स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भस्ङसिभ्याम्भस्ङसोसाम्–
ङ्यस्सुप् ||१||
एषां त्रयं त्रयमेकद्विबहुषु भवति । एते च सामर्थ्यादेकत्वादिमदर्थवाचिनः शब्दात् परे भवन्ति । अत एव च क्रियार्थान् न भवन्ति, क्रियायां असत्त्वभूतायाम् एकत्वादिभिः सह सम्बन्धाभावात् तव्यादिभिश्च बाधितत्वात् । तिङन्तान्न भवन्ति, तिङ्भिरेवैकत्वादीनामुक्तत्वात् । शेषेभ्यो भवन्ति । दृषत् दृषदौ दृषदः, दृषदम् दृषदी, दृषदः, दृषदा, दृषद्भ्याम्, दृषद्भिः, दृषदे, दृषद्भ्याम्, दृषद्भ्यः, दृषदः, दुषद्भ्याम् दृषद्भ्यः, दृषदः, दृषदो, दृषदाम्, दृषदि, दृषदो, दृषत्सु । एव कुमारी, कुमार्य्यौ कुमार्यः । एव खट्वा, खट्वे, खट्वा । तान्येतानि सप्त त्रयाणि सप्त विभक्तयो भवन्ति, विभागो विभक्तिरिति कृत्वा ।
अतो भिस ऐस् || २ ||
अकारान्ताच्छब्दात् परस्य भिस ऐस् आदेशो भवति । वृक्षैः, प्लक्षैः । अत इति किम् ? अग्निभिः । तपरः किम् ? मालाभिः ।
इदमदसो कात् ||३||
इदमोऽदसश्च कादेव परस्य भिस ऐस् आदेशो भवति । इमकैः, अमुकैः । कादिति किम् ? एभिः, अमीभिः ।
टाङसोरिनस्यौ ॥४॥
टाङसित्येतयोरकारान्तात् परयोरिन स्य इत्येतावादेशौ भवतः ।
वृक्षेण, वृक्षस्य ।
ङेङस्योर्यातौ ॥ ५॥
ङेङस्योरकारान्तात् परयोर्य आत् इत्यतावादेशौ भवतः । वृक्षाय, वृक्षात् ।
सर्वादिभ्यः स्मैस्मातौ ॥ ६॥
सर्वादिभ्योऽकारान्तेभ्यः परयोर्ङेडस्यो स्म स्मात् इत्येतावादेशौ भवतः । सर्वस्मै सर्वस्मात् । विश्वस्मै, विश्वस्मात् । अत इत्येव | भवते, भवतः । सर्व । विश्व । उभ । उभय । इतर । उतम । इतर । अन्य | अन्यतर । त्व । त्वद् । नेम । सम । सिम | पूर्वपरावर- दक्षिणोत्तरापराधराणि व्यवस्थायामसज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसव्यानयोः । त्यद् । तद् । यद् । अदस् । इदम् । एतद् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् ।
ङेः स्मिन् ॥७॥
ङि इत्येतस्य सर्वादिभ्यः परस्य स्मिनादेशो भवति । सर्वस्मिन् । अत इत्येव । भवति ।
जसः शी ॥८॥
सर्वादिभ्यः परस्य जसः शीरादेशो भवति । सर्वे । अत इत्येव । सर्वा ।
आत् आमः साम् ||९||
अवर्णान्तेभ्यः सर्वादिभ्यः परस्यामः सामादेशो भवति । सर्वेषाम्, सर्वासाम् | आदिति किम् ? भवताम् ।
नान्यच्च नामाप्रधानात् ॥ १०॥
नामभूतेभ्योऽप्रधानभूतेभ्यश्च सर्वादिभ्यो यदुक्तं यच्चान्यत् सर्वादिकार्य तन्न भवति । विश्वो नाम कश्चित् तस्मै विश्वाय देहि । अतिविश्वाय, प्रियविश्वाय ।
तृतीयार्थयोगे ॥ ११ ॥
तृतीयार्थेन योगे सर्वादिभ्यो यदुक्त यच्चान्यत् सर्वादिकार्यं तन्न, भवति । मासेन पूर्वाय, मासपूर्वाय ।
चार्थसमासे ||१२||
चार्थसमासविषये सर्वादिभ्यो यदुक्तं यच्चान्यत् सर्वादिकार्यं तन्न भवति । दक्षिणोत्तरपूर्वाणाम् । समास इति किम् ? अमुष्मै च तस्मै च देहि |
शी वा ||१३||
चार्थसमासविषये सर्वादिभ्यः शीभावो यस्योक्तस्तस्य वा भवति । पूर्वोत्तरे, पूर्वोत्तरा ।
प्रथमचरमतयायाल्पार्धनेमकतिपयात् ॥ १४ ॥
शीभावो यस्योक्तस्तस्य प्रथमादिभ्यो वा भवति । प्रथमे, प्रथमा । चरमे, चरमा । द्वितये, द्वितया । द्वये, द्वया । अल्पे, अल्पा । अर्धे, अर्धा | नेमे, नेमा । कतिपये, कतिपया ।
पूर्वादिभ्यो नवभ्यः स्मात्स्मिनौ च ॥ १५ ॥
पूर्वादिभ्यो नवभ्यः स्मात्स्मिनौ यथास्थानं भवतः शीभावश्च वा । पूर्वस्मात् पूर्वात् पूर्वस्मिन् पूर्वे, पूर्वे, पूर्वा । परस्मात् परात् परस्मिन् परे परे, परा । नवभ्य इति किम् ? त्यस्मात्, त्यस्मिन्, त्ये ।
