व्याप्यादण् ॥ १ ॥
क्रियाया यद् व्याप्य ततः परात् क्रियार्थादण् भवति । कुम्भं करोति, कुम्भकारः । काण्डलावः | वेदाध्यायः । बहुलाधिकारादिह न भवति । आदित्यं पश्यति । हिमवन्तं शृणोति । ग्रामं गच्छति । कथं मासशीला, मासकामा, मासभक्षा, कल्याणाचारा, कल्याणप्रतीक्षा, दुःखक्षमेति ? मासे शीलमस्याः, मांसशीला । एव सर्वत्र योज्यम् । यद्येवम्भोऽभिगमोऽस्या अम्भोऽभिगमेति प्राप्नोति, अम्भोऽभिगामीति चेष्यते । न भविष्यति, समासप्रकरणेऽपि बहुलाविकारात् ।
आतोऽप्रादेः कः ॥ २ ॥
आकारान्तात् प्रादिरहितात् को भवति । गोदः, कम्बलदः । अप्रादेरिति किम् ? वडवासन्दायः । बहुलमित्येव । स्वर्गह्वायः, तन्त्रवायः, धान्यमायः, गोदायो व्रजतीति । सप्रादेरपि क्वचिद् भवति । प्रपाप्रदः, पथिप्रज्ञः, गोसख्यः । पूर्वक एवायं कः । अण् तु न सर्वत्रेत्युक्तम् ।
सुपः ॥ ३ ॥
सुबन्तात् परादाकारान्तात् क्रियार्थात् को भवति । कच्छेन पिबति, कच्छपः । द्वाभ्यां पिबति द्विपः | पादपः । समे तिष्ठति, समस्थः । विषमस्थः । तुन्दं परिमाष्टि, तुन्दपरिमृजः । पूर्वकः एव चायं कः । अलस एवोच्यते । एव शोकमपनुदतीति शोकापनुदः पुत्रो जातः, आनन्दकर एवोच्यते । अन्यत्र तुन्दपरिमार्जः शोकापनोदः | एव मूलानि विभुजतीति मूलविभुजो रथः । नखमुचानि धनूषि । काकगुहास्तिला । अंशं हरतीति श्वपचादिवदच् । अंशहर । पूर्ववदणभावः । उद्यमने तु दृश्यते भारहारः | एवं कवचहरः क्षत्रियकुमारः | एव ताच्छील्ये पुष्पाहर इति । तथा पूजार्हा ब्राह्मणी । स्तम्बेरमो हस्ती । कर्णेजपः सूचकः । सप्तम्या बहुलम् [ ५|२| ११] इत्यलुक् । शक्तिग्रहः, लाङ्गलग्रहः अङ्कुशग्रहः, यष्टिग्रहः, तोमरग्रहः, घटग्रहः, घटीग्रहः, धनुर्ग्रह इति सर्वमचा सिद्धम् । एवं सूत्रग्रह इति धारणे, अन्यत्र सूत्रग्राहः । सज्ञायामपि । शं करोति, शङ्करः । खे शेते, खशयः । पार्श्वेन शेते, पार्श्वशयः । उत्तानं शेते, उत्तानशयः । दिग्धसहशय इति समासद्वयम् । किङ्करा यत्करा, तत्करा, बहुकरेति पूर्ववदेवाच ।
चरेष्टः ॥ ४ ॥
सुपः पराच्चरतेष्टो भवति । कुरुषु चरति
कुरुचरः । कुरुचरी । भिक्षायां चरति, भिक्षाचरः । सेनायां चरति सेनाचर । आदायचरः | बहुलाधिकारादिह न भवति — कुरुश्चरतीति ।
पुरोऽग्रतोऽग्रेभ्यः सर्वेः ॥ ५ ॥
पुरस् अग्रतस् अग्र इत्येतेभ्यः परात् सर्तेष्टो भवति । पुरःसरः, पुरःसरी । अग्रतःसरः, अग्रतःसरी । अग्रेसरः, अग्रसरी । निपातनादलुक्, असख्यमेकारान्तं वा ।
पूर्वात् कर्तुः ॥ ६ ॥
पूर्वशब्दात् कर्तृवाचिनः परात् सर्वेष्टो भवति । पूर्वसर्ता, पूर्वसरः । पूर्वसरी । कर्तुरिति किम् ? पूर्वं सरति, पूर्वसारः |
कुञो हेतुशीलातुलोमेषु ||७|
सुपः परात् करोतेर्हेतौ कर्तरि शीले वा गम्यमानेऽनुलोमे वा कर्तरि टो भवति । प्रतीतशक्तिकं कारणं हेतुः । विद्या यशस्करी । कन्या शोककरी । धनं कुलकरम् । शीलः प्रकृतिः । श्राद्धकरः । अनुलोमोऽनुकूलः । वचनकरः । एवम् दिवाकरः, दिवसकरः, दिनकरः, निशाकरः, रजनीकरः, क्षपाकरः, विभाकरः, प्रभाकरः, भास्करः कस्कादित्वात् सकारः कारकरः, अन्तकरः, अनन्तकरः, आदिकरः, बहुकरः, नान्दीकरः, किङ्करः, लिपिकरः, लिबिकरः, बलिकरः, भक्तिकरः, कर्तृकरः, चित्रकरः, क्षेत्रकरः, एककरः जङ्घाकरः, बाहुकरः, अहस्करः, यत्करः, तत्करः, धनुष्करः, अरुष्करः, कर्मकरः, घटीकर इत्यादि । हेत्वादिष्विति किम् ? कुम्भकारः कर्मकारः, शब्दकारः, श्लोककारः, कलहकारः, गाथाकारः, वैरकारः, चाटुकारः, सूत्रकारः, मन्त्रकारः, पदकारः, क्रमकारः । कुम्भादिकरणशीलेषु तु बहुलाविकारान् न भविष्यति ।
स्तम्बशकृद्भ्यां व्रीहिवत्सयोरिन् ॥८॥
