सुप् सुपैकार्थम् ॥१॥
सुबन्त सुबन्तेन सहैकार्थं भवतीत्येतदधिकृतं वेदितव्यम् । स च पृथगर्थानामेकार्थीभावः समास इत्युच्यते ।
असंख्यं विभक्तिसमीपाभावख्यातिपश्चाद्यथायुगपत्सम्प त्साकल्यार्थे ||२||
असख्यं सुबन्तं विभक्त्यादीनामर्थे वर्तमानं सुबन्तेन सहैकार्थं भवति । तत्र विभक्त्यर्थे तावत्, स्त्रीषु कथा प्रवृत्ता अधिस्त्रि । समीपे कुम्भस्य समीपम्, उपकुम्भम् । अभावः सम्बन्धिभेदाद् बहुविधः । तत्र ऋद्धाभावे, विगता ऋद्धिर्यवनानाम्, दुर्यवनम् । अर्थाभावे, अभावो मक्षिकाणाम्, निर्मक्षिकम् । निर्मशकम् । अतिक्रमाभावे, अतिगतानि तृणानि, निस्तृणम् । सप्रत्यभावे, अतितैसृकर्माच्छादनम् । ख्यातौ, पाणिनेः ख्यातिः इतिपाणिनि । तत्पाणिनि । पश्चादर्थे, अनुरथं पादातम् । यथार्थोऽनेकप्रकारः । तत्र योग्यतायाम्, अनुरूपः सरूपो भवति । वीप्सायाम्, प्रत्यर्थं शब्दा अभिनिविशन्ते । अर्थानतिवृत्तौ यथाशक्ति | सादृश्ये, सदृशं किख्या, सकिखि । आनुपूर्व्यं यथावृद्धम्, अनुज्येष्ठम् | यौगपद्ये, सचक्रं निधेहि । युगपच्चत्राणि निधेहीत्यर्थः । सम्पद् द्विधा, आत्मभावसम्पत्तिः समृद्धिश्च । सम्पन्नं ब्रह्म, सब्रह्म बाभ्रवाणाम् । समृद्धिर्मद्राणाम्, सुमद्रम् । साकल्ये, सतृणमभ्यवहरति । साग्न्यधीते ।
यथा न तुल्ये || ३ ||
यथाशब्दस्तुल्यार्थे सुबन्तेन सहैकार्थो न भवति । यथा देवदत्तस्तथा
यज्ञदत्तः ।
यावदियत्तत्वे ||४||
यावच्छब्द इयत्ताया सुबन्तेन सहैकार्थो भवति । यावदमत्रं ब्राह्मणान् आमन्त्रयस्व । इयत्त्व इति किम् ? यावद् दत्तं तावद् भुक्तम् * ।
प्रतिना मात्रार्थे ॥ ५॥
सुबन्तं प्रतिना मात्रार्थेन सहैकार्थं भवति । सूपप्रति, शाकप्रति । मात्रार्थ इति किम् ? वृक्ष प्रति विद्योतते विद्युत् ।
संख्याक्षशलाकाः परिणा द्युतेऽन्यथावृत्तौ || ६ ||
संख्यादयः शब्दाः परिणा सहैकार्था भवन्ति द्यूते विषये, यथापूर्वं ततोऽन्यथावृत्तौ गम्यमानायाम् । पञ्चभिः शलाकाभिर्द्यूते यदा सर्वा उत्ताना अवाङ्मुखा वा पतन्ति, तदा पातयिता जयति । ततोऽन्यथावृत्तौ । एकया शलाकया न तथा वृत्तं यथा पूर्वम्, एकपरि । एवं द्विपरि, त्रिपरि, चतुष्परि । द्वाभ्यामक्षाभ्यां द्यूते एकेनाक्षेण न तथा वृत्तं यथा पूर्वम्, अक्षपरि । एकया शलाकया न तथा वृत्तं यथा पूर्वम्, शलाकापरि । द्यूत इति किम् ? एकेन शरेण न तथा वृत्तं यथा पूर्वम् । अन्यथावृत्ताविति किम् ? अक्षेण तथा वृत्तं यथा पूर्वम् ।
पर्यापाङ्बहिरञ्चवः पञ्चम्या वा ||७||
पर्यादयः शब्दा पञ्चम्यन्तेन सहैकार्था वा भवन्ति । परित्रिगर्तं वृष्टो देवः, परि त्रिगर्तेभ्यो वृष्टो देव । अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यो वृष्टो देव । आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्राद् वृष्टो देव | बहिर्ग्रामम्, बहिर्ग्रामात् । वेत्यधिकारः |
लक्षणेनाभिप्रती ॥८॥
अभिप्रती लक्षणेन सहैकार्थौ भवतः | अभ्यग्नि शलभाः पतन्ति । प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? स्रुघ्नं प्रति गतः | अभिप्रती इति किम् ? येनाग्निस्तेन गतः । अन्यपदार्थेऽपि वचनान्तरेण भवति । अभ्यङ्का गाव इति ।
अनुः सामीप्यायामयोः || ९ ||
अनुशब्दः सामीप्य आयामे च वर्तमाने सुबन्तेन सहैकार्थो भवति । अनुवनमशनिर्गता । अनुगङ्गं वाराणसी । सामीप्यायामयोरिति किम् ? वृक्षमनु विद्योतते विद्युत् |
तिष्ठदग्वादीनि ॥ १०॥
तिष्ठद्गुप्रभृतीन्येकार्थीभावविषये निपात्यन्ते । तिष्ठन्ति गावो
यस्मिन् काले, तिष्ठद्गु । वृहद्गु । आयतीगवम् । खलेयवम् ।लून- यवम् । लूयमानयवम् । पूतयवम् । पूयमानयवम् । सहृतयवम् । सह्रियमाणयवम् । सहृतबुसम् । सहियमाणबुसम् । समभूमि । समपदाति। । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अपरसमम् । आयतीसमम् । प्राह्णम् । प्ररथम् । प्रमृगम् । प्रदक्षिणम् । सम्प्रति । असम्प्रति । पापसमम् । पुण्यसमम् । इच् ।
पारेमध्ये षष्ठया वा ॥ ११ ॥
पारे मध्ये इत्येतौ शब्दौ षष्ठ्यन्तेन सहैकार्थौ वा भवतः । एकारान्तत्वं निपातनात् । पारेगङ्गम्, मध्येगङ्गम् । पुनर्वावचनाद् गङ्गापारम्, गङ्गामध्यम् । मध्यन्दिनमिति मध्यस्य दिनं [५|२|८३] इति नुम्विधानात् ।
संख्या वंश्येन ||१२||
संख्याशब्दा वंशभवैः सुबन्तैः सहैकार्था भवन्ति वा । द्वौ मुनी व्याकरणस्य वंश्यौ । द्विमुनि व्याकरणस्य, द्विमुनि व्याकरणमिति वा ।
नदीभिः ||१३||
नदीशब्दैः सह संख्याशब्दा एकार्था भवन्ति । द्वियमुनम् त्रियमुनम् ।
अन्यार्थे नाम्नि ॥ १४॥
अन्यपदार्थे नदीशब्दैः सह सुबन्तः सज्ञायामेकार्थीभवति । उन्मत्तगङ्गम् । तूष्णीगङ्गम् । अन्यार्थ इति किम् ? कृष्णवेण्णा नाम नदी । नाम्नीति किम् ? शीघ्रगङ्गो देशः ।
तन्नपुंसकम् ॥१५॥
यदेतद् अतिक्रान्तं तन्नपुंसकलिङ्गं वेदितव्यम् । तथाचैवोदाहृतम् ।
कारकं बहुलम् ॥१६॥
