चान्द्रव्याकरणम्(प्रथमखण्डम्) प्रथमोऽध्यायः समाप्त:

लस्तिप्तस्झिसिप्थस्थ मिप्वस्मस्तातांझथासाथांध्वमिद वहिमहिङ् ॥ १ ॥

लडादीनां लकारस्य स्थाने तिबादय आदेशा भवन्ति । पकारः पित्कार्यार्थः । । टकार इटोत् [ ११४१३८] ति चिह्नार्थः । डकारस्तिडिति प्रत्याहारार्थः। पचति, पचतः, पचन्ति, पचसि, पचथ,पचथ, पचामि, पचावः, पचामः । पचते, पचेते, पचन्ते, पचसे, पचेथे, पचध्वे, पचे, पचावहे, पचामहे । 

अत आत इत् || ||

अत परस्य तिडामाकारस्य इदादेशो भवति । पचेते, पचेथे । पचेताम्, पचेथाम् अत इति किम् ददाते, दधाते । प्रकृतिग्रह्णादिह न भवति, पचानि । 

झोऽन्तः ॥ ३ ॥

तिङा झकारस्यान्तादेशो भवति । पचन्ति, पचन्ते । यजन्ति, यजन्ते । यजन्तु, यजन्ताम् । 

द्विरुक्तात् ॥ ४  

द्विरुक्तादुत्तरस्य तिङा झकारस्य अदादेशो भवति । जुह्वति, 

बिभ्यति । जुह्वतु | 

जक्षादिभ्यः पञ्चभ्यः ॥ ५  

जक्षादिभ्यः पञ्चभ्यः परस्य झकारस्य अदादेशो भवति । जक्षति, जाग्रति, दरिद्रति, चकासति, शासति । पञ्चभ्य इति किम् ? द्विषन्ति ।

तङ्यानतः ॥  

तङ् विषयस्य झकारस्यानतः परस्यादादेशो भवति । लुनते, लुनताम् । पुनते, पुनताम् । अनत इति किम् ? पचन्ते । 

शीङो रत् ॥ ७ ॥

शीङ् परस्य झकारस्य रदादेशो भवति । शेरते, शेरताम्, 

अशेरत । 

वेत्तेर्वा ॥ ८ ॥

वेत्तेः परस्य भकारस्य रदादेशो वा भवति । सविद्रते, सविदते । लुग्विकरणं किम् ? विन्दतेर्मा भूत् । तडीत्येव । विदन्ति । 

लिट इरच् ॥ ९ ॥

लिडादेशस्य भकारस्य इरजादेशो भवति । पचिरे, शेकिरे । तडीत्येव | पेचुः | 

तस्यैश् १० ॥

लिडादेशस्य तकारस्य शादेशो भवति । पेचे, शेके । 

अतङां णलतुसुस्थलथु सणत्वमाः ११  

तङ्वर्जितानां लिडादेशानां गलादय आदेशा भवन्ति । पपाच, पेचतुः, पेचुः, पपक्थ, पेचिश, पेचथु, पेच पपाच, पेचिव, पेचिम । 

विदो लटो वा ।। १२ ।।

विदः परेषां लडादेशानामतङा गलादय आदेशा वा भवन्ति । वेद, विदतुः, विदुः, वेत्थ, विदथुः, विद, वेद, विद्वः, विद्मः । न च भवन्ति । वेत्ति, वित्तः, विदन्ति, वेत्सि, वित्थः, वित्थ, वेद्मि विद्वः, विद्मः | 

ब्रुवः पञ्चानामादित आह च ॥ १३  

ब्रुवः परेषां लडादेशानामतङा पञ्चानामादितो णलादय आदेशा वा भवन्ति आहादेशश्च ब्रुवो भवति । आह, आहतुः आहुः, आत्थ, आहथुः । न च भवन्ति । ब्रवीति ब्रूतः, ब्रुवन्ति ब्रवीषि ब्रूथः | पञ्चानामिति किम् ? ब्रूथः | आदित इति किम् ? परेषां मा भूत् । 

आतो णल औः ॥ १४ 

आकारान्तादुत्तरस्य णल औकारादेशो भवति । पपौ, तस्थौ । टिचडामेत् ॥१५ 

टितो लकारस्यादेशानां तडामन्तस्यैकारादेशो भवति । पचते, पचन्ते, पचध्वे । टित इति किम् ? अपचत । 

आमः ||१६|| 

टिल्लकारस्य सम्बन्धिन आम एद्भवति । पचेते, पचेथे । [

थासः से ||१७||

टिल्लकारसम्बन्धिनस्थासः से आदेशो भवति पचसे । लुट आद्यानां डारौरसः ||१८|| 

लुडादेशानामाद्यानां त्रयाणां डारौरस आदेशा भवन्ति । पक्ता, पक्तारौ, पक्तारः | 

तङाम् ॥ १९ 

तङामपि लुडादेशानामाद्यानां त्रयाणां डारोरस आदेशा भवन्ति । अध्येता, अध्येतारी, अध्यतारः । एशादिलिङ्गादेत्त्वाभावः । 

लोट एरुः ||२०||

लोडादेशस्य इकारस्य उकारादेशो भवति । पचतु, पचन्तु । 

सेर्हिङ् ॥२१॥

लोडादेशस्य सिपो हिङादेशो भवति । जुहुधि, लुनीहि । णकारोपित्त्वज्ञापनार्थः। 

आशिषि तुह्योस्तातङ् वा २२॥

आशीर्विषये लोटः सम्बन्धिनोस्तुहीत्येतयोस्तातङ् वा भवति । जीवताद्भवान्, जीवतु भवान् । कुरुतात् त्वम्, कुरु त्वम् । 