स्तम्बशकृद्भयां परात् करोतेर्त्री हिवत्सयोरर्थयोरिन् भवति । नकार आद्युदात्तार्थः । स्तम्बकरिव्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोरिति किम् ? स्तम्बकारः, शकृत्कारः ।
हृञो दृतिनाथात् पशौ ||९ ।
हरतेदृ तिनाथाभ्या परात् पशौ कर्तरि इन् भवति । दृतिहारि पशु । नाथहरिः । पशाविति किम् ? दृतिहार, नाथहार ।
फलेग्रहिरात्मम्भरिः कुक्षिम्भरिः ॥१०॥
एते शब्दा निपात्यन्ते । फलानि गृह्णाति, फलेग्रहिः । आत्मानमेव बिभर्ति, आत्मम्भरिः । कुक्षिमेव बिभर्ति, कुक्षिम्भरिः ।
एजे खश्॥११॥
एजयतेः सुपः परात् खश् भवति । खकारः खिति ससख्यस्य [५।२७५ ] इति विशेषणार्थः । अङ्गमेजयः जनमेजयः ।
शुनीस्तनाद धेट् ||१२||
शुनीस्तनाभ्यां पराद् धेट् खश् भवति । शुनिन्धयः, शुनिन्धयी । स्तनन्धयः, स्तनन्धयी । प्रकृतावानर्थक्याट् टकारो ङीबर्थो विज्ञायते ।
नासिकानाडीमुष्टिघटीखरीभ्यः ॥ १३॥
एतेभ्यः पराद् धेटः खश् भवति । नासिकन्धयः, नाडिन्धयः, मुष्टिन्धयः, घटिन्धयः खरिन्धयः ।
ध्मः पाण्यादिभ्यश्च ॥ १४॥
धमतेर्नासिकादिभ्यः पाण्यादिभ्यश्च परात् खश् भवति । नासिकन्धमः, नाडिन्धमः, मुष्टिन्धमः, घटिन्धमः खरिन्धमः | पाणिन्धमः, करन्धमः, वातन्धमः इत्यादि ।
कुलादुदो रुजिवहः ॥ १५ ॥
कुलपूर्वाद् उद्पराभ्यां रुजिवहिभ्यां खश् भवति । कूलमुद्रुजः,कूलमुद्वहः ।
वहाभ्राल्लिहः ॥ १६ ॥
वहाभ्राभ्यां पराल्लिहः खश् भवति । वहलिहो गौः । अलिहो वायुः ।
परिमाणात् पचः ॥ १७ ॥
परिमाणार्थात् परात् पचतेः खश् भवति । द्रोणम्पचा स्थाली । खारिम्पचः कटाहः ।
मितनखात् ॥ १८ ॥
मितनखाभ्यां परात् पचतेः खश् भवति । मितम्पचा ब्राह्मणी । नखम्पचा यवागूः
विध्वरुस्तिलात्तु दः ॥ १९॥
विध्वादिपूर्वात् तुदतेः खश् भवति । विधुन्तुदः, अरुन्तुदः, तिलन्तुदः ।
वातमजशर्धं जहेरम्मदपरन्तपद्विषन्तपभगन्दरपुरन्दराः ॥२०॥
एते शब्दा निपात्यन्ते । वातमजन्तीति वातमजाः मृगाः । शर्धं जहति, शर्धजहा भाषा । इरया माद्यति इरम्मदः । परं तापयति, परन्तप । द्विषन्तं तापयति, द्विषन्तपः । भगं दारयति, भगन्दरः । पुरं दारयति, पुरन्दरः ।
उग्रासूर्याद्दशः ||२१||
उग्रासूर्याभ्यां पराद् दृशः खश् भवति । उग्रं पश्यति, उग्रम्पश्य । सूर्यं न पश्यन्ति, असूर्यम्पश्यानि मुखानि । दृशिना सम्बद्धस्य नञः सूर्येण सहैकार्थ्यं गमकत्वात् ।
ललाटात् तपः ॥ २२ ॥
ललाटात् परात् तपतः खश् भवति । ललाटन्तपः । सूर्यादि ।
प्रियवशाद्वदः ||२३||
प्रियवशाभ्यां पराद् वदः खश् भवति । प्रियंवदः, वंशवदः ।
वाचंयमो व्रते ॥ २४ ॥
वाचयम इति निपात्यते व्रते गम्यमाने । वाग्यामोयत्र ।
सर्वात् सह ||२५||
सर्वशब्दात् परात् सहतेः खश् भवति । सर्वंसहः ।
कूलाभ्रकरीषाच्च कषः ॥२६॥
कलादिभ्यः सर्वाच्च परात् कषतेः खश् भवति । कूलङ्कषा नदी । अभ्रङ्कषी गिरि । करीषङ्कषा वात्या । सर्वङ्कषः खलः |
मेघर्तिभयात् कृञः खः ||२७||
मेघादिभ्यः परात् करोतेः खो भवति । मेघङ्करः, ऋतिङ्करः, भयङ्करः । कथमभयङ्करः ? भयेन सुबन्तस्य तदन्तविधिः |
क्षेमप्रियमद्रादण् च ॥ २८ ॥
क्षेमादिभ्यः परात् करोतेः खो भवति, अण् च । क्षेमङ्करः, क्षेमकारः । प्रियङ्करः, प्रियकारः । मद्रङ्कर, मद्रकारः | अणुग्रहणं हेत्वादिषु प्रतिषेधार्थम् ।
आशिताद्भुवो भावकरणयोः ॥ २९ ॥
आशितशब्दात् पराद्भवतेर्भावे करणे च खो भवति । दुखमाशितम्भवम् । अलमाशितम्भव ओदनः ।
भृवृतजिसहितपिदमो नाम्नि ||३०||
एभ्यः सज्ञायां खो भवति । विश्वम्भरा वसुधा । पतिवरा कन्या । रथन्तरं साम । शत्रुञ्जयः । शत्रुंसह । शत्रुन्तपः । अरिन्दमः ।
धारेर्धर् च ॥ ३१ ॥
धारयतेः सुपः परात् खो भवति, घरादेशश्च । वसुन्धरा ।
गम ||३२||
सुप पराद् गमः खो भवति । सुतङ्गमः, भुजङ्गमः, मितङ्गमा हस्तिनी, पूर्वङ्गमाः पन्थानः, हृदयङ्गमा वाचः ।
विहायसो विह च ||३३||