कारकं सुबन्तं सुबन्तेन सह बहुलमेकार्थीभवति । कष्टं श्रितः, कष्टश्रितः । कान्तारातीतः । श्वभ्रे पतित, श्वभ्रपतितः | ग्रामं गतः ग्रामगतः । तरङ्गात्यस्तः, सुखप्राप्तः, सुखापन्नः, दुखापन्नः, ग्रामगमी, ग्रामगामी । ओदनं बुभुक्षुः, ओदनबुभुक्षुः | क्वचिद् वृत्तिरेव । कुम्भकारः श्वपचः । खारूढ इति क्षेपे । क्वचिद् वाक्यमेव । ओदनं भुक्तवान् । स्वयधौतौ पादौ आत्मनेत्यर्थः । तच्च कारकमेव । सामिकृतमित्यर्धकृतमित्यर्थः । तच्च विशेषणम् [२२|१८] इत्येव सिद्धम् । अहरतिसृताः कालाः, रात्रिसक्रान्ता । सर्वरात्रकल्याणी । गिरिणा काणः, गिरिकाणः । धान्येनार्थ, धान्यार्थ । मासेन पूर्वः, मासपूर्वः । मासावरः, मासविकलः, मासोनः । असिना कलहः, असिकलहः । वाग्निपुणः गुडमिश्रः वाक्श्लक्ष्णः । सर्वा इयं तृतीया कारकलक्षणा, काणादिभावे गिर्यादीनां करणत्वात् करोती वा कर्तृत्वात् । कथं पितृसदृशः पितृसमः इति ? षष्ठ्या भविष्यति, यथा पितृतुल्यमिति । राज्ञा हतो राजहतः । असिना छिन्नः, असिच्छिन्नः । इह वृत्तिरेव पादाभ्यां ह्रियते पादहारकः, पार्श्वेन शेते पार्श्वशय । इह वाक्यमेव- दात्रेण लूनवान्, परशुना छिन्नवान् । तव्यादिभिरधिकार्थवचने । श्वलेह्यः कूपः, काकपेया नदी । अन्यत्र न भवति । काकैः पातव्याः । क्वचिद् भवति । बुसोपेन्ध्यम्, घनघात्यम् । दध्ना उपसिक्त ओदनः, दध्योदनः | गुडेन मिश्रा धानाः, गुडधानाः । वृत्तिपदेनैव क्रियायाः प्रख्यापनात् नास्त्यसामर्थ्यम् । देवेभ्यो देयम्, देवदेयं पुष्पम् । ब्राह्मणदेयं धनम् । वरप्रदेया कन्या । इह न भवति । ब्राह्मणाय दातव्यम् । वृकाद् भयम्, वृकभयम् । वृकभीतः, वृकभीतिः, वृकभीः । ग्रामनिर्गतः, अधर्मजुगुप्सुः, शाखापेतः, पादापोढः, चक्रमुक्तः, मञ्चपतितः, तरङ्गापत्रस्तः । इह न भवति । प्रासादात् पतित । अक्षेषु शौण्डः, अक्षशौण्डः | अक्षधूर्तः, अक्षकितवः । काम्पिल्ये सिद्धः, काम्पिल्यसिद्धः | छायाशुष्कः, कुम्भीपक्वः, चरकबन्धः | तीर्थध्वाङ्क्षः तीर्थंकाकः, तीर्थवायस इति ध्वाङ्क्षादिभिः क्षेप एव । इह न भवति । तीर्थे काकः । मासे देयम् ऋणम्, मासदेयम् । पूर्वाह्णे गेयं साम, पूर्वाह्नगेयम् । इह न भवति । मासे देया भिक्षा । अरण्येतिलका, अरण्येमाषका इत्येवमादीनां संज्ञायामलुक् । पूर्वाह्णे कृतम्, पूर्वाह्णेकृतम् । तत्रकृतम् । एवमवतप्ते- नकुलस्थितमित्यादि । पात्रेसमितादीनामपि येषामलुक् तानि वाक्यानि, न चैषां समासान्तरमस्तीति पृथगर्थतायामदोषः । उदुम्बरमशकादीनामप्यनेनैव सिद्धम् । क्वचिद् वृत्तिरेव । उपसरजः, स्वादुंकारं भुङ्क्ते, सपन्नंकारं भुक्ते । क्वचिद् वाक्यमेव । अग्रे भुक्त्वा, अग्रं भोजम् ।
चतुर्थी प्रकृत्या ॥ १७ ॥
चतुर्थ्यन्तं सुबन्तं प्रकृतिवाचिना सुबन्तेन सहैकार्थं भवति । यूपाय दारुः, यूपदारुः । प्रकृत्येनि किम् ? रन्धनाय स्थाली । कथं तदर्थम्, मात्रर्थमिति ? अन्यपदार्थे भविष्यति । कथम्– कुबेरबलि, गोहितम्, गोसुखम्, गोरक्षितमिति । षष्ठ्याः सिद्धम् ।
विशेषणमेकार्थेन ॥ १८ ॥
विशेषणं सुबन्तं विशेष्येण सुबन्तेन समानाधिकरणेन सहैकार्थं भवति । नीलं च तदुत्पलं च, नीलोत्पलम् । बहुलाधिकारात् क्वचिद् वाक्यमेव भवति । दीर्घश्चारायणः, लोहितस्तक्षकः । क्वचिद् वृत्तिरेव । कृष्णसर्पः, लोहितशालि । विशेषणमिति किम् ? तक्षकः सर्पः । एकार्थेनेति किम् ? कृष्णादन्यः । कथं छिन्नप्ररूढमिति ? विशेषणमित्येव सिद्धम् । एवमेकपुरुषः, सर्वान्नम्, जरद्धस्ती, पुराणधान्यम्, नवौदनम्, केवलान्नम्, पूर्वेषुकामशमी, सप्तर्षयः, पञ्चकपालं हविः, पञ्चगवधनम्, पञ्चपूली, याज्ञिककितव, पापकुलालः, अणकनापितः । क्वचिद् विशेषणमुपमानभूतं भवति । शस्त्रीव श्यामा, शस्त्रीश्यामा | शरकाण्डगौरी | क्वचिद् विशेषणमुपमानभूतं परं भवति । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः | पुरुषसिंहः । एवमन्येऽपि व्याघ्रादयः पठिताश्चापठिताश्च योज्या । पूर्वपुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः मध्यमपुरुषः, वीरपुरुषः । अश्रेणयः श्रेणयः कृताः, श्रेणिकृताः । एवमन्येऽपि श्रेण्यादयः कृतादिभिः पठितैश्चापठितैश्च योज्याः । कृताकृतम्, कृतापकृतम् भुक्ताभुक्तम्, भुक्तविभुक्तम्, गतप्रत्यागतम्, याता- नुयातम्, अशितानशितम्, क्लिष्टाक्लिशितम्, ऋयायिका, पुटापुटिका, फलाफलिका, मानोन्मानिका, सत्पुरुषः, महापुरुषः, परमपुरुषः, उत्तमपुरुषः । पुरुषोत्तम इति बहुलाधिकाराद् विशेषणं परं भवति । उत्कृष्टपुरुषः, गोवृन्दारकः, पुरुषनागः, पुरुषकुञ्जरः । कतरकठः ? कतमकठः ? किंराजा यो न रक्षति, किंगर्यो न वहति । किंपुरुषः, किन्नरः । इभ्यपोटा, इभ्ययुवतिः, अग्निस्तोक इति विशेषणं परं भवति, बहुलाधिकारात् । एव दधिकतिपयम्, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत, गोबष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यापकः, कठधूर्तः गोप्रकाण्डम्, अश्वमतल्लिका । युवखलतिः, युवखलती । युवपलितः, युवपलिता । युववलिनः युववलिना । युवजरन्, युवजरती । भोज्योष्णम्, तुल्यश्वेतः, सदृशकृष्णः । शुक्लकृष्णः, कृष्णशुक्लः । कुमारश्रमणा, गोगर्भिणी । मयूरस्येव विगतावसावस्य, मयूरव्यंसकः | अथवा विगतावसावस्य व्यंसकः, मयूर इव व्यंसको मयूरव्यंसक । एवं छात्त्रव्यंसकः । कम्बोज इव मुण्डः, कम्बोजमुण्डः । एव यवनमुण्ड । उच्चं च तदवचं चेत्युच्चावचम् । एवमुच्चनीचम् । न किञ्चन, नास्य वा किञ्चन अस्तीत्यकिञ्चनम् । आचोपचादीनि पृषोदरादिषु [५|२| १२७ ] द्रष्टव्यानि । स्नात्वा कालक इत्येवमादीनि तु वाक्यानि । एहिवाणिजा शब्दोऽत्रास्तीत्यर्शआदित्वात् [ ४।