स्मै च तीयात् ॥१६॥
स्मै स्मात्स्मिनौ च तीयान्ताद् यथास्थानं वा भवन्ति । द्वितीयस्मै, द्वितीयाय, द्वितीयस्मात्, द्वितीयात् द्वितीयस्मिन्, द्वितीये ।
आप औतः शीः ॥ १७॥
आबन्तात् परस्य औकारस्य शीभावो भवति । माले तिष्ठतः । माले पश्य ।
नपुंसकात् ॥१८॥
नपुंसकात् परस्य औतः शीभावो भवति । कुण्डे तिष्ठतः । कुण्डे पश्य ।
जस् शसो शिः ॥ १९ ॥
नपुंसकात् परयोर्जस्शसो शिभावो भवति । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य ।
अष्टाभ्य औश् ॥२०॥
अष्टन्शब्दात् परयोर्जस्शसोरौश् भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । आत्त्वनिर्देशः किम् ? अष्ट तिष्ठन्ति अष्ट पश्य ।
ष्णः संख्यायां लुक् ॥२१॥
षकारान्ताया नकारान्तायाश्च सख्यायां परयोर्जस्शसोर्लुग् भवति । षट् तिष्ठन्ति, षट् पश्य । पञ्च तिष्ठन्ति, पञ्च पश्य ।
कतेः ||२२||
कतिशब्दात् परयोर्ज सोर्लुग् भवति । कति तिष्ठन्ति ? कति पश्य ।
स्वमोर्नपुंसकात् ||२३||
सु अम् इत्येतयोर्नपुंसकात् परयोर्लुग् भवति । जतु तिष्ठति । जतु पश्य ।
अतोऽम् ॥२४॥
अकारान्तान्, नपुंसकात् परयो स्वमोरम् भवति । कुण्डं तिष्ठति । कुण्डं पश्य ।
डतरादिभ्यः पञ्चभ्योऽनेकतरात् तः ॥ २५ ॥
डतरादिभ्यः पञ्चभ्य एकतरवर्जितेभ्यो नपुंसकलिङ्गेभ्य परयो स्वमोस्तकारः आदेशो भवति । कतरत् तिष्ठति ? कतरत् पश्य । कतमत् तिष्ठति ? कतमत् पश्य । इतरत् तिष्ठति, इतरत् पश्य । अन्यत् तिष्ठति, अन्यत् पश्य । अन्यतरत् तिष्ठति, अन्यतरत् पश्य । पञ्चभ्य इति किम् ? पूर्वं तिष्ठति, पूर्वं पश्य । अनेकतरादिति किम् ? एकतरं तिष्ठति, एकतरं पश्य ।
युष्मदस्मद्भ्यां ङसोऽश् ॥ २६ ॥
युष्मदस्मद्भयां परस्य सोऽशादेशो भवति । तव, मम ।
ङेसुटोऽम्॥२७॥
ङे इत्येतस्य सुटा च युष्मदस्मद्भयां परेषाममादेशो भवति ।
तुभ्यं दीयते मह्यं दीयते । त्वम् अहम् । युवाम्, आवाम् । यूयम्,
वयम् । त्वाम् माम् । युवाम्, आवाम् ।
शसो नः ||२८||
युष्मदस्मद्भां परस्य शस आदेर्नकारादेशो भवति, सकारस्य च सयोगान्तलोपः । युष्मान् अस्मान् ।
भ्यसोऽभ्यम् ॥ २९ ॥
युष्मदस्मद्भयां परस्य भ्यसोऽभ्यम् आदेशो भवति । युष्मभ्यं दीयते, अस्मभ्यं दीयते ।
ङसेश्चात् ||३०||
ङसेस्तत्सहचरितस्य च भ्यसोऽदादेशो भवति । त्वत्, मत् ।
युष्मत् अस्मत् ।
आम आकम् ||३१||
युष्मदस्मद्भयां परस्याम् आकमादेशो भवति । युष्माकम्, अस्माकम् ।
ह्रस्वापो नुट् ॥३२॥
ह्रस्वान्तादाबन्ताच्च परस्यामो नुड् भवति । पटूनाम्, वृक्षाणाम् । खट्वानाम् ।
संख्याया अनतः ||३३||
अच्छब्दान्तवर्जिताया संख्याया परस्यामो नुड् भवति । चतुर्णाम्, पञ्चानाम्, षण्णाम् । अनत इति किम् ? त्रिंशताम्, तावताम् ।
त्रयाणाम ||३४|
त्रिंशब्दस्यामन्तस्य त्रयाणामिति निपात्यते ।
स्त्रीयुभ्याम् ॥३५॥
स्त्रियां य ईकार ऊकारश्च ताभ्यां परस्यामो नुड् कुमारीणाम्, ब्रह्मबन्धूनाम् । स्त्रीग्रहणं किम् १ ग्रामण्याम्, खलप्वाम् । यूभ्यामिति किम् । शरदाम् ।
सेयुवो वा ॥ ३६ ॥
इयुवौ ययोर्विद्यते ताभ्यां परस्यामो नुड् वा भवति । श्रियाम्, श्रीणाम् । श्रीणामिति व्यवस्थितविभाषया छन्दस्येव । भ्रुवाम्, भ्रूणाम् ।
स्त्रीणाम् ॥३७॥
स्त्रीणामित्यामन्तो निपात्यते ।
सुपोऽसंख्याल्लुक् ॥३८॥
अविद्यमानसंख्यात् परस्य सुपो लुग् भवति । उच्चैः नीचैः | अस्मादेव लिङ्गादसख्यादपि सुबुत्पत्तिरनुमीयते ।
ऐकार्थ्ये ॥ ३९ ॥
एकार्थीभावे सुपो लुग् भवति । पुत्रीयति । राजपुरुषः । औपगवः ।