विहायसः पराद् गमः खो भवति, विह इत्ययं चादेशः । विहङ्गमः ।
खड् ||३४||
सुपः पराद् गमः खड् भवति । तुरङ्गः, भुजङ्गः, प्रवङ्गः, प्लवङ्गः । वहायसो विह् चत्येव । विहङ्गः ।
ड ||३५||
सुप पराद् गमेर्डो भवति । भुजंगः, तुरंगः, प्रवगः, प्लवगः, पतंगः, अन्तगः, अत्यन्तगः, अध्वगः, दूरगः, पारगः, सर्वगः, अनन्तगः, सर्वत्रगः, पन्नगः, ग्रामगः, गुरुतल्पगः, सुगः, दुर्गः, निर्गोदेशः । विहायसो विह चेत्यव । विहगः |
उरग ||३६||
अयं शब्दो निपात्यते । उरसा गच्छति, उरगः ।
हन ||३७||
सुपः पराद्धन्तेर्डो भवति । क्लेशमपहन्तीति क्लेशापहः । तिमि वव्यात्, तिमिहः । तमोऽपहः | दुखापहः | पटहः । कथं दावघाटः ? घटतेर्भविष्यति । एव चानघाटः, वर्णसघाटः । च वहन्तीति चाघातः । एव वर्णसघातः । दार्वाघातोऽपि तर्हि प्राप्नोति ? असंज्ञायामिष्यत एव ।
शीर्षकुमाराण् णिनि ||३८||
शीर्षकुमाराभ्यां पराद्धन्तेर्णिनिर्भवति । शीर्षघाती, कुमारघाती ।
टक् ||३९||
सुपः पराद्वन्तेर्बहुलं टग् भवति । जायाघ्नस्तिलकालकः । पतिघ्नी पाणिलेखा । जायाघ्नो ब्राह्मणः । पतिघ्नी वृषली । श्लेष्मघ्नं त्रिकटुकम् । पित्तघ्नं घृतम् । वातघ्नं तैलम् । कृतघ्नः खलः | शत्रुघ्नः शूरः । गोघ्नोऽतिथिरिति बहुलाधिकारात् सम्प्रदानेऽपि ।
शक्तौ हस्तिकपाटात् ॥४०॥
शक्तौ गम्यमानायां हस्तिकपाटाभ्यां पराद्धन्तेष्टम् भवति | हस्तिघ्नः । कपाटघ्नः । शक्ताविति किम् ? हस्तिघातः, कपाटघातः | हस्तिकपाटादिति किम् ? चौरघातः ।
नगरादहस्तिनि ॥४१॥
नगरात् पराद्धन्तेरहस्तिनि कर्तरि टग् भवति । नगरघ्नोऽग्निः । अहस्तिनीति किम् ? नगरघातो हस्ती ।
पाणिघताडघौ शिल्पिनि ॥४२॥
एतौ शब्दौ शिल्पिनि कर्तरि निपात्येते । पाणिभ्यां हन्ति पाणिं वा हन्ति, पाणिघः । ताडं हन्ति, ताडघः । शिल्पिनीति किम् ? पाणिघातः ताडघातः |
राजयः ||४३||
अथ शब्दो निपात्यते । राजानं हन्ति, राजघः ।
गः ॥ ४४॥
सुपः पराद् गायतेष्टग् भवति । वक्त्रगः, वक्त्रगी |
। सामगः,सामगी । बहुलमित्येव । सामसंगायः ।
शीधुसुरात् पिबः || ४५||
शीधुसुरापूर्वात् पिबादेशसम्बन्धिनः पा पाने [ धातुपा० १।२७४ ] इत्येतस्माट्टग् भवति । शीधुपः, शीधुपी । सुरापः सुरापी । शीधुसुरादिति किम् ? क्षीरपा । पिब इति किम् ? सुरां पाति, सुरा । कथं संज्ञायां सुरापा सुरापीति ? तत्र व्युत्पत्त्यर्थत्वात् क्रियाया द्वयमपि भविष्यति ।
सुभगाढ्यस्थलपलितनशान्धप्रियादच्वेर्भुवः खिष्णुच खुकञौ ॥४६॥
सुभगादिभ्योऽच्च्यन्तेभ्यश्च्विसादृश्याच्च्व्यर्थे वर्तमानेभ्यः पराद्भवतेः कर्तरि खिष्णुच्खुकञौ भवतः । सुभगम्भविष्णुः, सुभगम्भावुकः । आठप्रम्भविष्णुः, आढग्रम्भावुकः । स्थूलम्भविष्णुः, स्थूलम्भावकः । पलितम्भविष्णुः, पलितम्भावुकः । नग्नम्भविष्णुः, नग्नम्भावुकः । अन्वम्भविष्णुः अन्धम्भावुकः । प्रियम्भविष्णुः प्रिय- म्भावुकः । अच्वेरिति किम् ? आग्रीभविता । स्वाप्रम्भविष्णुरित्यादि तदन्तविधिना सिद्धम् ।
कृञः करणे ख्युन् ॥४७॥
सुभगादिभ्योऽच्व्यन्तेभ्यश्च्विसादृश्याच्च्व्यर्थे वर्तमानेभ्य परात् करोतेः करणे कारके ख्युन् भवति । सुभगङ्करणम् । आढ्यङ्करणम् । स्वाढ्यङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् ।
स्पृशोऽनुदकात् क्विन् ॥४८॥
स्पृशोऽनुदकात् परात् क्विन् भवति । घृतं स्पृशतीति घृतस्पृक् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । अनुदकादिति किम् ? उदकस्पर्शः । ककारोऽदेङभावार्थः । नकारः क्विनः [६ | ३|६० ] इति चिह्नार्थः, इकारो वेरनचः [५|१|६४] इति [
चिह्नार्थः ] |
दधृगुष्णिक्क्रुञ्चः ॥ ४९॥