मेरानि ||२३||

लोडादेशस्य मिप आनिरादेशो भवति । पचानि, करवाणि । 

आमेतः ||२४||

लोडादेशस्यैकारस्याम्भवति । पचताम्, पचेताम् पचन्ताम् । 

स्वो वामौ ॥२५ 

लोडादेशाभ्यां सकारवकाराभ्यां परस्यैकारस्य व अमित्येतावादेशौ भवतः । पचस्व, पचध्वम् । 

इडादीनामैप् ||२६||

लोटः सम्बन्धिनामिडादीनामेत ऐब् भवति । करवे, करवावहै, करवामहै । पकारोऽदेडर्थः । 

व्मोष्टाप् २७ 

लोटः सम्बन्धिनोर्व्मो परतष्टाब् भवति । करवाव, करवाम । करवावहै, करवामहै । टकार आदेशविध्यर्थं पकारोऽदेङ् भावार्थः | 

तस्थस्थानां तान्तन्ता ङितश्च ॥ २८  

ङितां लकाराणां लोटश्च तस् थस् थ इत्येतेषां ता त त इत्येते आदेशा भवन्ति । अपचताम्, अपचतम्, अपचत, पचताम्, पचतम्, पचत  

मसोर्लोपः ||२९|| 

ङितां लकाराणां लोटश्च वस्मसोरन्त्यस्य लोपो भवति । अपचाब, अपचाम । पचाव, पचाम । 

इतोऽतङि ३० 

ङितां लकाराणामतङ्विषयस्येकारस्य लोपो भवति । अपचत्, अपचन् । अकरिष्यत् अकरिष्यन् । 

मिपोऽम् ३१॥

ङितां लकाराणां मिपोऽम् भवति । अकरवम्, अकार्षम्, अकरिष्यम् । 

लिङः सीयुट् ||३२||

लिङादेशानां सीयुडागमो भवति । पक्षीष्ट, यक्षीष्ट । 

यासुडतडः कित् ॥ ३३  

तङ्-वर्जितस्य लिङादेशस्य यासुडागमो भवति, स च किद्वत् । भूयात् भूयास्ताम् भूयासु । अतङ् इति किम् ? लविषीष्ट । 

ङिदनाशिषि ||३४|| 

अनाशीर्विषये लिङो ङिद् यासुड् भवति । यजेत्, यजेताम्, यजेयुः । अनाशिषीति किम् ? इज्यात् । अतङ् इत्येव । यजेत । 

अत इय् ॥३५ 

अतः परस्य यासुट इयादेशो भवति । पचेत्, पचेताम, पचेयुः । अत इति किम् ? कुर्यात् । अनाशिषीत्येव । चिकीर्ष्यात् । 

सो लोपोऽनन्त्यस्य || ३६ ||

लिङोऽनन्त्यस्य सकारस्य लोपो भवति । कुर्यात् कुर्याताम् । अनन्त्यस्येति किम् ? कुर्युः । अनाशिषीत्यव । भूयास्ताम् भूयासुः । 

झस्य रन् ३७

लिङादेशस्य झकारस्य रनादेशो भवति । पचेरन्, पक्षीरन् ।

इटोऽत् ||३८||

लिडादेशस्येटोऽदादेशो भवति । पचेय, पक्षीय ।

 सुट् तथो ॥ ३९॥

लिडस्तकारथकारयो सुड् भवति । पक्षीष्ट, पक्षीयास्ताम्, 

 पक्षीष्ठाः । 

झेर्जुस् ॥४०

लिङो फेर्जुसादेशो भवति । पचेयुः कुर्युः | 

सिचः ॥ ४१ ॥  

सिचः परस्य झेर्जुसादेशो भवति । अकार्षुः । 

आतः ||४२||

आकारान्तादेव सिलुगन्तात् परस्य झेर्जुसादेशो भवति । अदुः अधुः । अनाकारान्तान्न भवति । अभूवन् । 

लङो द्विषश्च वा ||४३|| 

द्विष आकारान्ताच्च परस्य लङो झेर्जुसादेशो वा भवति । अद्विषुः, अद्विषन् । अयुः, अयान् । 

विदः ॥ ४४  

विदः परस्य लङो फेर्जुसादेशो भवति, नित्यं योगविभागात् । अविदुः । 

अति ।। ४५ ।। 

अद्विषये लङो द्विरुक्ताज् जक्षादिभ्यश्च परस्य फेर्जुस् भवति । अभिरुः, अबिभयुः | अजागरुः । 

तङानां यथापाठम् ४६  

तङश्च आनश्च यथापाठं क्रियार्थात् परे भवन्ति । वर्धते, वर्धमानः | वर्तते, वर्तमानः | 

भावाप्ययोः ॥ ४७  

भावे तयाप्ये चार्थे तङानां भवन्ति । भूयते भूयमानम् । क्रियते कटः, क्रियमाणः कटः । पूर्वमुत्तरं च कर्तरि विधानम् । 

ङितः ॥ ४८ ॥

ङितः क्रियार्थात् तङाना भवन्ति । पापच्यते, पापच्यमानः | विनिमये ।। ४९ ।। 

क्रियापरिवर्त वर्तमानात् क्रियार्थात् तङानां भवन्ति । व्यतिलुनते, व्यतिपुनते । 

न गतिहिंसाशब्दार्थ इसः ॥ ५० ॥ 

क्रियाविनिमये वर्तमानेभ्यो गत्याद्यर्थेभ्यो हसरच तङानां न भवन्ति । व्यतिगच्छन्ति, व्यतिघ्नन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । कथम् व्यतिहरन्ते भारम्, व्यतिवहन्ते भारमिति ? नैतौ गत्यर्थौ । किं तर्हि ? देशान्तरप्रापणार्थी । एवं सप्रहरन्ते राजान इति हरतिर्न हिसार्थः । इतरेतरान्योन्यपरस्परयोगे तु शब्दान्तरेणाभिहितत्वात् क्रिया- विनिमयस्य तङानां न भवन्ति । इतरेतरस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । परस्परस्य व्यतिलुनन्ति । 