२।१४७ ] अच् । एहिवाणिजा क्रिया । एवमुत्पतनिपता इत्यादि । पूर्वश्चासौ कायश्चेति पूर्वकाय, कार्यकदेशे कायशब्द । इह कस्मान्न भवति — कायस्य पूर्वमर्धमिति ? सापेक्षत्वात् । एवमपरकाय, अधरकायः, उत्तरकायः, मध्यमकायः, मध्याह्नः, सायाह्नः । अर्धं च तत् पिप्पली च, अर्धपिप्पली, पिप्पल्यर्धमिति षष्ठीसमासः । दृश्यते च वेद्यर्धं दक्षिणं मेरोः, स्वरार्धम्, कायार्धम्, चूलिकार्धम्, एकान्नत्रिंशदिति समप्रविभागे प्रयोगः, असमप्रविभागेऽपि न हीदमर्धजरतीयं लभ्यमिति । द्वितीया चासौ भिक्षा चेति द्वितीयभिक्षा । भिक्षा- द्वितीयमिति षष्ठीसमासः । एवं तृतीयभिक्षा, भिक्षातृतीयम् । चतुर्थभिक्षा, भिक्षाचतुर्थम् । तुर्यभिक्षा, भिक्षातुर्यम् । तुरीयभिक्षा, भिक्षातुरीयम् । पूरणेन [ २२/२३ ] इति प्रतिषेधो न भवति, बहुलाधिकारात् ।
प्राप्तापन्नौ द्वितीययात्वं च ॥ १९ ॥
प्राप्तापन्नौ द्वितीयान्तेन सहैकार्थौ भवतः, अत्वं चानयोरन्त्यस्य भवति । प्राप्तो जीविकाम्, प्राप्तजीविकः । प्राप्तां जीविकाम्, प्राप्तजीविका । आपन्नो जीविकाम्, आपन्नजीविकः, आपन्नां जीविकाम् आपन्नजीविका । मासो जातोऽस्य, मासजातः । जातिकालसुखादिभ्यश्च क्तान्तस्य परनिपात इष्यत एव । षष्ठीसमासो विशेषणेनानर्थक्यान् न भविष्यति ।
नञ् ॥ २० ॥
नञ् इत्येतत् सुबन्तेन सहैकार्थं भवति । न ब्राह्मणः, अब्राह्मणः। बहुलाधिकारादसमर्थैरपि कैश्चिद् भवति । असूर्यम्पश्यानि मुखानि । अपुनर्गेयाः श्लोकाः । अश्राद्धभोजी [ ब्राह्मणः ]।
ईषद् गुणेन ॥ २१ ॥
ईषच्छब्दो गुणेनैकार्थो भवति । ईषत्कडार ईषत्पिङ्गलः । गुणेनेति किम् ? ईषद् भोक्तव्यम् ।
षष्ठी ॥ २२ ॥
षष्ठ्यन्तं सुबन्तं सुबन्तेन सहैकार्थो भवति । राज्ञः पुरुषः, राज्ञः पुरुषः ।
न लनिर्धार्यपूरणभावतृप्तार्थैः ॥ २३ ॥
लादेशेन निर्धार्यमाणार्थेन पूरणार्थेन भावार्थेन तृप्तार्थैश्च षष्ठान्तमेकार्थं न भवति । मातुः स्मरन् । सर्पिषो दयमानः । गवां कृष्णा सम्पन्नक्षीरतमा । छात्राणां पञ्चमः । पटस्य शुक्लता, पटस्य शुक्लत्वम्, पटस्य शौक्ल्यम् । बहुलाधिकारात् क्वचिद् भवति । वर्तमान- सामीप्यम् । कथं ब्राह्मणस्य शुक्ला दन्ता इति ? सापेक्षत्वान् न भविष्यति । इह तु भवत्येव । चन्दनगन्धः, नदीघोषः, कन्यारूपम्, स्तनस्पर्शः, फलरस इति । फलानां तृप्तः, फलानां सुहितः, फलानामाशितः । ब्राह्मणस्योच्चैर्गृहमिति सापेक्षत्वान्न भविष्यति । ब्राह्मणस्य कर्तव्यम् । ब्राह्मणकर्तव्यमिति वृत्तिरपीष्यते । राज्ञः पाटलिपुत्रकस्य धनमिति धनसम्बन्धे पष्ठी, सम्बन्धाभावान्न भविष्यति । राज्ञो गौश्चाश्वश्च पुरुषश्चेति पृथगर्थताया वाक्यमेव । राज्ञो गोऽश्वपुरुषाः, राजगोऽश्वपुरुषा इति वृत्तिरेकार्थीभावे । सर्पिषो ज्ञानमिति सम्बन्धषष्ठ्या समासो भवत्येव – सर्पिर्ज्ञानमिति । तथा च मातृस्मरणम्, सुरेश्वरः, इध्मब्रश्चन, पलाशशातनम् इत्यादि दृश्यते । राज्ञां मतम्, राज्ञा बुद्धः, राज्ञा पूजितः, इदमेषामासितम् दोहोऽगोपालकेनेति । भवत आसिका, अपा स्रष्टा, ओदनस्य पाचक इति सम्बन्धषठग्रा समासो भवत्येव स प्रतिषेधो नास्त्येव । तथा ब्राह्मणयाजकः, गुरुपूजक इति याजकादिभिरिष्यत एव । क्रीडायां जीविकायां च रूढत्वान् नित्यसमासः । उद्दालपुष्पभञ्जिका, दन्तलेखकः, नखलेखकः ।
कुप्रादयोऽसुब्विधौ नित्यम् ॥ २४ ॥
कुशब्दः, प्रादयश्च सुबन्तेन सह नित्यमेकार्था भवन्ति, सुब्विधिविषयादन्यत्र । कुब्राह्मणः, कोष्णम् । प्रणायकः, अभिषेकः, प्रकृतम्, दुष्पुरुषः, दुष्कृतम्, सुपुरुषः, सुकृतम्, अतिस्तुतम्, अभिष्टुतम् आकडारः, आबद्धः | प्रादयो गताद्यर्थे प्रथमया [ पा० २ |२| १८ भा०, स० ३।२।१५३ ] | प्रगत आचार्यः, प्राचार्यः । प्रान्तेवासी । अत्यादयः कान्ताद्यर्थे द्वितीयया [पा० २।२।१८ भा०, स० ३।२।१५४] | अतिक्रान्तः खट्वाम्, अतिखट्वः | अतिमालः । अवादयः क्रुष्टाद्यर्थे तृतीयया [ पा० २।२।१८ भा०, स० ३।२।१५५ ] | अवक्रुष्टः कोकिलया वनम्, अवकोकिलम् । अवमयूरम् । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या [ पा० २२२ १८ भा०, स० ३।२।१५६] । परिग्लानोऽध्ययनाय, पर्यध्ययनम् । निरादयः कान्ताद्यर्थे पञ्चम्या [पा० २।२।१८ भा०, स० ३|२| १५७ ] | निष्क्रान्तः कौशाम्ब्या, निष्कौशाम्बिः । असुब्विधाविति किम् ?