ततः प्राक् कारकात् ॥४०॥
प्राक् कारकसशब्दनाद् [२२११६] यदेकार्थ्ये ततः सुपो लुग् भवति । उपाग्नि । प्राक् कारकादिति किम् ? कष्टश्रितः ।
नातोऽमपञ्चम्याः ||४१॥
प्राक् कारकादेकार्थादकारान्तात् परस्य सुपो लुग् न भवति अम् तु भवत्यपञ्चम्या उपकुम्भम् । अपञ्चम्या इति किम् । उपकुम्भादानय ।
तृतीयासप्तम्योर्वा ॥४२॥
प्राक् कारकादेकार्थदकारान्तात् परयोस्तृतीयासप्तम्योर्वाम् भवति । उपकुम्भं कृतम्, उपकुम्भेन कृतम् । उपकुम्भं निधेहि उपकुम्भे निधेहि ।
क्रियाप्ये द्वितीया ॥ ४३ ॥
क्रियाया व्याप्ये द्वितीया विभक्तिर्भवति । कट करोति । आदन पचति । आदित्यं पश्यति । ओदन पच्यत इत्योदनशब्दाद् व्याप्यता न गम्यते । किं तर्हि ? तिङन्तात् । कटं करोति विपुलं दर्शनीयमिति गुणयुक्तस्य व्याप्यतास्त्येव । ईप्सितेऽपि व्याप्यत्वाद् द्वितीया सिद्धा ।
गां दोग्धि पयः । पौरवं गां याचते । गामवरुणद्धि व्रजम् । माणवक पन्थान पृच्छति । पौरव गा भिक्षते । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते । माणवकं धर्ममनुशास्ति । एवमनीप्सितेऽपि । अहिं लङ्घयति । विषं भक्षयति । यन्नवेप्सित नाप्यनीप्सित तत्रापि भवति । ग्राम गच्छन् वृक्षमूलान्युपसर्पतीति ।
गतिबोधाहारशब्दार्थानाप्यानां प्रयोज्ये ॥ ४४ ॥
गत्यर्थानां बोधार्थानामाहारार्थानां शब्दार्थानामनाप्यानां च प्रयोज्यकर्तरि द्वितीयाविभक्तिर्भवति । सामर्थ्याच्च प्रयोजक- व्यापारेणैवास्य व्याप्यता भवतीति गम्यते । गमयति माणवकं ग्रामम् यापयति माणवकं ग्रामम् । बोधयति माणवकं श्लोकम्, वेदयति माणवकं धर्मम्। भोजयति माणवकम् ओदनम् आशयति माणवकमोदनम्। अध्यापयति माणवकं वेदम् । पाठयति माणवकं वेदम् । आसयति देवदत्तम्, शाययति देवदत्तम् एतेषामेवेति किम् ? पाचयत्योदनो देवदत्तेन । प्रयोज्य इति किम् ? गच्छति देवदत्तः । यदा तर्हि गमयति देवदत्तं यज्ञदत्तस्तमपरः प्रयुङक्ते, तदा गमयति देवदत्तो यज्ञदत्तेनेति भवितव्यम्, गमयतेरगत्यर्थत्वात् ।
हृक्रोर्वा ॥ ४५ ॥
हृञः कृञश्च प्रयोज्ये कर्तरि द्वितीया वा भवति । हारयति भांर देवदत्तः देवदत्तेनेति वा । अभ्यवहारयति सक्तुं देवदत्त देवदत्ते – नेति वा । कारयति कटं देवदत्त देवदत्तेनेति वा ।
दृशभिवाद्योस्तङाने ॥ ४६ ॥
दृशेरभिवादेश्च प्रयोज्ये कर्तरि तङानविषये प्रयोगे द्वितीया वा भवति । दर्शयते राजा भृत्यान् भृत्यैरिति वा ।
अभिवादयते गुरुः देवदत्तं देवदत्तेनेति वा । तङाने इति किम् ? दर्शयति चित्रं देवदत्तेन । अभिवादयति गुरुः माणवकेन |
न नीखाद्यदिह्वाशब्दायक्रन्दः ॥ ४७ ॥
नयत्यादीनां प्रयोज्ये कर्तरि द्वितीया न भवति । नाययति देव- खादयति देवदत्तेन । आदयति देवदत्तेन । आह्वाययति देवदत्तेन । शब्दाययति देवदत्तेन । क्रन्दयति देवदत्तेन ।
वरनियन्तृके ॥ ४८ ॥
हे प्रयोज्ये कर्तरि नियन्तृरहिते द्वितीया न भवति । वाहयति भारं देवदत्तेन । अनियन्तृक इति किम् ? वाहयति बलीवर्दान् ।
भक्षेरहिंसायाम् ॥ ४९ ॥
भक्षेरहितार्थस्य प्रयोज्ये कर्तरि द्वितीया न भवति । भक्षयति पिण्डीं देवदत्तेन । अहिंसायामिति किम् ? भक्षयति बलीवर्दान् सस्यम् । ग्राममधिशेत इति व्याप्यविवक्षैव । एव ग्राममधितिष्ठति, वृक्षमध्यास्ते धर्ममभिनिविशते त्रिरात्रमुपवसति ग्राममनुवसति, पर्वतमधिवसति आवसथमावसतीति । क्वचिदाधारविवक्षा । सज्ञा सज्ञिन्यभिनिविशते । अक्षैर्दीव्यतीति करणविवक्षा, अक्षान् दीव्यतीति व्याप्यविवक्षा, अक्षेषु दीव्यतीत्याधारविवक्षा । विवक्षातो हि कारकाणि भवन्ति । तद्यथा, बलाहको विद्योतते विद्युतम् । बलाहके विद्योतते विद्युत् । बलाहकाय विद्योतते विद्युत् । बलाहकाद् विद्योतते विद्युत् | बलाहके विद्योतते । बलाहकेन विद्योतत इति ।