नैर्विशः ५१

नेर्विशेष्याद् विशस्तङानां भवन्ति । निविशते न्यविशत । षष्ठ्या निर्देशः किम् ? मधुनि विशन्ति भ्रमराः । 

परिव्यवात् क्रियः ।। ५२ ।। 

पर्यादिपूर्वात् क्रीणातेस्तङानां भवन्ति । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । 

विपराभ्यां जेः ॥ ५३ ॥

एताभ्यां विशेष्याज् जयतेस्तङानां भवन्ति । विजयते, पराजयते । कथम् –बहुविजयति वनम् परा जयति सेनेति ? नात्र विपराशब्दाभ्यां जयतिर्विशेष्यते, अन्योन्यसाहचर्याद् वा प्रादिपरिपठितयोरिह ग्रहणम् । 

आङो दः ॥ ५४

आङ्पूर्वाद् ददातेस्तङानां भवन्ति । आदत्ते । 

न स्वप्रसारणे ५५  

प्रसारणे वर्तमानाद् ददातेस्तङाना न भवन्ति, तच्चेत् प्रसारणं स्वस्य भवति । आस्य व्याददाति । विपादिका व्याददाति । नदी कूलं व्याददाति । स्वग्रहणं किम् ? व्याददते पिपीलिका पतङ्गस्य मुखम् । 

गमेः क्षान्तौ ॥ ५६  

आङ् पूर्वाद् गमेर्ण्यन्तात् क्षान्तौ वर्तमानात् तङानां भवन्ति । आगमयस्व तावत् । क्षान्ताविति किम् ? आगमयति । 

 नुप्रच्छः ॥ ५७

आङ्पूर्वान नौते प्रच्छश्च तङानां भवन्ति । आनुते शृगालः । आपृच्छते गुरून् । 

क्रीडोनुपरिभ्यां ॥ ५८ ॥

क्रीडतेरनुपरिभ्यामाङा च युक्तात् तङानां भवन्ति । अनुक्रीडते, परिक्रीडते, आक्रीडते । इह कस्मान्न भवति — माणवकमनु क्रीडतीति ? नात्र क्रीडतिरनुना युक्त इति न भविष्यति । 

समोऽकूजने ॥ ५९ ॥

सपूर्वात् क्रीडतेरकूजने तङानां भवन्ति । सक्रीडते । अकूजन इति किम् ? सक्रीडन्ति शकटानि कथं शिक्षते ? शिक्षतिस्तङानवानवः । । कथं शिक्षति ? शक्तुमिच्छति, शिक्षति । 

अपस्किरः ।। ६० ।।

अपपूर्वात् ससुट्कात् किरतेस्तडाना भवन्ति । अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते श्वा निवासार्थी । अपेति किम् ? उपस्किरन्तो लुनन्ति मद्रकाः | सुट् किम् ? अपकिरति । 

हृञो गतिशीले ।। ६१  

हरतेर्गतिताच्छील्ये गम्यमाने तङानां भवन्ति । पैतृकमश्वा अनुहरन्ते । गतिग्रहणं किम् ? पितरमनुहरति । 

आशिषि नाथः ॥ ६२ ॥

आशिष्येव नाथस्तङानां भवन्ति । सर्पिषो नाथते । आशिषीति किम् ? माणवकमुपनाथति । 

शपः शपथे ॥ ६३ ॥

शपतेः शपथक्रियार्थात् तङानां भवन्ति । देवदत्ताय शपते । अन्यत्र | देवदत्तः शपति । 

स्थः प्रतिज्ञानिर्णयप्रकाशनेषु ६४

तिष्ठतेः प्रतिज्ञायां निर्णये प्रकाशने च गम्यमाने तङाना भवन्ति । नित्यं शब्दमातिष्ठते । त्वयि तिष्ठते विवादः । तिष्ठते कन्या छात्रेभ्यः । 

संविभावात् ।। ६५  

सम् विप्र अव इत्येवपूर्वात् तिष्ठतेस्तङानां भवन्ति । सन्तिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते । 

उदोऽनूर्ध्वेहायाम् || ६६  

उत्पूर्वात् तिष्ठतेरनूर्ध्वचष्टायां वर्तमानात् तङानां भवन्ति । मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? आसनादुत्तिष्ठति । ईहायामिति किम् ? अस्माद् ग्रामाच्छतमुत्तिष्ठति । 

उपान्मन्त्रेण ॥ ६७  

उपपूर्वात् तिष्ठतेस्तङानां भवन्ति, मन्त्रश्चेदस्य करणं भवति । सावित्रा उपतिष्ठते । मन्त्रेणेति किम् ? अश्वेनोपतिष्ठति राजानम् । तृतीयानिर्देशः किम् ? सावित्रीमुपतिष्ठति । 

पथ्याराधनयोः ॥ ६८  

पथि कर्तर्याराधने च गम्यमान उपपूर्वात् तिष्ठतेस्तङानां भवन्ति । अयं पन्थाः स्रुघ्नमुपतिष्ठते । आदित्यमुपतिष्ठते ; रथिकानुपतिष्ठते; महामात्रानुपतिष्ठते । 

 

वा लिप्सायाम् ॥ ६९

उपपूर्वात् तिष्ठतेर्लिप्सायां गम्यमानायां तङानां वा भवन्ति । भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा । 

अव्याप्यात् ॥ ७०  

व्याप्यरहितात् तिष्ठतेरुपपूर्वात् तङानां भवन्ति । भोजनकाल उपतिष्ठते । अव्याप्यादिति किम् ? राजानमुपतिष्ठति । 

समो गमृच्छिप्रच्छिस्वृश्रुवेत्त्यर्तिदृशः ७१ 

संपूर्वेभ्यो गम्यादिभ्यस्तङानां भवन्ति । संगच्छते, समृच्छते, सम्पृच्छते, संस्वरते, संशृणुते, संवित्ते । वेत्तीति निर्देशात् सविन्दतीति न भवति । समारत, सपश्यते । अव्याप्यादित्येव । सगच्छति सुहृदम् । 

