मासिकम् । ग्रैष्मम् । ऋणमिति किम् ? मासे देया भिक्षा । 

कलाप्यश्वत्थयवबुसाद् वुन् ॥ १४

एतेभ्यः सप्तम्यन्तेभ्यः कालोपलक्षणेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् भवति । कलापिषु मयूरेषु देयमृणम्, अश्वत्थेषु फलवत्सु, यवबुसेषु वा भवत्सु । कलापकम् अश्वत्थकम् यवबुसकम् । 

ग्रीष्मावरसमाद् वुञ ॥१५॥

ग्रीष्मादवरसमायाश्च देयमृणमित्येतस्मिन्नर्थे वुञ् भवति । ग्रैष्मकम् । आवरसमकम् । 

संवत्सराग्रहायण्याष्ठञ् च ॥१६ 

संवत्सरादाग्रहायण्याश्च देयमृणमित्येतस्मिन्नर्थे ठञ् भवति, वुञ् च | सावत्सरिकम् सांवत्सरकम् । आग्रहायणिकम्, आग्रहायणकम् । यदा तु सवत्सरे देयमृणं फल भवति तदापि [३।२०७९] सन्ध्यादिपाठादण् मा भूदिति ठञ्-ग्रहणम् । निशायां व्याहरति मृगो नैशः । नैशिक इति शेषे [ ३।२।१ ] इत्येव सिद्धम् । अमृगोऽपि भवार्थे भवत्येव । यो हि निशायां व्याहरति स निशायां भवो भवति । त्रैशब्द्य चेह साध्यम् । तथा निशा सोढास्य निशायामध्ययनं सोढमस्येति वा नैशो नैशिक इति । 

दिगादिभ्यो भवे यत् ॥१७ 

दिगादिभ्यः सप्तम्यन्तेभ्यो भवे यद्भवति । दिश्यम् वर्ग्यम् ॥ दिश् । वर्ग । पूग । गण पक्ष । धाय्या । मित्र । मेधा । अन्तर् । पथिन् । रहस् । अलीक । उखा । साक्षिन् | आदि । अन्त | मुख । जघन । अदेहाशार्थं पाठ । मुख्य जघन्य । मेघ । यूथ । उदकात् सज्ञायाम् । उदक्या रजस्वला | न्याय । वश । अनुवश । देश । काल । आकाश  

देहांशात् ||१८||

शरीरावयवाद् यद् भवति । दन्त्यम् ओष्ठ्यम् । 

दृतिकुक्षिकलशिबस्त्यस्त्यहेर्ढञ् ॥१९ 

दृत्यादिभ्यो भवे ढञ् भवति । दार्तेयम् कौक्षेयम् कालशेयम् 

बास्तेयम्, आस्तेयम आहेयम् । 

ग्रीवातोऽण् च ॥२०॥

ग्रीवायां भवेऽण् भवति, ढञ् च । ग्रैवम्, ग्रैवेयम् । 

गम्भीरपञ्चजनाञ् ञ्यः||२१||

गम्भीरपञ्चजनाभ्यां भवे ञ्यो भवति । गाम्भीर्यं, पाञ्चजन्यः | बहिर्देवाभ्यां तु पूर्वेण सिद्धम् । 

चातुर्मास्यं यज्ञे ॥२२ 

चतुर्षु मासेषु भवे यज्ञे चातुर्मास्यमिति निपात्यते चातुर्मास्यानि । चतुर्मासात् संज्ञायामण् न वाच्यः शेषे [ ३।२।१] इत्येव सिद्धत्वात् । चातुर्मासी । आषाढी पौर्णमासी । कार्त्तिकी फाल्गुनी चोच्यते । लुगपि न भवति संज्ञाप्रतीतेः । 

परिमुखादिभ्यः ||२३|| 

परिमुखादिभ्यो भवति । परिमुखे भव परिमुख्यः । परिहनव्यः || परिमुखम् । परिहनु । पर्योष्ठम् । पर्युलूखलम् । परिसीरम् । अनुसीरम् । उपसीरम् । उपस्थूणम् । उपकलापम् । अनुतिलम् । अनुशीतम् । अनुसातम् । अनुवशम् | अनुमाषम् । अनुयवम् । अनुपथम् । अनुगङ्गम् । अनुपदम् । अनुयूपम् । विभक्तिपाठोऽसंख्यसमासप्राधान्यज्ञापनार्थम्, तेनेह न भवति-परिगतो मुखम् परिमुखम्, तत्र भवः पारिमुखः | 

अन्तःपूर्वात्तदर्थाट् ठञ्२४ 

अन्तःपूर्वपदात् तदर्थप्रधानाद् भवे ठञ् भवति । आन्तगहिकम् आन्तर्वशिकम् । विभक्त्यर्थे यदसंख्यम् [ २२२] इति समासः । तदर्थादिति किम् ? अन्तःकरणे भवम् आन्तःकरणम् । 

पर्यनुभ्यां ग्रामात् ॥ २५ ॥

पर्यनुपूर्वाद् ग्रामाद्भवे ठञ् भवति । पारिग्रामिकः, आनग्रामिकः | तदर्थादित्येव । परिगतो ग्रामं, तत्र भवः परिग्रामः । 

समानात् ||२६||

समानाद् भवे ठञ् भवति । सामानिकः । 

तदादेः ॥ २७

समानादेर्भवे ठञ् भवति । सामानग्रामिकः । सामानदेशिकः ।

लोकान्तात् ||२८||

लोकोत्तरपदाद्भवे ठञ् भवति । ऐहलौकिकः, पारलौकिकः । अनुशतिकादीनाम्, [ ६।१।३० ] इत्युभयपदादैच् । 