एते शब्दा क्विनन्ता निपात्यन्ते । धृषेर्द्वित्वमन्तोदात्तत्वं च । दधृक् । उत्पूर्वस्य स्निहेस्तकारलोपः षत्वं च । उष्णिक् । क्रुञ्चेरनुनासिकलोपाभावः । क्रुड् । ऋत्विक् स्रग् दिगिति निपातनात् सिद्धम् । ऋत्विग्भ्यः ० [ ४।१।१५१], सजो विनि [४२।१३७], दिगादिभ्य [३।३।१७] इति निपातनात् ।
अञ्चुयुजः ॥५०॥
अञ्चुयुजिभ्यां क्विन् भवति । प्रत्यङ्, युङ् 1
समानान्यत्यदादेरुपमानाद् व्याप्ये दृशः क्सकञौ च ॥५१॥
समानान्याभ्यां त्यदादिभ्यश्चोपमानेभ्यः पराद्दशेर्व्याप्ये क्सकञौ भवतः, क्विश्च । समान इव दृश्यते सदृक्षः सदृशः, सदृक् । अन्यादृक्षः, अन्यादृशः, अन्यादृक् । त्यादृक्षः, त्यादृशः, त्यादृक् । तादृक्षः, तादृशः, तादृक् । समानान्यत्यदादेरिति किम् ? वृक्ष इव दृश्यते । उपमाना- दिति किम् ? स दृश्यते । व्याप्य इति किम् ? स इव पश्यति । नकार ०कञ् क्वरप्ख्युन [२।३।१७] इति विशेषणार्थः ।
।
भजो ण्विः ॥ ५२॥
भजः सुपः पराण् ण्विः परो भवति । अर्धभाक् पादभाक् । क्विप्विज्मनिनक्वनिप्वनिपः ॥५३॥
क्विप् विच् मनिन् क्वनिप् वनिप् इत्येते क्रियार्थात् परे बहुलं भवन्ति । उखास्रत्, पर्णध्वत्, वेदिषत्, अण्डसू, द्विट्, प्रद्विद्, मित्रद्विद्, मित्रध्रुक्, गोधुक, अश्वयुक्, वेदवित्, काष्ठभित्, रज्जुच्छित्, गोजित्, ग्रामणी, अग्रणी, सेनानी सम्राट् विराट्, विभ्राद्, सस्यात्, क्रव्यात् । बहुलाधिकारादन्नाद, क्रव्याद् । विच् । रेट् । मनिन् । सुदामा । क्वनिप् । सुधीवा । वनिप् । भूरिदावा | इकारो वेरनचः [५|१|६४ ] इति चिह्नार्थः ।
दुहो दुघः ||५४||
दुहः सुप पराद् दुघः परो भवति । कामदुघा धेनुः । बहुलाधि कारात् कामधुक् ।
आवश्यके णिनिः ॥ ५५॥
अवश्यम्भावे गम्यमाने क्रियार्थाण् णिनिर्भवति । अवश्यन्दायी । शतं दायी ।
अजातेः शीलाभीक्ष्ण्ययोः ॥ ५६ ॥
अजातिवाचिनः सुप परात् क्रियार्थाच्छीलाभीक्ष्ण्ययोर्गम्यमानयोर्णिनिर्भवति । उष्णभोजी । क्षीरपायिना उशीनरा । उदासारी । प्रत्यासारी । अजातेरिति किम् ? ब्राह्मणानामन्त्रयिता ।
साधोः ॥५७॥
साधुशब्दात् परात् क्रियार्थाण्, णिनिर्भवति । साधुकारी साधुदायी । कथं ब्रह्मवादी ? ब्रह्मणो वादो ब्रह्मवादः, सोऽस्यास्तीति ब्रह्मवादी ।
कर्तुरुपमानात् ॥५८॥
कर्तृवाचिन उपमानार्थात् परात् क्रियार्थाण् णिनिर्भवति । उष्ट्र इव क्रोशति, उष्ट्रक्रोशी । उपमानादिति किम् ? शालीनिव कोद्रवान् भुङ्क्ते
कर्तुरिति किम् ? । उष्ट्रः क्रोशति ।
व्रते ||५९||
सुपः परात् क्रियाद् व्रते गम्यमाने णिनिर्भवति । अश्राद्धभोजी । अर्थित्वात् प्रवृत्तौ नियमः । सति भोजनेऽश्राद्धमेव भुङक्ते न श्राद्धमिति ।
मनः || ६०||
मन्यते सुपः पराण् णिनिर्भवति । पटुमानी ।
आत्मनि खश्च ॥ ६१ ॥
आत्मविषयान्मन्यते सुपः परात् खश् भवति णिनिश्च । पण्डितमात्मानं मन्यते, पण्डितम्मन्यः पण्डितमानी ।
भूते ॥ ६२॥
अयमधिकारः |
यजः ||६३||
यजतेः सुप पराद् भूतेऽर्थे वर्तमानाम् णिनिर्भवति । अग्निष्टो- मेनेष्टवान् अग्निष्टोमयाजी । भूत इत्येव । अग्निष्टोमेन यजते ।
हनः कुत्सायाम् || ६४॥
हन्तेः सुप परात् कुत्सायां गम्यमानायां णिनिर्भवति । पितृव्यघाती, मातुलघाती । कुतः सायामिति किम् ? चौरं हतवान् । ब्रह्महा भ्रूणहा वृत्रहेति पूर्वक एव क्विप् । अन्यपूर्वादपि दृश्यते । मधुहा । अन्योऽपि च दृश्यते । ब्रह्मघ्नः । वृत्रस्य हन्तुः [ कुमारसम्भव २।२० ] | अन्यतो- ऽपि च दृश्यते । ब्रह्मवित् । भूत एव भविष्यति, तत्र प्रसिद्धत्वाद् बहुलाधिकाराद्वा । एवं सुकृत्, कर्मकृत्, पापकृत्, मन्त्रकृत्, पुण्यकृदिति पूर्वेणैव सिद्धम् । अन्यपूर्वादपि च दृश्यते । सूत्रकृत्, शास्त्रकृत्, भाष्यकृत् । अन्यपूर्वोऽपि च दृश्यते । मन्त्रवित् । अन्योऽपि च दृश्यते । कर्मकारः, मन्त्रकारः । सोमसुदिति पूर्वेणैव सिद्धम् । अन्यपूर्वादपि च दृश्यते । सुरासुत् । अन्योऽपि च दृश्यते । सोमं सुतवान् । अग्निचित् श्यनचित्, कङ्कचिदिति पूर्वेणैव सिद्धम् । सोमविक्रयी घृतविक्रयी, तेलविक्रयी, क्षीरविक्रयी । विरुयशब्दादिनि भविष्यति । देवदृश्वा राजयुध्वा, राजकृत्वा, सहयुध्वा, सहकृत्वेति पूर्वेणैव क्वनिपा सिद्धम्, अनिष्टनिवृत्तिस्तु बहुलाविकारात् ।