प्रादिभ्योऽसूहो वा ॥ ७२  

प्रादिपूर्वाभ्यामस्यत्यूहिभ्यां तङानां वा भवन्ति । निरस्यते, निरस्यति । समूहते समूहति । अव्याप्यादित्येव । निरस्यति शत्रून् । समूहति पदार्थान् । 

आङो यमहनः स्वाङ्गाप्याच्च ॥ ७३|| 

आङ्, पूर्वाभ्यां यमिहनिभ्यामव्याप्याभ्यां स्वाङ्गाप्याभ्यां च तङानां भवन्ति । आयच्छते, आहते । आयच्छते पादम् । आहते उदरम् । अन्यस्मिन् व्याप्ये – आयच्छति रज्जुम् । आहन्ति वृषलम् । स्वग्रहणं किम् ? देवदत्तो यज्ञदत्तस्य पाणिमाहन्ति । 

व्युदस्तपः ||७४ || 

वेरुदश्च परात् तपतेरव्याप्यात् स्वाङ्गाप्याच्च तङानां भवन्ति । वित्तपते, उत्तपते । वित्तपते पाणिम् । उत्तपते पाणिम् । अव्याप्यात् स्वाङ्गाप्याच्चेत्येव । आदित्य पृथिवीं वित्तपति । उत्तपति सुवर्णं सुवर्णकार । देवदत्तो यज्ञदत्तस्य हस्तमुत्तपति । व्युद इति किम् नितपति । 

तपआप्यात् ७५ || 

तपो व्याप्य यस्य तस्मात् तपतेस्तङानां भवन्ति । तप्यते तपस्तापसः । तपः करोतीत्यर्थः । 

निसंव्युपेभ्यो ह्वः || ७६ 

नि सम् वि उप इत्येवपूर्वाद् ह्वयतेस्तङानां भवन्ति । निह्वयते, सह्वयते, विह्वयते, उपह्वयते । 

स्पर्धायामाङः || ७७ ||

आङः, पूर्वाद् ह्वयतेः स्पर्धायां वर्तमानात् तङानां भवन्ति । मल्लो मल्लमाह्वयते । स्पर्द्धायामिति किम् । गामाह्वयति गोपालकः । 

सूचनावक्षेपणसेवासाहसयत्नकथोपयोगेषु कृञः ॥७८ 

सूचनादिष्वर्थेषु करोतेस्तङानां भवन्ति । सूचनमपकारप्रयुक्त- परदोषाविष्करणम्, अवक्षेपणं तिरस्कारः, सेवा परचित्ताराधनम्, साहसं यदबुद्धिपूर्वं करणम्, यत्नः सतो गुणान्तराधानम्, कथा कथनम्, उपयोगो धर्मादिप्रयोजने विनियोगः । सूचने तावत् । अयमिममुत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणे । श्येनो वर्तकामुपकुरुते । भत् सयतीत्यथ । सेवायाम् । महामात्रान् प्रकुरुते गणकान् प्रकुरुते । सेवत इत्यर्थं । साहसे । परदारान् प्रकुरुते । तेषु सहसा प्रवर्तत इत्यर्थं । यत्ने । काण्ड गुडस्योपस्कुरुते । एधोदकस्योपस्कुरुते । तस्य गुणान्तराधान करोतीत्यर्थं । कथायाम् । जनवादान् प्रकुरुते । प्रकर्षेण कथयतीत्यर्थः । उपयोगे । शतं प्रकुरुते । वर्माद्यर्थं शतं विनियुङ्क्त इत्यर्थः । 

अधेः शक्तौ ॥७९ 

अधिपूर्वात् कृञः शक्तौ वर्तमानात् तङांनां भवन्ति । तं ह्यधिचक्रे । शक्ताविति किम् ? अधिकरोति । 

वेः शब्दाप्यात् ||८०|| 

विपूर्वात् कृञस्तङानां भवन्ति, शब्दश्चेदस्य व्याप्य भवति । क्रोष्टा विकुरुते स्वरान् । शब्द इति किम् ? विकरोति मृदम् । आप्यादिति किम् ? शब्देन विकरोति मतिम् । 

अव्याप्यात् ८१ 

व्याप्यरहिताद् विपूर्वात् कृञस्तङानां भवन्ति । विकुर्वते सैन्धवाः | साधुदान्ताः शोभनः वल्गन्तीत्यर्थः । 

पूजोत्सङ्गोपनयनज्ञानभृतिव्ययविगणनेषु नियः ॥ ८२

पूजादिष्वर्थेषु नयतेस्तङानां भवन्ति । पूजा सन्माननम् । नयते पाणिनिर्व्याकरणे । पूजामधिगच्छतीत्यर्थः । नयते चार्वी लोकायते । चार्वी बुद्धिः, तत्सम्बन्वादाचार्योऽपि चार्वी । स लोकायते पदार्थान्नयते, गमयति, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रतिपादयति । युक्तिभिः स्थाप्यमानाः समानिताः पूजिताः भवन्ति । उत्सङ्ग उत्सज्जनम्, उत्क्षेपणम् । माणवकमुदानयते । अधः स्थितं माणवकमुत्सङ्ग उत्क्षिपतीत्यर्थः । उपनयनम् । उपनयनमाचार्यक्रिया | माणवकमीदृशेन विधिना आत्मसमीपं प्रापयति, यथासावुपनेता स्वयमाचार्यः सपद्यते । माणवकमुपनयते । आत्मानमात्रार्थीकुर्वन् माणवकमात्मसमीपं समापयतीत्यय | ज्ञानं पमेयनिश्चयः । नयते कात्यायनो व्याकरणे । प्रमेय निश्चिनो तीत्यर्थं । भृतिर्वेतनम् । कर्मकरानुपनयते । भृतिदानेन समीपी- करोतात्यर्थः । व्ययो धर्मादिषु विनियोगः | शतं विनयते । विनियुङ्क्त इत्यथः । विगणनमृणादिनिर्यातनम् । मद्रकाः कारं विनयन्ते । निर्यातयन्तीत्यर्थः । कर एव कारः, राजगाह्यो भागः कर्पकैः रक्षार्थं परिकल्पितः । एतेष्विति किम् ? अजां नयति ग्रामम् । 