अध्यात्मादिभ्यः ॥ २९  

अध्यात्मादिभ्यो भवे ठञ् भवति । आध्यात्मिकम् आधिदैविकम् आधिभौतिकम् ओर्वदैहिकम् । आकृतिगणोऽयम् । 

जिह्वामूलाङ्गुलेश्छः ||३०||

एताम्या भवे छो भवति । जिह्वामूलीयम् । अङ्गुलीयम् । वर्गान्तात् ||३१||

वर्गान्ताद् भवे छो भवति । कवर्गीयः । चवर्गीयः ।

अशब्दे यत्खौ च ||३२||

शब्दादन्यत्र भवे वर्गान्ताच्छो भवति, यत्खौ च । अर्जुनवर्गीयः | अर्जुनवर्ग्यः, अर्जुनवर्गीणः । अशब्द इति किम् ? कवर्गीयः | 

मध्यान्मण्मीयौ ||३३||

मध्याद्भवे मण्-मीयौ भवतः, छश्च । माध्यमः, मध्यमीयः, मध्यीयः, मध्यन्दिना उद्गायन्तीति तदुपचारात् । 

ललाटाद्भूषणे कन् ||२४||

ललाटाद्भूषणे कन्भवति । ललाटिका । 

कर्णात् ||३५||

कर्णाद्भषणे कन् भवति । कर्णिका । 

उपादेष्ठक् ३६ 

उपपूर्वात् कर्णाद्भवे ठग् भवति । ओपकर्णिकम् । 

जानुनीविभ्याम् ||३७||

उपपूर्वाभ्यामेताभ्यां भवे ठग् भवति । औपजानुकम्, औपनीविकम्, प्रायभवेऽपि भवे [ १७ ] इत्येव सिद्धम् । 

तस्य व्याख्याने च व्याख्येयनाम्नः ||३८|| 

षष्ठ्यन्ताद् व्याख्यातव्यनाम्नो व्याख्याने सप्तम्यन्ताच्च भवे यथाविहितमणादयो भवन्ति । सुपां व्याख्यांन सुप्सु वा भवम् सौपम् । तैङम् । व्याख्येयनाम्न इति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोसला | कथम् अश्वत्थानि भव अश्वत्थामा, कृष्णाजिने भवम् कृष्णाजिनम् सिंहाजिनम् । अग्निष्टोमे भवो मन्त्रः अग्निष्टोमः अग्निष्टोमस्य व्याख्यानं कल्प अग्निष्टोम इति ? तद्वदुपचारात् । अणादयोऽपि तर्हि स्युः ? इष्यन्त एव तस्येदमिति विवक्षायाम् । त्रैशब्द्यं चेह साध्यम् । भवव्याख्यानयोयु गपदधिकारो बाधकबाधनार्थः । 

बह्वचोऽन्तोदात्ताट् ठञ् ॥३९॥

बह्वचो व्याख्येमनाम्नोऽन्तोदात्ताद् भवव्याख्यानयोष्ठञ् भवति । षात्वणत्विकम् । नातानतिकम् । समासस्येत्यन्तोदात्त । बह्वच इति किम् ? सौपम्, तैङम् । अन्तोदात्तादिति किम ? संहितायां साहितम् । प्रादिस्वरेणायुदात्तः । उदात्तादयः स्वरा विसर्जनीयादिवत् प्रसिद्धाः । 

यज्ञेभ्यः ॥ ४०

यज्ञवाचिभ्यो भवव्याख्यानयोष्ठञ् भवति । अग्निष्टोमिकम् वाजपेयिकम् पाञ्चोदनिकम् दाशौदनिकम् । बहुवचनं सर्वयज्ञ- परिग्रहार्थम् । 

अध्यायेष्वेवर्षेः || ४१ ||

ऋषिवाचिभ्यो भवव्याख्यानयोष्ठञ् भवति, अध्यायेष्वेवाभिधेयेषु वसिष्ठस्य ग्रन्थस्य व्याख्यानं तत्र भवो वा वासिष्ठिकोऽध्यायः । वैश्वामित्रिकः | अध्यायेष्ववेति किम् ? वासिष्ठी ऋक् । 

पौरोडाशपुरोडाशात् ष्ठन् ॥ ४२ ॥

आभ्यां भवव्याख्यानयोः ष्ठन् भवति । पौरोडाशिकः, पौरोडाशिकी । पुरोडाशिकः, पुरोडाशिकी । 

छन्दसो यत् ||४३|| 

छन्दसो भवव्याख्यानयोर्यद् भवति । छन्दस्यम् । 

अण् ४४ 

छन्दसो भवव्याख्यानयोरण् भवति । छान्दसम् । 

ऋगयनादिभ्यः || ४५  

ऋगयनादिभ्यो भवव्याख्यानयोरण् भवति । आर्गयणः पादव्याख्यानः || ऋगयन । पदव्याख्यान । छन्दोव्याख्यान | छन्दोनामन् । छन्दोभाषा । छन्दोविचिति । छन्दोविजिति । न्याय । निरुक्त। पुनरुक्त । व्याकरण | निगम । वास्तुविद्या । अविद्या । क्षत्रविद्या । क्षत्रियविद्या । उत्पात । उत्पाद । सवत्सर । यज्ञ । चर्चा | श्लक्ष्ण | मुहूर्त । निमित्त | उपनिषद् | शिक्षा | 