वृक्षं प्रति विद्योतते । रोदसी इवेति वाक्यमेव । तथा पुनः प्रवृद्धादयः । अन्यपदार्थे, सुप्सुपेति वा ।
ऊर्यादिकारिकाच्चिडाचः क्रियार्थैः ॥ २५ ॥
ऊर्यादयः शब्दा कारिकाशब्दरच्व्यन्तो डाजन्तश्च क्रियार्थे सुबन्तै रेकार्था भवन्ति । ऊरीकृत्य, ऊरीकृतम् । उररीकृत्य, उररीकृतम् । ऊरी । उररी । उरसी । पाम्पी । ताली । आताली । वेताली । धूली । धूषी । शलाका । सकला | ध्वसकला । भ्रशकला | गुलुगुहा । सजूस् । फलम् | फाली । विक्ली । आक्ली । अलम्बी । केवाली । सेवाली । वार्दाली । मसमसा । समसमा । श्रौषट् । वौषट् । वषट् । स्वाहा | स्वधा । प्रादुस् । श्रत् | आविस् । कारिकाकृत्य । शुक्लीकृत्य । पटपटाकृत्य ।
अनुकरणम् ||२६||
अनुकरणशब्दः क्रियार्थे सुबन्तैरेकार्थो भवति । खाट्कृत्य । कथम् – खाड् इति कृत्वा निरष्ठीवदिति । इतिशब्देन व्यवधानान्न भविष्यति ।
भूषणादरानादरेष्वलंसदसतः ||२७||
भूषणादिष्वर्थेष्वलमादयः शब्दा क्रियार्थे सुबन्तैरेकार्था भवन्ति । अलङ्कृत्य, सत्कृत्य, असत्कृत्य । भूषणादिष्विति किम् ? अलं भुक्त्वा गतः । सत् कृत्वा गतः, असत् कृत्वा गतः ।
अग्रहेऽन्तः ||२८||
अन्तःशब्दोऽग्रहणे क्रियार्थे सुबन्तैरेकार्थो भवति । अन्तर्हत्य । अग्रह इति किम् ? अन्तर्हत्वा मूषिकां गतः । गृहीत्वा गत इत्यर्थः ।
[ अन्तरपरिग्रहे । पा० १/४/६५, स० १|१|१४४ ]
कणेमनसी तृप्तौ ॥ २९ ॥
कणे मनस्, इत्येतौ तृप्तो गम्यमानायां क्रियार्थे सुबन्तैरेकार्थौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत् पिबति यावत् तृप्त इत्यर्थः । तृप्ताविति किम् ? कणे हत्वा, मनो
हत्वा गतः ।
पुरोऽस्तमसंख्यम् ॥३०॥
पुरस् अस्तमित्येतौ शब्दावविद्यमानसख्यौ क्रियार्थे सुबन्तेरेकार्थौ भवतः । पुरस्कृत्य, अस्तंकृत्य । असंख्यमिति किम् ? तिस्रः पुरः कृत्वा गतः | अस्तं कृत्वा काण्डं गत ।
अच्छ गत्यर्थवदिभिः ||३१||
अच्छशब्दो गत्यर्थे वदिना च सुबन्तैरेकार्थो भवति । अच्छगत्य, अच्छव्रज्य अच्छोद्य ।
अदोऽनुपदेशे ||३२||
अदः-शब्दोऽनुपदेशे वर्तमाने क्रियार्थैः सुबन्तैरेकार्थो भवति । अदःकृत्य चिन्तयति । अनुपदेश इति किम् ? अदः कृत्वा गत ।
तिरोऽन्तर्धौ ॥ ३३॥
तिर्-शब्दोऽन्तर्धाने क्रियार्थैः सुबन्तेरेकार्थो भवति । तिरोभूय । अन्तर्धाविति किम् ? तिरो हत्वा मूषिकां गतः ।
कृञा वा ||३४||
तिर्-शब्द करोतिना सुबन्तेन सहेकार्थो वा भवति । तिरस्कृत्य, तिरः कृत्वा ।
उपाजेऽन्वाजे ||३५||
उपाजेऽन्वाजे इत्येतौ शब्दौ कृञा सुबन्तेन सहैकार्थो वा भवतः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ।
साक्षादादीनि ||३६||
साक्षादित्येवमादीनि करोतिना सुबन्तेनैकार्थानि वा भवन्ति । साक्षात्कृत्य, साक्षात् कृत्वा । मिथ्याकृत्य, मिथ्या कृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लोचना | आर्या । आस्था । प्राजर्या । प्राजरुहा । बीजरुहा । ससर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । नमस् ।
अनत्याधान उरसिमनसिमध्ये पदे निवचने ॥ ३७ ॥
उपर्याधानाद् अन्यत्रोरस्यादयः शब्दाः करोतिना सुबन्तेनैकार्था वा भवन्ति । उरसिकृत्य, उरसि कृत्वा । मनसिकृत्य, मनसि कृत्वा । मध्येकृत्य, मध्ये कृत्वा । पदेकृत्य, पदे कृत्वा । निवचनेकृत्य, निवचने कृत्वा । अनत्याध्यान इति किम् ? उरसि कृत्वा पाणिं शेते । हस्तिनः पदे कृत्वा शिरः शेते ।
नित्यं हस्तेपाणावुद्वाहे ॥ ३८॥
हस्ते पाणावित्येतौ शब्दावुद्वाहे करोतिना सुबन्तेन नित्यमेकार्थौ भवतः । हस्तेकृत्य, पाणौकृत्य । उद्वाह इति किम् ? हस्ते कृत्वा कार्षापणं गतः ।
प्राध्वं बन्धे ॥ ३९ ॥
प्राध्वशब्दो बन्धने करोतिना सुबन्तेन नित्यमेकार्थो भवति । प्राध्वङ्कृत्य । बन्ध इति किम् ? प्राध्वं कृत्वा शकटः गतः ।
जीविकोपनिषदावौपम्ये ||४०||
एतौ शब्दावैपम्ये करोतिना सुबन्तेन नित्यमेकार्थौ भवतः । जीविकाकृत्य, उपनिषत्कृत्य । औपम्य इति किम् ? जीविकां कृत्वा गतः ।
असख्यं वानभिप्रेताख्याने क्त्वा ।। ४१ ।।
असख्यं सुबन्तं करोतिना क्त्वान्तेनकार्थ वा भवति, अनभिप्रेतं चेदाख्यानं भवति । ब्राह्मणः, पुत्रस्ते जातः । कि तर्हि वृषलो नीचैः कृत्वाचक्षे ? नीचैःकृत्य ? उच्चैर्नाम प्रियमाख्येयम् । अनभिप्रेताख्यान इति किम् ? उच्चै कृत्वा ।
तिर्यक् समाप्तौ ॥ ४२ ॥
तिर्यक्शब्दः समाप्तौ करोतिना क्त्वान्तेनकार्थी वा भवति । तिर्यक्कृत्य, तिर्यक् कृत्वा । समाप्ताविति किम् ? तिर्यक् कृत्वा काण्डं गतः ।
स्वाङ्गात् तस्नाधार्थं भुवा च ॥ ४३ ॥
स्वाङ्गाद् यस्तस् तदन्तं नार्थं धार्थं च करोतिना भवतिना च क्त्वान्ते नैकार्थं वा भवति । मुखतः कृत्याचष्टे, मुखतः कृत्वा । मुखतोभूय, मुखतो भूत्वा । नानाकृत्य, नाना कृत्वा । नानाभूय, नाना भूत्वा । द्विधाकृत्य, द्विधा कृत्वा । द्विधाभूय, द्विधा भूत्वा । ऐकध्यकृत्य, ऐकध्य कृत्वा । ऐकध्यभूय, एकध्य भूत्वा । तसादीनामन्योन्यसाहचर्यादिह न भवति । मुखे तस्यति, मुखत कृत्वा पृथक् कृत्वा । यदा नानैव सदन्यथा क्रियते, तदा कस्मान्न भवति ? करोतेः श्रुतेनैवाभिसम्बन्धात् ।