समयानिकषाहाधिगन्तरान्तरेण युक्तात् ॥ ५० ॥
समयादिभिर्युक्ताद् द्वितीया स्यात् । समया ग्रामम् | हा देवदत्तम् । धिग् देवदत्तम् । अन्तरा गार्हपत्यमाहवनीयं च वेदि । अन्तरा- शब्दस्य मध्यार्थवाचित्वाद् वेदिर्नान्तराशब्देन युक्तेति ततो न द्वितीया । अन्तरेण धर्मं सुख न भवति । इह कथं न भवति – किं ते केशवार्जुनयोरन्तरेण गतेनेति ? लाक्षणिकत्वाद् अस्य ग्रहणं न भवति । बुभुक्षितो न प्रतिभाति किञ्चिदिति बुभुक्षिंत प्रति न प्रकाशते किञ्चिदित्यर्थः । सम्बन्ध तु षष्ठी । देवदत्तस्य न प्रतिभाति ।
द्वित्वेऽध्यादिभिः ॥ ५१ ॥
अन्यादिभिर्योगे तेषामेव द्वित्वे द्वितीया स्यात् । अध्युपर्यधसा
सामीप्ये” [ ६|३|३ ] सूत्रेण द्वित्वम् । अध्यधि ग्रामम्, उपर्युपरि ग्रामम्, अधोऽधो ग्रामम् । द्वित्व इति किम् ? हर्म्यस्योपरि प्रासादः । मासमधीते, क्रोशमधीत इति क्रियाप्य एव द्वितीया । तथा कोशं कुटिला नदीति भवतेर्गम्यमानत्वात् । कालभावाध्वना च सर्वक्रियाभिर्व्याप्यत्वात् । मासेनानुवाकोऽधीत इति करण एव तृतीया । माममधीतोऽनुवाको न चानेन गृहीत इति नात्र करणत्वम् असाधकतमत्वात् । अद्य भुक्वा देवदत्तो द्व्यहाद् भोक्तेति क्रियावधेरेव पञ्चमी । द्व्यहे भोक्तेत्याधार एव सप्तमी । इहस्थोऽयमिष्वास कोशाल्लक्ष्यं विध्यतीत्यवधेरेव पञ्चमी । कोशे लक्ष्यं विध्यतीत्याधार एव सप्तमी ।
सर्वाभिर्युभयात् तसा ॥ ५२ ॥
सर्वादिभिस्तसन्तैर्युक्ताद् द्वितीया स्यात् । सर्वतो ग्रामम्, अभितो ग्रामम् परितो ग्रामम्, उभयतो ग्रामम् ।
एनपा ।। ५३ ।।
एनपा योगे द्वितीया स्यात् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् ।
लक्षणवीप्सेत्थंभूतेष्वभिना ॥ ५४ ॥
लक्षणादिष्वर्थेष्वभिना योगे द्वितीया स्यात् । वृक्षमभि विद्योतते । वृक्षं वृक्षमभि तिष्ठति । साधुर्देवदत्तो मातरमभि ।
प्रतिपरिभ्यां भागे च ॥५५॥
प्रतिपरिभ्यां युक्ताल्लक्षणादिषु भागे चार्थे द्वितीया स्यात् । वृक्षं प्रति विद्योतते । वृक्षं वृक्षं प्रति तिष्ठति । साधुर्देवदत्तो मातरं प्रति । यदत्र मां प्रति स्यात् । वृक्षं परि विद्योतते । वृक्षं वृक्षं परि तिष्ठति । साधुर्देवदत्तो मातरं परि । यदत्र मा परि स्यात् ।
अनुना ॥५६॥
लक्षणादिष्वर्येषु भागे चार्थेऽनुना युक्ताद् द्वितीया स्यात् । वृक्षमनु विद्योतने । शाकल्यस्य सहितामनु प्रावर्षत् । हेतुरपि हि लक्षणं भवति । वृक्षं वृक्षमनु तिष्ठति । साधुर्देवदत्तो मातरमनु । यदत्र मामनु स्यात् ।
सहार्थे ॥ ५७॥
सहार्थेऽनुना युक्ताद् द्वितीया स्यात् । नदीमन्ववसिता सेना ।
नद्या सहेत्यर्थः ।
हीन || ५८ || [ पा० ११४१८६, स० १|१|१६२ ]
हीनेऽर्थोऽनुना युक्ताद् द्वितीया स्यात । अन्वर्जुनं योद्वारः ।
उपेन ॥५९॥
हीनेऽर्थे उपेन युक्ताद् द्वितीया स्यात् । उपार्जुन योद्धार ।
सप्तम्याधिक्ये ॥ ६० ॥
आधिक्येऽर्थे उपेन युक्ता सप्तमी भवति । उप खार्या द्रोणः ।
स्वाम्येऽधिना ॥ ६१ ॥
स्वाम्यर्थे अधिना युक्तात् सप्तमी भवति । अधि ब्रह्मदत्ते पञ्चालाः | अधि पञ्चालेषु ब्रह्मदत्तः ।
कर्तरि तृतीया ॥ ६२॥
कर्तरि कारके तृतीया विभक्तिर्भवति । चैत्रेण कृतम् ।
करणे || ६३||