द्व्यजृदृग्ब्राह्मणप्रथमाध्वरपुरश्चरणनामाख्याताट् ठक् ४६

द्व्यच ऋदन्तादृक्छब्दाद् ब्राह्मणादिभ्यश्च भवव्याख्यानयोष्ठग् भवति । ऐष्टिकम् । चातुर्होतुकम् । आर्चिकम् । ब्राह्मणिकमः। प्राथमिकम् । आध्वरिकम् । पौरश्चरणिकम् । नामाख्यातिकम् । नामिकम् | आख्यातिकम् । 

आयस्थानादागते ||४७  

आयस्थानवाचिभ्यः पञ्चम्यन्तेभ्य आगते ठग् भवति । शुल्कशालायां आगत शौल्कशालिकः । आतरिकः । आपणिकः । कथं स्नुघ्नादागतः स्रौघ्नः राष्ट्रिय इत्यादि ? शेषे । ३।२।१ ] इत्येवं सिद्धम् | 

शुण्डिकादिभ्योऽण् ४८॥

शुण्डिकादिभ्य आगते अण् भवति । शौण्डिकः । कार्कणः ॥ अण्-ग्रहणमुदपानार्थम् ॥ शुण्डिक । कृकण । उदपान | स्थण्डिल | उपतीर्थ । भूमि । तृण । पर्णं । 

विद्यायोनिसम्बन्धाद् वुञ् ४९ 

विद्यासम्बन्धाद् योनिसम्बन्धाच्चागते वुञ् भवति । औपाध्यायकम् ,शैष्यकम्, मातामहकम्, पैतामहकम् । 

ऋतः कञ् ॥५० 

ऋदन्तादागते कञ् भवति । होतृकम्, मातृकम् । विद्यायानि- 

सम्बन्धादित्येव । सावित्रम् | 

पित्र्यं वा ५१॥

पितुरागत इत्येतस्मिन्नर्थे पित्रामिति वा निपात्यते । पित्रम् पैतृकम् । 

नहेतुभ्यो रूप्यः ॥५२॥

मनुष्यवाचिभ्यो हेतुवाचिभ्यश्चागते रूप्यो वा भवति । देवदत्तरूप्यम् देवदत्तम् । समाद्धेतोरागत समरूप्यम्, समीयम् । गहादित्वाच्छः । 

मयट् ५३

नहेतुभ्य आगते मयड् भवति । देवदत्तमयम् । सममयम् । गोत्रादङ्कवत् ||५४

गोत्रे यो विहितस्तदन्तादागतेऽङ्क इवाणादयो भवन्ति । औपगवेभ्य आगतम् औपगवकम् । बैदम् । गार्गम् । दाक्षम् । शाकलम्। शाकलकम् । 

वैर्दुर्यम् ॥५५ 

अयं शब्दो निपात्यते रत्नविशेषे विदूरादुत्पन्ने । कथं हिमवतो गङ्गा प्रभवति हैमवती, स्नुघ्नं गच्छति पन्था दूतो वा स्रौघ्नः, राष्ट्रियः, सुघ्नमभिनिष्क्रामति द्वारम् स्रौघ्नम् । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्र इति ? शषे [ ३।२1१] इत्येव सिद्धम् । इहापि तर्हि प्राप्नोति – स्रुघ्नं गच्छति सार्थः, स्नुघ्नमभिनिष्क्रामति पन्थाः, सुभद्रामधिकृत्य कृतः प्रासाद इति ? तस्य स्वमिति विवक्षायामिष्यत एव । 

शिशुक्रन्दादीनधिकृत्य कृते ग्रन्थे छः ५६  

शिशुक्रन्दादिभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे छो भवति । शिशुक्रन्दीयः यमसभीय इन्द्रजननीयः सीतान्वेषणीयः | 

चार्थानदेवासुरादीन् ५७ 

चार्थसमासेभ्यो देवासुरादिवर्जितेभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे छो भवति । श्येनकपोतीयः | सवर्तमरुत्वतीयः | अदेवासुरादीनिति किम् ? दैवासुरम् रक्षोऽसुरम, गौणमुख्यम् । कथं वासवदत्ता, बन्धुमती ? अभेदोपचारविषयत्वाद्विवक्षायाः । भैमरथीति नाभेदविवक्षा । कथम् – स्नुघ्नो निवासोऽस्य, स्नुघ्नोऽस्याभिजनः, स्रौघ्नो राष्ट्रिय इति ? शेषे [ ३।२।१] इत्येवं सिद्धम् । 

सोऽस्याभिजनो गिरिभ्यः शस्त्रजीविषु ५८ 

प्रथमान्तेभ्यो गिरिविशेषेभ्योऽभिजनभूतेभ्योऽस्येति षष्ठार्थे आयुधजोविष्वभिधेयेषु छो भवति । हृद्गोलः पर्वतोऽभिजन एषाम् हृद्गोलीया आयुधजीविनः । भोजकटीया रोहितगिरीयाः । गिरिभ्य इति किम् ? साकाश्यकाः शस्त्रजीविनः | शस्त्रजीविष्विति किम् ? ऋक्षोदः पर्वतोऽभिजन एषाम् ब्राह्मणानाम् आर्क्षदा । यत्र पूर्वैरुषितः सोऽभिजनः | यत्र सम्प्रत्युष्यते स निवासः । 