कतृस्थामूर्ताप्यात् ॥ ८३  

कर्तृस्थममूर्तमकठिनं व्याप्य यस्य तस्मान्नयतेस्तङानां भवन्ति क्रोधो विनयते । मन्युः विनयते । कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य मन्युं विनयति । अमूर्त इति किम् ? गण्डुं विनयति | आप्यादिति किम् ? बुद्ध्या विनयति | 

वृत्त्युत्साहतायनेषु क्रमः ॥ ८४॥

वृत्त्यादिष्वर्थेषु क्रमस्तङानां भवन्ति । वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः । तायनं स्फीतता । वृत्तौ । ऋक्ष्वस्य क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । उत्साहे । व्याकरणाध्ययनाय क्रमते । उत्सहत इत्यर्थः । तायते । नीतिमति श्रियः क्रमन्ते । प्राज्ञे शास्त्राणि क्रमन्ते । स्फीतीभवन्तीत्यर्थः । 

परोपात् ॥ ८५ ॥ 

परोपाभ्यामेन प्रादिभ्यां परात् क्रमते त्यादिष्वर्थेषु तङानां भवन्ति । पराक्रमते, उपक्रमते । परोपादिति किम् ? सक्रामति । वृत्त्यादिष्वित्येव । पराक्रामति । 

आङो ज्योतिरुद्गतौ ॥ ८६  

आङ्पूर्वात् क्रमतेर्ज्योतिरुद्गमने वर्तमानात् तङानां भवन्ति । आकमते सूर्यः । ज्योतिरिति किम् ? आक्रामति धूमः । उद्गताविति किम् ? अग्निरिन्धनमाक्रामति । 

वेः पादाभ्याम् ८७ 

विपूर्वात् क्रमतेस्तङानां भवन्ति, पादाभ्यां चेत् सा किया क्रियते । साधुः विक्रमते । पादाभ्यामिति किम् ? अश्वेन विक्रामति । 

प्रोपादारम्भे ||८८|| 

प्रोपाभ्यां परात् क्रमतेरारम्भे तटानां भवन्ति । प्रक्रमते भोवतुम्, उपक्रमते भोक्तुम् । अङ्गीकरणमप्यारम्भ एव । प्रक्रमते शुश्रूषाम् । आरम्भ इति किम् ? पूर्वेद्युः प्रक्रामति, गच्छतीत्यर्थः । क्रामति, आगच्छतीत्यर्थः । 

अप्रादेर्वा ॥ ८९  

प्रादिरहितात् क्रमतेस्तङानां भवन्ति वा । क्रमते, क्रामति । अप्रादेरिति किम् ? सक्रामति । 

निह्नवे ज्ञः९० 

जानातेर्निह्नवे वर्तमानात् तङानां भवन्ति । निह्नवोऽपह्नवः अपलापः । सप्रादिश्च निह्नवे वर्तते न केवलम् । शतमपजानीते | अपलपतीत्यर्थः । निह्नव इति किम् ? 

न त्वं किञ्चिदपि जानामि । 

अव्याप्यात् ९१ 

व्याप्यरहिताज् जानातेस्तङानां भवन्ति । सर्पिषो जानीते । सर्पिषा उपायेन प्रवर्तत इत्यर्थं । ज्ञानपूर्विकायां प्रवृत्तौ सर्पिरादि करणमपि सम्बन्धेन विवक्षितमिति पष्ठी । अव्याप्यादिति किम् ? स्वरेण पुत्रं जानाति । 

संप्रतेरस्मृतौ ९२ 

समः प्रतेश्च पराज् जानातेरस्मरणे वर्तमानात् तङानां भवन्ति । सजानीते, प्रतिजानीते । अस्मृताविति किम ? मातुः सजानाति । 

ज्ञानयत्नोपच्छन्दनेषु वदः ॥ ९३  

ज्ञानादिष्वर्थेषु वदतेस्तङानां भवन्ति । वदतेः पतञ्जलिर्व्याकरणे | ज्ञानपूर्वकं वदतीत्यर्थः । भासनमपि ज्ञानपूर्वकमेवेति न पृथग् वाच्यम् । यत्ने । कोऽस्मिन् क्षेत्रे वदते ? उपच्छन्दने । कर्मकरानुपवदते । परदारानुपवदते । 

अनोरव्याप्यात् ।।९४।। 

अनुपूर्वाद् व्याप्यरहिताद् वदतेस्तङानां भवन्ति । अनुवदतेः कठः कालापस्य । अव्याप्यादिति किम् ? पूर्वमेव यजुरुदितमनुवदति

विमतौ ९५

नानामतौ वदतेस्तङानां भवन्ति । गेहे विवदन्ते ।

व्यक्तं सहोक्तौ ॥ ९६  

व्यक्ताक्षरं सहोच्चारणे वदतेस्तङानां भवन्ति । सम्प्रवदन्ते ग्राम्याः | व्यक्तमिति किम् ? वरतनु सप्रवदन्ति कुक्कुटाः [महाभाष्यम् १ |३|४८] | सहोक्ताविति किम् ? वदति ब्राह्मणः । 