ङः ॥६५॥
सुपः परात् क्रियार्थाद्भूते वर्तमानाद्बहुलं डो भवति । उपसरे जातः, उपसरजः । ब्राह्मणेभ्यो जातः, ब्राह्मणजो धर्मः, क्षत्रियजं युद्धम् बुद्धिजः सस्कारः । न जातोऽजः । द्विर्जातो द्विजः । प्रजाता प्रजा । अभिजा, परिजा । पुमनुजा । अनुजा । प्रह्नः । ब्रह्मज्यः | परिखाता परिखा । वरमाहतवान् वराहः ।
क्तवतुः ॥ ६६॥
क्रियार्थात् परो भूते काले कर्तरि क्तवतुर्भवति । गतवान् शयितवान् ।
भावाप्ययोः क्तः ॥ ६७॥
भावे प्राये चार्थे भूते वर्तमानात् क्रियार्थात् क्तो भवति । आसितो भवता । कृतः कटो भवता ।
कतरि चारम्भः ||६||
क्रियारम्भे कर्तरि क्तो भवति, यथाप्राप्तं च । प्रकृतो भवान् कटम् प्रकृतः कटो भवता । प्रसुप्तो भवान् प्रसुप्तः भवता ।
श्लिषशीङ्स्थासवसजनरुहजॄभ्यः ॥ ६९ ॥
श्लिषादिभ्यः कर्तरि क्तो भवति, यथाप्राप्तं च । आश्लिष्टो गुरुः भवान्, आश्लिष्टो गुरुर्भवता । अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता । उपस्थितो गुरुः भवान् उपस्थितो गुरुर्भवता । उपासितो गुरुः भवान् उपासितो गुरुर्भवता, अनूषितो गुरु भवान्, अनूषितो गुरुर्भवता । अनुजातो माणवको माणविकाम्, अनुजाता माणविका माणवकेन । आरूढो वृक्षो भवान्, आरूढो वृक्षो भवता । अनुजीर्णो वृषली देवदत्त, अनुजीर्णा वृषली देवदत्तन ।
गत्यर्थानाप्यादाधारे च ॥७०॥
गत्यर्थादिव्याप्याच्च क्रियार्थादाधारे क्तो भवति, कर्तरि च यथाप्राप्तं च । इदमेषां यातम्, इह ते याताः, इह तैर्यातम्, अयं तैर्यातः पन्था । इदमेपामासितम् इह त आसिता इह तैरासितम् । देवश्चेदृष्टः सम्पन्नाः शालय इति कारणसामग्रीसम्मत्तिरत्राभिमता ।
आहारार्थात् ॥७१॥
अभ्यवहारार्थदाधारे क्तो भवति यथाप्राप्तं च । इदमेषां भुक्तम्, इदमेषां पीतम् । इह तैर्भुक्तम्, इह त स्तैर्भुक्तं पीतमुदकम् । अकर्त्रर्थो योगविभागः । कथं पीता गाव इति ? पीतमासा विद्यत इति पीता, बाहुलकाद्वा ।
सुत्वा सुत्वानौ सुत्वान इति क्वनिपा सिद्धम् । यज्वा यज्वानौ यज्वान इति वनिपा सिद्धम् ।
जॄषोऽतृन् ॥७२॥
जीर्यतेरतृन् भवति । जरन् ( (Greek geron ), जरती ।
श्रुसद्वसो लिड् वा ॥ ७३ ॥
शणात्यादिभ्यो भूते लिड् वा भवति । उपशुभावः, उपाश्रोषीत्, उपाशृणोत् । उपससाद, उपासदत्, उपासीदत् । अनूवास, अन्ववात्सीत्, अन्ववसत् ।
लिटः क्वसुः ||७४ ||
लिटः क्वसुरादेशो वा भवति । उपशुश्रुवान्, उपशुश्राव । जग्मिवान्, जगाम ।
इयिवाननाश्वाननूचानः ॥७५ ||
लिङन्ता एते शब्दा वा निपात्यन्ते । ईयिवान् इयाय, उपेयिवान्, उपेयाय, समीयिवान्, समियाय । अनाश्वान्, नाश । अनूचान्, अनुवाचः ।
लुङ् ॥७६॥
भूते वर्तमानात् क्रियार्थाल्लुङ् भवति । अकार्षीत् । कथं रात्रि शेषेऽमुत्रावात्ममिति ? सकला रात्रिः जागरितो रात्रेर प्रभातत्वादद्यतनमिव कालो मन्यते । यस्तु मुहूर्तमपि सुप्तः सोऽनद्यतनमेव जानन्नाह । अमुत्रावसमिति । सर्वत्र च भूतकालसामान्यविवक्षायां लुङ् भवत्येव । यथा । अगमाम घोषान्, अपाम पयः, अशयिष्महि पूतितृणष्विति ।
अनद्यतने लङ् ॥७७॥
अविद्यमानाद्यतने भूतेऽर्थे वर्तमानात् क्रियार्थाल्लङ्, भवति । अपचत् । अनद्यतन इति किम् ? अपाक्षीत् । अन्यार्थं किम् ? अद्य ह्यो वाभुक्ष्महि ।
स्मृत्युक्तौ लृट् ॥७८॥
स्मृतिवचने सति भूतानद्यतनेऽर्थे लृड् भवति । स्मरसि देवदत्त कश्मीरेषु वत्स्यामः? अभिजानासि देवदत्त कलिङ्गेषु वत्स्यामः ?