तूष्णीम् ॥ ४४ ॥
तूष्णीमित्येतद् भवतिना क्त्वा तेनैकार्थः वा भवति । तूष्णीभूय, तूष्णी भूत्वा ।
अन्वगानुकूल्ये ॥ ४५ ॥
अन्वगित्येतद् भवतिना क्त्वान्तेनैकार्थं वा भवति, आनुकूल्ये गम्यमाने । अन्वग्भूयास्ते, अन्वग्भूत्वा । आनुकूल्य इति किम् ? अन्वग्भूत्वा तिष्ठति शत्रुः।
अनेकमन्यार्थे ॥ ४६ ॥
अनेकं सुबन्तमन्यस्य पदस्य सुबन्तस्यार्थे वर्तमानमेकार्थं भवति । चित्रा गावो यस्य स चित्रगुः । मत्ता बहवो मातङ्गा यस्मिन् वने तद् वनं मत्तबहुमातङ्गम् । आरूढो वानरी यो वृक्षः स, आरूढवानरः । पूजिता अतिथयो येन स पूजितातिथिः । उपहृतः पशुरस्मै, उपहृतपशुः | तः परो यस्मात् सोऽयं तपरः । उपगता दश एषाम्, उपदशा । आसन्नदशा, अदूरदशा, अधिकदशा । त्रिर्दश परिमाणमेषाम् त्रिदशा । कथ दशशब्द सख्याने वर्तते ? परिमाणशब्दसान्निध्यात् । यथा पञ्च परिमाणमेषाम्, पञ्चकाः शकुनयः इति । द्वौ वा त्रयो वा परिमाणमेषाम् द्वित्राः । वाशब्दस्यार्थे वा । द्वौ वा त्रयो वा द्वित्राः शकुनयः । दक्षिणस्याश्च पूर्वस्याश्च दिशो यदन्तरालम, दक्षिणपूर्वा दिक् । दक्षिणा चासौ पूर्वा चेति वा दक्षिणपूर्वा दिक् । सह पुत्रेणागतः, सपुत्रम् आगत । सलोमकः, विद्यमानलोमक इत्यर्थः । एवं सपक्षकः । अस्तिक्षीरा ब्राह्मणीत्यस्तिशब्दोऽसंख्यः । क्वचिद् गतार्थत्वात् पदान्तराणामप्रयोगः । कण्ठेस्था काला अस्य, कण्ठेकालः । उष्ट्रमुखमिव मुखमस्य, उष्ट्रमुखः । केशसघातचूडा अस्य, केशचूडः | सुवर्णविकारोऽलङ्कारोऽस्य सुवर्णालङ्कारः | प्रपतितं पर्णमस्य प्रपतितपर्णः । प्रगतं पर्णमस्य प्रपर्णः । अविद्यमाना पुत्रा अस्य, अविद्यमानपुत्रः | न सन्ति पुत्रा अस्य, अपुत्रः । क्वचिन्न भवति । पञ्चभिर्भुक्तमस्य, भ्रातुः पुत्रोऽस्यास्तीति बहुलाविकारात् ।
तत्र गृहीत्वा तेन प्रहृत्य युद्धे सरूपम् ॥ ४७ ॥
सप्तम्यन्तं तृतीयान्तं च समानरूपमनेकं तत्र गृहीत्वा तेन प्रहृत्येत्यनयोरर्थयोर्युद्धे इत्यन्यपदार्थ एकार्थं वा भवति । केशेषु च केशेषु च गृहीत्वा युद्धं वृत्तम्, केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्य युद्धं वृत्तम्, दण्डादण्डि । मुष्टामुष्टि | इज् व्यतिहारे [ ४|४|११६] इतीच् । इचि [ ५|२|४८] इत्यात्त्वम् । तत्र तेनेति किम् ? कायं च कायं च प्रहृत्य युद्धं वृत्तम् । गृहीत्वा प्रहृत्यति किम् ? रथे च रथे च स्थित्वा युद्ध वृत्तम् । युद्ध इति किम् ? हस्ते च हस्ते च गृहीत्वा सख्यं वृत्तम् । सरूपमिति किम् ? दण्डैश्च मुसलैश्च प्रहृत्य युद्धं वृत्तम् ।
चार्थे ॥ ४८ ॥
अनेकं सुबन्त चार्थं एकार्थं वा भवति । चार्था बहवः समुच्चयोऽन्वाचय इतरेतरयोगः समाहारश्चेति । तत्रेतरेतरयोगे समाहारे चैकार्थीभावः सम्भवति, न समुच्चये नाप्यन्वाचये । अश्वश्च बलीवर्दश्च, अश्वबलीवर्दौ । अश्वबलीवर्दम् । एतस्मिन्नेकार्थीभावकाण्डे यदेव पूर्वमुक्तं तदेव पूर्वं निपतति, क्रमव्यतिक्रमे प्रयोजनाभावात् । क्वचिद् विपर्ययोऽपि दृश्यते, बहुलाधिकारात् । दन्तानां राजा, राजदन्तः । क्वचित् क्रमः प्रत्यनादरात् पूर्वकालस्यापि परनिपातः । लिप्तवासितः, नग्नमुषितः, सिक्तसम्मृष्टः, भृष्टलुञ्चितः, अवक्लिन्नपक्वः, अर्पितोतः, उप्तगाढः । चार्थे यदैकार्थ्यं तत्र क्वचिदिदुदन्तं पूर्वं निपतति । अग्निवातौ, पटुगुप्तौ। क्वचित् परं निपतति । चित्रास्वाती, भार्यापती,जम्पती, दम्पती, पुत्रपती, पुत्रपशू, केशश्मश्रु, शिरोविजु । क्वचिदनियमः । सर्पिर्मधुनी, मधुसर्पिषी । अन्तादी, आद्यन्तौ । गुणवृद्धी, वृद्धिगुणौ । पटुमृदुशुक्लाः, पटशुक्लमृदवः | क्वचिदजाद्यदन्तं पूर्वं निपतति । अश्वखरम्, उष्ट्रखरम् । क्वचिद् विपर्ययोऽपि दृश्यते, शूदार्यम्, आर्यशूद्रम् । अवन्त्यश्मकम् । विष्वक्सेनार्जुनौ । क्वचिदनियमः । धर्मार्थी, अर्थम् । शब्दार्थी, अर्थशब्दौ । कामार्थी अथकामौ । चन्द्रार्को, अर्कचन्द्रौ । इन्द्राग्नी, अग्नीन्द्रौ । चन्द्रार्केन्द्राः, अर्कचन्द्रेन्द्राः, इन्द्रार्कचन्द्राः | क्वचिदल्पाक्षरं पूर्वं निपतति । प्लक्षन्यग्रोधौ, धवखदिरौ । क्वचिद् विपर्ययः, मुसले, तण्डुलकिण्वम्, चित्ररथबाह्लीकौ, स्नातकराजानौ, अक्षिभ्रुवम्, दारगवम् । क्वचिदनियमः | विपूयविनीयजित्या मुञ्जकल्कहलिषु ऋतुनक्षत्राणामानुपूर्व्येण तुल्याचाम् । हेमन्तशिशिरौ, कृत्तिकारोहिण्यौ | अतुल्याचामल्पाचः पूर्वनिपातः, ग्रीष्मवसन्तौ । तदयुक्तमन्यथापि दर्शनात् । शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् [ चरकसंहिता, सूत्र० २७/२२६ ] । श्रवणाधनिष्ठाश्विनीषु यायान् नरः फलोपचयकामः । संख्या भ्रातृवर्णानामपि क्रमात् पूर्वनिपातमिच्छन्ति । पञ्च च षट् च, पञ्चषट् । युधिष्ठिरार्जुनौ । ब्राह्मणक्षत्रियवैश्यशूद्राः | तदप्ययुक्तः व्यभिचारदर्शनात् । कयोद्विवचनैकवचने [पा० १/४/२२] त्रिद्विदृष्टिविवर्जिताः । अर्जुनभीमसेनौ । शूद्रविट्क्षत्रियविप्राणाम् । धनपतिरामकेशवाः । लध्वक्षरं पूर्वं निपतति । कुशकाशम् । तदपि सव्यभिचारम्, काशकुशावलम्बनमिति दर्शनात् । अभ्यर्हितं पूर्वं निपतति । वासुदेवार्जुनौ । तत्रापि नरनारायणाविति दृश्यते व्यभिचारः । नागृहीतविशेषणविशेष्ये बुद्धिः प्रवर्तत इति विशेषणं पूर्वं निपतति । नीलोत्पलम्, चित्रगुः । सर्वादीनामपि विशेषणत्वादेव पूर्वनिपातः । सर्वश्वेतः, सर्वकृष्णः । तथा संख्याया, पञ्चरक्तः, सप्तोन्नतः, द्व्यन्यः, त्र्यन्यः | सप्तम्यन्तस्यापि विशेषणत्वादेव पूर्वनिपातः । कण्ठेकालः वहेगडुः । कथं गडुकण्ठः, गडुशिरा, वज्रपाणिरिति ? गडूपलक्षितः कण्ठोऽस्य, गडुकण्ठः । अन्यथा कण्ठे | एव गडुशिराः, शिरसिगडुः | वज्रपाणिः, पाणिवज्रः । क्तान्तस्यापि विशेषणत्वादेव पूर्वनिपातः । कृतकटः, भिक्षितभिक्षः । कटे कृतमनेनेति विग्रहे कामचारः, महाहव रिपुस्कन्धघृष्टचक्राय चक्रिण इति दर्शनात् । उद्यतासिः, अस्युद्यतइति विशेषणविशेष्ययोर्यथेष्टत्वादुभयमपि सम्भवति । एवमाहिताग्निः, अग्न्याहितः । जातदन्तः, दन्तजातः । जातपुत्रः, पुत्रजातः । जातश्मश्रुः, श्मश्रुजातः । पीततैलः, तैलपीतः । पीतघृतः, घृतपीतः । ऊढभार्यः, भार्योढः । एवमन्यत्रापि । तथा जातिकालसुखादिभ्यः । सारङ्गजग्धी, जग्वसारङ्गा । पलाण्डुभक्षितः, भक्षितपलाण्डुः । मासजातः, जातमासः । सुखहीना, हीनसुखा । एव गुडप्रियः प्रियगुडः । एवमुत्तरपदार्थेऽपि । कडारजैमिनिः, जैमिनिकडारः । गडुलकाणः, काणगडुलः । कखञ्ज- कुण्ठः, कुण्ठखञ्जः । खोडखलतिः खलतिखोडः | गौरवृद्धः, वृद्धगौरः । भिक्षुपिङ्गलः, पिङ्गलभिक्षुः । तनुवठरः, वठरतनुः । कृष्णश्वेतः, श्वेतकृष्ण इत्यादि ।
समाहारे नपुंसकम् ॥४९॥
चार्थे समाहारे यदेकार्थं तन्नपुंसकं भवति । तथाचैवोदाहृतमुदाहरिष्यते च ।
अनुवादे चरणानां स्थेणोलुङि ॥५०॥
चरणानामनुवादविषये समाहार एवैकार्थ्यं भवति, स्थेणोलुङ्परयो प्रयोगे सति । प्रत्यष्ठात् कठकौथुमम्, उदगात् कठकालापम् । एषामुदयप्रतिष्ठयो प्रमाणान्तरावगतयो शब्देनाभिधानमनुवादः | अन्यत्र उदगुः कठकालापाः | चरणानामिति किम् ? उदगुर्मीमासकवैयाकरणाः । स्थणोरिति किम् ? अगमन् कठकालापाः । लुङीति किम ? अतिष्ठन् कठकालापाः ।
अध्वर्युक्रतूनामनपुंसकानाम् ॥ ५१ ॥
यजुर्वेदविहिताना ऋतूनामनंपुसकलिङ्गानां समाहारः एैकार्थ्यं भवति । अर्काश्वमेधम् । अध्वर्युग्रहणं किम् ? पञ्चोदनदशौदनौ । ऋतूनामिति किम ? दर्शपौर्णमासो । ससोमको हि याग ऋतुः । अनपुंसकानामिति किम् ? वाजपेयराजसूये ।
सन्निकृष्टपाठानाम् ॥५२॥
अविप्रकृष्टाध्ययनानां समाहार ऐकार्थ्यं भवति । पदकक्रमकम्। सन्निकृष्टग्रहणं किम् ? याज्ञिकवैयाकरणौ । पाठग्रहणं किम् ? पितापुत्रौ ।
अप्राणिजातीनाम् ॥५३॥
अप्राणिविषयाणां सामान्यशब्दानां समाहार ऐकार्थ्यं भवति । आराशस्त्रि, धानाशष्कुलिः । अप्राणिग्रहणं किम् ? ब्राह्मणक्षत्रियौ । प्राणिसदृशग्रहणादद्रव्यजातेर्न भवति । रूपरसगन्धस्पर्शी । जातीनामिति किम् ? नन्दकपाञ्चजन्यौ ।
नदीदेशनगराणां भिन्नलिङ्गानाम् ॥५४॥
नदीनां देशानां नगराणां च नानालिङ्गानां समाहार ऐकार्थ्यं भवति । गङ्गाशोणम् | कुरुकुरुक्षेत्रम् | मथुरापाटलिपुत्रम् | देशानामिति सिद्धे नियमार्थं वचनम् । नगराणामेव यथा स्यात्, ग्रामाणां मां भूत् । जाम्बव- शालूकिन्यौ । इह कथम्- शौर्यं च नगरः केतवता च ग्रामः, शौर्य-केतवतम् ? नगराश्रयो हि विधिरस्ति, ग्रामाश्रयः प्रतिषेधो नास्ति । नदीदेशनगराणामिति किम् ? कुक्कुटमयूर्यौ । देशग्रहणेन जनपदस्य ग्रहणम्, पृथग् नदीग्रहणात् । गौरीकैलासौ । भिन्नलिङ्गानामिति किम् ? गङ्गायमुने, मद्रकेकयी, मथुरातक्षशिले ।
नित्यवैराणाम् ॥५५॥
नित्यानुबद्धवैराणां समाहार ऐकार्थ्यं भवति । अहिनकुलम्, अश्वमहिषम्, काकोलूकम् । नित्यग्रहणं किम् ? गोपालकशालङ्कायनाः ॥
कारूणाम् ॥५६॥
कारूणां समाहार ऐकार्थ्यं भवति । तक्षायस्कारम्, रजकतन्त्रवायम्।
गवाश्वादीनाम् ||५७||
गवाश्वादीनां समाहार ऐकार्थ्यं भवति । गवाश्वम् । गवादिकम् । गवैडकम् | अजाविकम् | अर्जडकम् । कुब्जवामनम् । कुब्जकैरातम् । पुत्रपौत्रम् | श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपुच्छकम् । उष्ट्रखरम् । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मेदस् । मासशोणितम् । दर्भशरम् । दर्भपूतिकम् । अर्जुनपुरुषम् । तृणोलपम् । दासीदासम् । कुटीकुटम् । भगवतीभागवतम् । अवडादेशनिर्देश किम् ? गोऽश्वम्, गोऽश्वौ ।
प्राणितूर्याङ्गानाम् ॥ ५८॥
प्राण्यङ्गानां तूर्याङ्गाना च समाहार ऐकार्थ्यं भवति । पाणिपादम् । मार्दङ्गिकपाणविकम् ।
सेनाङ्गानां बहुत्वे ॥ ५९ ॥