शालातुरीयः ५९ 

शलातुरोऽभिजनोऽस्येत्येतस्मिन्नर्थे शालातुरीय इति निपात्यते । 

शण्डिकादिभ्यो यः ||६० ||

शण्डिकादिभ्यः सोऽस्याभिजन इत्येतस्मिन्नर्थे ञ्यो भवति । शाण्डिक्यः | 

सिन्ध्वादिभ्योऽण् ॥ ६१  

सिन्ध्वादिभ्यः सोऽस्याभिजन इत्येतस्मिन्नर्थेऽण् भवति । सैन्धवः, वार्णवः || सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर | शाल्व । किष्किन्धा । गन्दिकः । उरस । दरद् । तक्षशिला । वत्सोद्धरण | कौमेदुर | काण्डवार । ग्रामणी । शकल * । छ्गलक । कस । किन्नर । सङ्कुचित । सिंहकोष्ठ | कर्ण । बर्बर । अवसान | ये तु कच्छादिषु [३१२१४१] पठान्ते तेषामणि सिद्धे अपवादार्थं वचनम् । जनपदिना च वाहीकग्रामाणा ठञिकयोरपवादार्थम् । 

तूदीवर्मतीभ्यां ढञ् ॥६२॥

तूदीवर्मतीभ्यां सोऽस्याभिजनः, इत्येतस्मिन्नर्थे ढञ् भवति । तौदेयः,वार्मतेयः | 

तत्र भक्तिर्महाराजाट् ठक् ॥ ६३  

तत्रति सप्तम्यन्तान्महाराजाट् ठग् भवति भक्तिरस्येत्यस्मिन्नर्थे । महाराजो भक्तिरस्य माहाराजिकः । कथं स्रुघ्ने भक्तिरस्य स्रौघ्नः । राष्ट्रिय इति ? शेषे [ ३।२।१ ] इत्येव सिद्धम् । 

अचित्ताददेशकालात् ||६४||

अचित्तवाचिनो देशकालवर्जितात् तत्र भक्तिरस्येत्यस्मिन्नर्थे ठग् भवति । अपूपेषु भक्तिरस्य आपूपिकः । शाष्कुलिकः । अचित्तादिति किम् ? दैवदत्तः | अदेशकालादिति किम् ? स्रौघ्नो हैमनः । 

वासुदेवार्जुनात् कन् ॥ ६५ 

आभ्यां तत्र भक्तिरस्येत्येतस्मिन्नर्थे कन् भवति । वासुदेवकः 

अर्जुनकः | 

गोत्राद् बहुलं वुञ् ॥ ६६॥

गोत्रे यो विहितस्तदन्तात् तत्र भक्तिरस्येत्यस्मिन्नर्थे बहुलं वुञ् भवति । औपगवकः, दाक्षकः । पाणिनीयः । 

क्षत्रियात् ॥ ६७॥

क्षत्रियवाचिनस्तत्र भक्तिरस्येत्यस्मिन्नर्थे बहुलं वुञ् भवति । नाकुलक ,साहदेवकः | पौरवीयः । 

जनपदवत् सर्वं तत्सरूपात् बहुत्वे || ६८||

बहुत्वे जनपदसमानरूपात् क्षत्रियवाचिनस्तत्र भक्तिरस्येत्यस्मिन्नर्थे जनपदवत् सर्वं भवति । अङ्गेषु वङ्गेषु वा जनपदेषु भक्तिरस्य आङ्गकः, वाङ्गकः । तद्वदङ्गेषु क्षत्रियेषु भक्तिरस्य आङ्गकः । वाङ्गकः । सर्वमिति किम् ? प्रकृतिरपि जनपदवद् यथा स्यात् । माद्रे वा वा भक्तिरस्य । मद्रकः, वृजिकः । तत्सरूपादिति किम् ? पौरवीयः । बहुत्व इति किम् ? एकत्वद्वित्वयोरसरूपादपि यथा स्यात् । आ आङ्गयोर्वा भक्तिरस्य आङ्गकः । क्षत्रियादित्येव । पञ्चालेषु ब्राह्मणेषु भक्तिरस्य पाञ्चालः । कथम् उशनसा प्रोक्तमौशनसम्, बार्हस्पत्यम्, पाणिनीयमिति ? शेषे [३।२।१] इत्येव सिद्धम् । 

तेन प्रोक्तं वेदं वेत्यधीते ६९ ॥

तृतीयान्तात् प्रोक्तं वेदं वेत्त्यधीत इत्येतयोरर्थयोर्यथाविहितमणादयो भवन्ति । पिप्पलादेन प्रोक्तं वेदं विदन्त्यधीयते वा पैप्पलादाः । मैत्रायणीयाः । वेदमिति किम् ? पिप्पलादेन प्रोक्तं श्लोकं विदन्त्यधीयते वा । 

तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥७०

एतेभ्यस्तेन प्रोक्तं वेदं वेत्त्यधीत इत्येतयोरर्थयोरश्छण् भवति । तित्तिरिणा प्रोक्नं वेदं वेत्त्यधीते वा तैत्तिरीयः । वारतन्तवीयः, खाण्डकीयः, औखीयः । वेदमित्येव । तित्तिरिणा प्रोक्तं श्लोकं वेत्त्यधीते वा । 