न यदि ॥ ७९ ॥
यच्छब्दे प्रयुज्यमाने स्मृतिवचने सति भूतानद्यतनर्थे वर्तमानात् क्रियार्थालुड् भवति न । । स्मरसि देवदत्त यत् कश्मीरेष्ववसाम ?
वाकाङ्क्षायाम् ||८०||
क्रियान्तराकाङ्क्षायां सत्यां स्मृतिवचने प्रयुज्यमाने भूतानद्यतनेऽर्थे वर्तमानात् क्रियार्थाल्लड् वा भवति, यदि चायदि वा । स्मरसि देवदत्त यत् कश्मीरेषु वत्स्यामो यत् तत्रौदनं भोक्ष्यामहे । स्मरसि देवदत्त यत् कश्मीरेष्ववसाम यत् तत्रोदनमभुज्ज्महि ? स्मरसि देवदत्त कश्मीरेषु वत्स्यामस्तत्रोदनं भोक्ष्यामहे ? स्मरसि देवदत्त कश्मीरेष्ववसाम तत्रौदनमभुमहि ? इह कस्मान् न भवति – स्मरसि देवदत्त, इति ह कश्मीरेष्ववसाम, कश्मीरेषु शश्वदवसामेति ? व्यवस्थितविभाषया बहुलाविकाराद्वा ।
परोक्षे लिट् ॥ ८१ ॥
परोक्षसाधनविषये भूतानद्यतनेऽर्थे वर्तमानात् क्रियार्थाल्लिड् भवति । जगाम । सुप्तोऽह किल विललाप । मत्तोऽह किल विललाप । अत्यन्तापह्नवे प्रत्यक्षस्याप्यपह्न तत्वात् । । क कलिङ्गं जगाम? कामरूपं विवेश ? परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात् परोक्षत्वस्याविवक्षायां लड् भवत्येव । अजयज्जर्तो हूणानिति । सतोऽपि चाविवक्षा भवति, यथानुदरा कन्येति । एवम् इति हाकरोत् इति ह चकार । शश्वदकरोत्, शश्वच्चकार । किमगच्छत् पाटलिपुत्रम् ? किं जगाम ? कथं भूतानद्यतने परोक्षे चापरोक्षे च करोति स्म, वसन्तीह पुरा छात्रा इति ? स्मपुराशब्दाभ्यां भूते काले ज्ञापिते तस्मिन् काले वर्तमानत्वात् । यथा
भाषते राघवस्तदेति । ऊषुरिह पुरा छात्रा इति परोक्षे लिडस्त्येव । परोक्षत्वस्याविवक्षायाम् अवसन्निह पुरा छात्रा इति लड् । अनद्यतनस्याप्यविवक्षायाम् अवात्मुरिह पुरा छात्रा इति लुड् । पृष्टप्रतिवचने ननु करोमीति वर्तमाने क्रियाफलस्यानुवृत्तेः । एवम्, अह नु करोमोति । न करोमीति वर्तमानेऽपि प्रतिषेधः |
वर्तमाने लट् ॥ ८२॥
वर्तमानर्थे वर्तमानात् क्रियार्थालड् भवति । पचति, पठति । विदेः श्वसुः ||८३ ||
विदेः परस्य लटः श्वसुर्बहुलं भवति । विहान्, वेत्ति, विदन् ।
शतृ ॥ ८४ ॥
लटः शत्रादेशो भवति बहुलम् । सन् ब्राह्मणः, अस्ति ब्राह्मणः । जुह्वत्, जुहोति । हे पचन् । पचन्तं पश्य । पचता कृतम् । जल्पन्तो ज्ञायन्ते पण्डिताः । पठन्नास्ते । मा पचन् । धारयन्नुपनिषदम् । चौरस्य द्विषन् । चौर द्विषन् । सुन्वन्तः । अर्हन् ।
इङः शक्तौ ॥८५॥
इङः शक्तौ गम्यमानायां लटः शत्रादेशो भवति । अधीयन् पारायणम् शक्ताविति किम् ? शक्नोति । अधीते पारायणम्, न च शक्नोति।
शानच् ॥८६॥
लटः शानजादेशो भवति बहुलम् । पचमानः, पचते । हे पचमान । पचमानं पश्य । पवमानेन कृतम् । शयाना भुञ्जते यवना । अधीयान आस्ते । मा पचमानः । पूङ्यजोश्च शानच्याद्युदात्तत्वं वक्ष्यामः |
शक्तिवयःशीलेषु ॥ ८७॥
शक्त्यादिषु गम्यमानेषु लटः शानज् भवति ।पुनर्विधानादतडानभ्योऽपि । कतीह कण्वे निघ्नानाः ? कतीह जल्पमानाः ? कतीह कवचं पर्यस्यमानाः ? कतीह नृत्यमानाः ?
तौ लृटः ॥८८॥
तौ शतृशानची लूटोऽपि बहुलं भवतः । करिष्यन् करिष्यमाणः । करिष्यति, करिष्यते ।
शीलसाधुधर्मेषु तृन् ॥ ८९ ॥
शीलादिष्वर्थेषु क्रियार्थाद्बहुलं तृन् भवति । उपादाता कुमारकान् । गन्ता खेटम् । मुण्डयितारः श्राविष्ठायना भवन्ति वधूमूढाम् । शीलादिष्वित्यधिकारः पादपरिसमाप्तं यावत् । कथं होता पोता नेष्टा त्वष्टा क्षत्तेति ? औणादिका एवैते
निराअलम्भां कुरिष्णुच् ॥९०॥
निरा अलमित्येताभ्यां परात् कृञः शीलादिषु गम्यमानेष्विष्णुज् भवति । निराकरिष्णुः, अलङ्करिष्णुः ।
उद्ः पचपतमदः ॥९१॥
उदः परेभ्यः पचादिभ्यः शीलादिषु गम्यमानेप्विष्णुज् भवति । उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः ।
प्रजनरुच्यपत्रपट्टतुट्टधुसहचरभ्राजः ॥ ९२ ॥
एभ्यः शीलादिष्विष्णुज् भवति । प्रजनिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्णुः, सहिष्णुः, चरिष्णुः, भ्राजिष्णुः ।
भुवः ॥ ९३॥
भवतेरिष्णुज् भवति । भविष्णुः ।
जिग्लश्च क्त्नुः ॥ ९४ ॥
जयतेग्लयितेर्भवतेश्च शीलादिषु कुत्नुर्भवति । जिष्णुः, ग्लास्नुः,
स्थास्तुः ॥९५॥
स्थास्नुरितीत्वाभावो निपात्यते ।
त्रसिगृधिषिक्षिपेः क्रुः ॥९६॥
त्रसादिभ्यः शीलादिषु क्नुर्भवति । त्रस्नुः, गृध्नुः, धृष्णुः, क्षिप्तुः । शमादिभ्यो घिनुण् न वक्तव्यः । शमोऽस्यास्तीति शमी । एव दमी, तमी, श्रमी, भ्रमी, क्षमी, क्लमी, उन्मादी | तथा सम्पर्की, अनुरोधी, आयामी, आयासी, परिसारी, ससर्गी, परिदेवी, सज्वरी, सज्वारी, परिक्षेपी, परिराटी, परिवादी, परिवाही, परिमाही, दोपी, द्वेषी, द्रोही, दोही, योगी, आक्रीडी, विवेकी, त्यागी, रागी, भागी, अतिचारी, अपचारी, आमोषी, अभ्याघाती, विकाषी, विलासी, विकत्थी, विस्रम्भी अपलाषी, विलाषी, प्रलापी, प्रसारी, प्रद्रावी, प्रमाथी, प्रवादी, प्रवासी । अन्यपूर्वेभ्योऽपि दृश्यते । विरोधी प्रयामी प्रयासी, विसारी, विसर्गी, सवादी, विवादी, अनुवादी, विदाही, सञ्चारी, व्यभिचारी, विघाती, विद्रावी, सवासी । अन्येभ्योऽपि च दृश्यते । रोगी, भोगीत्यादि । तृनपि शमादिभ्यो यथादर्शन बहुलाधिकाराद् भविष्यति । प्रवदिता, प्रवसिता । निन्दा- दिभ्यो वुञ् च न वक्तव्य । निन्दक इति ण्वुला सिद्धम् एव हिंसकः, क्लेशकः, खादकः, विनाशकः, परिक्षेपकः परिराटकः, परिवादकः, व्याभाषकः, असूयकः, परिदेवकः, आक्रोशकः । अन्येभ्योऽपि च दृश्यते । घातकः, मारकः ।
चालशब्दार्थादनाप्यादुश्च ॥९७॥
चालार्थाच्छब्दार्थाच्च व्याप्यरहिताच्छीलादिषु युज् भवति । चालनं, चोपनं । रवणं, शब्दनं । अनाप्यादिति किम् ? पठिता विद्याम् ।
तङ्वतो हलादेरङः ||९८||
तवान् यो हलादिरङकारकस्तस्माच्छीलादिष्वथषु युज् भवति । वर्तनं, वर्धनं, देवनं । परिदेवक इति न भवति बहुलाधिकारात् । तड्वत इति किम् ? भविता । हलादेरिति किम् ? एधिता । आदिग्रहणं किम् ? जुगुप्सनं, तितिक्षणं इत्यत्रापि यथा स्यात् । अङ इति किम् ? शयिता । अनाप्यादित्येव । वसिता वस्त्रम् ।
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ ९९ ॥
एभ्यः शीलादिषु युज् भवति । जवनः चक्रमणः, दन्द्रमणः, सरणः, गर्धनः, ज्वलनं, शोचनं, अभिलषणः, प्रपतनः, प्रपदनः । चलनार्थानां पदेश्च ग्रहणं व्याप्यवदर्थम् । पदिग्रहणमुकञा बाधितस्य युचः पुनविधानार्थमित्येके । तदनर्थकं बहुलाधिकारात् । ताच्छीलिकेषूत्सर्गस्यापवादसमावेशा भावज्ञापनार्थमित्यपरे । तथाप्यनर्थकं समावेशस्यापि दर्शनात् । तथा हि । गामुको गन्तेति समावेशोऽपि दृश्यते । एवं विकत्थी विकत्थन इति भासुरः भास्वरः भासनमिति, जागरिता जागरूक इति, वर्धिष्णुर्वर्धन इति, अपलाषुकोऽपलषण इति । तस्माद् बहुलाधिकारादेवात्र सिद्धम् ।
क्रुधभूषार्थात् ॥ १०० ॥
कोधार्थेभ्यो मण्डनार्थेभ्यश्च शीलादिषु युज् भवति । क्रोधनः, कोपनः | भूषणः, मण्डनः ।
न यदीक्षः ॥ १०१ ॥
यकारान्ताद्दीक्षश्च युज् न भवति । क्नुयिता । दीक्षिता । सूदि- दीपिभ्यां प्रतिषेधो वक्तव्यः सूदिता, दीपिता ? न वक्तव्यः | अरिसूदन इतीह दृश्यते । दीपेरपि रो बाधको भविष्यति । कथं तर्हि दीपिता ? तुनो रेणः समावेशो भविष्यति, युचो न भविष्यति, बहुलाधिकारात् ।
लषपतपदस्थाभूशवृषहनकमगम उकञ् ॥ १०२ ॥
लषादिभ्यः शीलादिषूकञ् भवति । अपलाषुकः, प्रपातुकः उपपादुकः, उपस्थायुकः, प्रभावुकः, प्रशारुकः, प्रवर्षुकः, आघातुकः, कामुकः, आगामुकः ।
जल्पभिक्षकुलुण्टङः षाकन् ॥ १०३॥
जल्पादिभ्यः शीलादिषु षाकन् भवति । जल्पाकः, भिक्षाकः, कुट्टाकः, लुण्टाकः, वराकः । षकारो ङीषर्थः, जल्पाकी । कथं प्रजवी ? प्रजवोऽस्यास्तीति प्रजवी । एवं विजयी, दरी, क्षयी, विश्रयी, अत्ययी, वसा, अव्यथी, अभ्यमी, परिभवी, प्रसवीति ।
स्पृहिगृहिपतिशीङ आलुच् ॥ १०४ ॥
एभ्यः शीलादिष्वालुज् भवति । स्पृहयालुः, गृहयालुः, पतयालुः, शयालुः । कथं दयालुः, निद्रालुः, तन्द्रालुः, श्रद्धालुरिति ? मत्वर्थीयं वक्ष्याम [४/२/१५७] ।
धेसिशदसदो रुः ॥ १०५ ॥
धादिभ्यः शीलादिषु रुर्भवति । धारुः, सेरुः, शत्रुः, सद्रुः । कथं दारु ? अङ्गुलेर्दारुणि [ ४/४/९७ ] इति निपातनात् ।
सृघसदः क्मरच ॥१०६॥
एभ्यः क्मरज् भवति । सृमरः, घस्मरः,अद्मरः ।
भञ्जिभासिमिदो घुरच् ॥१०७॥
भञ्जादिभ्यो घुरज् भवति । भज्यते स्वयमेव भनक्ति वात्मानम्, भङ्गुरं काष्ठम् । यस्तु परं भनक्ति तत्र न भवति बहुलाधिकारात् । भासत इति भासुरः । मेदुरः ।
विदिभिदिच्छिदेः कुरच् ॥ १०८॥
विदादिभ्यः कुरज् भवति । वेत्तीति विदुरः । भिद्यते स्वयमेव भिनत्ति वात्मानम् भिदुरः । छिद्यते स्वयमेव छिनत्ति वात्मानम्, छिदुरः । यस्तु परं भिनत्ति छिनत्ति वा तत्र न भवति, बहुलाधिकारात् । तत्रापि केचिदिच्छन्ति – दोषान्धकारभिदुरो दृप्तारिपक्षच्छिदुर इति ।
इण् जिसृनशः करप् ॥१०९॥
इणादिभ्यः क्वरब् भवति । इत्वरः, जित्वरः, सृत्वरः, विनश्वरः ।
गत्वरः ।। ११० ।।
गत्वर इति निपात्यते ।
यजजपदहदशो यङः ॥। ११२ ।
यजादिभ्यो यडन्तेभ्य ऊकः परो भवति । यायजूकः, जञ्जपूकः, दन्दहूकः, दन्दशूकः ।
सहिचलिवहः किकिनौ ||११३ ||
सहादिभ्यो यडन्तेभ्यः किकिनौ परौ भवतः । सासहिः, चाचलिः, वावहिः ।
पापतिः ||११४ ॥
पापतिरिति नीगभावो निपात्यते ।
चक्रिसस्रिजज्ञय ||११५ ॥
चादयो निपात्यन्ते । कथं दधि ? अस्थिदधि० [ ५|४ | ३१] इति निपातनात् सिद्धम् । नेमिरित्यौणादिकः [१/६४] |
स्म्यजसहिंसदीपनमकमकम्पो रः ॥ ११६ ॥
स्म्यादिभ्यो रो भवति । स्मेःर, अजस्रम्, हिस्रः, दीघ्रः, नम्रः,
। कम्रः, कम्प्रः । युजपि भवत्येव । कमनः, कम्पन इति ।
सनाशंस उः ॥११७॥
सनन्तेभ्य आशसश्च उः परो भवति । चिकीर्षुः । आशसुः ।
विन्दुरिच्छुः ॥ ११८ ॥
एतौ शब्दौ निपात्येते।
स्वप्नक् तृष्णक् ॥ ११९॥
स्वपितृषो नजिङ् निपात्यते ।
शॄवन्देरारुः ॥१२०॥
शृणातेर्वन्दतेश्च आरुः परो भवति । शरारुः, वन्दारुः |
भियः क्रुः ॥ १२१ ॥
बिभेतेः क्रुः परो भवति । भीरुः । कना भीरुकः । लत्वेन | भीलुकः ।
स्थाभासपिसकसो वरच ॥१२२॥
स्थादिभ्यो वरज् भवति । स्थावरः । ईश्वरार्थात् ० [२२/६९ ] इति ईश्वरः । भास्वरः, पेस्वरः, कस्वरः ।
यो यङः ॥१२३||
यातेर्यङन्ताद् वरज् भवति । यायावरः । कथं भ्राट्, भा, धूः विद्युत्, ऊर्क्, पूः, ग्रावस्तुत्, स्वयम्भूः प्रतिभूरिति ? क्विपा पूर्वण सिद्धम् । वाक् प्राट्, श्रीः, शतद्रुः, कटप्रूः, स्रूः, जूरित्यौणादिका [३/६९] | एवमायतस्तू, जुहूः, दिद्युत्, जगत् ददूदिति । धीरिति सुप्यसुधिय [५/३/८९] इति निपातनात् सिद्धम् । विभुः, प्रभुः, सम्भुः, शम्भुः, मितद्रु- रित्योणादिका [ १ २१] । धात्री, दात्रम्, नेत्रम्, शस्त्रम्, योत्रम्, योक्त्रम्, स्तोत्रम् तोत्तम्, सेत्रम्, सेक्त्रम्, मेड्ढम्, पत्तम्, दष्ट्रा, नीति करणे ष्ट्रनौणादिका [ ३।४२ ] | तथा हलस्य पोत्रम्, सूकरस्य पोत्रम्, अरित्रम्, लवित्रम्, धवित्रम्, सवित्रम्, खनित्रम्, सहित्रम्, चरित्रम्, पवित्रम् । यज्ञे पवित्रम्, पवित्रा नाम नदी पवित्रो नाम ऋषि, पवित्रोऽग्निरिति । प्रक्ष्विण्ण इति यत्राभूतकालता तत्र क्तः । एव राज्ञा मत, राज्ञामिष्टः, राज्ञा बुद्धः, राज्ञा पूजितः । एव शीलितः, रक्षितः, क्षान्तः, आक्रुष्टः, जुष्टः, रुष्टः, रुषितः, अभिव्याहृतः, दयितः, हृष्टः, कान्तः, संयतः, उद्यतः, अमृत इति । कष्टमिति भूततायामेव हेतोः, फल त्वत्र भावि ।
इति चान्द्र व्याकरणे प्रथमाध्यायस्य द्वितीयः पादः समाप्तः |