करणे कारके तृतीया स्यात् । दात्रेण लुनाति । परशुना छिनत्ति । प्रकृत्याभिरूपकः, प्रायेण याज्ञिकः, गोत्रेण गार्ग्य इति भवते सर्वत्र सम्भवात् करण एव तृतीया । तथा, समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति ।
परिक्रियश्चतुर्थी च ॥ ६४ ॥
परिक्रीणातेः करणे कारके चतुर्थी भवति, तृतीया च । शताय परिक्रीतोऽनुब्रूहि । शतेन परिक्रीतोऽनुब्रूहि ।
सहार्थेन ॥ ६५ ॥
सहशब्दार्थेन योग तृतीया स्यात् । पुत्रेण सहागत । पुत्रेण सार्धमागत । तृतीयापि षष्ठीवदप्रधान एव भवति ।
लक्षणे ॥६६ ||
लक्षणे वर्तमानात् तृतीया स्यात् । कमण्डलुना छात्रमद्राक्षीत् । नाङ्गिनो विकृतिर्लक्ष्यते । अक्ष्णा काणः । तेन हाङ्गेनाङ्गिनो विकृतिर्लक्ष्यत इति ।
संज्ञो व्याप्ये वा ॥ ६७॥
संजानातेर्यद् व्याप्यं ततस्तृतीया वा भवति । मात्रा संजानीते । मातरं संजानीते |
हेतौ ॥ ६८॥
तत्क्रियायोग्ये तृतीया स्यात् । अन्नेन वसति । विद्यया यशः । ऋणे पञ्चमी ॥ ६९ ॥
ॠणे हेतौ पञ्चमी भवति । शताद् बद्धः । कथं शतेन बन्धित इति ? कर्तरि तृतीयात्र भविष्यति ।
गुणे वा ॥ ७० ॥
पराङ्गभूते हेतौ पञ्चमी वा भवति । जाग्राद् बद्धः, जाड्येन बद्धः । उपलब्धे सन्, उपलब्ध्या सन् । व्यवस्थितविभाषया क्वचित् तृतीयैव । बुद्ध्या मुक्तः, प्रज्ञया मुक्तः ।
षष्ठी हेतुना ॥ ७१ ॥
हेतुशब्देन योगे हेतौ षष्ठी भवति । अन्नस्य हेतोर्वसति ।
सर्वाः सर्वादिभ्यो हेत्वर्थे ॥७२॥
हेत्वर्थे शब्दयोगे सर्वादिभ्यः सर्वा विभक्तयो भवन्ति । को हेतुः ? कं हेतुम् ? केन हेतुना ? कस्मै हेतवे ? कस्माद्धेतोः ? कस्य हेतोः ? कस्मिन् हेतौ ? कि कारणम् ? केन कारणेन १ किं निमित्तम् १ केन निमित्तेन ? किं प्रयोजनम् १ केन प्रयोजनेन १ सर्वादिभ्य इति किम् ? अन्नस्य हेतोर्वसति । हेत्वर्थैरिति किम् ? केन कृतम् ? नामाप्रधानादिभ्यः पूर्वप्रतिषधादेव [१०] न भवन्ति ।
सम्प्रदाने चतुर्थी ||७३ |
यस्मै सम्यक् प्रदीयते तत्र चतुर्थी भवति । देवेभ्यः पुष्प ददाति । सम्प्रदान इति किम् ? रजकस्य वस्त्र ददाति ।
रुचिमति ॥ ७४ ॥
रचियुक्ते कारके चतुर्थी भवति । रोचते देवदत्ताय । कथम् – देवदत्ताय श्लाघते, देवदत्ताय ह्नुते, तिष्ठते कुमारी छात्रेभ्यः, देवदत्ताय शपते, पुष्पेभ्यः स्पृहयतीति ? तादर्थ्ये चतुर्थी भविष्यति । व्याप्यविवक्षायां तु देवदत्तः श्लाघते, पुष्पाणि स्पृहयतीति ।
धारेरुत्तमर्णे ||७५ ||
धारयतेरुत्तमर्णे कारके चतुर्थी भवति । देवदत्ताय गां धारयति उत्तमर्ण इति किम् ? गां धारयति देवदत्तः ।
कोपस्थानेनाप्ये ॥७६॥
कोपस्थानेनाप्ये चतुर्थी भवति । देवदत्ताय क्रुध्यति । चैत्राय द्रुह्यति । मैत्रायेर्ष्यति । यज्ञदत्तायासूयति । अनाप्य इति किम् ? देवदत्तमभिक्रुध्यति । यज्ञदत्तमभ्यसूयति । कथम्- देवदत्ताय राध्यति, देवदत्तायेक्षते दैवमिति ? तादर्थ्यचनुर्थ्या सिद्धम् । तथा देवदत्तन याचितोऽयाचितो वा देवदत्ताय प्रतिशृणोति, देवदत्तायाशृणोति ।
प्रत्यनुभ्यां गृणो व्याप्ये ॥ ७७ ॥
प्रत्यनुपूर्वस्य गृणातेर्येद् व्याप्यं तत्र चतुर्थी भवति । होत्रे प्रतिगृणाति पोत्रेऽनुगुणाति । ग्रामाय गच्छतीति तादर्थ्ये चतुर्थी # । ग्रामं गच्छतीति क्रियाप्ये द्वितीया | मार्गभ्रष्टोऽप्राप्ताय पथे गच्छतीति तादर्थ्ये चतुर्थी । पन्थानं गच्छतीति क्रियाप्ये द्वितीया । पथा गच्छतीति करणे तृतीया । एधेभ्यो व्रजति, पाकाय व्रजति, मूत्राय कल्पते यवागूः, वाताय कपिलिका विद्युत्, आतपाय लोहिनी विद्युदिति तादर्थ्ये चतुर्थी ।
नमः स्वस्तिस्वाहास्वधावषट्छक्तार्थः ॥७८॥
नम आदिभिः शक्तार्थैश्च योगे चतुर्थी भवति । नमो देवेभ्यः | स्वाहा देवेभ्यः, स्वधा पितृभ्यः । वषड् रुद्रेभ्यः । अल मल्लो मल्लाय । समर्थो मल्लो मल्लाय ।
तादर्थ्ये ॥ ७९ ॥
तस्मै इदं तदर्थम् । तदर्थस्य भावे द्योत्ये चतुर्थी भवति । यूपाय दारुः । श्राद्धाय निगर्हते । युद्धाय सनह्यते । पत्ये शेते ।
मन्याप्ये कुत्सायामनावादौ वा ॥ ८० ॥
मन्यतेर्यद् व्याप्यं तस्मिन् नावादिवर्जिते कुत्सायां गम्यमानायां चतुर्थी वा भवति । न त्वां तृणाय मन्ये न त्वां तृणं मन्ये न त्वां शुने मन्ये, न त्वां श्वान मन्ये । चिन्तयामि । श्यना निर्देशः किम् ? मन्यतेरिति किम् ? न त्वां तृणं मन्वे । कुत्सायामिति
किम् ? अश्मानं दृषदं मन्य मन्य काष्ठमुलूखलम् । अनावादाविति किम् ? न त्वां नावं मन्ये । न त्वान्ने मन्ये ।
न त्वा शृगाले मन्य । युष्मद् कस्मान्न भवति ? यदि स्यात् कुत्सा न गम्येत ।
अवधेः पञ्चमी ॥८१॥
पदार्थावधेः पञ्चमी भवति । ग्रामाद् गच्छति । चौरेभ्यो बिभेति । चौरेभ्यस्त्रायते । अध्ययनात् पराजयते । यवेभ्यो गा वारयति । यवेभ्यो गा निषेधयति । उपाध्यायादन्तर्धत्ते । उपाध्यायादधीते । नटस्य शृणोतीति सम्बन्धी विवक्षित । शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । अधर्माज्जुगुप्सते । अधर्माद् विरमति । अधर्मात् प्रमाद्यति । अन्यो देवदत्तात् । भिन्नो देवदत्तात् । व्यतिरिक्तो देवदत्तात् । आराद् देवदत्तात् । इतरो देवदत्तात् । पूर्वो ग्रामात् । प्राग् ग्रामात् । दक्षिणा ग्रामात् । दक्षिणाहि ग्रामात् । सम्बन्ध- विवक्षायां षष्ठी न निवार्यते । पुरो ग्रामस्य, दक्षिणतो ग्रामस्य । उपरि शैलस्य, उपरि ग्रामस्य । अवधिविवक्षाया तसर्थेरपि योगे पञ्चमी भवत्येव । ततः पश्चात्, तत उपरिष्टात् * । प्रासादमारुह्य प्रक्षते, प्रासादात् प्रेक्षत इत्यवधेरेव पञ्चमी । एवमासन उपविश्य प्रेक्षते, आसनात् प्रेक्षते । एव प्रश्नाख्यानयोरपि । कुतो भवान् । पाटलिपुत्रादिति । तथा देशकालमानेऽपि । पाटलिपुत्राद् राजगृह सप्त योजनानि सप्तसु योजनेष्विति वा । एव कार्त्तिक्या आग्रहायणी मास इति ।
पर्युपाभ्यां वर्जने ॥ ८२ ॥
वर्जने वर्तमानाभ्यां पर्युपाभ्यां योगे पञ्चमी भवति । परि
त्रिगर्तेभ्यो वृष्टो देवः । अप त्रिगर्तेभ्यो वृष्टो देवः । त्रिगर्तान् वर्जयित्वेत्यर्थः । वर्जन इति किम् ? वृक्षं परि विद्योतते । आ पाटलिपुत्राद् वृष्टो देव इति मर्यादिभिविध्योरवधेरेव पञ्चमी । विना पाटलिपुत्रेण सह वेति शेषः ।
प्रतिना प्रतिनिधिप्रतिदानयोः ||८३ ||
प्रतिनिधौ प्रतिदाने च वर्तमानेन प्रतिना योगे पञ्चमी भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति प्रयच्छति । प्रतिनिधिप्रतिदानयोरिति किम् ? वृक्षं प्रति विद्योतते विद्युत् । कुतोऽध्यागच्छति ? कुतः पयागच्छतीत्यवधेरेव पञ्चमी ।
ऋते द्वितीया च ॥ ८४॥
ऋशब्देन योगे द्वितीया भवति पञ्चमी च । ऋते पार्थम्, ऋते पार्थात् ।
विना तृतीया च ॥ ८५ ॥
विनाशब्देन योगे तृतीयापञ्चम्यो भवतः, द्वितीया च । विना वातेन, विना वातात्, विना वातम् ।
पृथग्नानाभ्याम् ||८६||
एताभ्यां योगे तृतीयापञ्चम्यौ भवतः । पृथग् देवदत्तेन, पृथग् देवदत्तात् । नाना देवदत्तेन, नाना देवदत्तात् ।
स्तोकाल्पकृच्छ्रकतिपयाद् असत्वार्थात् करणे ||७||
स्तोकादिभ्योऽसत्त्ववचनेभ्यः करणे कारके तृतीयापञ्चम्यौ भवतः । स्तोकेन मुक्तः, स्तोकान्मुक्तः । अल्पेन मुक्तः, अल्पान्मुक्तः । कृच्छ्रेण मुक्तः, कृच्छ्रान्मुक्तः । कतिपयेन मुक्तः, कतिपयान्मुक्तः । असत्त्वार्थादिति किम् ? स्तोकेन विषेण हतः । करण इति किम् ? स्तोकं चलति । दूरं ग्रामात् अन्तिक ग्रामाद् इत्यवधेरेव पञ्चमी । दूरं ग्रामस्य अन्तिकं ग्रामस्येति सम्बन्धे षष्ठी । दूरं गतः, अन्तिकं गत इति क्रियाप्य द्वितीया । दूरेण गतः, अन्तिकेनः गत इति करणे तृतीया । दूरादागतः, अन्तिकादागतः, दूरेण तिष्ठति, अन्तिकेन तिष्ठति, दूरे तिष्ठति, अन्तिके तिष्ठतीति स्वार्थेष्वेव विभक्तयः । दूरे पन्थाः, अन्तिके पन्थाः इति क्रियाविशेषणम्, भवतेर्गम्यमानत्वात् ।
सप्तम्याधारे ॥ ८८ ॥
आधारे सप्तमी विभक्तिर्भवति । कट आस्ते । आकाशे शकुनयः, तिलेषु तैलम् । गङ्गायां गावः | अधीती व्याकरणे इत्याधार एव सप्तमी ।
निमित्ताद व्याप्येन ॥ ८९ ॥
व्याप्येन योगे प्रयोजनात् सप्तमी भवति ।
चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम्,
केशेषु चमरीं हन्ति, सीम्नि पुष्कलको हतः ॥ [महाभाष्यम् ] ।
यत्क्रिया क्रियाचिह्नम् ॥ ९० ॥
यस्य क्रिया क्रियान्तरस्य चिह्नं भवति, ततः सप्तमी । गोषु दुह्यमानासु गतः, दुग्धास्वागतः । ब्राह्मणेषु भुञ्जानेषु वृषला आसते । वृषलेष्वासीनषु ब्राह्मणा भुञ्जते । वृषलेषु भुञ्जानेषु ब्राह्मणा आसते । ब्राह्मणेष्वासीनषु वृषला भुञ्जते । क्रियेति किम् ? यो जटाभि स भुक्ते । क्रियाचिह्नमिति किम् ? यो भुड क्ते स देवदत्तः ।
षष्ठी चानादरे ।। ९९ ।।
यस्य क्रिया क्रियान्तरस्य चिह्नं भवति तत षष्ठी भवति सप्तमी च, अनादरे गम्यमाने । क्रोशतः प्राव्राजीत् । क्रोशति प्राव्राजीत् । गवां स्वामीति सम्बन्धे षष्ठी, गोषु स्वामीति विषयसप्तमी । एवम्, गवामीश्वरः, गोष्वीश्वरः । गवामधिपतिः, गोष्वधिपतिः । गवां दायादः, गोषु दायादः । गवां साक्षी, गोषु साक्षी । गवां प्रतिभूः, गोषु प्रतिभूः । गवां प्रसूतः आयुक्तः कटकरणे । कुशलो गोषु प्रसूतः । आयुक्त कटकरणस्य,
कटकरणस्य, कुशलः कटकरणे ।
यतो निर्धारणम् ।। ९२ ।। [स० ३।१।२७२ ] जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करण निर्धारणम् । यतस्तत् क्रियते तन षष्ठीसप्तम्यौ भवतः । शालय शूकधान्याना पथ्यतमा शालय शूकधान्यषु पथ्यतमा । कृष्णा गवा सम्पन्नक्षीरतमा, कृष्णा गोषु सम्पन्नक्षीरतमा । गच्छता धावन्त शीघ्रतमा, गच्छत्सु धावन्त शीघ्रतमा । माथुरा पाटलिपुत्रकेभ्यः सुकुमारतरा इत्यवधेरेव पञ्चमी । मातरि साधुः, पितरि निपुणः इति विषय एव सप्तमी । । एवमसाधर्मातरीति । तथा केशेषु प्रसितः, केशेषूत्सुक इति । केशैः प्रसितः, केशैरुत्सुक इति कर्तरि करणे वा तृतीया । तथा पुष्येण पायसमश्नीयादिति । पुष्ये पायसमश्नीयादित्याधार एव सप्तमी ।
अर्थमात्रे प्रथमा ॥ ९३ ॥
शब्दार्थमात्रे प्रथमा विभक्तिर्भवति । वृक्षः । स्त्रीः, पुमान्, नपुंसकमिति लिङ्गमपि शब्दार्थ एव । तथा खारी, आढक इति परिमाणमपि शब्दार्थ एव । एको द्वौ बहव इति। संख्यापि शब्दार्थ एव ।
सम्बोधने ।। ९४ ।।
सम्बोधने प्रथमा विभक्तिर्भवति । हे देवदत्त ! हा देवदत्त ! धिग् देवदत्त ।
षष्ठी सम्बन्धे ॥ ९५ ॥
सम्बन्धे षष्ठी विभक्तिर्भवति । राज्ञः पुरुषः । सर्पिषो जानीते । भ्रान्तिज्ञानेऽपि सर्पिषोऽसत करणत्वाभावात् । करणविवक्षायां तु स्वरेण पुत्रं जानाति । मातुः स्मरति, सर्पिषो दयते, लोकस्येष्टे । व्याप्यविवक्षायां तु द्वितीयैव । मातरं स्मरति, पृथिवीं दयते, लोकमीष्टे । एधोदकस्योपस्कुरुते । व्याप्यविवक्षायाम् एधोदकमुपस्कुरुते । एव चौरस्य रुजति, चौरं रुजति । ज्वरिसन्ताप्योरपि सम्बन्धविवक्षायां षष्ठी भवत्येव । चौरस्य ज्वरयति चौरस्य सन्तापयति । व्याप्यविवक्षायां तु, चौरं ज्वरयति, चौरं सन्तापयति । सर्पिषो नाथते, माणवकमुपनाथति । चौरस्योज्जासयति, चोरमुज्जासयति चौरस्य निहन्ति, चौरं निहन्ति । चोरस्य प्रहन्ति । चौंर प्रहन्ति । चौरस्य निप्रहन्ति, चौर निप्रहन्ति । चौरस्य प्रणिहन्ति चोंर प्रणिहन्ति । चौरस्योन्नाटयति, चौरमुन्नाटयति । चोरस्योत्क्राथयति, चौरमुत्क्राथयति । घटादित्वात् कथयतीति प्राप्नोति । कथनं नाथः, काथं करोति काथयति । चोरस्य पिनष्टि, चौर पिनष्टि । अहिंसायामपि । ।
धानाः पिनष्टि, धानानां पिनष्टि । नात्र सम्बन्धे षष्ठी प्रतिषिद्धा, तिङन्तेनापि सम्बन्धो भवत्येव । ब्राह्मणस्य ददातीति । तथा शतस्य व्यवहरति शतस्य पणते शतस्य दीव्यति । व्याप्यविवक्षायां सर्वत्र द्वितीया । अक्षैर्दीव्यतीति करणे, अक्षान् दीव्यतीति व्याप्ये, अक्षेषु दीव्यतीत्याधारे, अक्षाणां दीव्यतीति सम्बन्धे । एवं शतस्य प्रदीव्यति, शतं प्रदीव्यति, शतेन प्रदीव्यति शते प्रदीव्यतीति । पञ्चकृत्वोऽह्नो भुङ्क्त इति सम्बन्धे, द्विरहनि भुङ्क्त इत्याधारे, द्विरह्ना भुङ्क्त इति करणे । भवत आसिका, अपां स्रष्टेति सम्बन्धे षष्ठी । तथा चिकीर्षा देवदत्तस्य कटस्य, भेदिका यज्ञदत्तस्य काष्ठानाम् शोभना पाणिने सूत्रस्य कृतिरिति । शोभना सूत्रस्य कृतिः पाणिनिनेति कर्तरि तृतीया । तथा आश्चर्यो गवां दोहोऽगोपालकेन । आश्चर्यो गवा दोहोऽगोपालकस्येति सम्बन्धे षष्ठी । तथा राज्ञां मतम्, इदमेषामासितम्, हसितं छात्रस्य शोभनमिति । हसितं छात्रेण शोभनमिति कर्तरि तृतीया ! ओदनं पचन्, ओदनः पचमान इति व्याप्ये द्वितीया । एवं कटं चिकीर्षुः, आगामुको वाराणसीं रक्ष आहु, कटं कृत्वा ग्रामं गतः, ग्रामं गतवान्, कतीह कवचः पर्यस्यमानाः ? अधीयन् पारायणम्, कर्ता कटानिति । सम्बन्धविवक्षायां तु दास्या कामुकः । ईषत्कर कटो भवतेति कर्तरि तृतीया । सम्बन्धे तु षष्ठया भवितव्यमेव । एव चौरस्य द्विषन् । चौर द्विषन्निति व्याप्ये द्वितीया । तथा कटं कारको व्रजत, ग्रामं गमी, शतं दायीति । वर्षशतस्य पूरकः, पुत्रपौत्रस्य दर्शकः, शतस्य दायीति सम्बन्धे षष्ठी । एव भवतः कट कर्तव्यः । भवता कटः कर्तव्य इति कर्तरि तृतीया । एव ग्राम ऋष्टव्या शाखा देवदत्तेनेति । ग्राम ऋप्टव्या शाखा देवदत्तस्येति सम्बन्धे षष्ठी ।
तुल्यार्थैस्तृतीया वा ॥९६॥
तुल्यार्थेः शब्दैर्योगे षष्ठी भवति, तृतीया वा । तुल्यो देवदत्तस्य, तुल्यो देवदत्तेन । सदृशो देवदत्तस्य, सदृशो देवदत्तेन । इह कस्मात् तृतीया न भवति–अर्जुनस्य तुला नास्ति केशवस्योपमा न चेति ? नैतौ तुल्यार्थी । किं तर्हि ? तुल्ययोगौपम्यार्थौ ।
हितसुखाभ्यां चतुर्थी च || ९७||
हितसुखाभ्यां योगे चतुर्थी भवति षष्ठी च । हितं देवदत्ताय, हितं देवदत्तस्य । सुखं देवदत्ताय, सुखं देवदत्तस्य ।
आशिष्यायुष्यभद्रार्थे कुशलार्थे च ॥९८॥
आयुष्याद्यर्थे र्हितसुखार्थैश्च योगे षष्ठीचतुर्थ्यौ भवतः, आशिषि गम्यमानायाम्। आयुष्यं देवदत्तस्य, आयुष्यं देवदत्ताय । एवम् – चिरं जीवितम्, भद्रम्, मद्रम्, अर्थः, प्रयोजनम्, कुशलम्, अना- मयम्, हितम्, पथ्यम्, सुखम्, शर्म भूयादिनि ।
इति चान्द्रे व्याकरणे द्वितीयस्य प्रथमः पादः समाप्तः ।