काश्यपकौशिकाभ्यामृषिभ्यां कल्पं च णिनिः ॥ ७१ ॥

एताभ्यां तेन प्रोक्तं वेद कल्पं च वेत्त्यधीत इत्येतयोरर्थयोर्णिनि- भवति । काश्यपेन प्रोक्तं वेदं कल्पं च विदन्त्यधीयते वा काश्यपिनः । कौशिकः | ऋषिभ्यामिति किम् ? काश्यपीयः कल्पः | कल्पं चेति किम् ? काश्यपीया पुराणसंहिता । 

शौनकादिभ्यः ||७२ ||

शौनकादिभ्यस्तेन प्रोक्त वेदं वेत्यधीत इत्येतयोरर्थयोर्णिनिर्भवति । शौनकिनः वाजसनेयिनः ॥ वेदमित्येव । शौनकीया शिक्षा | शौनक 1 वाजसनेय । शार्ङ्गरव । शापेय। शाष्पेय । खाडायन । स्कन्द | स्कम्भ | देवदर्श । रज्जुभार। रज्जुकण्ठ । कठशाठ । कषाय । 

कलापिवैशम्पायनशिष्येभ्यः ७३  

कलापिशिष्यभ्यो वैशम्पायनशिष्येभ्यश्च तेन प्रोक्तं वेदं वेत्यधीत इत्येतयोरर्थयोर्णिनिर्भवति । तत्र कलापिशिष्या हरिद्रुः तुम्बरुः उलपः छगली च । वैशम्पायनशिष्या आलम्बिः पिलिङ्गः कमल इति प्राच्याः, श्यामायनः कठः कलापीत्युदीच्याम्, ऋचाभ आरुणिः तण्ड इति माध्यमाः । साक्षाच्छिष्याश्चेह गृह्यन्ते न प्रशिष्याः, कलाविशिष्याणां पृथग्विधानात्, कठशिष्यस्य च खाडायनस्य शौनकादिषु ग्रहणात् । हरिद्रुणा प्रोक्तं वेदं विदन्त्यधीयते वा हारिद्रविणः । तौम्बुरविणः, आलम्बिनः, औलपिनः, पैलिङ्गिनः, कामलिनः । श्यामायनिनः । आर्चाभिनः, आरुणिनः, ताण्डिनः । 

कठचरकाल्लुक् ॥७४॥

एताभ्यां तेन प्रोक्तं वदं वेत्यधीते इत्येतयोरर्थयोविहितस्य – णिनेरणश्च लुग्भवति । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । चरकाः  

कलापिनोऽण् ७५

कलापिनस्तेन प्रोक्तं वेदं वेत्त्यधीत इत्यनयोरर्थयोरणे भवति । कालापाः । अनपत्ये च [५।३।१७७] इति प्रतिषधे प्राप्ते कलाप्यादीनाम् [५/३/१४०] इत्यन्त्याजादिलोपः | 

छगलिनो ढिनुक् ॥७६॥

छगलिनस्तेन प्रोक्तं वेद विदन्त्यधीयत इत्यनयोरर्थयोर्दिनुग् 

भवति । छागलेयिनः । 

कर्मन्दकृशाश्वाभ्यां भिक्षुनटसूत्रमिनि ॥ ७७

 एताभ्यां तेन प्रोक्त भिक्षुसूत्रं नटसूत्रं च वेत्त्यधीत इत्येतयोरिनिर्भवति । कमुन्देन प्रोक्तं भिक्षुसूत्रं नटसूत्रं च विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः । कृशाश्वेन प्रोक्तं नटसूत्र विदन्त्यधीयते वा कृशाश्विनो नटाः | वेदनाध्ययनयोः प्रत्येकं सम्बन्वप्रसिद्धेर्न याथासख्यम् । 

पाराशर्यशिलालिभ्यां णिनिः ॥७८

एताभ्यां तेन प्रोक्तं भिक्षुसूत्रं नटसूत्रं वेत्त्यधीत इत्येतयोरर्थयोः र्णिनिर्भवति । पाराशर्येण प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा पाराशरिणो भिक्षवः । शिलालिना प्रोक्तं नटसूत्रं विदन्त्यधीयते वा शैलालिनो नटाः । 

पुराणर्षेर्ब्राह्मणम् ७९॥

पुराणर्षिवाचिनस्तेन प्रोक्तं ब्राह्मणं वेत्त्यधीत इत्येतयोरर्थयोर्णिनिर्भवति । शाट्यायनेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा शाट्यायनिनः । ऐतरेयिणः । पुराणग्रहणं किम् ? याज्ञवल्क्येन प्रोक्तानि याज्ञवल्कानि ब्राह्मणानि । [३।२।२१] शकलादिपाठादण् । अस्मादेव वचनात् पुराण- शब्दस्यापि साधुत्वम् | 

कल्पे ||८०||

पुराणर्षेस्तेन प्रोक्ते कल्पे णिनिर्भवति । पिङ्गेन प्रोक्तं पैङ्गी कल्पः | आरुणपराजी । येऽपि पैङ्गिनं कल्प विदन्त्यधीयते वा तेऽपि पैङ्गिनः । प्रोक्ताद्धि लुगुक्तः । पुराणर्षेरित्येव । आश्मरथः कल्पः । 