सेनाङ्गानां बहुत्वे वर्तमानानां समाहार एकार्थ्यं भवति । हरितनश्चाश्वाश्च हस्त्यश्वम् । बहुत्वं इति किम् ? हस्ती चाश्वश्च, हस्त्यश्वौ ।
क्षुद्रजन्तूनाम् ॥ ६०॥
क्षुद्रजन्तूनां समाहार ऐकार्थ्यं भवति । यूकालिक्षम् । बहुत्वं इत्येव । यूका च लिक्षा च यूकालिक्षे ।
फलानाम् ||६१||
फलानां समाहार ऐकार्थ्यं भवति । बदरामलकम् । बहुत्व इत्येव । बदरं चामलकञ्च, बदरामलके ।
वा वृक्षतृणधान्यमृगशकुनिविशेषाणाम् ||६२ ||
वृक्षादिविशेषाणां बहुत्व एव वर्तमानानां समाहार ऐकार्थ्यं भवति । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधा । कुशकाशम् कुशकाशा । तिलमाषम्, तिलमाषा । रुरुपृषतम्, रुरुपृषता । हसचक्रवाकम्, हसचक्रवाका | बहुत्व इत्येव । प्लक्षश्च न्यग्रोधश्च, प्लक्षन्यग्रोधौ । अप्राणिजातीनाम् [ ५३ ] इति समाहारे कस्मान्न भवति ? द्रव्यवचनत्वात् ।
व्यञ्जनानाम् ॥६३॥
व्यञ्जनविशेषाणां समाहार ऐकार्थ्यं भवति वा । दधिघृतम्, दधिघृते । सूपशाकम्, सूपशाके । अप्राणिजातीनाम् [ ५३ ] इति नित्ये प्राप्त आरम्भः |
अश्ववडवौ ॥६४॥
अश्ववडवयो समाहार ऐकार्थ्यं वा भवति । चार्थे [४८] इत्येव सिद्धम्, इतरेतरयोगे तु पुंवल्लिङ्गं निपात्यते । अश्ववडवम् । अश्ववडवौ । अस्मादेव ज्ञापकादन्यत्र चार्थेकार्थ्ये परवल्लिङ्गं भवति । कुक्कुटमयूर्यौ ।
विरोधिनामद्रव्याणाम् ॥६५ ॥
विरोधिनामद्रव्यवाचिना समाहार ऐकार्थ्यं वा भवति । सुखदुखम्, सुखदुखे । विरोधिनामिति किम् ? कामक्रोधौ । अद्रव्याणामिति किम् ? सुखदुःखाविमो ग्रामौ ।
न दधिपयआदीनाम् ||६६ ||
दधिपयआदीनां समाहार ऐकार्थ्यं न भवति । दधिपयसी । सर्पिमधुनी । मधुसर्पिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ | परिव्रज्याकौशिकौ | प्रवर्ग्योपसदौ । याज्यानुवाक्ये । शुक्लकृष्णे । इध्माबर्हिषी । निपातनाद् दीर्घत्वम् । दीक्षातपसी । मेधातपसी । उदूखलमुसले । आद्यवसाने । श्रद्धामेधे । ऋक्सामे । वाङ्मनसे । दशेमे मार्दङ्गिकपाणविका इति गणनाया भेदेनार्थस्य विवक्षितत्वाद् दिशामिव समाहारो नास्ति । सख्यासामीप्यविवक्षायां तु भेदेनाभेदेन वा विवक्षा न विरुध्यत इति भवति पक्षे समाहारः । उपदशं पाणिपादम, उपदशा पाणिपादाः । अश्वबलीवर्दम्, अश्वबलीवर्दी, अधरोत्तरम्, अधरोत्तरे, पूर्वापरम् पूर्वापरे इति चार्थे [४८ ] इत्येव सिद्धम् ।
नाम्नि षष्ठ्या कन्योशीनरेषु ॥ ६७॥
षष्ठ्या परा या कन्था सैकार्थ्ये उशीनरदेशे नपुंसकलिङ्गे भवति, संज्ञायां विषये । सौशमिकन्थम् । नाम्नीति किम् ? वीरणकन्था | उशीनरेष्विति किम् ? दाक्षिकन्था ।
उपशोपक्रमं तदादित्वे || ६८ ||
षष्ठ्याः परा उपज्ञा उपक्रमश्च ऐकार्थ्ये तदादित्वे गम्यमाने नपुंसकं भवति । पाणिन्युपज्ञमकालकं व्याकरणम् । चन्द्रोपज्ञमसज्ञकं व्याकरणम् । नन्दोपक्रमाणि मानानि । तदादित्व इति किम् ? देवदत्तोपज्ञा मृन्मयप्राकारा । षष्ठ्या इत्येव । अनुपज्ञा । सदुपज्ञा । प्रधानलिङ्गे प्राप्त आरम्भः |
ईश्वरार्थादराज्ञः सभा ।। ६९ ।।
षष्ठ्यन्ताद् ईश्वरार्थाद् राजवर्जितात् परा या सभा सैकार्थ्ये नपुंसकं भवति । इनसभम्, ईश्वरसभम् । अराज्ञ इति किम् ? राजसभा । कथं चन्द्रगुप्तसभा ? नायमीश्वरार्थम् अन्यत्रापि दर्शनात् । षष्ठ्या इत्येव । ईश्वरसभा ।
अमनुष्यात् ॥ ७० ॥
मनुष्याद् अन्यस्माद् या षष्ठ्यन्तात् परा सभा सैकार्थ्ये नपुंसकं भवति । पिशाचसभम्, राक्षससभम् । अमनुष्यादिति किम् ? देवदत्तसभा । मनुष्यसदृशस्य ग्रहणादिह न भवति । काष्ठसभा ।
अशाला ।। ७१ ।।
अशालारूपा या सभा षष्ठान्तात् परा सैकार्थ्ये नपुंसकं भवति । गोपालसभम् । गोपालसमूह इत्यर्थः ।
सेनासुराशालानिशा वा ॥ ७२ ॥
सेनादयः षष्ठ्यन्तात् परा ऐकार्थ्यें नपुसकलिङ्गा भवन्ति वा । ब्राह्मणसेनम्, ब्राह्मणसेना । यवसुरम, यवसुरा । गोशालम्, गोशाला । श्वनिशम्, श्वनिशा । षष्ठ्या इत्येव । परमसेना |
छाया ।। ७३ ।।
षष्ठान्तात् परा छायैकार्थ्यो नपुंसकं वा भवति । कुड्यच्छायम् कुड्यच्छाया ।
बाहुल्ये ॥ ७४ ॥
बाहुल्ये गम्यमाने षष्ठान्तात् परा छायैकार्थ्ये नपुंसकं भवति, नित्यं पुनर्विधानात् । इषुच्छायम्, शलभच्छायम् । बाहुल्य इति किम् वृक्षच्छायम्, वृक्षच्छाया ।
पथोऽसंख्यात् ॥ ७५ ॥
असंख्यात् परः पथशब्द ऐकार्थ्ये नपुंसकं भवति । अपथम्, उत्पथम् । असख्यादिति किम् ? राजपथः । प्रधानलिङ्गान्यथात्वप्रस्तावादन्यपदार्थे न भवति । अपथा नगरी, उत्पथो देश ।
संख्यादिः समाहारे ॥ ७६ ॥
सख्यादिः समाहार ऐकार्थ्ये नपुंसको भवति । पञ्चगवम्, चतुष्पथम् । समाहारस्यैकत्वादेकवचनम् । सख्यादिरिति किम् ? धवखदिरम् । परेण [ ७७ ] स्त्री न भवति । समाहार इति किम्, पञ्चकपालः पुरोडाशः । त्रिपुत्रः ।
अः स्त्री ॥ ७७ ॥
अकारान्तः सख्यादिः समाहार ऐकार्थ्ये स्त्रीलिङ्गो भवति । पञ्चपूली । समाहार इत्येव । पञ्चकपालः पुरोडाशः ।
वाप् ॥ ७८ ॥
आवन्तः सख्यादिः समाहारे स्त्रीलिङ्गो वा भवति । पञ्चखदूम, पञ्चखी । समाहार इत्येव । पञ्च खट्वाः ।