तयोर्वा ९७

विमतौ व्यक्तं सहोक्तौ चैकत्र विवक्षितायां वदतेस्तङानां भवन्ति वा । विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः । विमतावित्येव । सप्रवदन्ते ग्राम्याः । व्यक्तमित्येव । विप्रवदन्ति शकुनयः । सहोक्तावित्येव । एकैकशो विप्रवदन्ते मौहूर्ताः । 

अवाद गिरः ||१८||

अवपूर्वाद् गिरतेस्तङानां भवन्ति । अवगिरते । अवादिति किम् गिरति । गिर इति निर्देशादिह न भवति । अवगृणाति । 

समः प्रतिज्ञायाम् ९९

सपूर्वाद् गिरतेः प्रतिज्ञायां गम्यमानायां तङानां भवति । शतं सगिरते । प्रतिज्ञायामिति किम् ? संगिरति । सम इति किम् ? शतं गिरति । 

किरादिश्रन्थग्रन्थसनामाप्ये ॥ १००  

किरादिभ्यः श्रन्थादिभ्यश्चाप्ये कर्तरि तङानां भवति । अवकिरते हस्ती स्वयमेव । श्रथ्नीते माला स्वयमेव । ग्रश्नीते माला स्वयमेव । चिकीर्षते कटः स्वयमेव । आप्य इति किम् ? अवकिरति हस्ती हस्तिपकमः | 

लुङ्यचः १०१ 

लुङ्विषये अजन्ताद् व्याप्ये कर्तरि तङानां भवन्ति । अहोष्ट हविः स्वयमेव, अजेष्ट रोग स्वयमेव । लुङिति किम् ? जहुत इति मा भूत् । अच इति किम् ? अघस्तेति मा भूत् । आप्य इत्येव । अहैषीत् । 

स्नुनमः स्वयम् ॥ १०२  

स्नुनमिभ्याम् अनन्यप्रेरिते कर्तरि तङानां भवन्ति । प्रस्नुते गौः स्वयमेव । नमते दण्डः स्वयमेव । स्वयमिति किम् ? प्रस्नौति गौर्दोग्धु कौशलेन । नमति पल्लवो वातेन । 

सृजः श्राद्धे ॥ १०३ 

सृजतेः श्रद्धोपपन्ने कर्तरि तङानां भवन्ति । ससृज मालां धार्मिकः | श्राद्ध इति किम् ? ससर्ज मालां मालिकः । 

शे श्यन् ॥ १०४|| 

शेविषये सृजतेः श्राद्धे कर्तरि श्यन् भवति । सृज्यते माला धार्मिकैः | श्राद्ध इत्येव । सृजति मालां मालिकः । 

लुङि ते चिण् ॥ १०५  

लुङि तेभूते परतः सृजः श्राद्धे कर्तरि चिण् भवति । असर्जि माला धार्मिकः । त इति किम् ? असृक्षातां मालां धार्मिकौ । श्राद्ध इत्येव । व्यत्यसृष्ट मालां मालिकसमूहः । कथम् —….. युज्यते ब्रह्मचारीति ? दैवादिकेन सिद्धम् । 

उदश्वरः साप्यात् ॥ १०६ 

उत्पूर्वाच्चरतेर्व्याप्ययुक्तात् तङानां भवन्ति। गेहमुच्चरते । 

साप्यादिति किम् ? धूम उच्चरति । 

समस्तृतीयायुक्तात् १०७

समो विशेष्याच्चरतेस्तृतीयान्तेन युक्तात् तङानां भवन्ति । रथेन सञ्चरते । सम इति किम् ? रथेन चरति । तृतीयायुक्तादिति किम् ? उभौ लोकौ सञ्चरसि,  इमं चामुं च देवल 1 

दाणः सा चेच्चतुर्थ्यर्थे ॥ १०८  

समो विशेष्याद् दाणस्तृतीयान्तेन युक्तात् तङानां भवन्ति सा चेत तृतीया चतुर्थ्यर्थे भवति । दास्या सम्प्रयच्छते । सम्प्रदानस्य करणत्वविवक्षायामियं तृतीया । सा चेयमशिष्टव्यवहार एव लौकिकी विवक्षा तत्र तस्याः साधकतमत्वात् । सा चेच्चतुर्थ्यर्थं इति किम् ? दास्या सम्प्रयच्छनि भिक्षाम् । तृतीयायुक्तादित्येव । दास्यै सम्प्रयच्छति भिक्षाम् । 

उपयम उद्वाहे || १०९  

उपपूर्वाद्यम उद्वाहे वर्तमानात् तङानां भवन्ति । कन्यामुपच्छते । उद्वाह इति किम् ? शाटकमुपयच्छति । 

आमः कृञः प्राग्वत् ११०

आमन्तात् परात् करोतेरामः पूर्वस्या प्रकृतेर्यथा दृष्टास्तथा तङाना भवन्ति, न भवन्ति च । ईहाञ्चक्रे । ईक्षाञ्चके । बिभराञ्चक्रे, बिभराञ्चकार । जागराञ्चकार । कृञ इति किम् ? ईहाम्बभूव । 

सनः ॥ १११

उक्ते वक्ष्यमाणे च प्रकरणे सनन्तात् प्राग्वत् तङानां भवन्ति, यथा प्रकृतेर्दृष्टा । आस्ते, आसिसिषते । भुङ्क्ते, वुभुक्षते । 

स्मृदृशः ।। ११२  

स्मृदशिभ्यां सनन्ताभ्यां तङानां भवन्ति । सुस्मूर्षते, दिदृक्षते ।

अननोर्ज्ञ: ॥ ११३

अनुरहिताज् जानातेः सनन्तात् तङानां भवन्ति । जिज्ञासते धर्मम् । अननोरिति किम् ? पुत्रमनुजिज्ञासति । 

श्रवोऽनाङ्प्रतेः ॥ ११४

आङ्प्रतिरहिताच्छृणोतेः मनन्तात् तङानां भवन्ति । शुश्रूषते गुरून् । अनाङ्प्रतेरिति किम् ? आशुश्रूषति, प्रतिशुश्रूषति । 

शदेः शिति ।। ११५ ।।

शदेः शिद्विषये तङानां भवन्ति । शीयते । शितीति किम् ? शत्स्यति । 

मृङो लुङ लिडोश्च ॥ ११६

म्रियतेर्लुङ्विषये लिङ्विषये शिद्विषये च तङानां भवन्ति । अमृत, मृषीष्ट, म्रियते । एतेष्विति किम् ? ममार । 

प्रादेरजाग्रदन्ताद् युजेरयज्ञपात्रेषु ।। ११७ ॥

प्रादिभ्योऽजादिभ्योऽजनेभ्यश्च पराद् युजेस्तङानां भवन्ति, यज्ञपात्रविषपरश्चेदस्य प्रयोगो न भवति । उपयुङ्क्ते, नियुङ् क्ते, उद्युङ्क्ते, प्रयुङ्क्ते । अजाद्यदन्नादिति किम् ? सयुनक्ति । अयज्ञपात्रे ष्विति किम् यजपात्राणि प्रयुनक्ति । 

समः क्ष्णुवः ११८

सपूर्वात् क्ष्णुतेस्तङानां भवन्ति। सक्ष्णुते शस्त्रम्।

भुजोऽपालने ॥ ११९  

सुजोऽनवने वर्तमानात् तङानां भवन्ति । भुङ्क्ते । अपालन इति किम् ? भुनक्ति पृथिवीं राजा । 

प्रयोजकाद भीस्मेर्णः १२०  

प्रयोजकतो यो भीस्मी ताभ्यां परो यो णिच् तदन्तात् तङाना भवन्ति । मुण्डो भीषयते । जटिलो विस्मापयते । प्रयोजकादिति किम् ? कुञ्चिकयैन भाययति । 

गृधिवञ्चः प्रलम्भने ।। १२१  

गृधिवञ्चिभ्यां ण्यन्ताभ्यां प्रलम्भने वर्तमानाभ्यां तङानां भवन्ति । माणवकं गर्धयते । माणवकं वञ्चयते । प्रलम्भन इति किम् ? श्वानं गर्धयति । अहिं वञ्चयति । 

लियः पूजाभिभवयोश्च ॥ १२२

लीयतेर्लिनातेर्वा ण्यन्तात् पूजायां गम्यमानायामभिभवे प्रलम्भने च तङानां भवन्ति । जटाभिरालापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तकाम् अपलापयते। अभिभवतीत्यर्थः । कस्त्वामुल्लापयते ? कस्त्वा विसंवादयतीत्यर्य । पूजादिष्विति किम् ? घृतं विलीनयति । 

मिथ्यायोगे कृञोऽभ्यासे ॥ १२३  

मिथ्याशब्देन योगे कृञो ण्यन्तात् पोनःपुन्ये तङानां भवन्ति । पदं मिथ्यां कारयते । मिथ्यायोग इति किम् ? पदं साधु कारयति । कृश इति किम् ? पदं मिथ्यां वाचयति । अभ्यास इति किम् ? सकृत् पदं मिथ्यां कारयति । 

फलवति ।। १२४

ण्यन्तात् फलवति कर्तरि तङाना भवन्ति । कारयते । फलवतीति किम् ? कारयति । 

[ णिचश्च । पा १।३।७४

पाठे विभाषितात् ।। १२५ ।। [ स० क० ३।१।१२१] 

पाठे विभाषितानेभ्य फलवति कर्तरि तङानां भवन्ति । पचते कुरुते । पाठे इति किम् ? क्रमते क्रामतीति विनापि फलवत्सम्बन्धेन तङानां भवन्ति । फलवतीत्येव पचन्ति कमकराः । 

ञितः ॥ १२६

ञितः क्रियार्थात् फलवति कर्तरि तङानां भवन्ति । कण्डूयते । अन्यत्र कण्डूयति । 

अपवदः ।। १२७

अपपूर्वाद् वदः फलवति कर्तरि तङानां भवन्ति । अपवदते । अन्यत्रापवदति । 

समुदाभ्यो यमेरग्रन्थे ॥ १२८

सम् उद् आङ् इत्येवपूर्वाद् यमेरग्रन्थविषये । फलवति कर्तरि तङानां भवन्ति । व्रीहीन् सयच्छते । भारमुद्यच्छते । रज्जुमायच्छते, अन्यत्र व्रीहीन सयच्छति । अग्रन्थ इति किम् ? उद्यच्छति चिकित्सां वैद्य । 

अप्रादेर्श: ।। १२९ ।। 

प्रादिरहिताज् जानातेः फलवति कर्तरि तङानां भवन्ति । गां जानीते । अन्यत्र गां जानाति । अप्रादेरिति किम् ? स्वर्गलोकं प्रजानाति । 

शब्दान्तरगतौ वा १३० ॥

शब्दान्तरेण गम्यमानायां कर्तु क्रियाफल्वत्तायां तङानां भवन्ति वा | स्वः कटं कारयते, स्वः कटं कारयति । स्वः यज्ञं यजते, स्वः यज्ञं यजति । एवं सर्वत्र । 

नानुपराभ्यां कृञः ।। १३१  

अनुपराभ्यां विशेष्यात् कृञः फलवति कर्तरि तङानां न भवन्ति । अनुकरोति, पराकरोति । कथम् — गङ्गामनु कुरुते तप इति ? नात्र करोतिरनुना विशेष्यः । 

प्रत्यत्यभीनां क्षिपः ॥ १३२  

प्रति अति अभि इत्येतेषां विशेष्यात् क्षिपः फलवति कर्तरि तङानां न भवन्ति । प्रतिक्षिपति, अतिक्षिपति, अभिक्षिपति । षष्ठीनिर्देशः किम्? माणवकं प्रति क्षिपते । 

प्राद् वहः ।। १३३ ।।

प्रपूर्वाद् वहः फलवति कर्तरि तङानां न भवन्ति । प्रवहति । प्रादिति किम् ? वहते । 

परेर्मृषश्च ।। १३४ ॥

परेर्विशेष्यान मृषो वहश्च फलवति कर्तरि तङानां न भवन्ति । परिमृष्यति, परिवहति । कथम्- माणवकः परिमृष्यते, वने परि- वहत इति ? नैतौ परेर्विशेष्यौ । 

रमो व्याङोश्च ।। १३५ ।। 

व्याङोः परेश्च विशेष्याद् रमस्तङानां न भवन्ति । विरमति, आरमति, परिरमति । कथम् गृहे परिरमत इति ? नात्र रमिः परेर्विशेष्यः | 

उपात् ।। १३६ ।।

उपपूर्वाद् रमस्तङानां न भवन्ति । कञ्चित् कालमुपरमति । 

अव्याप्याद्वा ।। १३७ ॥ 

व्याप्यरहिताद् उपपूर्वाद् रमस्तङानां वा न भवन्ति । उपरमते, उपरमति । 

अणौ चित्तवत्कर्तृकाण् णेः ॥ १३८ ॥

अण्यन्तो यश्चित्तवत्कर्तृको व्याप्यरहितस्तस्माण् ण्यन्तात् फलवति [ १२४ ] इति प्राप्तास्तङानां न भवन्ति । आस्ते माणवकः, आसयति माणवकम् । अणाविति किम् ? आरोहयमाणं प्रयोजयति, आरोहयते । चित्तवत्कर्तृकादिति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रीहीन् आतपः । अव्याप्यादित्येव । कटं कुर्वाणं प्रयोजयति, कारयते । 

चलनाहारार्थात् १३९

चलनार्थाद् आहारार्थाच्च ण्यन्तात् फलवति [ १२४] इति प्राप्तास्तङानां न भवन्ति । चलयति, कम्पयति । आशयति, भोजयति । 

प्रुद्रुस्रुबुधयुधेङनशजनः ॥ १४०

एभ्यो ण्यन्तेभ्यः फलवति [ १२४ ] इति प्राप्तास्तङानां न भवन्ति । प्रावयति, प्रापयतीत्यर्थः । द्रावयति द्रवीकरोतीत्यर्थः | स्रावयति स्यन्दयतीत्यर्थः । गत्यर्थेभ्यस्तु चलनार्थात् [ १३९ ] इत्येव सिद्धः प्रतिषेधः | बोधयति माणवकं ग्लोकम् । योधयति काष्ठम् । अध्यापयति माणवकं वेदम् । नाशयति रोगम् । जनयति सुखम् । 

पादमायमायसपरिमुहात्तिरुचिनृतिधेट्वदवसः १४१

पादिभ्यो ण्यन्तेभ्यः फलवति [ १२४ ] इति प्राप्तास्तङानां न न भवन्ति, अपि तु भवन्त्येव । पिबत्यत्तिधेटाम् आहारार्थात् [ १७९] इति प्रतिषेधस्य पुन प्रतिषेधः, नृतेश्चलनार्थात् ० [ १३९ ] इति, अणावव्याप्यात् [ १३८] इति च । एवमपि शेषाणाम् । पाययते, दमयते, आयामयते, आयासयते, परिमोहयते, आदयते, रोचयने नतयते, धापयते, वादयते, वासयते । 

वा क्यषः ।। १४२ ।।

क्यपन्तात् तङानां वा भवन्ति । लाहितायति, लोहितायते । 

द्युद्भ्यो लुङि ॥ १४३

द्युतादिभ्यो लुङि परतस्तङानां वा भवन्ति । व्यद्युतत् व्यद्योतिष्ट । अश्वितत् अश्वेतिष्ट  

वृद्भस्यसनोः ।। १४४ ।।

वृतादिभ्यः स्ये सनि च तङानां वा भवन्ति । वर्त्स्यति, वर्तिष्यते । विवृत्सति, विवर्तिषते । वत्स्यति वविष्यते । विवृत्सति, विवर्धिषते। कल्प्स्यति, कल्पिष्यते । चिक्लृप्सति, चिकल्पिषते । स्यसनोरिति किम् ? वर्तते । 

लुटि क्ऌपः ॥ १४५

लुटि कृपस्तङानां वा भवन्ति । कल्प्ता, कल्पिता । 

युष्मदि मध्ममत्रयम् ॥ १४६  

युष्मदि कारके प्रयुज्यमाने तडामतडा च मध्यमत्रय भवति । त्वं पचसि, युवां पचथः, यूयं पचथ । त्व पचसे, युवां पचेथे, यूयं पचध्वे। सामर्थ्यलभ्यमानत्वादप्रयुज्यमानेऽपि मध्यमत्रयं पचसि, पचथः, पचथ । पचसे, पचेथे, पचध्वे । 

अस्मद्युत्तमम् ॥ १४७

अस्मदि कारके प्रयुज्यमाने तङातङां च मध्यमत्रयं भवति । अहं पचामि, आवां पचावः, वयं पचामः । अहं पचे, आवां पचावहे, वयं पचामहे । एवमप्रयुज्यमानेऽपि । प्रथमत्रयं तु सामान्यविहितमध्यमोत्तमाभ्यां युष्मदस्मद्विषये बाधितत्वाच्छेषेऽवतिष्ठते । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पितेति स्वविषय एव मध्यमोत्तमौ भवतः । 

एकद्विबहुषु ॥ १४८  

यथोक्तं त्रयमेकद्विबहुषु यथाक्रमं भवति । स पचति, तौ पचतः, 

 ते पचन्ति । इत्येवमादि । 

इति चान्द्रे व्याकरणे प्रथमोऽध्यायः समाप्तः । 

Previous Post
Next Post

© 2025 All rights reserved.