अथर्वणोऽण् वेदे ॥ ८१

अथर्वणस्तेन प्रोक्ते वदेऽण् भवति । आथर्वणो वेदः । कथम् अथर्वा वेदः, वसिष्ठोऽनुवाकः, विश्वामित्र इति ? तेन प्रोक्ते तद्वदुपचारात् । कथं सुदाम्ना तुल्या दिक् सौदामनी हैमवती ? शेषे [३।२1१] इत्येव सिद्धम् । कथं सुदाम्ना तुल्यदिक् सुदामतः, हिमवत्तः । उरसा तुल्या दिक् उरस्त इति ? तत उपलभ्यते ततो भवतीति वा अवधावहाग्रुहो [४|३|६ ] इति तस् भविष्यति । उरसा एका दिक् उरस्य इति तत्समीपेऽपि भवस्तत्रेति शक्यते वक्तुम् यथा गङ्गायां गाव इति । अतो देहाशाद् [१८] इत्येव सिद्धम् । पाणिनिनोपज्ञातम् पाणिनीयम्, शिवेन कृतो ग्रन्थः शैव इति शेष [ ३।२।१] इत्येव सिद्धम् । अग्रन्थेऽपि तर्हि प्राप्नोति ? इष्यत एव यथा इष्टकाभिः कृतः प्रासाद ऐष्टकः, नारदेन कृतं गीतं नारदीयम्, मनसा कृता मानसी कन्या । अथ तस्य स्वम् [८५] इत्यत्र भवति ? ततस्तक्ष्णा कृतः प्रासाद इत्यत्रापि तस्य स्वमिति विवक्षायां भवत्येव, प्रतिषेधाभावात् । संज्ञायामपि मक्षिकाभिः कृतम् माक्षिकम्, गार्मुतम्, सारघम्, पौत्तिकम्, क्षौद्रम्, भ्रामरम्, वाटरमिति शेषे [ ३२१] इत्येव सिद्धम् । 

पुरुषात् कृते ढञ् ॥८२॥

पुरुषात् तृतीयान्तात् कृते ढञ् भवति । पौरुषेयम् । 

संज्ञायां वातपादञ् ॥८३ 

वातपात् तेन कृते संज्ञायां विषये अञ् भवति । वातपम् । संज्ञायामिति किम्? वातपीयम् । 

कुलालादिभ्यो वुञ् ॥८४॥

कुलालादिभ्यस्तेन कृते वुञ् भवति । कौलालकम् वारुटकम, । संज्ञायामित्येव  कौलालम् ॥ कुलाल | वरुट । चण्डाल । निषाद । कर्मार। सेना । देवराज । पर्षद् | वधू । रुरु । अनडुह । ब्राह्मण । कुम्भकार । श्वपाक । कथम् उपगो स्वम् औपगवम्, राष्ट्रियमिति ? शेषे [ ३।२।१ ] इत्येव सिद्धम् । स्वे ग्रामजनपदमनुष्येभ्य [ पा० ४ | ३।१२०|५] इति न वक्तव्यमन्यतोऽपि दर्शनात् । ऐन्द्रम् | बार्हस्पत्यम् । आग्नेयम् । कालेयम् । वारुणम् । पैशाचम् । आसुरम् । 

तस्य स्वं स्थाद् यत् ॥ ८५  

षष्ठ्यान्ताद्रथात् स्वस्मिन्नभिधेये यद् भवति । रथस्य स्वम् रथ्यम् । रथस्य वोढा रथ्यः । द्विरथ्यः त्रिरथ्यः । रथस्य विशेषणत्वात् तदन्तविधिः | अनजादित्वान्न लुक् । 

यानादेरञ् ८६ 

वाहनपूर्वाद्रथात्तस्य स्वमित्येतस्मिन्नर्थेऽञ् भवति । आश्वरथम् । रासभरथम् । 

यानात् ||८७ || 

वाहनात् तस्य स्वमित्येतस्मिन्नर्थेऽञ् भवति । आश्वम्, रासभम् । बाह्य इति न वक्तव्यम, शृङ्खलादावपि प्रतीते । आध्वर्यवम्, पार्षदम् इत्यणा सिद्धम् । 

हलसीराट् ठक् ८८॥

हलमीराभ्यां तस्य स्वमित्येतस्मिन्नर्थे ठग् भवति । हालिकम् सैरिकम् । 

चार्थाद्वैरे वुनदेवासुरादिभ्यः ॥ ८९  

चार्थवृत्तेर्देवासुरादिवर्जितात् तस्य स्वमित्यत्रार्थे वैरेऽभिधेये वुन् भवति । बाभ्रवशालङ्कायनिका । काकोलूकिका | स्वभावात् स्त्रीलिङ्गम् । अदेवासुरादिभ्य इति किम् ? दैवासुरम् । राक्षोऽसुरम् । 

विवाहे ||१०||

चार्थात् तस्य स्वमित्यर्थे उद्वाहेऽभिधेये वुन् भवति । कुत्सकुशिकिका, अभिरद्वाजका | 

नटाञ् ञ्यो नृत्ये ॥ ९९||

नटात् तस्य स्वमित्यन्नार्थे नृत्येऽभिधेये भवति । नटानां स्वम् नाट्यम् । नृत्य इति किम् ? नटाना गृहम्। 

छन्दोगौक्थिकयाचिकवह्वृचाद् धर्माम्नायसङ्घेषु ९२॥

छन्दोगादिभ्यस्तस्य स्वमित्यत्रार्थे धर्मादिष्वभिधेयेषु ञ्यो भवति । छन्दोगानां धर्म आम्नायः सङ्घो वा छान्दोग्यः । औक्थिक्यः । याज्ञिक्यः । बाह्वृच्यः । धर्मादिष्विति किम् । छन्दोगानां गृहं छान्दोगम् । 

आथर्वणः ||९३ || 

आथर्वणिकानां धर्म आम्नाय सङ्घो वा आथर्वण इत्यण् इकलोपश्च निपात्यते । 

चरणाद वुञ् ९४

चरणवाचिनस्तस्य स्वमित्यत्रार्थे धर्मादिष्वभिधेयेषु वुञ् भवति । कठानां धर्म आम्नाय सङ्घो वा काठकः । पैप्पलादकः । 

गोत्राददण्डमाणवान्तेवासिषु ॥ ९५ ॥

गोत्रे यो विहितस्तदन्तात् तस्य स्वमित्यत्राथ दण्डमाणवान्तेवासिवर्जिते वुञ् भवति । औपगवकः । अदण्डमागवान्तेवासिष्विति किम्? दाक्षा दण्डप्रधाना माणवा अन्तेवासिनो वा । 

रैवतिकादिभ्यछः ||९६ ||

रैवतिकादिभ्यो गोत्रेभ्यस्तस्य स्वमित्यत्रार्थे छो भवति । रैवतिकीयः स्वापिशीयः | रैवतिक । स्वापिशि | क्षैमवृत्वि । गौरग्रीवि । औदमेधि | औदवापि । बैजवापि । 

कौपिञ्जलहास्तिपदादण् ९७ ॥

आभ्यां गोत्राभ्यां तस्य स्वमित्यत्रार्थेऽण् भवति । कौपिञ्जलः, हास्तिपादः | 

सङ्घअङ्कघोषलक्षणेषु अञ् यञिञः९८

अञन्ताद यञन्ताद् इञन्ताच्च तस्य स्वमित्यत्रार्थे सङ्घादिष्वभिधेयेष्वण् भवति । बैदः सङ्घः, अङ्कः, घोषः। बैदं लक्षणम् । गार्गः सङ्घः अङ्कः, घोषः। गार्गं लक्षणम् । दाक्षः सङ्घः, अङ्कः, घोषः। दाक्षं लक्षणम् । सङ्घादिष्विति किम् ? बैदानां गृहम् । गोत्रादित्येव । वातापीयः । 

शाकलाद्वा ।। ९९ ।।

शाकलात् तस्य स्वमित्यत्रार्थे सङ्घादिष्वभिधेयेष्वण् वा भवति । शाकलेन प्रोक्तं वेदं विदन्त्यधीयते वा शाकलाः । तेषां सङ्घः शाकलः शाकलकः अङ्को घोषो वा । शाकलं लक्षणम, शाकलकम् । 

वहेस्तुरिट् १००॥

वहेर्यस्तृशब्दस्तदन्तात् तस्य स्वमित्यत्रार्थेऽण् भवति तुश्चेडागमः । सवोढुं स्वम सावहित्रम् | 

आग्नीध्रं शरणे ॥ १०१  

अग्नीध्रं शरणेऽभिधेये तस्य स्वमित्यत्रार्थे रञ् निपात्यते जश्त्वाभावश्च । आग्नीध्रं शरणम् । 

समिध आधाने षण्यण् १०२ 

आधीयतेऽनेनेत्याधाने तत्र समिधः षेण्यण् भवति । सामिधेन्यो मन्त्रः | सामिधेनी ऋक्। 

विकारे १०३ 

पष्ठान्ताद् विकारेऽभिधेये यथाविहितमणादयो भवन्ति । अश्मनो विकार आश्म | [ आश्मन् |] भास्मन् | शेषे [ ३२ १] इति सिद्धे पुनर्वचनं शेषिकनिवृत्यर्थम् । हालः सैरः । 

वृक्षौषधिभ्यऽ̊शे १०४  

वृक्षेभ्य ओषधिभ्यश्चांशे विकारे चाणादयो भवन्ति । कारीरं काण्डम्, कारीरं भस्म । मौर्वं काण्डम, मौर्वं भस्म । 

प्राणिभ्योऽञ् ॥ १०५  

प्राणिभ्यो विकारे अंशे चाञ् भवति । कापोतं मासमं, कापोतं सक्थि । चाषं मासम, चाषं सक्थि । 

तालादिभ्योऽण् १०६॥

तालादिभ्यो विकारावयवयोरर्थयोरण् भवति । तालं धनुः, तालमयमन्यत् । बार्हिणः | तालाद् धनुषि । बर्हिन् । इन्द्रादृशः | हन्द्रालिसः । इन्द्रायुधं चापम् । श्यांमाकः । पीयूक्षा | गवेधुका | 

हेमार्थात् परिमाणे ॥ १०७॥

सुवर्णार्थात् परिमाणे विकारे चाण् भवति । हाटको निष्कः । जातरूपं कार्षापणम्, तापनीयम् । परिमाण इति किम् ? यष्टिरियं हाटकमयी । 

त्रपुजतुनोः षुक् ॥ १०८

त्रपुजतुनोर्विकारे षुगागमो भवति, अण् तु सिद्ध एव । अत एव मयट् न बाधते । त्रापुषम् जातुषम् । त्रपुमयं जतुमयम । 

मयड् भक्षाच्छादने ॥ १०९ 

प्रकृतिमात्राद्विकारेऽवयवे च भस्याच्छादनवर्जिते मयड् भवति । अश्ममयम् करीरमयम् । दूर्वामयम् । अणादीनां मयटरचोभयविधानविकल्पः | अभक्षाच्छादन इति किम् ? मौद्गः सूपः | कार्पासमाच्छादनम् । 

एकाच: ॥ ११०  

एकाचो विकारे मयड् भवति पुनर्विधानान्नित्यम् । वाङ्मयम्, मृन्मयम् । अविकारे कथं गोमयमिति ? वा गोमय [ ३|२|४४ ] इति निपातनात् । 

छे १११ ॥

छविषये, विकारावयवयोर्मयड् भवति नित्यम् । आम्रमयम् 

शालमयम्  

व्रीहेः पुरोडाशे ११२ ॥

व्रीहेः पुरोडाशविकारे मयड् भवति । व्रीहिमयः पुरोडाशः । होऽन्यः । 

तिलयवपिष्टादसंज्ञायाम् ॥ ११३  

तिलादिभ्यो विकारेऽवयवे चासंज्ञायां मयड् भवति नित्यम् । तिलमयम् । यवमयम् । पिष्टमयम् । असंज्ञायामिति किम् ? तैलम् । यावकम् । पिष्टिका । 

शरादिभ्यः ॥ ११४  

शरादिभ्यो विकारावयवयोर्मयड् भवति । शरमयम् । दर्भमयम् ॥ शर । दर्भं । कुटी । तृण । सोम । बल्बज । 

क्रीतवत् परिमाणात् ॥ ११५

परिमाणाद् विकारे क्रीत इव विधिर्भवति । निष्कस्य विकारः नैष्किकः । शत्यः शतिकः । साहस्रः । द्विनिष्कः द्विनैष्किकः । 

शम्याष्ट्लञ् ॥ ११६  

शम्या विकारावयवयो ष्लञ् भवति । शामीलः शामीली । उष्ट्राद् वुञ् ॥११७

उष्ट्राद्विकारावयवयोर्बुञ् भवति । औष्ट्रकः ।

उमोर्णा वा ॥ ११८  

उमोर्णाभ्यां विकारावयवयोर्बुञ् वा भवति । औमकम् औमम् । और्णकम् और्णम् । 

एणीकोषाड् ढञ् ॥ ११९ ॥

एणीकोषाभ्यां विकारावयवयोर्दा भवति । ऐणेयम् कौशेयम् । 

पुरुषाद्वधे च ॥ १२०॥

पुरुषाद्वधे विकारे च न भवति । पौरुषेयो विकारः, पौरुषेयो 

वधः । 

हैयङ्गवीनं संज्ञायाम् ॥ १२१

हैयङ्गवीनमिति निपात्यते ह्योगोदोहस्य विकार इत्येतस्मिन्नर्थे संज्ञा चेत् । हैयङ्गवीनम् । नवनीतं घृतम् यत् सद्य पक्वम् । 

पयसो यत् १२२

पयसो विकारे यद् भवति । पयस्यम् । कथं गव्यम् ? गोरचि यत् [२४/१५] इत्येव सिद्धम् । 

आप्यं वा ॥ १२३  

अपशब्दाद् विकारे यद् वा निपात्यते दीर्घत्वं च । आप्यम्  

अम्मयम् । 

द्रोः || १२४ ||

दुशब्दाद् विकारावयवयोर्यद् भवति । द्रव्यम् । 

माने वयः ॥ १२५ ॥

दो शब्दान्माने विकारे च वयो भवति । द्रुवयं मानम् । कथम् — आमलक्याः फलम् आमलकम्, कुवलम् बदरमिति ? प्रकृत्यन्तरत्वात् सिद्धम् । अण्मयटावपि तर्हि प्राप्नुतः ? न तदन्तात् फलस्याप्रतीतेः । अन्यथा हि फलादपि वृक्षे स्याताम् । फलप्रतीतौ तु भवत्येव । । वेणवम् प्लाक्षम् नैयग्रोधम् एैङ्गदम् काक्षतवम् । बार्हतम् जाम्बवम् । जम्बु फलमिति प्रकृत्यन्तरम्, जम्बू फलमित्यभेदोपचारात् । तथा हरीतकी कोशातकी द्राक्षा व्रीहय तिला मुद्गा यवा मापा शालय गोधूमा, यथा मुद्र्गे शालीन् भुक्त इति । तथा पुष्पमूलेष्वपि । मल्लिका नवमालिका बृहती विदारी । क्वचिद् भेदः | पाटलानि कुसुमानि, एरण्डानि मूलानि ।  क्वचिदुभयम् । शैरीषं कुसुमम्, शिरीषम् । 

कांस्यपारशवौ ॥ १२६  

एतौ शब्दौ विकारे निपात्येते । कंसार्थं कंसीयम् । तस्य विकारः कास्यम् । परश्वर्थं परशव्यम् तस्य विकारः पारशवः । 

न द्विः ।। १२७ ।। 

विकारावयवयोर्द्विरणादयो न भवन्ति । कापोतस्य विकारः 

कापातः । कथं तर्हि कापोतो रसः कापित्थो रस इति ? विकारेऽपि प्रकृतिशब्दो दृश्यते । तत्र विकारवृत्तेः प्रकृतेरुत्पत्तिर्भविष्यति । विकारविकारोऽपि वा विकार एव । अवयवावयवोऽपि वावयव एव । कथं द्रौवयम् । तस्य स्वमिति [ ८५] भविष्यति । कथं गौमयम् ? नैष विकारात् । 

इति चान्द्रे व्याकरणे तृतीयस्य तृतीयः पादः समाप्तः |

Previous Post
Next Post

© 2025 All rights reserved.