अनो लोपः ॥ ७९ ॥
अनन्तस्य सख्यादेः समाहारे ऐकार्थ्य अन्त्यस्य लोपो भवति, वा च स्त्री भवति । पञ्चतक्षम्, पञ्चतक्षी । समाहार इत्येव । बहुराजो देशः ।
न पात्रादयः ॥ ८० ॥
पात्रादयः शब्दाः स्त्रीलिङ्गा न भवन्ति । द्विपात्रम् । चतुर्युगम् । त्रिभुवनम् ।
रात्राह्रवाकाः पुंसि ॥ ८१॥
रात्राह्नवाकान्ताः शब्दाः पुंलिङ्गा भवन्ति । अहोरात्रः, सर्वरात्रः । पूर्वाह्नः । अनुवाकः, सूक्तवाकः ।
अहोऽसुदिनपुण्यात् ।। ८२ ।।
अहशब्दः सुदिनपुण्याभ्यामन्यस्मात् परः पुंसि भवति । एकाह:, द्व्यहः, त्र्यहः। असुदिनपुण्यादिति किम् ? सुदिनाहम्, पुण्याहम् ।
नपुंसके चार्धर्चादयः ॥ ८३ ॥
नपुंसके पुंसि चार्धर्वादयो वर्तन्ते । अर्धर्चम्, अर्धर्चः । शतमानम्, शतमानः । वारबाणम्, वारबाणः । अष्टापदम्, अष्टापदः । समासलिङ्गाख्याने गोमयादयो न वक्तव्याः, तद्वदेव वा स्त्रीपुंलिङ्गा अपि गौरिषुरशन निर्योनिरित्येवमादयः, स्त्रीनपुंसकलिङ्गाश्च अर्चिरादयः, सर्वलिङ्गाश्च तटशृङ्खलादयः, एकैकलिङ्गाश्च, वृक्षखाकुण्डादयः, अलिङ्गाश्च युष्मदस्मदादयः सर्व एव वाच्याः स्युः । अथ तेषां लोकतो लिङ्गानुशासनतो वा सिद्धिरिष्टा तद्वदेव गोमयादीनामपि भविष्यति । कानि पुनस्तानि स्त्रीपुंनपुंसकानि ? इयमयमिदमिति येषु प्रसिद्धिरर्थेषु भवति लोकस्य । स्त्रीपुंनपुंसकानि प्रोच्यन्ते तानि लोकेन ।
सुपि ह्लस्वः॥ ८४ ॥
नपुंसके वर्तमानस्य शब्दस्य सुपि परतो ह्रस्वो भवति । रैः | अतिरिः । कण्ठतालव्यस्य स्थाने कण्ठतालव्य इकार | नौः । अतिनुः । कण्ठोष्ठास्य स्थाने कण्ठोष्ठ्य एव उकारः । सुपीति किम् ? काण्डे, कुड्ये ।
गोरप्रधानस्यान्त्यस्य ॥ ८५ ॥
गोशब्दस्योपसर्जनस्यान्ते वर्तमानस्य सुपि परतो ह्रस्वो भवति । चित्रगुः । अप्रधानस्येति किम् ? सुगौः । अन्त्यस्येति किम् ? गोकुलम् |
ङ्यादीनाम ॥ ८६ ॥
ङीबाद्यन्तस्याप्रधानस्य ह्रस्वो भवति । निष्कौशाम्बिः, बहुखट्वः अतिवामोरुः | अप्रधानस्यैव । राजकुमारी, ब्रह्मबन्धू । अन्त्यस्यैव । कुमारीप्रिय । कथं बहुश्रेयसीति ? ईयस ईत्त्वं वक्ष्यति [ ४|४|१४५ ] |
लुगणादिलुक्यगोण्यादीनाम् ॥ ८७ ॥
अणादिलुकि सति प्रादीना लुग् भवति, न तु गोण्यादीनाम् । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः | अणादिग्रहणं किम् ? बहुनाडिः । लुकीति किम् ? बहुपत्नीकः । अगोण्यादीनामिति किम् ? पञ्चभिर्गो- णीभिः कीतः, पञ्चगोणिः । पञ्चसूचिः । अप्रधानस्येत्येव । परमावन्ती । अन्त्यस्येत्येव । अवन्तीकुलम् । वरणा इति नगरस्यापि संज्ञा, पञ्चाला इति जनपदस्यापि । पञ्चालमथुरे इति विभक्तेरश्रवणे नामार्थसंख्यायामेव द्विवचनम् । हरीतक्या फलानीति फलेष्वपि स्त्रीलिङ्ग एव शब्दो वर्तते । खलतिकं वनानीति तेषां वनानामेकवचनान्तमेव नामधेयम् । दृश्यते हि शब्दानामेकार्थेऽपि लिङ्गवचनभेदः । आपो जलम् दाराः कलत्रं भार्येति । वध्रिका दर्शनीयो मनुष्य इति मनुष्यस्य विशेषणं न वध्रिकायाः, पञ्चाला बह्वन्ना बहुक्षीरघृता इति पञ्चा- लानाम्, पञ्चाला जनपदो बहुमाल्यफल इति जनपदस्य । सम्पन्नो यव इति जातावेकवचनम्, सम्पन्ना यवा इति व्यक्तिभेदेषु बहुवचनम् । वयमिति बाह्यव्यात्मिकेषु भेदेषु, यथा गुरुषु, अहमिति पुनरभेदविवक्षायामेकवचनम् । कदा पूर्वे फल्गुन्याविति तारकयोर्द्वित्वे द्विवचनम् । कदा पूर्वा फल्गुन्य इति चन्द्रमसा सह बहुत्वसम्भवे बहुवचनम् । एवं कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदा इति । तिष्यपुनर्वसू इति नक्षत्रद्वित्वे द्विवचनम् तिष्यपुनर्वस्विति समाहार एकवचनम् । तारकाभेदविवक्षायां नक्षत्रसख्याभेद- विवक्षाया अभावान् नास्त्येव बहुवचनम् ॥ शब्दस्यानेकार्थत्वादेकशेषानर्थक्यम् । एकोऽपि हि शब्दोऽनेकस्यार्थस्याभिधाय को भवति, यथा रोदसीशब्दो द्यावापृथिव्यौ। भिन्नजातीयानामपि चार्थानामेकेनाभिधानं भवति, यथा अक्षाः पादाः माषा इति, किं पुनः सजातीयानाम् । गार्ग्यायणस्यापि गार्ग्यत्वमस्तीत्यभेदविवक्षायां गार्ग्यौ । बैदबैदाविति भेदविवक्षायाम्, अभेदविवक्षायां तु बैदाविति भवितव्यमेव तदा प्रतिषेधाभावात् । गार्ग्या अपि गार्ग्यत्वमस्तीति गार्गी च गार्ग्यायणश्च गार्ग्यौ । कुक्कुटा अपि कुक्कुटत्वमस्तीति कुक्कुटी च कुक्कुटश्च कुक्कुटौ । एवं पिता च माता च पितरौ भेदविवक्षायां तु मातापितरौ । तथा श्वशुरश्च श्वश्रूश्च श्वशुरौ । तथा भ्राता च स्वसा च, भ्रातरौ । पुत्रश्च दुहिता च पुत्रो । नपुंसकस्य तु सर्वलिङ्गसामान्यरूपत्वाम् नपुंसकानपुंसकाभिधाने तस्यैव प्रयोगः । शुक्लश्च शुक्ला च शुक्लः च, तानीमानि शुक्लानि । अभेदविवक्षायां तु तदिदं शुक्लमिति । त्यदादीनामपि सामान्यवचनत्वादन्यार्थाभिधानेऽपि प्रयोगः । स च देवदत्तरच, तौ । गाव इमा इति स्त्रीलिङ्गत्वं तासामपनीतपुंस्कत्वात् ।
इति चान्द्रे व्याकरणे द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः |