तेन रक्तं रागात् ॥ १॥
तेनेति तृतीयान्ताद् रक्तमित्येतस्मिन्नर्थेऽण् भवति यत्तत् तृतीयान्तं रागवाचि चेत् तद्भवति । कषायेण रक्तं वस्त्र काषायम् । कौङ्कुमम् । रागादिति किम् ? देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति ? तद्गुणाध्यारोपात् ।
लाक्षारोचनाट् ठक् ॥२॥
एताभ्यां तेन रक्तमित्यर्थे ठग् वा भवति । लाक्षिकम् । रौचनिकम् ।
शकलकर्दमाद्वा ||३||
एताभ्यां तेन रक्तमित्येतस्मिन्नर्थे ठग्, वा भवति । शाकलिकम् शाकलम् । कार्दमिकम् कार्दमम् । नीलपीताभ्यां तेन रक्तमित्येतस्मिन्नर्थेऽनुकनौ भवतः । नीलम् पीतकम् । गुणवचनेन सिद्धेऽणपवादार्थं वचनम् ।
नक्षत्रैरिन्दुयुक्तैः कालः ॥५॥
नक्षत्रेभ्यस्तृतीयान्तेभ्यस्तैर्लक्षिते कालेऽण् भवति, तानि चेन्नक्षत्राणीन्दुयुक्तानि भवन्ति । पौषी रात्रिः पौषमहः । नक्षत्रैरिति किम् ? शुक्रेण लक्षिता रात्रिः । इन्दुयुक्तैरिति किम् ? कृत्तिकाभिर्लक्षितो मुहूर्तः | काल इति किम् ? पुष्येण लक्षितार्थसिद्धिः । अद्य कृत्तिका इति कृत्तिकायुक्ते शशिनि कृत्तिकाशब्दो वर्तते । कृत्तिकासु विशाखासु मघासु भरणीषु च इति नक्षत्रैरेव तत्कालाभिधानमभेदोपचारात् । श्रवणा रात्रिरिति श्रवणयुक्ते चन्द्रे श्रवणशब्दः | श्रवणोऽत्रास्तीत्यर्श आदित्वादच् । श्रवणा रात्रिः । यदा तु श्रवणेनेन्दुयुक्तेनेति लक्षितेति विवक्षा तदा श्रावणी रात्रि । अश्वत्थ इति मुहूर्तविशेषस्य संज्ञा । नक्षत्रविशेषे तु पुनरश्वत्थेन लक्षिता रात्रिराश्वत्थी ।
चार्थाच्छ ॥६॥
अन्तर्भूतचार्थान्नक्षत्रवाचिनस्तृतीयान्तात् तदुपलक्षिते काले छो भवति । राधानुराधीया रात्रिः । राधानुराधीयमहः ।
दृष्टं साम डिद्वा ॥ ७ ॥
तृतीयान्ताद्दष्टं सामेत्यस्मिन्नर्थे यथाविध्यणादयो भवन्ति, डिद्वा । वसिष्ठेन दृष्टं साम वासिष्ठम् । बार्हस्पत्यम् आग्नेयम् कालेयम् । औशनम् औशनसम् ।
गोत्रादङ्कवत् ॥ ८॥
तृतीयान्ताद् गोत्राद् दृष्टे सामन्यत इव विधिर्भवति । गार्मेण दृष्टं साम गार्गकम् । वुञ् भवति ।
वामदेव्यम् ||९||
वामदेवेन दृष्टं सामेत्यस्मिन्नर्थे वामदेव्यमिति निपात्यते ।
परिवृतो रथः ||१०||
तृतीयान्तात् परिवृतो रथ इत्येतस्मिन्नर्थेऽण् भवति । वस्त्रैः परिवृतो रथो वास्त्रः । चार्मणः । पुत्रैः परिवृतो रथ इति न भवति रथस्य तदभावात्ं, अन्यापेक्षत्वे च पृथगर्थत्वात् । रथ इति किम् ? वस्त्रेण परिवृतः काय । पाण्डुकम्बलीति मत्वर्थीयेन सिद्धम् । पाण्डुकम्बलोऽपि तर्हि प्राप्नोति । इष्यत एवान्यपदार्थे । द्वीपिनश्चर्म द्वैपम्, व्याघ्रस्य वैयाघ्रम् । ताभ्यां परिवृतो रथ इति द्वैपो वैयाघ्र इत्यणा सिद्धम् ।
कौमारी प्राथम्ये ॥ ११ ॥
कौमारीति निपात्यते पुयोगस्य प्राथम्ये । कौमारी भार्या । कथं कौमारो भर्ता ? कुमार्या भव कुमार्याः पतिरिति ।
तत्रोद्धतं पात्रेभ्यः ||१२||
सप्तम्यन्तात् पात्रवाचिनः उद्धतमित्येतस्मिन्नर्थेऽण् भवति । शरावेषूद्धृत ओदनः शारावः । माल्लिकः | पात्रेभ्य इति किम् । पाणावुद्धृत ओदनः ।
स्थण्डिले शेते व्रती ॥१३॥
स्थण्डिलात् सप्तम्यन्ताच्छेत इत्येतस्मिन्नर्थेऽण् भवति व्रती चेत् । स्थाण्डिलो भिक्षुः । व्रतीति किम् ? स्थण्डिले शेते शूद्रः ।
संस्कृतं भक्ष्यम् ||१४||
सप्तम्यन्तात् संस्कृतमित्येतस्मिन्नर्थेऽण् भवति भक्ष्यं चेत् । भ्राष्ट्रा मोदका । भक्ष्यमिति किम् ? फलके संस्कृता माला ।
शूलोखाद् यत् ॥१५॥
शूलोखाभ्यां सप्तम्यन्ताभ्यां संस्कृतं भक्ष्यनित्यस्मिन्नर्थे यद् भवति । शूल्यम् उख्यम् ।
दध्नष्ठक् ॥१६॥
दध्नः सप्तम्यन्तात् संस्कृतमित्यस्मिन्नर्थे ठग् भवति । दाधिकम्, दाधिकी| औदश्वितमिति पूर्वेण [१४] सिद्धम्, औदश्वित्कमिति परेण ।
क्षीराड् ढञ् ॥१७॥
क्षीरात् सप्तम्यन्तात् संस्कृतमित्येतस्मिन्नर्थे ढञ् भवति भक्ष्यं चेत्। क्षैरेयम्, क्षैरेयी ।
साऽस्य पौर्णमासी ॥ १८ ॥
प्रथमान्तादस्येति षष्ठार्थेऽण् भवति यत्तत् प्रथमान्तं पौर्णमासी चेत् सा भवति । पौषी पौर्णमास्यस्य सम्बन्धिनी पौषो मासः । माघ । पौर्णमासीति किम् ? पौषी पञ्चम्यस्य मासस्य । पौर्णमासी भृतकमासस्य सम्बन्धिनी न भवति । पूर्णो मा अस्यामिति निर्वचनादत एव निपातनादण् । मासश्रुतेश्च न पञ्चरात्रादौ विधिः ।
आग्रहाण्यश्वत्थाट् ठक् ॥। १९ ।।
आग्रहायण्यश्वत्थाभ्यां प्रथमान्ताभ्या ठग् भवत्यस्येति षष्ठार्थे यत् प्रथमान्तं पौर्णमासी चेत् सा भवति । आग्रहायणिको मासः । आश्वत्थिकः । अश्वत्था पौर्णमासीत्यभदोपचारात् ।
फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यो वा ॥ २० ॥
फाल्गुन्यादिभ्यः प्रथमान्तेभ्योऽस्येति षष्ठार्थे ठग् भवति वा, यत् प्रथमान्तं पौर्णमासी चेत् सा भवति । फाल्गुनिकः फाल्गुनः । श्रवणा पौर्णमास्यस्य श्रावणिकः श्रावणः । श्रवणेति निपातनादणो लुक् । कार्त्तिकिकः कार्त्तिकः । चैत्रिकः, चैत्रः ।
देवता ॥ २१ ॥
देवतावाचिनः प्रथमान्तादस्येति षष्ठार्थे यथाविध्यणादयो भवन्ति । ऐन्द्रं हविः । आदित्यम्, बार्हस्पत्यम्, कालेयम्, आग्नेयम् । ऐन्द्रो मन्त्रः |
कस्येत् ॥ २२ ॥
कशब्दस्य देवतावाचिनोऽस्येति षष्ठ्यर्थेऽणि इकारादेशो भवति । को देवतास्य कायं हविः, प्राजापत्यमित्यर्थः ।
शुक्राद् घन् || २३ ||
शुक्रात् सास्य देवतेत्यस्मिन् विषये घन् भवति । शुक्रियं हवि । शुक्रियोऽध्यायः ।
पैङ्गाक्षीपुत्रादिभ्यश्छः ॥ २४ ॥
पैङ्गाक्षीपुत्रादिभ्यः सास्य देवतेत्यस्मिन् विषये छो भवति । पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् ।
शतरुद्राद घश्च ॥ २५ ॥
शतरुद्रात् सास्य देवतेत्यस्मिन् विषये घो भवति छश्च । शतरुद्रियम् शतरुद्रीयम् ।
अपोनपादपांनपातोस्तृचातः ॥ २६ ॥
अपोनपात् अपानपात् इत्येतयोः सास्य देवतेत्यस्मिन् विषये घो भवति छश्च, आच्छब्दस्य च तु इत्ययमादेशो भवति । अपोनत्रियम् अपोनप्त्रीयम् । अपानव्त्रियम् अपानप्त्रीयम् ।
महेन्द्राद् वा ।। २७ ।।
महेन्द्रात् सास्य देवतेत्यस्मिन् विषये घो भवति, छश्च वा ।
महेन्द्रियम्, महेन्द्रीयम्, माहेन्द्रम् |
सोमाट् ट्यण ॥ २८ ॥
सोमात् सास्य देवतेत्यस्मिन् विषये ट्यण् भवति । सौम्यं हविः । सौम्यं सूक्तम् । सोमी ऋक् ।
वाय्वृतुपित्रुषसो यत् ॥ २९ ॥
वाय्वादिभ्यः सास्य देवतेत्यस्मिन् विषये यद् भवति । वायव्यम् ऋतव्यम् पित्र्यम उषस्यम् ।
द्यावापृथिवी–शुनासीर–मरुत्वत्–अग्नोम–वास्तोष्पति–गृहमेधात् ॥ ३०॥
द्यावापृथिव्यादिभ्यः सास्य देवतेत्यस्मिन् विषये छो भवति यच्च । द्यावापृथिवीयम्, द्यावापृथिव्यम् । शुनासीरीयम्, शुनासीर्यम् । मरुत्ववीयम्, मरुत्वत्यम् । अग्नीषोमीयम्, अग्नीषोम्यम् । वास्तोष्पतीयम्, वास्ताष्पत्यम् । गृहमेधीयम्, गृहमेध्यम् ।
कालेभ्यो भववत् ॥ ३१ ॥
कालवाचिभ्यो भवे यथाणादयस्तथा सास्य देवतेत्यस्मिन् विषये भवन्ति । मासे भवम् मासिकम् । सांवत्सरिकम् । हैमन्तिकम्, हैमनम् । प्रावृषेण्यम् । मासो देवतास्य मासिकम् । सांवत्सरिकम् । हैमनम् हैमन्तिकम् । प्रावृषेण्यम् ।
महाराजप्रोष्ठपदाट् ठञ् ॥ ३२ ॥ |
महराजप्रोष्ठपदाभ्यां सास्य देवतेत्यस्मिन् विषये ठञ् भवति । माहाराजिकम् माहाराजिकी । प्रोष्ठपदिकम् प्रोष्ठपदिकी ।
आदेश्छन्दसः प्रगाधे || ३३ ।।
छन्दसः प्रथमान्तादादिभूतादस्येति षष्ठार्थे प्रगाथेऽभिधेयेऽण् भवति । अनुष्टुबादिरस्य प्रगाथस्य आनुष्ठभः । पाङ्क्तः, जागतः । आदेरिति किम ? मध्यान्मा भूत् । प्रगाथ इति किम् । अनुवाके मा भूत् । छन्दस इति किम् ? पदान्मा भूत् ।
योद्धप्रयोजनात् संग्रामे ॥ ३४ ॥
योद्धृभ्यः प्रथमान्तेभ्य प्रयोजनेभ्यश्च षष्ठार्थे सग्रामेऽभिधेये यथाविहितमणादयो भवन्ति । सशप्तका योद्धारोऽस्य संग्रामस्य साशप्तकः । दैवासुरः । सुभद्रा प्रयोजनमस्य सग्रामस्य सौभद्रः । योद्धृप्रयोजनादिति किम् ? मासोऽस्य संग्रामस्य । संग्राम इति किम् ? सुभद्रा प्रयोजनमस्य वैरस्य ।
प्रहरणादस्यां क्रीडायां णः ॥ ३५ ॥
प्रहरणात् प्रथमान्तादस्यां क्रीडायामित्यस्मिन्नर्थे णो भवति । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा । प्रहरणादिति किम् ? माला भूषणमस्या क्रीडायाम् । क्रीडायामिति किम् ? असिः प्रहरणमस्यां सेनायाम ।
भावघञो ञः ।। ३६ ।।
भावे यो घञ् तदन्तात् प्रथमान्तादस्यामिति सप्तम्यर्थे जो भवति । श्यनपातोऽस्या वर्तते श्यैनम्पाता । तैलम्पाता । भाव इति किम् ? प्रासादोऽस्याः नगर्याम् । घञ इति किम् ? श्येनपतनमस्या वर्तते ।
तदधीते तद्वेद ॥ ३७ ॥
द्वितीयान्तात्तदधीते तद्वेदेत्यनयोरर्थयोर्यथाविहितमणादयो भवन्ति । छन्दोऽधीते वेद वा छान्दसः । वैयाकरणः । द्विस्तद्ग्रहणं पृथग्विधानार्थम, वेदनस्य चाव्ययनविषये दर्शनार्थम्, प्रसिद्ध्युपसग्रहार्थं च ।
ऋतूक्थादिभ्यष्ठक् ॥ ३८ ॥
ऋतुभ्य उक्थादिभ्यश्च द्वितीयान्तेभ्योऽधीते वेदेत्यनयोरर्थयोष्ठग् भवति । अग्निष्टोममधीते वेद वा आग्निष्टोमिकः । वाजपेथिकः । उक्थानि सामानि यानि यज्ञायज्ञीयात् परतोऽनुगीयन्ते । तल्लक्षणमपि तादर्थ्यादुक्थ्यम् औक्थिक्यमिति यस्य रूढिः । उक्थान्यधीते वेद वा, औक्थिकः । औक्थिक्यमधीते, उक्थानि सामान्यधीत इति न भवति, द्विस्तद्ग्रहणस्य प्रसिद्धासग्रहार्थत्वात् । एवं याज्ञिक्यमधीत इति ॥ उक्थ | लोकायत | न्याय । न्यास । पुनरुक्त । यज्ञ । चर्चा । क्रमेतर । श्लक्ष्ण । सहिता । पदक्रम | सद्धात । वृत्ति । सग्रह | गण । आयुर्वेद | द्विपदा | ज्योतिष । अनुपद । अनुकल्प । लक्षणकल्पसूत्रान्ताद् अकल्पादेः | आश्वलक्षणिकः, मातृकल्पिकः वार्त्तिकसूत्रिकः । अकल्पादेरिति किम् काल्पसूत्रः | विद्या चानङ्गक्षत्रधर्मत्रिपूर्वा । वायसविद्यिकः । अनङ्गक्षत्रधर्मत्रिपूर्वेति किम् ? आङ्गविद्यः, क्षात्रविद्यः, धार्मविद्यः, त्रैविद्यः । आख्यानाख्यायिकेतिहासपुराणेभ्यश्च । यावत्रीतिकः बासवदत्तिकः, ऐतिहासिकः, पौराणिकः । सवसादेर्लुक् । सर्ववेदः, सर्वतन्त्रः, सवार्त्तिकः, ससंग्रहः | अनुसूः, अनुसूकः । लक्ष्यः, लाक्ष्यिकः । लक्षणः, लाक्षणिकः । वसन्तः । वर्षा । शरद् । हेमन्तः । शिशिरः । प्रथमः । चरमः | गुणः । अनुगुणः । आथर्वणः, आथर्वणिकः । पाठसामर्थ्यात् प्रोक्तादपि न लुक् । वसन्तादिसहचरितेषु ग्रन्थेषु वसन्तादिशब्दा अध्ययनसम्बन्धतो द्रष्टव्या । पदोत्तरपदिक इति ठना सिद्धम् ।
शतषष्टेः पथष्ठन् ॥ ३९ ॥
शतषष्टिभ्यां परात् पथस्तदधीते तद्वेदेत्यनयोरर्थयोष्ठन् भवति । शतपथिकः शतपथिकी । षष्टिपथिकः षष्टिपथिकी ।
क्रमादिभ्यो वुन् ॥ ४० ॥
क्रमादिभ्यस्तयोरेवार्थयोर्बुन् भवति । क्रमकः, पदकः | क्रम | पद । शिक्षा । मीमासा । सामन् । कथम् अनुब्राह्मणीति ? इनिना सिद्धम् ।
प्रोक्ताल्लुक् ॥ ४१ ॥
प्रोक्तार्थेऽणादयस्तदन्तादध्ये तवेदित्रोरुत्पन्नस्य लुग् भवति । पाणिनिना प्रोक्तम् पाणिनीयम् । तदवीते वेद वा पाणिनीयः | पाणिनीया स्त्री- ।
सूत्रात् संख्याकात् ॥ ४२ ॥
सख्यायां यः को विहितस्तदन्तात् सूत्रवाचिन उत्पन्नस्य लुग् भवति । अष्टकं पाणिनीयं सूत्रम्, तदधीयते विदन्ति वा अष्टकाः पाणिनीयाः । त्रिकाः काशकृत्स्नाः । सख्येति किम् ? माध्यमका | कालापकाः । कादिति किम् ? चतुष्टयमधीते वेद वा चातुष्टयः |
तस्य समूहः || ४३ ॥
षष्ठान्तात् समूहे यथाविहितमणादयो भवन्ति । चाषाणां समूह चाषम् । काकम् वानस्पत्यम् स्त्रैणम् पौस्नम् ।
भिक्षादिभ्योऽण् ॥४४॥
भिक्षादिभ्यः षष्ठान्तेभ्य समूहेऽर्थेऽण् भवति । भैक्षम् । क्षेत्रम् ॥ भिक्षा | क्षत्र । करीष । अङ्गार । सहस्र । युवति । पाठसामर्थ्यान्न पुवद्भाव । यौवतम् । पद्धति । दक्षिणा । खण्डिक । हलबन्ध | युगवरत्रा । वडवा । भिक्षुक । शुक । उलूक | श्वन् । अहन् । क्षुद्रक-मालवात् सेनासंज्ञायाम् । क्षौद्रकमालवी सेना । अन्यत्र वुञ् भवति तदन्तविधेरन्यत्र ज्ञापकात् [ ४९ ] ।
गोत्रोक्षोष्ट्रोरभ्रराजराजपुत्रवत्साजवृद्धाद् बुञ् ॥ ४५ ॥
अपत्ये यो विहितस्तदन्तादुक्षादिभ्यश्च समूहे वुञ् भवति । औपगवकम्, गार्ग्यायणकम्, राजन्यकम्, मानुष्यकम्, औक्षकम्, औष्ट्रकम्, औरभ्रकम्, राजकम्, राजपुत्रकम् वात्सकम्, आजकम्, वार्धकम् ।
केदाराद यञ् च ॥४६॥
केदारात् समूहे यञ् भवति वुञ् च । कैदार्यम्, कैदारकम् ।
कवचिनश्च ठक् ॥४७॥
कवचिनः केदाराच्च समूहे ठग् भवति । कावचिकम्, कैदारिकम् ।
हस्त्यचिन्तात् ||४८||
हस्तिनोऽचितेभ्यश्च समूहे ठग् भवति । हास्तिकम्, आपूपिकम्, शाष्कुलिकम् ।
धेनोरनञः ॥४९॥
धेनोरनञ्पूर्वायाः समूहे ठग् भवति । धैनुकम् । अनय इति किम् ? आधनवम् । अस्माच्च प्रतिषेधात् सामूहिकेषू तदन्तविधिज्ञीप्यते । वानहस्तिकम्, गौधेनुकम्, ब्राह्मणराजन्यकम् ,क्षौदकम्, मालवकम, [४४] |
गणिकाब्राह्मणमाणववाडवाद् यञ् ॥५०॥
एतेभ्य समूहे यञ् भवति । गाणिक्यम्, ब्राह्मण्यम्, माणव्यम्,
वाडव्यम् ।
केशाद्वा ॥ ५१ ॥
केशात् समूहे यञ् वा भवति । कैश्यम्, कैशिकम् ।
अश्वाच्छ ||५२||
अश्वात् समूहे छो वा भवति । अश्वीयम् आश्वम् ।
पार्श्वपौरुषेये ॥५३॥
एतौ शब्दौ समूहे निपात्येते । पशूनां समूहः पार्श्वम् । पुरुषाणां समूह पौरुषेयम् ।
पृष्ठ्याहीनौ क्रतौ ॥५४॥
पृष्ठ्य अहीन इत्येतौ ऋतावभिधेये निपात्येते । पृष्ठानां समूहः पृष्ठा । अह्ना समूहः अहीनः । ऋताविति किम् । आह्नम् । [४४ ] भिक्षादिषु दर्शनादण् ।
वातादूलः ॥५५॥
वातात् समूह ऊलो भवति । वातूलः ।
पाशादिभ्यो यः ॥ ५६ ॥
पाशादिभ्यः समूहे यो भवति । पाश्या तृण्या । स्वभावतः स्त्रीलिङ्गाः ॥ पाश । तृण । धूम । वात । अङ्गार | पोत । गल । पिटक । शकट । हल | नड’ । वन । खल । गो । रथ । रथकट्येति कटप्राशब्दः समूहे नियतविषयः |
खलादिभ्य इनिः ॥५७॥
खलादिभ्यः समूहे इनिर्भवति । खलिनी उलूकिनी ।
गोत्रा ॥५८॥
गोत्रेति गवां समूहे निपात्यते ।
ग्रामजनगजबन्धुसहायात्तल् ॥५९॥
एतेभ्यः समूहे तल् भवति । ग्रामता । जनता । गजता । बन्धुता । सहायता । स्वभावतः स्त्रीलिङ्गाः ।
पितृव्यमातामहपितामहाः ॥ ६० ॥
एते शब्दा निपात्यन्ते । पितुर्भ्राता पितृव्यः । मातुलोपाध्यायाद् वा [ २|३|५० ] इति [ निपातनात् ] मातुलः । मातुः पिता मातामहः । पितुः पिता पितामहः । गौरादित्वान्मातामही पितामही । अविसोढम्, अविदूषम् अविमरीसमिति सोढादीनि शब्दान्तराण्यविक्षीरविषयाणि । तथा तिलपिञ्जः तिलपेज इति । तिलपिञ्जतिलपेजशब्दौ निष्फलार्थौ तिलविषयौ ।
विषये देशे ॥ ६१ ॥
षष्ठ्यन्ताद् विषये देशस्वरूपे यथाविध्यणादयो भवन्ति । शिबीनां विषयो देश शैबः । ओत्सृष्टः । देश इति किम् ? देवदत्तस्य विषयोऽनुवाकः, चक्षुषो विषयो रूपम् ।
राजन्यादिभ्यो वुञ् ॥ ६२॥
राजन्यादिभ्य षष्ठ्यन्तेभ्यो विषये वुञ् भवति । राजन्यकः । शैलषकः ॥ राजन्य । शिलूष । सालङ्कायन । दैवयातव । जालन्धरायण । वसाति । बैल्वत । उदुम्बर। वैकर्णि’ | आर्जुनायन । सम्प्रिय । दाक्षि | ऊर्णनाभ | आकृतिगणत्वान्मालवकः, त्रैगर्तकः, वैराटकः ।
भौरिक्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥६३॥
भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च षष्ठ्यन्तेभ्यो विषये देशे विधल्भक्तलौ भवतः । भौरिकिविधः | भौलिकिविधः | ऐपुकारिभक्तः । सारस्यायनभक्तः || भोरिकि । भौलिकि । चौपयत । चटयत । चैकयत । सैकयत । काणेय | भौरिक्यादि ॥ एषुकारि । सारस्यायन | चान्द्रायण । दाक्षायण । खाडायन । सौवीर । दासमित्र । दासमित्रायण । सौभद्रायण । श्रायण्ड | वैश्वमाणव । वैश्वदेव |
निवासे तन्नानि ||६४ ||
षष्ठान्तान्निवासे देशे तन्नाम्नि यथाविध्यणादयो भवन्ति । शिबीनां निवासो देशः शैबः । औत्सुष्टः ।
अदूरभवे ||६५ ॥
पष्ठ्यन्ताददूरभवे देशे तन्नाम्नि यथाविध्यणादयो भवन्ति ।
विदिशाया अदूरभवो देश वैदिशः, व्रैहिमतः ।
तेन निर्वृत्ते ॥ ६६ ॥
तृतीयान्तान्निर्वृत्ते देशे तन्नाम्नि यथाविध्यणादयो भवन्ति । कुशाम्बेन निर्वृता कौशाम्बी नगरी । सहस्रेण निवृत्ता साहस्री परिखा । हेतौ कर्तरि करणे वा यथायोगं तृतीया ।
तदिहास्ति च ॥ ६७॥
तदिति प्रथमान्तादिति सप्तम्यर्थे देशे तन्नाम्नि यथाविध्यणादयो भवन्ति । यत्तत् प्रथमान्तमस्ति चेद्भवति । औदुम्बरा अस्मिन् देशे सन्ति औदुम्बरः । बाल्बजः । चकारो निवासाद्यर्थत्रयसन्निधापनार्थः । अतःपरं चतुर्ष्वर्थेषु विधिः | आरडवम् । ऐक्कटवतम् । दैर्घवनः कूपः । दात्तः । साङ्कलः । दात्तामित्री । वैधूमाग्नी । काकन्दी | सौवास्तवः । रौणः | कार्णच्छिद्रक इत्यणा सिद्धम् । स्वरे विशेषं वक्ष्यामः ।
वुञ्–छण्–क–ठजिलसेनिरढञ्–ण्ययफक्–फिञिञ्–ञ्य–कक् ठक्–छ–कीय–डमतुब्–ड्वलचः ॥ ६८ ॥
बुजादयः षष्ठप्राद्यन्तेभ्यश्चतुर्ष्वर्थेषु देशे तन्नाम्नि यथायोगं भवन्ति । आरोहणकः, द्रौघणकः, काशश्वीयः, आरिष्टीयः, ऋष्यकः, न्यग्रोधकः, | कुमुदिकः, शर्करिकः, । काशिलः, वाशिलः । तृणसा नडसा । प्रेक्षी रिलकी । अश्मरः, यूथरः । साखेयः, साखिदत्तेयः । साङ्काश्यः काम्पिल्यः | बल्या कुल्या । पाक्षायणः तौषयणः । काणयनिः वासिष्ठानिः । सौतङ्गमिः मौनिचित्तिः । प्रागद्यम् मागद्यम् । वाराहकम् शैरीषकम् । कौमुदिकम् गौमठिकम् । उत्करीयम् शफरीयम् । नडकीयम् प्लवकीयम् । कुमुद्वान् वेतस्वान्, महिष्मान्, महिष्मतिः भवा माहिष्मती । नड्वलः, शाद्वलः । शिखावलम् इति मत्वर्थीयान्तं देशनाम | देशनाम्नो यथादर्शनमवस्थानादनर्थं कोऽत्र गणे पाठः । पञ्चाला इति जनपदस्यापि नाम । अणन्तं तु जनपदनाम न भवतीति नातोऽण् भवति । किञ्चिदणन्तमपि दृश्यते – वैदिशो जनपदः, औदुम्बर इति । वरणा इति नगरस्यापि नाम, गोदावति ग्रामस्यापि । तथा हि कटुकबदरी ग्रामः, शिरीषा ग्राम इत्यादि दृश्यते । शर्करेत्यपि देशनाम, शार्करमित्यणा सिद्धम, शार्करिकमिति ठेका, शर्करकमिति केन, शर्करीयमिति छेन । उदुम्बरावती इक्षुमतीति मत्वन्तं नदीनाम | भागीरथी भमरथी सौवास्तवीत्यणन्तमपि दृश्यते । मधुमान् स्थाणुमान् इत्यादीन्यपि मत्वन्तानि देशनामानि । माधव इत्यादीनि तु न देशनामानीति नातोऽण् भविष्यति ।
इति चान्द्रे व्याकरणे तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः ।