चान्द्रव्याकरणम्(प्रथमखण्डम्) प्रथमोऽध्यायः प्रथमः पाद:

श्रीः
चान्द्रव्याकरणम् 
नमो वागीश्वराय । 

अथ किमर्थो वर्णानामुपदेशः ? प्रत्याहारार्थः । प्रत्याहारो हि लाघवेन शास्त्रप्रवृत्त्यर्थः 

अ इ उ ण ॥ १ [ शिवसूत्रम् ] 

अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवत्येकेन । ऋकोऽणो रलो [१|१|१५] इत्यकारेण । जातिनिर्देशश्चायम् । 

ॠ ऌ ॥ २ [ शि० २] 

ॠ ख इत्येतौ वर्णावुपदिश्य पूर्वाश्चान्ते ककारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति चतुर्भिः । अकोऽकि दीर्घ [५|१|१०६ ] इत्यकारेण, इको यणचि [५||७४] इतीकारेण, उगित [ ५|२|४४] इत्युकारेण ऋकोऽणो रलौ [१|१|१५] इत्युकारेण | अकारादयो वर्णा प्रचुरप्रयोगविषयाः, तेषां सुज्ञानमुपदेशप्रयोजनम् । ऌकारस्तु क्ऌपिस्थ एव प्रयुज्यते क्लऌपेश्च पूर्वत्रासिद्धम् [ ६|३|२७ ] इति लत्वमसिद्धम्, तत ऋकार एवाच्कार्याणि भविष्यन्तीति किमर्थम् लकार उपदिश्यते । लत्वविधानाद यानि पराण्यच्कार्याणि तान्य् ऌकारे यथा स्युरिति । कानि पुनस्तानि प्लुतः स्वरितो द्विर्वचनञ्च । क्ऌ३प्तशिखः प्रक्ऌप्तः क्ऌप्तवानिति । यच्चाशक्तिजमसाधशब्दरूपं तदनुकरणस्यापि साधुत्वमिष्यते, तत्स्थस्याप्य् – ऌकारस्याच्कार्यप्रतिपत्तार्थमुपदेशः क्रियते । ऋतक इति प्रयोक्तव्ये शक्तिवैकल्यात् कुमार्या लृतक इति प्रयुक्तम् । तमन्योऽनुकरोति – कुमार्य् ऌतक इतीय माहेति । 

ओ ङ्॥ ३ [ शि०३

ए ओ इत्येतौ वर्णावुपदिश्य 

पूर्वाश्चान्ते । डकारमितम करोति 

प्रत्याहारार्थम् । तस्योच्चारणम भवत्येकेन – इकोऽदेङ क्रियार्थाया [६।२।१] इत्येकारेण । 

ऐ औ च् [ शि०४ ] 

ऐ औ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते कारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति चतुर्भिः । अच आदेज्झेतुररक्तविकारे [५/२/३६ ] इत्यकारेण, खितीच एकाचोऽम [५|२|४] इतीकारेण, एचोऽयवायाव [५।११७५] इत्येकारेण, अजागृ- णिश्वीनां सिच्यतङ्यादैच् [ ६ | ११३] इत्येकारेण । 

प्रत्याहारेऽनुबन्धाना कथमज्ग्रहणेषु न । ज्ञापकादप्रधानत्वाल्लोपश्च बलवानिति ||

वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति । 

तच्छायानुकारिणो हि ते न पुनस्त एव । पृथक् प्रयत्नं निर्वर्त्य हि वणमिच्छन्त्याचार्याः । नुग् विधिलादेशणत्वेष्वृकारे प्रतिविधातव्यम् । 

हयवरलण्  

ह य व र ल इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते णकारमित करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति द्वाभ्याम् । इण ष [ |४|३४ ] इतीकारेण, इको यणचि [५।१।७४ ] इति यकारेण । इणग्रहणानि सर्वाण्यनेन णकारेण, अण्ग्रहणानि तु पूर्वेण णकारेण । जातिनिर्देशश्चायम् । अय रेफो यकारात् पर उपदिश्यते । तस्य यरुपादाने ययुपादाने यमुपादाने चोपादाने सति प्रातर्नयतीत्यत्र यरो ञमि अम् वा [ ६।४।१४० ] इति ञमादेशं प्राप्नोति, नदीह्रद इत्यत्राचो रहाद् द्वे [ ६।४।१४१ ] इति द्विर्वचनं प्राप्नोति, नर रथेनेत्यत्रानुस्वारस्य ययि यम् [ ६|४|१५१ ] इति यमादेशं प्राप्नोति । नैष दोष । आकृतौ पदार्थे समुदाये सकृल्लक्ष्ये लक्षणं प्रवर्तत इति दर्शने यरो ञमि ञम् वा [ |४|१४० ] इति ञम् प्रत्यासन्नतरो भवतीत्येवमेतत् प्रवर्तते । तदनेन गकारादीनां डकारादयो ये यथा स्वस्थानतो गुणतश्च प्रत्यासन्नतरास्ते विहिता । ये च न स्थानतो नापि गुणतश्च स्थानमात्रेण गुणमात्रेण च ते सर्वे निवर्तिता इति स्थानमात्रेण प्रत्यासन्नो रेफस्य णकारो न भवति । द्विर्वचनेऽपि रेफस्य यरन्तर्भावेऽपि सति यत् कार्यित्वं प्राप्तं तत् साक्षाच्छिष्टेन निमित्तभावेन बाध्यत इति न द्विरुच्यते रेफः । अनुस्वारस्य ययि यम् [ ६।४।१५१] इत्येतदप्यनुस्वारस्य निमि प्रत्यासन्नतरं सकृदेव यम् विदधाति । न च रेफस्य निमित्तस्यानुनासिकः प्रत्यासन्नतरोऽस्तीति न भविष्यति नरो रथेनेत्यत्र । अत्र हकारादिष्वकार उच्चारणार्थ, अन्यत्र प्रयोजनाभावात्, हलामपि जातिनिर्देशात् ॥ 

ञमङणनम् |||| [शि० ] 

ञ म ङ ण न इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते गकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति पञ्चभिः । शरछोऽमि [ १५७ ] इत्यकारेण, अनुस्वारस्य ययि यम् | ६|४|१५१ ] इति यकारेण, यरो ञमि ञम् वा [ ६|४|१४० ] इति ञकारेण विन्मतोर्मम्  इनि मकारेण, ङमो ह्रस्वाद् द्वे [ ६|४|१७ ] इति ङकारेण । केचित्तु सर्वाण्येतानि प्रत्याहारग्रहणानि नकारेण भवन्त्विति मकारानुबन्धं प्रत्याचक्षते । तथा च सति ञमो ह्रस्वाद् द्वे [ ६१४/१७ ] इति द्वित्वभाजोर्झभोरभावाद् द्वित्वाभावप्रतिपत्तौ प्रतिपत्तिगोरवं स्यात् । 

झभञ् ७॥ [ शि० ] 

झ भ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवत्येकेन – अत आद् यञि[६|२|३९] इति यकारेण । 

घढधष् ८॥ [ शि० ] 

घ ढ ध इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते कारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति द्वाभ्याम् झष एकाचः स्ध्वोर्बशो भष् [ ६।३।६] इति झकारभकाराभ्याम् । 

जबगडदश ॥९ [ शि० १०

ज ब ग ड द इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति पञ्चभिः – भोभगोअघोभ्योऽशि लोप [६/४/२४] इत्यकारेण, हशि चातो रो [५।१।११९] इति हकारेण, वशि [ ५|४|१२८ ] इति वकारेण, झलो जश् [ ६ ३ ६७ ] इति जकारेण, झष एकाचः स्ध्वोबशो भष् [ ६ ३ ६९ ] इति बकारेण । 

खफछठथचटतव् १० [ शि० ११] 

ख फ छ ठ थ च ट त इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवत्येकेन । नश्छव्यप्रशान [ ६ |४| ३ ] इति छकारेण । खफग्रहणमुत्तरार्थम् । 

कपय् ॥११॥ [ शि० १२

क प इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति पञ्चभिः अनुस्वारस्य ययि यम् [ ६ |४| १५१ ] इति यकारेण मय उञोऽचि व [६|४|१६ ] इति मकारेण, झयो हो झय् [ ६|४|१५६ ] इति झकारेण, पुमः खय्यमि [६ ४। २ ] इति खकारेण, चयः शरि द्वितीय [ ६।४।१५८ ] इति चकारेण । 

शषसर् ||१२|| [ शि० १३ ] 

श ष स इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति पञ्चभिः यरो ञमि ञम्[ ||१४० ] इति यकारेण, हलो झरा झरि सस्थाने लोपो वा [ ६/४/१५५] इति झकारेण, खरि चर् झल [६ |४| १४८ ] इति खकार- चकाराभ्याम्, ड्णो बुकटुकौ शरि | ||१२ ] इति शकारेण । 

हल ||१३|| [ शि० १४

ह इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्योच्चारणं भवति षड्भिः – शिदने काल् सर्वस्य [ १|१|१२ ] इत्यकारेण, हलि पित्युत औत् [ ६।२।३०] इति हकारेण, सुपि वलि तद्वत् [ ६ | ३|५१] इति वकारेण, रलो हलादेरितो सनि च [ ६।२।२१] इति रेफेण, झलो झलि [ ६।३।५५] इति झकारेण, शल इगुपान्ताददृशोऽनिटः क्सः [ १।१।६५ ] इति शकारेण । अथ किमर्थमुपदिष्टोऽप्ययं हकारः पुनरुपदिश्यते ? विकल्पक्सविधीङ्विधयो यथा स्युरिति । तत्र स्निहित्वा स्नेहित्वेत्यत्र रलो हलादेरिदुतो सनि च [ //२१ ] इत्यदेङ् विकल्पो यथा स्यात्, लिहेश्चालिक्ष- दिति शल इगुपान्ताददृशोऽनिटः क्सः [१।१। ६५ ] इति क्सो यथा स्यात् । रुदिहि स्वपिहीति वलादिलक्षणादिङ् [५/४१९९ ] यथा स्यात् । अदग्धामिति झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । हयवरलणित्यत्र तर्हि किमर्थं हकार उपदिश्यते ? अश्ग्रहणे हश्ग्रहणे च ग्रहणं यथा स्यात् णडञवा स्युरेकस्माच्, चतुर्भ्यश्च कचौ, णशौ । द्वाभ्यां ज्ञेयौ, पञ्चभ्यो र्शम्य षड्भ्यो लस्तु विधीयते ॥ एष प्रत्याहारः पूर्वव्याकरणेष्वपि स्थित एव । अयं तु विशेषः, ऐऔष् इति यदासीत् तद् ऐऔजिति कृतम् । तथा हि । लघावन्ते द्वयोश्च बह्वषो गुरु [ फिट् सूत्र २।१९ ] तृणधान्यानां च द्व्यषाम् [ फिट सूत्र २/४ ] इति पठ्यते । 

आदिरिता समध्यः ||  

आदिरन्त्येनासता लक्षितो गृह्यमाणो मध्यैः सह ग्राह्यः | अकोऽकि दीर्घः [५|१|१०६ ] | दण्डाग्रम्, दधीन्द्रः, मधूष्ट्रः । सुप् सुपा  [ २२|१] । राजपुरुषः, नीलोत्पलम् । 

उता सवर्गः ||||

उकारेण लक्षित आदिः सह वर्गेण ग्राह्यः । चोः कुः [६।३।५९ ] | व्यक्तिः । 

ता तत्कालः ||||

तकारेण लक्षितस्तत्कालो ग्राह्य । अतो भिस् ऐस् [२।१।२] वृक्षैः, प्लक्षैः । इह न भवति । मालाभिः । 

दोऽपः || ||

दाग्रहणेऽपकारकस्यैव ग्रहणं वेदितव्यम् । दो दत् [ ६|२| ९६] | दत्तम् । इह न भवति । दातं बहिः, अवदातं मुखम् । 

अनंशचिह्नमित् ॥५॥

अनवयवभूतं यच्चिह्नं तदसद् वेदितव्यम् । इट ईटि [६।३।५७] अकोषीत् अनशग्रहणं किम् ? एकाचो हलादे क्रियार्थाद, भृशाभीक्ष्ण्ये यङ् [१।१।४० ] | पापच्यते । एरच् [०१।०३।४५] चयः, जयः । इणः क्विप्, तुक्, एतीति इत् । गच्छति, न तिष्ठति, लुप्यत इत्यर्थः । 

विधिर्विशेषणान्तस्य  

यद् विशेषणं तदन्तस्य विधिर्वेदितव्य । अत इञ् [ २|४|१९] । दाक्षिः, प्लाक्षिः । यत्तु न विशेषण न तेन तदन्तविधिः । नडादिभ्यः फक् [ २१४१३५ ] | नाडायनः, चारायणः । इह न भवति । सौत्रनाडिः । 

सप्तम्यां पूर्वस्य  

सप्तमीनिर्देशे पूर्वस्यैव कार्यं वेदितव्यम् । इको यण् अचि [ ५|१| ७४] | दध्युदकम् । समिदत्रेति कस्मान्न भवति ? अचीत्योपश्लेषिक आधारः । तत्रैतावदुच्यते । पूर्वस्यैव भवति, न परस्येति । 

पञ्चम्यां परस्य |||| 

पञ्चमीनिर्देशे परस्यैव कार्यं वेदितव्यम् । अतो भिस ऐस 

[२।१।२] | वृक्षैः । इह न भवति । मालाभिरत्र । इह कस्मात् न भवति दृषद्भिरिति ? अनन्तरे कृतार्थत्वान्न व्यवहितस्य कार्यम् । 

आदेः |||| 

परस्य कार्यं शिष्यमाणमादेर्वर्णस्य प्रत्येतव्यम् । द्व्यन्तप्रादेरनादप ईत् [ ५|२|११३] । द्वीपः, अन्तरीपः, समीपः, नीपः । 

षष्ठ्यान्त्यस्य ॥१०

षष्ठीनिर्दिष्टस्य स्थाने यत् कार्यं तदन्त्यस्य वेदितव्यम् । अष्टनो वा सुप्यात् [ ५||५२ ] | अष्टाभिः, अष्टभिः । 

डित् ॥ ११ ॥

डकार इद् यस्य सोऽन्त्यस्य भवति । अनड् सौ [५/४०४५] सखा । षष्ठ्येत्येव । विश्नः । 

शिदनेकाल सर्वस्य ||१२||

शकार इद् यस्य सोऽनेकालः चादेशः सर्वस्य स्थाने वेदितव्यः । जसः शी [२|१|८ ] | सर्वे । भ्रस्जो भर्ज वा [ ५|३|६२ ] भ्रष्टा, भष्टः । 

टकितावाद्यन्तौ ||१३||

षष्ठीनिर्दिष्टस्य टित्कितावाद्यन्तौ वेदितव्यौ । ब्रुव ईट् [६ |२| ३४ ] | ब्रवीति । त्रपुजतुनो षुक् [ ||१०८] | त्रापुषम्, जातुषम् । 

मिदचोऽन्त्यात् पर || १४ ||

मकार इद् यस्य सोऽन्त्यादचः परो वेदितव्यः | वच उम् [६। २।६९ ] | अवोचत् । पराधिकार आ कःप [ ४|४|१४८ ] | 

ऋकोऽणो रौ ।। १५ ।।

ऋ ऌ इत्येतयोः स्थाने योऽण् तस्मात् परौ रेफलकारौ वेदितव्यौ । कर्ता । कल्प्ता । ऋकारल्कारौ । 

विप्रतिषेधे ||१६|| 

द्वयोः सावकाशयोरेकत्र प्रसङ्गे यत् परं तद् भवति । यथा आत्वात् [ ६।२1४०] एत्वम् [६| २|४१ ] | वृक्षेभ्यः । मिष्टवाची । तेन पूर्वविप्रतिषेधादयो न पठितव्या भवन्ति । 

तिजः क्षान्तौ सन् ॥ १७ 

तिजः क्षमायां वर्तमानात् सन् परो भवति । तितिक्षते । 

 क्षान्ताविति किम् ? तेजनम्, तेजः, तेजयति । 

नकार सन्यडोर [५|१|१] इति चिह्नार्थः । 

कितः संशयचिकित्सयोः ॥ १८ 

कितः संशये चिकित्सायां च वर्तमानात् सन् परो 

विचिकित्सति । चिकित्सति । अन्यत्र । निकेतः, सकेतः, 

केतनम्, केतः, केतयति। 

गुपो निन्दायाम् १९  

गुपो निन्दाया वर्तमानात् सन् परो भवति । जुगुप्सते । अन्यत्र गोपिता, गोपनम्, गोपायति । 

बध एरी च ||२०|| 

बधेर्निन्दायां वर्तमानात् मन् परो भवति, इकारस्य च ईकारः । बीभत्सते । अन्यत्र बधकः । 

शानदानमानः ॥२१॥ 

शानो दानो मानश्च सन् परो भवति इकारस्य च ईकारः । शीशासति, शीशासते । दीदासति, दीदासते । मीमांसति, मीमांसते । कथं निशानम्, अवदानमिति ? श्यतेद्यतेश्च ल्युटा सिद्धम् । कथं माननं मानो मानयतीति ? चौरादिकेन सिद्धम् । ततश्च वा णिच्, घुषेरविशब्दने [ ५|४|१५१] इति लिङ्गात् । शान्दान्साहचर्यादिह भौवादिकस्य मानो ग्रहणम् । 

तुमो लुक चेच्छायाम् ||२२|| 

तुमन्तादिच्छायामर्थे सन् भवति, लुक् च तुमो भवति, श्रुतत्वात् । चिकीर्षति । इह कस्मान् न भवति, कर्तुमिच्छतीति ? पृथक्पदेनाभिधानात् । तुम् इति किम् ? भोजनमिच्छति । इच्छायामिति किम् भोक्तुं गच्छति । चिकीर्षितुमिच्छतीति इच्छासनन्तात् सन् न भवति । कथम् ? स्वात्मनि क्रियाविरोधात् । न हीच्छाया सनो विधानकाले इच्छासनन्ता प्रकृतिरस्ति । इह तु भवत्येव । जुगुप्सिषते । कथम् कूल पिपतिषतीति ? यथा कूलं पतितुमिच्छतीति वाक्यं भवत्येव वृत्तिरपि भविष्यति । वाक्यमेव तर्हि कथं भवति ? लोकस्य तथा विवक्षातः | 

व्याप्यात् काम्यच २३ 

इषेर्व्याप्यादिच्छायामर्थे काम्यच् परो भवति । पुत्रमिच्छति, पुत्रकाम्यति । वस्त्रकाम्यति । व्याप्यादिति किम् ? दात्रेणेच्छति । इह क्रस्मान् न भवति  राज्ञ पुत्रमिच्छतीति ? सापेक्षत्वात् । न ह्यन्यमपेक्षमाणोऽन्येन सहैकार्थीभावमनुभवितु शक्नोति । इहापि तर्हि न स्यात् – आत्मन पुत्रमिच्छतीति ? नवात्र भवितव्यम् । न हि भव- त्यात्मनः पुत्रकाम्यतीति । कथं तर्हि पुत्रस्यात्मीयभावो गम्यते ? अन्यस्याश्रुतत्वात्, इच्छायाश्च तद्विषयत्वात् । चकार सतिशिष्टस्वरबाधनार्थः । पुत्रकाम्यिष्यतीति । 

ससंख्यादमः क्यज वा ||२४|| 

इषेर्व्यप्याद् विद्यमानसख्यादमकारान्तादिच्छायामर्थे क्यज् वा भवति । पुत्रमिच्छति, पुत्रीयति, पुत्रकाम्यति । वस्त्रमिच्छति, वस्त्रीयति, वस्त्रकारयति । ससख्यादिति किम् ? स्वरिच्छति । पृथगिच्छति । अम इति किम् ? इदमिच्छति । किमिच्छति । ककारः क्यस्य वा [//६६] इति सामान्यग्रहणार्थः, चकार सामान्यग्रहणाविघातार्थः । 

उपमानादाचारे ||२५||

व्याप्यादुपमानादाचारेऽर्थे क्यच् परो भवति । पुत्रमिवाचरति, पुत्रीयति माणवकम् । उपमानादिति किम् ? पुत्रमाचरति । 

आधारात् ||२६|| 

आधारादुपमानादाचारेऽर्थे क्यच् परो भवति । कुटग्रामिवाचरति कुटीयति प्रासादे । प्रासादीयति कुट्याम् । 

कर्तुः विप् ॥ २७

कर्तुरुपमानादाचारेऽर्थे विप् परो भवति । अश्व इवाचरति, अश्वति । गर्दभति । 

गल्भक्लीबहोडेभ्यो ङित् || २८ ||

 गल्भादिभ्य उपमानभूतेभ्य आचारेऽर्थे विप् परो भवति, स च डिद्वत् । गल्भते, क्लीबते, होडते । गल्भाञ्चक्रे । डकारस्ताडानार्थः । कथं गल्भायते ? मध्येऽपवादा पूर्वान् विधीन् बाधन्ते न परान् । 

क्यङ् २९

कर्तुरुपमानादाचारेऽर्थे क्यङ् भवति । अश्वायते, गर्दभायते, श्येनायते । पयायते, पयस्यते । क्यङि वा [ ६।२।१०२ ] इति सकारलोपः | आजायते, अप्सरायते । ओजोऽप्सरसो [ ६।२।१०३] इति नित्य सकारलोपः, पुनर्विधानात् । 

च्व्यर्थे भृशादिभ्यः स्तलोपश्च ॥ ३०  

अभूततद्भावे भृशादिभ्यः क्यङ्, भवति अन्त्यसकारतका रयोश्च लोपो भवति । अभृशं भृशं भवति, भृशायते । शीघ्रायते । भृश । शीघ्र । चपल । पण्डित । उत्सुक । उन्मनस्, उन्मनायते । अभिमनस्, अभिमनायते । दुर्मनस्, दुर्मनायते । सुमनस्, सुमनायते । रेहत् रेहायते । वेहत्, वेहायते । सश्चत् सश्चायते । तृपत्, तृपायते । शचि । वचस् । अण्डर । ओजस् । नील। मद्र । फेन । हरित । मन्द । । कर्तुरित्येव । अभृशं भृशं करोति । इह कस्मान् न भवति – भृशीभवतीति ? उक्तार्थत्वात् । 

डाज्लोहितादिभ्यः क्यष ॥ ३१  

डाजन्ताल्लोहितादिभ्यश्च च्व्यर्थे वर्तमानेभ्यः क्यष् भवति । पटपटायति, पटपटायते । लोहितायति, लोहितायते । वर्मायति, वर्मायते । षकारो वा क्यष [ ११४१४२ ] इति चिह्नार्थः । आकृतिगणश्चायम् । 

कष्टकक्षसत्त्रगहनाय पापे क्रमणे ॥ ३२  

कष्टादिभ्यश्वतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः क्रमणेऽर्थे क्यङ् भवति । कष्टाय कर्मणे क्रामति, कष्टायते । कक्षायते । सत्त्रायते । गहनायते । पाप इति किम् ? कष्टाय तपसे क्रामति । चतुर्थीनिर्देशः किम्? रिपुः कष्टं क्रामति । 

रोमन्थं वर्तयति हनुचाले ॥ ३३  

रोमन्थशब्दाद् द्वितीयान्ताद्धनुचलनविषयाद् वर्तयतीत्यस्मिन्नर्थे क्यङ् भवति । रोमन्थायते गौः । हनुचाल इति किम् ? कीटो रोमन्थं वर्तयति । 

बाष्पोष्मफेनमुद्वमति ३४  

बाष्पादिभ्यो द्वितीयान्तेभ्य उद्वमतीत्यस्मिन्नर्थे क्यङ् भवति । बाष्पायते, ऊष्मायते, फेनायते । 

सुखादीनि वेदयते ॥ ३५  

सुखादिभ्यो द्वितायान्तेभ्यो वेदयत इत्यस्मिन्नर्थे क्यङ् भवति । सुखायते, दुखायते । इह कस्मान्न भवति – सुखं वेदयते प्रसाधको देवदत्तस्येति ? सापेक्षत्वात् । सुख । दुख । तृ । कुच्छ । अस्र । अलीक | करुण । कृपण | सोढ । प्रतीप | 

शब्दादीन् करोति ॥ ३६  

गब्दादिभ्यो द्वितीयान्तेभ्यः करोतीत्यस्मिन्नर्थे क्यङ् भवति। शब्दं करोति शब्दायते । वैरायते । कलहायते । अभ्रायते । कण्वायते । मेघायते । अट्टायते । अटायते । अन्ये पुनरटाटेति पठन्ति तेषामटतयङि स्त्रियामकारे च रूपम् । अटाटायते । शीकायते । सोटायते । कोटायते । पोटायते । प्रुष्टायते । सुदिनायते । दुदिनायते । नीहारायते । 

नमस्तपोवरिवसः क्यच् ॥ ३७  

नम आदिभ्यो द्वितीयान्तेभ्यः करोतीत्यस्मिन्नर्थे क्यच् परो भवति । नमस्करोति, नमस्यति देवान् । तपस्यति शत्रून् । वरिवस्यति गुरून् । 

चित्रङ् आश्चर्ये ॥ ३८

चित्रङ् शब्दाद, द्वितायान्तादाश्चर्ये वर्तमानात् करोतीत्यस्मिन्नर्थे क्यच् परो भवति । चित्रं करोति, चित्रीयते । ङ्कारस्तडानार्थः | आश्चर्य इति किम् ? चित्रं करोति । 

कण्डादिभ्यो यक ॥ ३९

कण्डादिभ्यो द्वितीयान्तेभ्यः करोतीत्यस्मिन्नर्थे यग् भवति । कण्डू करोति, कण्डूयति कण्डूयते । कण्डूञ । मन्तुञ्, मन्तूयति, मन्तूयते । वल्गु, वल्गूयति । असुञ्, असूयति, असूयते हृणिड, हृणीयते ।  महिड्, महीयते । वेड्, वेयते । लाड्, लायते । वेड्लाट् इति केचित् पठन्ति वेट् लाट् इति च तेषां वेड्लाट्यप्रति वेट्यति लाट्यतीति । तिरस्, तिरस्यति । इयस्, इयस्यति । इरस्, इरस्यति । उरस्, उरस्यति । उषस् उषस्यति । कुसुभ मगध, कुसुभ्यति, मगध्यति । यकि [ ५|३|६४ ] इत्यलोपः । गोधा । मेधा । तन्तस् । पम्पस् । भिषज् । अरर । सपर । इषुध । चुरण । तुरण । भुरण । दुवस् । गद्गद । एला । केला । खेला । लेट् । लोट् । सुख । दुःख । 

एकाचो हलादेः क्रियार्थाद् भृशाभीक्ष्ण्ये यङ् ॥ ४०  

एकोऽच् यस्य हलादिः क्रियार्थस्तस्माद् भृशार्थे पौनःपुन्ये च वर्तमानाद् यङ् भवति । भृशं शीघ्रम्, आभीक्ष्ण्य पौनःपुन्यम् । अत्यर्थं पुनः पुनर्वा पचति, पापच्यते । एकाच इति किम् ? जागर्त्यभीक्ष्णम् । हलादेरिति किम् ? अभीक्ष्णमीहते । क्रियार्थादिति किम् ? प्राति । भृशम् । प्रादयो हि क्रियाया न वाचका । किं तर्हि ? विशेषद्योतकाः । भृशाभीक्ष्ण्य इति किम् ? पचति । क्रियार्थादित्यधिकार प्राक् सुब्विधेः [२|१|१] ।

ऋसूत्रिमूत्रिसूच्यटशृर्णुभ्यः ॥४१ 

एतेभ्यो भृशाभीक्ष्ण्ये य भवति । अरायते । सोसूत्र्यते । मोमूत्र्यते । सोसूच्यते । अटाट्यते । अशाश्यते । प्रोर्णोनूयते । 

गत्यर्थात् कौटिल्य एव ॥४२ 

गत्यर्थेभ्यः कौटिल्य एव यङ् भवति, न भृगाभीक्ष्ण्यमात्रे । चङ्कम्यते । दन्द्रम्यते । जङ्गम्यते । अन्यत्र पुनः पुनः क्रामति । 

लुपसदचरगॄजपजभदहदशो गर्ह्यात् ४३  

लुपादिभ्यो गहितार्थेभ्यो यङ् भवति । गर्हितः लुम्पति लोलुप्यते । सासद्यते । चञ्चूर्यते । निजेगिल्यते । जञ्जप्यते । जञ्जभ्यते । दन्दह्यते । दन्दश्यते । गर्ह्यादिति किम् ? लुम्पति । एवशब्दानुवृत्ते गर्हितार्थेभ्य एवैतेभ्यो यो भवति नान्यार्थेभ्यः । पुनः पुनः लुम्पति । प्रकृतिविशेषणं किम् ? जपलि वृषलः । 

न शुभरुचः ||४४  

शुभिरुचिभ्यां यङ् न भवति । अभीक्ष्णं शोभते । भृशं रोचते । 

चुरादिभ्यो णिच् ॥४५॥

चुरादिभ्यः स्वार्थे णिच् परो भवति । चोरयति । नाटयति । णकार आदैजर्थः, चकारः सामान्यग्रहणाविघातार्थः । चुरादिषु पठ्यते सुपो धात्वर्थे बहुलमिष्ठवच्च [ धातुपा० १०।१०३] इति । तेनेष्ठवत्कार्याणि भवन्ति न भवन्ति च । पटुं करोति, पटयति । लघयति । इष्ठवद्भावादन्त्याजादिलोपः आदभावश्च । तथा स्थूलमाचष्टे स्थवयति दवयतीत्यादि । सत्यमाचष्टे, सत्यापयति । अर्थापयति । वेदापयति । एषामापुकं वक्ष्यति [६।१।५५] | पाशं विमोचयति, विपाशयति । रूपं पश्यति, निरूपयति । वीणया उपगायति, उपवीणयति । तूलैरनुकुष्णाति, अनुतूलयति । श्लोकैरुपस्तौति, उपश्लोकयति । सेनया अभिनिर्याति, अभिषेणयति । लोमान्यनुमार्ष्टि, अनुलोमयति । त्वचा गृह्णाति त्वचयति । नैकाच [ ५|३|१६५ ] इति लोपाभावः । वर्मणा सनह्यति, सवर्मयति । वर्णं गृह्णाति, वर्णयति । चूर्णैरवध्वसयति, अवचूर्णयति । सूत्रं करोति, सूत्रयति । एवं मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति । व्रतयति । वस्त्रं समाच्छादयति, सवस्त्रयति । हलि गृह्णाति हलयति । कलि गृह्णाति कलयति । इष्ठवद्भावादादचामभावः [ अन्त्याजादिलोपश्च ] । तस्मा नाग्लोपि० [६।१।६२] इति सन्वद्भावाभावः | अजहलत्, अचकलत् । अपीपटदिति बहुलवचनादित्त्वम् । एव कृतयति, तूस्तयतीत्यादि । णिङ्, अङ्गनिरसन इति तत्रैव पठ्यते [ धातुपा० १० १०४] हस्तं निरस्यति, हस्तयते । पादयते । उत्पुच्छयते । निपुच्छयते । परिपुच्छयते । निरसन इति किम् ? पुच्छमाचष्टे, पुच्छयति । श्वेताश्वाश्वतरगाली- डितारकाणामश्वतरेतकलोपश्चेति तत्रैव पठ्यते [ धातुपा० १०।१०५ ] | श्वेताश्वमाचष्टे तेन वाभिक्रामति, श्वेतयते । अश्वयते । गालोडयते । आह्वरयते । भाण्डानि समाचिनोति, सभाण्डयते । चीवरं समर्जयति परिदधाति वा, सञ्चीवरयते । फलवति [ १|४|१२४] इति तड् । तथा चाह धातुकारोऽपि । पुच्छादिषु धात्वर्थ इत्येव सिद्धम् [ पाणिनीयधातुपा० १०।३९५] इति ।  

प्रयोजकव्यापारे ||४६ 

कर्तारं यः प्रयुक्ते तद्व्यापारे क्रियार्थाण् णिच् परो भवति । कारयति । हारयति । ननु च कर्तापि करणादीनां प्रयोजक इति तद्व्यापारेऽपि णिच् प्राप्नोति । प्रयोजकग्रहणसामर्थ्यान्न भविष्यति, चुरादिभ्यश्च पृथग्वचनसामर्थ्यात् । कथं कसं घातयति कथकः, बलिं बन्धयतीति ? अत्रापि तथा परेषां प्रत्यायनात् । तथा हि वक्तारो भवन्ति । गच्छ हन्यते कसः । किं ते गतेन ? हतः स कस इति । एवमारात्रिविवासमाचष्टे, रात्रिः विवासयति । कौशाम्ब्या प्रस्थितो माहिष्मत्याः सूर्यमुद्गमयति । पुष्ययोगमाचष्टे पुष्येण चन्द्रं योजयतीति ।  

गुपूधूपविछपणपन आयो वा ॥ ४७ ॥ 

गुपादिभ्य स्वार्थे आयः परो भवति वा । गोपायिता, गोप्ता । 

धूपायिता, धूपिता । विच्छायिता, विच्छिता । पणायिता, पणिता । पनायिता पनिता । पनिसाहचर्यात् स्तुत्यर्थस्य पणैर्ग्रहणम् । इह न भवति । शतस्य पणिता । 

ऋत ईयङ् ॥ ४८  

ऋत ईयङ् वा भवति । ऋतीयिता, अर्तिता ।

 कमो णिङ् ॥ ४९  

कमो णिङ् वा भवति । कामयिता कमिता

शित्यायादयः ॥ ५०  

गुपादिभ्यः शिति परभूते आयादयो नित्यं भवन्ति, पुनर्विधानात् । गोपायति, धूपायति, विच्छायति पणायति, पनायति, ऋतीयते, कामयते । 

अनेकाचो लिट आम् कृभ्वस्तिलिट् चानु ॥ ५१ ॥ 

अनेकाचः क्रियार्थात् परस्य लिट आमादेशो भवति, कृभ्वस्तिभ्यो विहितश्च लिडनुप्रयुज्यते । चुलुम्पाञ्चकार । 

चिकीर्षाञ्चिकार | कारयाम्बभूव । पाचयामास । पृथग्वचनमामर्थ्यादस्तेनं भूभाव | अनेकाच इति किम् ? पपाच । 

इजादेगुरूमतोऽनृछूर्णोः ॥ ५२

इजादिर्यः क्रियार्थो गुरुमानृच्छत्यूर्णोतिवर्जितस्ततः परस्य लिट आम् भवति, कृभ्वस्तिलिट् चानप्रयुज्यते । ईहाञ्चक्रे । व्युच्छाञ्चकार | इजादेरिति किम् ? ततक्ष । गुरुमत इति किम् ? इयेष | नैष लविधानकाले गुरुमान् । उछेस्तु लविधानकाल एव गुरुमत्त्वादाम् भवत्येव, ऋछिप्रतिषेधाच्च लिङ्गात् । अत एवास्य सयोगपरस्यापि गुरुत्वम् । अनृछूर्णोरिति किम् ? आनछे । प्रोर्णुनाव | 

कासयदयासः || ५३ ॥ 

कास अय दय आसश्च परस्य लिट आम् भवति, कुभ्वस्तिलिट् चानुप्रयुज्यते ।  पलायाञ्चक्रे । उद्याञ्चके | 

आसाञ्चक्रे । कासाञ्चक्रे । 

जाग्रुषो वा ५४

जागर्तेरुषश्च परस्य लिट आम् भवति वा, कृभ्वस्तिलिट् चानुप्रयुज्यते । जागराञ्चकार, जजागार । ओषाञ्चकार, उवोष । 

भीह्रीहूनां द्वे ॥ ५५  

भी ही हू इत्येतेषां लिट आम् भवति वा तत्सन्नियोगेन च द्वित्वम्, कृभ्वस्तिलिट् चानुप्रयुज्यते । बिभयाञ्चकार, बिभाय । जिह्रयाञ्च- कार, जिह्राय । जुहवाञ्चकार, जुहाव | लिटि* [ ५/१/२, पा० ६ |१|८ ]इति सिद्ध द्विर्वचने द्वे चेति नियमार्थं वचनम्  एतेषामेवामि द्वित्वं भवति नान्येषामिति । तथा चैवोदाहृतम् । 

बिभराम् ।। ५६ ।। 

बिभर्तेर्लिट आम् वा निपात्यते द्वित्वमित्वञ्च कृभ्वस्तिलिट् चानुप्रयुज्यते । बिभराञ्चकार, बभार । 

विदाम् ॥ ५७ ॥ 

विदेर्लिट आम् वा निपात्यते, एङ्भावश्च कृभ्वस्तिलिट् चानुप्रयुज्यते । विदाञ्चकार, विवेद । 

लोटः कुलोट् ॥ ५८  

लोडन्तस्य विदेर्विदामिति निपात्यते वा, कृञश्च परो लोडनुप्रयुज्यते । विदाङ्करोतु, विदाङ्कुरुताम्, विदाङ्कुर्वन्तु । वेत्तु, वित्ताम, विदन्तु | 

स्यतासी लृलुटोः ॥ ५९  

लुटि लुङि च परभूते क्रियार्थात् स्यः परो भवति, लुटि तास् । करिष्यति । अकरिष्यत् । श्वः कर्ता । 

लुङि सिच् ६०

लुङि परभूते क्रियार्थात् सिच् परो भवति । अकार्षीत् । इकारः सिच्यतङ्यादैच् [ ६ |१| ३] इति चिह्नार्थः । चकार आगमानुदात्तस्वरबाधनार्थः । 

स्पृशमृशकृषतृपदृपो वा ६१  

स्पृशादिभ्यो लुङि सिज् वा भवति । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत् । अस्राक्षीत् असार्क्षीत्, असृक्षत् । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत । अत्राप्सीत् अतार्प्सीत् अतृपत् । अद्राप्सीत्, अदार्प्सीत्, अदृपत् । 

दाधागातिस्थाभूपोऽतङि लुक् ॥६२ 

एतेभ्य उत्तरस्य सिचोऽतङि लुग् भवति । अदात्, अधात्, अगात्, अस्थात्, अभूत्, अपात् । अतङिति किम् ? अदिषाता ग्रामौ देवदत्तेन । गातिपिबत्योर्निदशसाहचर्याभ्यां ग्रहणादिह न भवति । अगासीद् गायःन | अपासीन् नृपः । 

घ्राधेशाछासो वा ॥ ६३ 

प्रादिभ्यः परस्य सिचो लुग् वा भवति । अघ्रात्, अघ्रासीत् । अधात्, अधासीत् । अशात्, अशासीत् । अच्छात्, अच्छासीत् । असात्, असासीत् । अतङीत्येव । अघ्रासाता सुमनसौ देवदत्तेन ।  

तनादिभ्यस्तथासोः ॥ ६४ ॥

तनादिभ्यः परस्य सिचस्तथासो परतो लुग् वा भवति । अतत,अतथा । अतनिष्ट, अतनिष्ठा । असात, असाथा । असनिष्ट, असनिष्ठा । तथासोरिति किम् ? अतनिषाताम् । थासा सहचरितस्यैव तशब्दस्य ग्रहणादिह न भवति । अतनिष्ट यूयम् । करोतेरलुक्पक्षेऽपि ह्रस्वात् [ ६।३।५६ ] इति सलोपः | अकृत, अकृथा । 

शल इगुपान्तादशोऽनिट: क्सः || ६५ ||

शलन्तादिगुपान्ताद् दृशिवजितात् क्रियार्थादनिटो लुडि क्सो भवति । अलिक्षत् अधुक्षत् । शल इति किम् ? अभैत्सीत् । इगुपान्तादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अदर्शत्, अद्राक्षीत् । अनिट् इति किम् ? अकोषीत् । 

श्लिषः || ६६ ||

श्लिष्यतेर्लुङि क्सो भवति । पुनर्विधानात्  पुष्यत्यादिविहितोऽङ् बाध्यते । उपाश्लिक्षत् कन्यां देवदत्तः | चिणपि तर्हि बाध्येत, उपाश्लेषि कन्या देवदत्तेनेति ? पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते न परान् । अनिट् इत्येव । अश्लेषीत् । अधाक्षीदित्यर्थः । 

सत्त्वाश्लेषे ६७ 

प्राणिविषय एवाश्लेषे वर्तमानाच्छिष्यतेलुङि क्सो भवति, नान्यत्र । उपाश्लिषज्जतु च काष्ठ च । व्यत्यश्लिष्ट जतु च काष्ठं च । 

णिश्रिद्रुस्रुकमः कर्तरि चङ् ॥६८ 

ण्यन्ताच्छ्रयत्यादिभ्यश्च लुङि कर्तरि चङ् भवति । अचीकरत् । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । अचकमत । कर्तरीति किम् ? अकारयिषाता कटौ देवदत्तेन । चकारश्चङि [ ५।१।२४] इति चिह्नार्थः । डकारोऽदेङ् प्रतिषेधार्थः । 

धेश्वेर्वा ६९ 

धेट् श्वयतेश्च लुङि वा चङ् भवति । अदधत्, अधासीत्, अधात् । अशिश्वियत् अश्वयीत्, अश्वत् । कर्तरीत्येव । अविषाता गावौ वत्सेन । 

ऋसृशाससुख्यावचोऽङ् ७० 

एतेभ्यो लुङ्यङ् भवति । आरत्, समारत् । असरत् । अशिषत् । आस्थत्, पर्यास्थत् । आख्यत् । अवोचत् । शास्साहचर्यादाद्ययोर्लुप्तशपोर्ग्रहणम् । तेनह न भवति । आर्षीत् । असार्षीत् । 

ह्वलिप्सिचः ||७१ || 

ह्वयतेर्लिपः सिचश्च लुङ्यङ् भवति । अह्नत् । अलिपत् । असिचत् । 

तङि वा ॥ ७२  

ह्वादिभ्यस्तङ्यङ् वा भवति । अह्वत, अह्वास्त । अलिपत, अलिप्त । असिचत, असिक्त | 

लृदिद्द्युतादिपुष्यत्यादिभ्योऽतङि ||७३ || 

लृदितो द्युतादिभ्यः पुष्यत्यादिभ्यश्च लुङ्यतङ्यङ् भवति । अगमत्, असृपत् । व्यद्युतत्, अश्वितत् । अपुषत् । अशुषत् । अतडीति किम् ? व्यद्योतिष्ट व्यलोटिष्ट | श्यना निर्देशात् पुष्णातेर्न भवति । अपोषीत् । 

इरितो वा ॥ ७४ ॥

इरितः क्रियार्थालुङ्यतङ्यङ् वा भवति । अरुधत्, अरौत्सीत् । अतङीत्येव । अरुद्ध | 

जृश्विस्तम्भुस्रुचुम्लुचुग्लुचः ७५ 

एतेभ्यो लुङ्यतङ्यङ् वा भवति । अजरत्, अजारीत् । अश्वत्, अश्वयीत्, अशिश्वियत् । अस्तभत्, अस्तभ्भीत् । अम्रुचत्, अम्रोचीत् । अम्लुचत्, अम्लोचीत् । न्यग्लुचत न्यग्लोचीत् ।  न्यग्लुञ्चीदिति ग्लुञ्चेरेतद्रूपम् । ननु च न्यग्लुचदिति ग्लुञ्चेरपि रूपमिष्यत एव तथा च गत्यर्थता गम्यते । अनेकार्या हि धातव इति ग्लुचिरपि गत्यर्थो भविष्यति । 

चिण् ते पदः ७६ ||

लङि तभूते पदश्चिण् भवति । उदपादि । त इति किम् ? उदपत्साताम् । चकारश्चिण [१।१।८५ ] इति चिह्नार्थः । णकार आदैजर्थः । 

दीपजनबुधपूरितायिप्यायो वा ७७  

दीपादिभ्यस्तभूते लुङि परतश्चिण् वा भवति । अदीपि, अदी- पिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपूरिष्ट । अतायि अतायिष्ट | अप्यायि, अप्यायिष्ट । 

भावाप्ययोः ७८  

क्रियायाः क्रियाव्याप्ये चार्थे लुङि ते परतः क्रियार्थाच्चिण् भवति । आसि भवता । अकारि कटो भवता । अकारि कटः स्वयमेवेति स्वयशब्दादत्र कर्ता प्रतीयते, चिण् पुनर्व्याप्य एव । यदा तु कर्तरि लकारस्तदा, अकृत कट स्वयमेव । तथा, अदोहि गौः स्वयमेव, अदुग्ध गौः स्वयमेवेति । रुधेरपि व्याप्यविवक्षायामिष्यत एव चिण् । अरोधि गौर्देवदत्तेनेति । यदा तु गोरात्मन एव कर्तृत्वं तदा, अरोधि गौरात्मनेति भवत्येव । य एव चार्थ आत्मनेति स एव चार्थः स्वयमेवेति । अरोवीति चोक्ते नाश्रुते कर्तृवाचिनि पदान्तरे कर्तृत्वं गम्यते । तस्मादिहापि व्याप्यविवक्षाया चिणा भवितव्यम् । यदा तु कर्तरि लकारस्तदा, अरुद्ध गौः स्वयमेवेति । तदाप्यात्मानमिति पदान्तराद् व्याप्यता गम्यते स्वयमेवेति वा वचनात् । अतप्त तपस्तापस इति कर्तर्येव लकारः, तपआप्याद् [ ११४/७५ ] इति तङ् । तपिश्चात्र करोत्यर्थे वर्तते । अकृत तपस्तापस इत्यर्थः । 

नानोस्तपः ।। ७९ ।।

अनोर्विशेष्यात् तपश्चिण् न भवति । अन्ववातप्त पापेन कर्मणा । अनोरिति किम् ? अतापि पृथिवी राज्ञा । 

तिङ्शिति यगलिडाशीर्लिङि ८०  

तिङि शिति च भावाप्ययोर्यग् भवति, लिटमाशीर्लिङं च वर्जयित्वा । आस्यते देवदत्तेन । आस्यमानम् । गम्यते ग्रामः । गम्यमानः । अलिडाशीर्लिङीति किम् ? बभूवे देवदत्तेन । बिभिदे कुसूलः । भविषीष्ट । पक्षीष्ट ओदनः । भिद्यते कुसूलः स्वयमेवेति भिद्यत इति श्रवणाद् व्याप्यता गम्यते स्वयमेवेति श्रवणात् कर्तृत्वम्, कर्तृत्वविवक्षाया तु भिनत्ति कुसूल आत्मानमिति । दुग्धे गौः । पयो मुञ्चतीति गम्यते । तथा, अदुग्ध गौः स्वयमेवेति । प्रस्नुते गौः स्वयमेव। नमते दण्डः स्वयमेवेति स्नु-नमः स्वयम् [ १|४|१०२ ] इति तङ् अवकिरते हस्ती स्वयमेव ,श्रथ्नीते माला स्वयमेव, ग्रथ्नीते माला स्वयमेव, चिकीर्षते कटः स्वयमेवेति किरादिश्रन्थग्रन्थसनामाप्ये [ १४ १०० ] इति तङ् । तस्मादुदुम्बरः सलोहितफलं पच्यत इति व्याप्यतैवात्र सक्रियाविशेषणा विवक्षिता । कर्तृत्वविवक्षायां तु पचत्यात्मानमिति । परिवारयन्ते कण्टका वृक्षमिति पदसंस्कारकाले फलवति [ १|४|१२४ ] इति तङ् । पदान्तरसम्बन्धे तु कर्तु फलासम्भवो गम्यते । तथा कारयते कटः स्वयमेव, चोरयते गौः स्वयमेव, भूषयते कन्या स्वयमेव, मण्डयते कन्या स्वयमेव, श्रयते दण्डः स्वयमेव, ब्रते कथा स्वयमेव, आहते गौः स्वयमेवेति कर्तृतैव गम्यते । आङो यमहन [ ११४/७३ ] इति तङ् । 

तपस्तपआप्यात् ॥ ८१  

तप आप्य यस्य तस्मात्तपतेर्यग् भवति । तप्यते तपस्तापसः । तपआप्यात् [ १।४।७५ ] इति तङ् । तपआप्यादिति किम् ? उत्तपति सुवर्णं सुवर्णकारः । कर्त्रर्थ आरम्भः | 

कर्तरि शप् ।। ८२ ।।

क्रियार्थात्तिङि शिति च परभूते कर्तरि शब् भवति । तरति । नयति । धारय । पारय । अलिडाशीर्लिङीत्येव । बभूव । भूयात् । शकार एचोऽशित्यात् [ ५।१।४९ ] इति चिह्नार्थः । पकारः शपुश्यन [५/४/३५ ] इति चिह्नार्थः | 

अदादिभ्यो लुक ॥ ८३

अदादिभ्यः परस्य शपो लुग् भवति । अत्ति । हन्ति । 

हूनां द्वे च ॥ ८४  

जुहोत्यादिनां शपो लुग् भवति द्वित्वं च । जुहोति बिभेति । 

चिण८५  

चिणः परस्य तशब्दस्य लुग् भवति । उदपादि । तिङ् शितीत्येव । अकारितराम् । 

यङो बहुलम् ।। ८६ ।। 

यङो बहुलं लुग् भवति । रोरवीति, रोरूयते । क्वचित्तु नित्यमेव भवति । लोलुव, पोपुव । क्वचिन्न भवति । लोलूया । 

दिवादिभ्यः श्यन् ॥ ८७ ॥

दिवादिभ्यः परस्य शपो विषये श्यन् भवति । दीव्यति, सीव्यति ।

भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषो वा ॥ ८८  

भ्राशादिभ्यः श्यन् वा भवति । भ्राश्यते, भ्राशते । भ्लाश्यते 

भ्लाशते । भ्रम्यति भ्रमति । भूवादित्वान्न दीर्घत्वम् । क्राम्यति। क्रामति । क्लाम्यति, क्लामति । त्रस्यति त्रसति । त्रुटति त्रुटति । लष्यति, लषति । 

यस || ८५|| 

यस श्यन् वा भवति । यस्यति, यसति । 

समः ||१०|| 

सम एव पराद् यसः श्यन् वा भवति । सयस्यति, सयसति । सम इति किम् ? आयस्यति । 

कुषिरज आप्ये ॥ ९१  

कुषेः रजश्च यदाप्य तस्मिन्नेव कर्तरि श्यन् भवति । कुष्यति पाद स्वयमेव । रज्यति वस्त्रं स्वयमेव । आप्य इति किम् ? कुष्णाति, रजति । 

तुदादिभ्य शः || ९२||

तुदादिभ्यः शः परो भवति । तुदति । नुदति । 

रुधादीनां श्नम् ॥ ९३

रुधादीनामन्त्यादचः परं श्नम् (इन ? ) भवति । रुणद्धि । भिनत्ति | 

तनादिभ्य उः || १४ ||

तनादिभ्य उः परो भवति । तनोति । सनोति । करोति । 

स्वादिभ्यः श्नुः||९५

स्वादिभ्यः श्नुः परो भवति । सुनोति । सिनोति । 

श्रुकृव्धिवां शृकृधि च ॥ ९६

श्रु कृवि धिवीत्येतेषां श्नुर्भवति शृणोति । कृणोति । धिनोति । 

अक्षो वा ९७॥

अक्षःश्नुः परो भवति वा । निरक्ष्णोति, निरक्षति । [

तनूकृतौ तक्षः ||९८|| 

तनूकरणे तक्ष श्नुर्वा भवति । निस्तक्ष्णोति, निस्तक्षति | तनूकृताविति किम् ? सन्तक्षति वाग्भिः । 

स्तम्भुस्तुन्भुस्कम्भुस्कुम्भुस्कुभ्यः ॥ ९९  

एतेभ्यः श्नुः परो भवति । स्तभ्नोति । स्तुभ्नोति । स्कम्भ्नोति । स्कुभ्नोति । स्कुनोति । 

श्ना ॥ १००  

एतेभ्य एव श्ना परो भवति । स्तभ्नाति । स्तुभ्नाति । स्कस्नाति । स्कुनाति । स्कुनाति । 

क्र्यादिभ्यः १०१ 

कादिभ्य इना परो भवति । क्रीणाति । प्रीणाति । 

हलो हौ शानच् १०२

हलन्ताद्धौ परतः श्नाविषये शानच् परो भवति । पुषाण, गृहाण | हल इति किम् ? क्रीणीहि । हाविति किम् ? अश्नाति । 

बहुलम् || १०३ ||

बहुलमित्येतदधिकृतं वेदितव्यम् । 

भावाप्ययोः१०४

क्रियायाः क्रियाव्याप्ये …र्थे इत्येतदधिकृतं वेदितव्यम् । 

तव्यानीयर् केलिमरः || १०५ ।। 

तव्यादय क्रियार्थात् परे भावाप्ययोर्बहुलं भवन्ति । कर्तव्यम् | करणीयम् | कर्तव्यः कटः । करणीयः कटः । भिदेलिमा भाषा । बहुलाधिकारात् करणादिष्वपि भवन्ति । स्नानीय चूर्णम् । दानीयो ब्राह्मण । समावर्तनीयो गुरु । प्रवचनीयः उपाध्यायः । उपस्थानीयः शिष्यः । तव्यस्य वा स्वरितत्वं वक्ष्यामः । 

वास्तव्यः१०६  

वसेस्तव्यं कर्तरि दीघत्वं च निपात्यते । वसतीति वास्तव्यः | 

यत् ॥ १०७ 

क्रियार्थाद् बहुल् भावाप्ययोर्यत् परो भवति । चेयम्, जेयम्, भव्यम् | भव्यः पुरुषः । गेयानि ब्राह्मणेन सामानि । गेयो ब्राह्मणः साम्नाम् । ऋहलो ण्यत् वक्ष्यति [१|१|१३०] । 

पुशकितकिचतियतिशसिसहियजः ॥ १०८  

पवर्गान्ताच्छकादिभ्यश्च भावाप्ययोबहुलं यद् भवति । जप्यम, लभ्यम् । शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् ॥ यज्यम् । जनिवघोरिगुपान्तानां च स्वरं वक्ष्याम | 

गदमदयमोऽपादेः || १०९  

गदादिभ्यः प्रादिरहितेभ्यो यद् भवति । गद्यम् । मद्यम् । यम्यम् । अप्रादेरिति किम् ? प्रगाद्यम् । प्रमाद्यम् । आयाग्यम् । प्र । परा । अप । सम् | अनु । अव । निर् । दुर् । वि । आट । अधि । अपि । नि । अति । सु । उद् । अभि । प्रति । परि । उप । यमो नियमार्थं वचनम् । 

चरः ॥११० 

चरतेर्भावाप्ययोर्यद् भवति । चयम् । अप्रादेरित्यव | अभिचार्यम् । 

अगुरावाङः ॥ १११  

चरतेराङः परादगुरौ यद् भवति । आचर्यो देशः । अगुराविति किम् ? आचार्यः | 

अवद्यपण्यवर्या गर्ह्यविक्रेयानिरोधेषु ॥ ११२ अवद्यमिति निपात्यते गर्ह्येऽर्थे । अनुद्यमन्यत् । पण्यमिति निपात्यते विक्रेयेऽर्थे | पाण्यमन्यत् । वर्येत्यनिरोधे गम्यमाने । वृत्यान्या । स्त्रीलिङ्गनिर्देशादिह न भवति । वार्या ऋत्विजः । 

वह्यं करणम् ११३

वह्यमिति निपात्यते करणं चेत् । वहन्त्यनेनेति वा शकटम् । 

वह्यं वाह्यमन्यत् । 

अर्यः स्वामिवैश्ययोः ॥ ११४

अर्य इति निपात्यते स्वामिनि वैश्ये च । आर्योऽन्यः | 

ऋतुमत्युपसर्या ॥११५ 

उपसर्येति निपात्यते ऋतुमती चेत् । उपसार्यान्या । 

अजर्यं सङ्गतम् ॥ ११६ 

अजर्यमिति कर्तरि निपात्यते सङ्गतं चेत् । अजर्यमार्यसङ्गतम् [जातकमाला ] | सङ्गतमिति किम् ? अजरिता कम्बलः । 

वदः सुपः क्यप् ११७ 

वदतेः सुपः परात् क्यब् भवति, यत् च । ब्रह्मोद्यम् ब्रह्मवद्यम् । सुप इति किम् ? वाद्यम् । अप्रादेरित्येव अभिवाद्यम् । 

भुवः ॥११८॥

भवतेः सुप परात् क्यब् भवति । ब्रह्मभूयं गतः । सुप इत्येव । भव्यम् । अप्रादेरित्येव । प्रभव्यम् । 

भावे हनस्त च ॥ ११९  

हन्ते सुप पराद् भावे क्यब् भवति, तकारश्चान्तादेश । ब्रह्म- 

हत्या | भाव इति किम् ? श्वघात्यः । सुप इत्येव । घातो वर्तते । अप्रादेरित्येव । उपघातः । ण्यदपि न भवति बहुलाधिकारात् । 

इण् स्तुशासुवृञ्दृजुषः १२० 

इणादिभ्यः क्यब् भवति । इत्यः । स्तुत्यः । शिष्यः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः | जुष्यः । कथम् उपेयः, अवश्यस्तुत्यः, आशास्यमन्यत् पुनरुक्तभूतम् [ रघु० ५।३४] अनिवार्यो गजरन्यै स्वभाव इव देहिनामिति [महाभारते ] ? बहुलाधिकारात् । 

ऋदुपान्तादक्ऌपिचृतः ॥१२१ 

ऋकारोपान्तात् क्रियार्थात् क्लुपिचृतिवर्जितात् क्यब् भवति । वृत्यम् । अक्लूपिचत इति किम् ? सङ्कल्प्यम् । विचर्त्यम् । 

खेयम् १२२  

खनतेः क्यपि खेयमिति निपात्यते । 

भृञोऽसंज्ञायाम् १२३॥

भृञोऽसंज्ञायां क्यब् भवति । भृत्यः । असज्ञायामिति 

। किम् भार्या । ननु च सज्ञायामपि स्त्रियां क्यबस्ति ? न तस्य भावे विधानात् । 

समो वा ।। १२४  

सपूर्वाद् भृञः क्यब् भवति वा । सभृत्यः, सभार्यः । 

कृषिमृजिशंसिदुहिगुहः १२५ 

कृञ्जादिभ्यः क्यब् भवति वा । कृत्यम्, कार्यम् । वृप्यम्, वर्ष्यम् । मृज्यम्, मार्गतम् । शस्यम्, शस्यम् । दुह्यम्, दोह्यम् । गुह्यम्, गोह्यम् । 

राजसूयरुच्चकृष्टपच्याव्यथ्या ॥ १२६  

एते शब्दा निपात्यन्ते । राज्ञा सोतव्यो राजसूयः । कथं सूर्यः ? सुरशब्दात् स्वार्थिको यत्, अथवा सूर्यागस्त्ययो [५|३|१५३] इति निपातनात् । मृषापूर्वाद् वदतेः क्यप् सिद्ध एव । मृषोद्यम् । पक्षे न भविष्यति बहुलाधिकारात् । रोचत इति रुच्यः । कृष्ठे पच्यन्त इति कृष्टपच्याः शालयः | न व्यथते, अव्यथ्यः | 

कुप्याज्यभिद्योद्ध्यसिध्ययुग्यानि नाम्नि ॥१२७

एनानि शब्दरूपाणि सज्ञायां निपात्यन्ते । कुप्यम्, धनम् । आज्यम्, घृतम् । भिद्यो नाम नदः । एवमुद्ध्यः | सिव्यः । कथं पुष्यः? निष्यपुष्ययोः [ ५|३|१५४] इति निपातनात् । युग्यम्, यानम् । अन्यत्र | गोप्यम्, अङ्ग्यम्, भेद्यम्, उज्झ्यम्, सेधनं सेध्यम्, योग्यम् । 

जित्याविपूयविनोया हलिमुखकल्केषु ॥ १२८  

जित्यादयो हल्यादिष्वर्थेषु निपात्यन्ते । जित्या हलिः, जेयमन्यत् । विपूयो मुञ्जः, विपाव्यमन्यत् । विनीयः कल्कः, विनेयमन्यत्। 

पदास्वैरिपक्ष्यबाह्यासु ग्रहः ॥ १२९ ॥

दादिष्वर्थेषु ग्रहः क्यब् भवति । प्रगृह्यं पदम्, यदचि न सन्धीयते । अवगृह्यं पदम्, यस्यावग्रहः क्रियते । अस्वैरिषु । गृह्यका इमे । अवरुद्धका इत्यर्थः। पक्षेषु । अर्जुनगृह्या । बाह्यायाम् । ग्रामगृह्या स्त्रीः | ग्राह्यमन्यत् । 

ऋहलो ण्यत् ॥ १३०  

ऋवर्णान्ताद्धलन्ताच्च क्रियार्थाण् ण्यद् भवति । कार्यम्, हार्यम् । पाक्यम्, वाक्यम् । 

पाणिसमवाभ्यां सृजः ॥ १३१  

पाणिपूर्वात् समवपूर्वाच्च सृजतेर्ण्यद् भवति । पाणिसर्ग्य रज्जुः । समवसर्ग्या । पाणिसमवाभ्यामिति किम् ? सृज्यम् । 

ओरावश्यके ।। १३२ ।।

उवर्णान्तादवश्यम्भावे गम्यमाने ण्यद् भवति । लाव्यम् । अवश्यलाव्यम्  । लव्यमन्यत् । 

आसुयुवपिरपिलपित्रपिचमिदम ॥ १३३  

आङ्पूर्वात् सुनोतेर्यौत्यादिभ्यश्च ण्यद् भवति । आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, अभिलाप्यम्, अपत्राप्यम्, आचाम्यम्, अवदाभ्यम् । 

अमावसो वा ।। १३४  

अमापूर्वाद् वसतेयद् भवति वा । सह वसतोऽस्याः चन्द्रार्कावित्यमावास्या, अमावस्या । ण्यता मुक्तेः यद् भवति । अनौवस इति प्रतिषेधान् नाद्युदात्तत्वं भवति । 

प्रणाय्योऽसम्मते ।। १३५ ।। 

प्रणाय्य इति निपात्यतेऽसम्मतश्चेत् । प्रणाय्यश्चौरः | असम्मत इति किम् ? प्रणेयः साधुः । कथं तदेतज्ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने इति ? बहुलाधिकारात् । 

धाय्यपाय्यानाय्यसान्नाय्यनिकाय्या नाम्नि १३६  

धाय्यादयः शब्दाः सज्ञायां निपात्यन्ते । 

धाय्या सामिधेनी । ततोऽन्यत्रापि रूढा वर्तते । धाय्या शासति । धेयमन्यत् । पाय्यमानम् । पेयमन्यत् । आनाय्यो दक्षिणाग्निः । यो हि गार्हपत्यादानीयः प्रणीयते । आनेयोऽन्यः । सान्नाय्यम् हविर्विशिष्टमेव । सन्नेयमन्यत् । निकाय्यो निवासः | निचेयोऽन्यः | 

क्रतौ कुण्डपाय्यसञ्चाय्यौ ॥ १३७

क्रुतावभिधेय एतौ शब्दौ निपात्येते । कुण्डै पीयते सोमोऽस्मिन् कुण्डपाय्यः क्रतुः। निपातनादाद्युदात्तत्वम् । सञ्चीयते सोमोऽस्मिन्निति सञ्चाय्यः क्रतुः । 

अग्नौ चित्योपचाय्यपरिचाय्या ॥ १३८  

चित्यादयोऽग्निविषये निपात्यन्ते । चित्योऽग्निः । चयनं चित्या । चिनोतेः क्यप्, अन्तोदात्तत्वं च । अग्नेश्चित्या, अग्निचित्या । उपचीयते, उपचाय्योऽग्नि । परिचीयते, परिचाय्य । समूह्य इत्यूहिना सिद्धम्, तस्यापि वह्यर्थे क्वचित् प्रयोगात् [पा ३।१।१३१।१-३] । सवाह्य इति चाग्नौ भवत्येव । 

कर्तरि ण्वुल्तृजचः १३९ ॥

कर्तरि कारके क्रियार्थात् परे ण्वुल्तृचो भवन्ति । पाचकः, पक्ता, पचः । बहुलमित्येव । पादाभ्यां ह्रियते, पादहारकः । गले चुप्यते, गलेचोपकः । श्वपचो जारभर इत्यण्विषयेऽप्यज् भवति बहुलाधिकारात् । कथं नदी चरी भपी प्लवी चोरी गाही सूदी देवीति ? गौरादिषु पठितव्या । कर्तरीत्यधिकारः प्राक् सुब्विधेः [ २|१|१] । 

नन्दिग्रहादिभ्यो ल्युणिनी ॥ १४०  

नन्द्यादिभ्यो ग्रहादिभ्यश्च कर्तरि ल्युणिनी परौ भवतः । नन्दि- वासिमदिदूषिसाधिशोभिवर्धिरोचिभ्यो ण्यन्तेभ्यः सज्ञायाम् । नन्दयतीति नन्दनः । एव वासन । मदन । दूषण | साधन | शोभन । वर्धन | रोचन | सहितपिदमः सज्ञायामण्यन्तात् । सहन । तपन | दमन । दुर्धर्षण ( ? )* | जल्पन | दर्पण | रमण | सक्रन्दन । सहर्षण | सकर्षण । जनार्दन । मधुसूदन । पवन । लवण । निपातनाण् णत्वम् । विभीषण | चित्तविनाशन | कुलदमन | व्याप्यपूर्वाणामण्विषयेऽपि भवति । गृह्णातीति ग्राही । स्थायी । निरक्षी । निश्रावी । याचिव्रजवदवसा नञ् पूर्वाणाम् । अयाची । अव्राजी । अवादी । अवासी । अचाम- चित्तकर्तृ काणाम् । अकारी धर्मस्य बालातप । विषायी, विषयीति देशे । अभिभवी, अभिभावीति भूते । परिभवी, परिभावीति पक्षे ह्रस्वत्व निपातनात् । कथम् उत्साही, उद्दासी, उद्भासी, समर्दी निवेशीति ? अत इनिना [ ४|२| ११९ ] सिद्धम् । एवमव्याहारी, अपराधी, उपरोधी ।

ज्ञाकॄप्रीइगुपधान्तात् कः१४२ 

जानातेः किरतेः प्रीणातेरिगुपान्ताच्च कर्तरि कः परो भवति जानातीति ज्ञः । उत्किरः । प्रियः । विक्षिपः । बहुलमित्येव । विक्षेप्ता, विक्षेपकः | देवः | प्रसेव : मेषः । 

आतः प्रादिभ्यः ।। १४२  

आकारान्तात् क्रियार्थात् प्रादिभ्यः परात् को भवति । प्रस्थः | त्रैड् पालने [ धातुपा ११४८४ ] इत्यस्य सुत्रम् । सुग्लः 

पाघ्राध्माधेट्दृशः शः १४३ [

पादिभ्यः पर शो भवति । उत्पिबः । घ्रादिसाहचर्यात् पिबते- ग्रहणम् । उज्जिघ्रः । बहुलाधिकाराद् व्याघ्र इति को भवति ।  विधमः । उद्धयः । पश्य, विपश्य, उत्पश्य । 

धारिपारिवेद्युदेजिचेतिसातिसाहिविन्दोऽप्रादेः ॥ १४४

धार्यादिभ्यो विन्दतेश्च प्रादिरहितेभ्यः शो भवति । धारयः, पारयः, वेदयः, उदेजयः, चेतयः, सातयः, साहयः, विन्दः, गोविन्दः, अरविन्दः | अप्रादेरिति किम् ? प्रवदकः । 

लिपो नेश्व ॥ १४५  

लिम्पते प्रादिरहितान् नेश्च परात् शो भवति । लिम्पः | निलिम्पा नाम देवाः । कथं ददो दध इति ? दददधोरचा सिद्धम् । स्वरविशेषमष्टमे वक्ष्यामः । 

ज्वलादिभ्यो णो वा १४६  

ज्वल दीप्तो [ धातुपा १५६१] इत्येवमादिभ्यो णः परो वा भवति । ज्वालः ज्वलः । चालः । चलः | [ धातुपा ११५८७ ] कसपर्यन्ता ज्वलादयो वृत्करणात् । 

श्यादिण् व्यधश्वसतनः १४७  

श्यायतेराकारान्तेभ्य इणादिभ्यश्च णो भवति । अवश्याय । कबाधनार्थ श्याग्रहणम् । दायः धायः । प्रत्यायः व्याधः, श्वासः अवतानः । लेहः, श्लेष इत्यचा सिद्धम् । 

आसमः स्त्रोः ॥ १४८  

आङः समश्च परात् स्रवतेर्णो भवति । आस्रावः, सत्रावः । कथं मास्रवः ? बहुलाधिकारात् । आसम इति किम् ? परिस्रवः । 

हृसोऽबात् ॥ १४९  

हृ सा इत्येताभ्यामवात् पराभ्यां णो भवति । अवहारः, अवसायः | अवादिति किम् ? हरः । 

दुन्योऽप्रादेः ।। १५० ।। 

दुनोतेनयतेश्च प्रादिरहिताण णो भवति । दावः नायः । अप्रादेरिति किम् ? प्रदवः, प्रणयः । बहुलाधिकारात् वनदवः | 

भुवो वा ।। १५१ ।। 

भवतेर्णो वा भवति । भावः, भवः । 

ग्रहः || १५२ ।।

अस्माण्णो वा भवति । ग्राहो जलचरः । ग्रहः सूर्यादिः । 

गेहे कः ॥। १५३ ।। 

गेहे ऽभिधेये ग्रह को भवति । गृहम् गृहा । 

गस्थकन् ॥ १५४

गायतेस्थकन् भवति । गाथकः | 

ण्युट् ॥ १५५  

गायतेः परो ण्युड् भवति । गायनः, गायनी । 

हो व्रीहिकालयोः ।। १५६  

जहातेव्रीहौ काले च ण्युड् भवति । हायना नाम व्रीह्य | हायन सवत्सर । व्रीहिकालयोरिति किम् ? हाता । 

नृतिखनिरजः शिल्पिनि ष्वुन् ॥ १५७  

नत्यादिभ्यः शिल्पिनि कर्तरि ष्वुन् भवति । नर्तकः, खनकः, रजकः । उच्चारणादनुनासिकलोपः । षकारो ङीषर्थः । नर्तकी, खनकी, रजकी । 

प्रुसृल्वो वुन् ॥ १५८  

प्रु सृ लू इत्येतेभ्यः शिल्पिनि वुन् भवति । प्रवकः, सरकः, लवकः । यस्य तु न तच्छिल्पम्, प्रोता स भवति । 

आशिषि ।। १५९ ।। 

आशंसायां गम्यमानायां क्रियार्थाद् वुन् भवति । जीवतात, जीवकः । नन्दतात्, नन्दकः | 

इति चान्द्रे व्याकरणे प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः  

व्याप्यादण् ॥ १  

क्रियाया यद् व्याप्य ततः परात् क्रियार्थादण् भवति । कुम्भं करोति, कुम्भकारः । काण्डलावः | वेदाध्यायः । बहुलाधिकारादिह न भवति । आदित्यं पश्यति । हिमवन्तं शृणोति । ग्रामं गच्छति । कथं मासशीला, मासकामा, मासभक्षा, कल्याणाचारा, कल्याणप्रतीक्षा, दुःखक्षमेति ? मासे शीलमस्याः, मांसशीला । एव सर्वत्र योज्यम् । यद्येवम्भोऽभिगमोऽस्या अम्भोऽभिगमेति प्राप्नोति, अम्भोऽभिगामीति चेष्यते । न भविष्यति, समासप्रकरणेऽपि बहुलाविकारात् । 

आतोऽप्रादेः कः ॥ २  

आकारान्तात् प्रादिरहितात् को भवति । गोदः, कम्बलदः । अप्रादेरिति किम् ? वडवासन्दायः । बहुलमित्येव । स्वर्गह्वायः, तन्त्रवायः, धान्यमायः, गोदायो व्रजतीति । सप्रादेरपि क्वचिद् भवति । प्रपाप्रदः, पथिप्रज्ञः, गोसख्यः । पूर्वक एवायं कः । अण् तु न सर्वत्रेत्युक्तम् । 

सुपः ॥ ३  

सुबन्तात् परादाकारान्तात् क्रियार्थात् को भवति । कच्छेन पिबति, कच्छपः । द्वाभ्यां पिबति द्विपः | पादपः । समे तिष्ठति, समस्थः । विषमस्थः । तुन्दं परिमाष्टि, तुन्दपरिमृजः । पूर्वकः एव चायं कः । अलस एवोच्यते । एव शोकमपनुदतीति शोकापनुदः पुत्रो जातः, आनन्दकर एवोच्यते । अन्यत्र तुन्दपरिमार्जः शोकापनोदः | एव मूलानि विभुजतीति मूलविभुजो रथः । नखमुचानि धनूषि । काकगुहास्तिला । अंशं हरतीति श्वपचादिवदच् । अंशहर । पूर्ववदणभावः । उद्यमने तु दृश्यते भारहारः | एवं कवचहरः क्षत्रियकुमारः | एव ताच्छील्ये पुष्पाहर इति । तथा पूजार्हा ब्राह्मणी । स्तम्बेरमो हस्ती । कर्णेजपः सूचकः । सप्तम्या बहुलम् [ || ११] इत्यलुक् । शक्तिग्रहः, लाङ्गलग्रहः अङ्कुशग्रहः, यष्टिग्रहः, तोमरग्रहः, घटग्रहः, घटीग्रहः, धनुर्ग्रह इति सर्वमचा सिद्धम् । एवं सूत्रग्रह इति धारणे, अन्यत्र सूत्रग्राहः । सज्ञायामपि । शं करोति, शङ्करः । खे शेते, खशयः । पार्श्वेन शेते, पार्श्वशयः । उत्तानं शेते, उत्तानशयः । दिग्धसहशय इति समासद्वयम् । किङ्करा यत्करा, तत्करा, बहुकरेति पूर्ववदेवाच । 

चरेष्टः ॥ ४ ॥

सुपः पराच्चरतेष्टो भवति । कुरुषु चरति 

कुरुचरः । कुरुचरी । भिक्षायां चरति, भिक्षाचरः । सेनायां चरति सेनाचर ।  आदायचरः | बहुलाधिकारादिह न भवति — कुरुश्चरतीति ।

पुरोऽग्रतोऽग्रेभ्यः सर्वेः ॥  

पुरस् अग्रतस् अग्र इत्येतेभ्यः परात् सर्तेष्टो भवति । पुरःसरः, पुरःसरी । अग्रतःसरः, अग्रतःसरी । अग्रेसरः, अग्रसरी । निपातनादलुक्, असख्यमेकारान्तं वा । 

पूर्वात् कर्तुः ॥ ६ ॥ 

पूर्वशब्दात् कर्तृवाचिनः परात् सर्वेष्टो भवति । पूर्वसर्ता, पूर्वसरः । पूर्वसरी । कर्तुरिति किम् ? पूर्वं सरति, पूर्वसारः | 

कुञो हेतुशीलातुलोमेषु ||| 

सुपः परात् करोतेर्हेतौ कर्तरि शीले वा गम्यमानेऽनुलोमे वा कर्तरि टो भवति । प्रतीतशक्तिकं कारणं हेतुः । विद्या यशस्करी । कन्या शोककरी । धनं कुलकरम् । शीलः प्रकृतिः । श्राद्धकरः । अनुलोमोऽनुकूलः । वचनकरः । एवम् दिवाकरः, दिवसकरः, दिनकरः, निशाकरः, रजनीकरः, क्षपाकरः, विभाकरः, प्रभाकरः, भास्करः कस्कादित्वात् सकारः कारकरः, अन्तकरः, अनन्तकरः, आदिकरः, बहुकरः, नान्दीकरः, किङ्करः, लिपिकरः, लिबिकरः, बलिकरः, भक्तिकरः, कर्तृकरः, चित्रकरः, क्षेत्रकरः, एककरः जङ्घाकरः, बाहुकरः, अहस्करः, यत्करः, तत्करः, धनुष्करः, अरुष्करः, कर्मकरः, घटीकर इत्यादि । हेत्वादिष्विति किम् ? कुम्भकारः कर्मकारः, शब्दकारः, श्लोककारः, कलहकारः, गाथाकारः, वैरकारः, चाटुकारः, सूत्रकारः, मन्त्रकारः, पदकारः, क्रमकारः । कुम्भादिकरणशीलेषु तु बहुलाविकारान् न भविष्यति । 

स्तम्बशकृद्भ्यां व्रीहिवत्सयोरिन् ॥८ 

स्तम्बशकृद्भयां परात् करोतेर्त्री हिवत्सयोरर्थयोरिन् भवति । नकार आद्युदात्तार्थः । स्तम्बकरिव्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोरिति किम् ? स्तम्बकारः, शकृत्कारः । 

हृञो दृतिनाथात् पशौ ||९ । 

हरतेदृ तिनाथाभ्या परात् पशौ कर्तरि इन् भवति । दृतिहारि पशु । नाथहरिः । पशाविति किम् ? दृतिहार, नाथहार । 

फलेग्रहिरात्मम्भरिः कुक्षिम्भरिः ॥१० 

एते शब्दा निपात्यन्ते । फलानि गृह्णाति, फलेग्रहिः । आत्मानमेव बिभर्ति, आत्मम्भरिः । कुक्षिमेव बिभर्ति, कुक्षिम्भरिः । 

एजे खश्११॥

एजयतेः सुपः परात् खश् भवति । खकारः खिति ससख्यस्य [५।२७५ ] इति विशेषणार्थः । अङ्गमेजयः जनमेजयः । 

शुनीस्तनाद धेट् ||१२|| 

शुनीस्तनाभ्यां पराद् धेट् खश् भवति । शुनिन्धयः, शुनिन्धयी । स्तनन्धयः, स्तनन्धयी । प्रकृतावानर्थक्याट् टकारो ङीबर्थो विज्ञायते । 

नासिकानाडीमुष्टिघटीखरीभ्यः ॥ १३ 

एतेभ्यः पराद् धेटः खश् भवति । नासिकन्धयः, नाडिन्धयः, मुष्टिन्धयः, घटिन्धयः खरिन्धयः । 

ध्मः पाण्यादिभ्यश्च ॥ १४ 

धमतेर्नासिकादिभ्यः पाण्यादिभ्यश्च परात् खश् भवति । नासिकन्धमः, नाडिन्धमः, मुष्टिन्धमः, घटिन्धमः खरिन्धमः | पाणिन्धमः, करन्धमः, वातन्धमः इत्यादि । 

कुलादुदो रुजिवहः ॥ १५  

कुलपूर्वाद् उद्पराभ्यां रुजिवहिभ्यां खश् भवति । कूलमुद्रुजः,कूलमुद्वहः । 

वहाभ्राल्लिहः ॥ १६  

वहाभ्राभ्यां पराल्लिहः खश् भवति । वहलिहो गौः । अलिहो वायुः । 

परिमाणात् पचः ॥ १७  

परिमाणार्थात् परात् पचतेः खश् भवति । द्रोणम्पचा स्थाली । खारिम्पचः कटाहः । 

मितनखात् १८  

मितनखाभ्यां परात् पचतेः खश् भवति । मितम्पचा ब्राह्मणी । नखम्पचा यवागूः 

विध्वरुस्तिलात्तु दः ॥ १९ 

विध्वादिपूर्वात् तुदतेः खश् भवति । विधुन्तुदः, अरुन्तुदः, तिलन्तुदः ।

वातमजशर्धं जहेरम्मदपरन्तपद्विषन्तपभगन्दरपुरन्दराः ॥२०

एते शब्दा निपात्यन्ते । वातमजन्तीति वातमजाः मृगाः । शर्धं जहति, शर्धजहा भाषा । इरया माद्यति इरम्मदः । परं तापयति, परन्तप । द्विषन्तं तापयति, द्विषन्तपः । भगं दारयति, भगन्दरः । पुरं दारयति, पुरन्दरः । 

उग्रासूर्याद्दशः ||२१|| 

उग्रासूर्याभ्यां पराद् दृशः खश् भवति । उग्रं पश्यति, उग्रम्पश्य । सूर्यं न पश्यन्ति, असूर्यम्पश्यानि मुखानि । दृशिना सम्बद्धस्य नञः सूर्येण सहैकार्थ्यं गमकत्वात् । 

ललाटात् तपः ॥ २२  

ललाटात् परात् तपतः खश् भवति । ललाटन्तपः । सूर्यादि ।

प्रियवशाद्वदः ||२३|| 

प्रियवशाभ्यां पराद् वदः खश् भवति । प्रियंवदः, वंशवदः । 

वाचंयमो व्रते२४

वाचयम इति निपात्यते व्रते गम्यमाने । वाग्यामोयत्र । 

सर्वात् सह ||२५|| 

सर्वशब्दात् परात् सहतेः खश् भवति । सर्वंसहः । 

कूलाभ्रकरीषाच्च कषः २६ 

कलादिभ्यः सर्वाच्च परात् कषतेः खश् भवति । कूलङ्कषा नदी । अभ्रङ्कषी गिरि । करीषङ्कषा वात्या । सर्वङ्कषः खलः | 

मेघर्तिभयात् कृञः खः ||२७|| 

मेघादिभ्यः परात् करोतेः खो भवति । मेघङ्करः, ऋतिङ्करः, भयङ्करः । कथमभयङ्करः ? भयेन सुबन्तस्य तदन्तविधिः | 

क्षेमप्रियमद्रादण् च ॥ २८  

क्षेमादिभ्यः परात् करोतेः खो भवति, अण् च । क्षेमङ्करः, क्षेमकारः । प्रियङ्करः, प्रियकारः । मद्रङ्कर, मद्रकारः | अणुग्रहणं हेत्वादिषु प्रतिषेधार्थम् । 

आशिताद्भुवो भावकरणयोः २९  

आशितशब्दात् पराद्भवतेर्भावे करणे च खो भवति । दुखमाशितम्भवम् । अलमाशितम्भव ओदनः । 

भृवृतजिसहितपिदमो नाम्नि ||३०|| 

एभ्यः सज्ञायां खो भवति । विश्वम्भरा वसुधा । पतिवरा कन्या । रथन्तरं साम । शत्रुञ्जयः । शत्रुंसह । शत्रुन्तपः । अरिन्दमः । 

धारेर्धर् ३१  

धारयतेः सुपः परात् खो भवति, घरादेशश्च । वसुन्धरा । 

गम ||३२|| 

सुप पराद् गमः खो भवति । सुतङ्गमः, भुजङ्गमः, मितङ्गमा हस्तिनी, पूर्वङ्गमाः पन्थानः, हृदयङ्गमा वाचः । 

विहायसो विह च ||३३||

विहायसः पराद् गमः खो भवति, विह इत्ययं चादेशः । विहङ्गमः । 

खड् ||३४|| 

सुपः पराद् गमः खड् भवति । तुरङ्गः, भुजङ्गः, प्रवङ्गः, प्लवङ्गः । वहायसो विह् चत्येव । विहङ्गः । 

||३५|| 

सुप पराद् गमेर्डो भवति । भुजंगः, तुरंगः, प्रवगः, प्लवगः, पतंगः, अन्तगः, अत्यन्तगः, अध्वगः, दूरगः, पारगः, सर्वगः, अनन्तगः, सर्वत्रगः, पन्नगः, ग्रामगः, गुरुतल्पगः, सुगः, दुर्गः, निर्गोदेशः । विहायसो विह चेत्यव । विहगः | 

उरग ||३६|| 

अयं शब्दो निपात्यते । उरसा गच्छति, उरगः । 

हन ||३७|| 

सुपः पराद्धन्तेर्डो भवति । क्लेशमपहन्तीति क्लेशापहः । तिमि वव्यात्, तिमिहः । तमोऽपहः | दुखापहः | पटहः । कथं दावघाटः ? घटतेर्भविष्यति । एव चानघाटः, वर्णसघाटः । च वहन्तीति चाघातः । एव वर्णसघातः । दार्वाघातोऽपि तर्हि प्राप्नोति ? असंज्ञायामिष्यत एव । 

शीर्षकुमाराण् णिनि ||३८|| 

शीर्षकुमाराभ्यां पराद्धन्तेर्णिनिर्भवति । शीर्षघाती, कुमारघाती ।

टक् ||३९|| 

सुपः पराद्वन्तेर्बहुलं टग् भवति । जायाघ्नस्तिलकालकः । पतिघ्नी पाणिलेखा । जायाघ्नो ब्राह्मणः । पतिघ्नी वृषली । श्लेष्मघ्नं त्रिकटुकम् । पित्तघ्नं घृतम् । वातघ्नं तैलम् । कृतघ्नः खलः | शत्रुघ्नः शूरः । गोघ्नोऽतिथिरिति बहुलाधिकारात् सम्प्रदानेऽपि । 

शक्तौ हस्तिकपाटात् ॥४० 

शक्तौ गम्यमानायां हस्तिकपाटाभ्यां पराद्धन्तेष्टम् भवति | हस्तिघ्नः । कपाटघ्नः । शक्ताविति किम् ? हस्तिघातः, कपाटघातः | हस्तिकपाटादिति किम् ? चौरघातः । 

नगरादहस्तिनि ॥४१ 

नगरात् पराद्धन्तेरहस्तिनि कर्तरि टग् भवति । नगरघ्नोऽग्निः । अहस्तिनीति किम् ? नगरघातो हस्ती । 

पाणिघताडघौ शिल्पिनि ४२

एतौ शब्दौ शिल्पिनि कर्तरि निपात्येते । पाणिभ्यां हन्ति पाणिं वा हन्ति, पाणिघः । ताडं हन्ति, ताडघः । शिल्पिनीति किम् ? पाणिघातः ताडघातः | 

राजयः ||४३||

अथ शब्दो निपात्यते । राजानं हन्ति, राजघः । 

गः ॥ ४४

सुपः पराद् गायतेष्टग् भवति । वक्त्रगः, वक्त्रगी | 

। सामगः,सामगी । बहुलमित्येव । सामसंगायः । 

शीधुसुरात् पिबः || ४५|| 

शीधुसुरापूर्वात् पिबादेशसम्बन्धिनः पा पाने [ धातुपा० १।२७४ ] इत्येतस्माट्टग् भवति । शीधुपः, शीधुपी । सुरापः सुरापी । शीधुसुरादिति किम् ? क्षीरपा । पिब इति किम् ? सुरां पाति, सुरा । कथं संज्ञायां सुरापा सुरापीति ? तत्र व्युत्पत्त्यर्थत्वात् क्रियाया द्वयमपि भविष्यति । 

सुभगाढ्यस्थलपलितनशान्धप्रियादच्वेर्भुवः खिष्णुच खुकञौ ४६ 

सुभगादिभ्योऽच्च्यन्तेभ्यश्च्विसादृश्याच्च्व्यर्थे वर्तमानेभ्यः पराद्भवतेः कर्तरि खिष्णुच्खुकञौ भवतः । सुभगम्भविष्णुः, सुभगम्भावुकः । आठप्रम्भविष्णुः, आढग्रम्भावुकः । स्थूलम्भविष्णुः, स्थूलम्भावकः । पलितम्भविष्णुः, पलितम्भावुकः । नग्नम्भविष्णुः, नग्नम्भावुकः । अन्वम्भविष्णुः अन्धम्भावुकः । प्रियम्भविष्णुः प्रिय- म्भावुकः । अच्वेरिति किम् ? आग्रीभविता । स्वाप्रम्भविष्णुरित्यादि तदन्तविधिना सिद्धम् । 

कृञः करणे ख्युन् ४७॥

सुभगादिभ्योऽच्व्यन्तेभ्यश्च्विसादृश्याच्च्व्यर्थे वर्तमानेभ्य परात् करोतेः करणे कारके ख्युन् भवति । सुभगङ्करणम् । आढ्यङ्करणम् । स्वाढ्यङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् । 

स्पृशोऽनुदकात् क्विन् ४८ 

स्पृशोऽनुदकात् परात् क्विन् भवति । घृतं स्पृशतीति घृतस्पृक् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । अनुदकादिति किम् ? उदकस्पर्शः । ककारोऽदेङभावार्थः । नकारः क्विनः [६ | ३|६० ] इति चिह्नार्थः, इकारो वेरनचः [५|१|६४] इति

चिह्नार्थः ] | 

दधृगुष्णिक्क्रुञ्चः ॥ ४९ 

एते शब्दा क्विनन्ता निपात्यन्ते । धृषेर्द्वित्वमन्तोदात्तत्वं च । दधृक् । उत्पूर्वस्य स्निहेस्तकारलोपः षत्वं च । उष्णिक् । क्रुञ्चेरनुनासिकलोपाभावः । क्रुड् । ऋत्विक् स्रग् दिगिति निपातनात् सिद्धम् । ऋत्विग्भ्यः ० [ ४।१।१५१], सजो विनि [४२।१३७], दिगादिभ्य [३।३।१७] इति निपातनात् । 

अञ्चुयुजः ५० 

अञ्चुयुजिभ्यां क्विन् भवति । प्रत्यङ्, युङ् 1 

समानान्यत्यदादेरुपमानाद् व्याप्ये दृशः क्सकञौ ५१

समानान्याभ्यां त्यदादिभ्यश्चोपमानेभ्यः पराद्दशेर्व्याप्ये क्सकञौ भवतः, क्विश्च । समान इव दृश्यते सदृक्षः सदृशः, सदृक् । अन्यादृक्षः, अन्यादृशः, अन्यादृक् । त्यादृक्षः, त्यादृशः, त्यादृक् । तादृक्षः, तादृशः, तादृक् । समानान्यत्यदादेरिति किम् ? वृक्ष इव दृश्यते । उपमाना- दिति किम् ? स दृश्यते । व्याप्य इति किम् ? स इव पश्यति । नकार ०कञ् क्वरप्ख्युन [२।३।१७] इति विशेषणार्थः । 

। 

भजो ण्विः ॥ ५२

भजः सुपः पराण् ण्विः परो भवति । अर्धभाक् पादभाक् । क्विप्विज्मनिनक्वनिप्वनिपः ॥५३ 

क्विप् विच् मनिन् क्वनिप् वनिप् इत्येते क्रियार्थात् परे बहुलं भवन्ति । उखास्रत्, पर्णध्वत्, वेदिषत्, अण्डसू, द्विट्, प्रद्विद्, मित्रद्विद्, मित्रध्रुक्, गोधुक, अश्वयुक्, वेदवित्, काष्ठभित्, रज्जुच्छित्, गोजित्, ग्रामणी, अग्रणी, सेनानी सम्राट् विराट्, विभ्राद्, सस्यात्, क्रव्यात् । बहुलाधिकारादन्नाद, क्रव्याद् । विच् । रेट् । मनिन् । सुदामा । क्वनिप् । सुधीवा । वनिप् । भूरिदावा | इकारो वेरनचः [५|१|६४ ] इति चिह्नार्थः । 

दुहो दुघः ||५४||

दुहः सुप पराद् दुघः परो भवति । कामदुघा धेनुः । बहुलाधि कारात् कामधुक् । 

आवश्यके णिनिः ५५ 

अवश्यम्भावे गम्यमाने क्रियार्थाण् णिनिर्भवति । अवश्यन्दायी । शतं दायी  

अजातेः शीलाभीक्ष्ण्ययोः ॥ ५६  

अजातिवाचिनः सुप परात् क्रियार्थाच्छीलाभीक्ष्ण्ययोर्गम्यमानयोर्णिनिर्भवति । उष्णभोजी । क्षीरपायिना उशीनरा । उदासारी । प्रत्यासारी । अजातेरिति किम् ? ब्राह्मणानामन्त्रयिता । 

साधोः ५७ 

साधुशब्दात् परात् क्रियार्थाण्, णिनिर्भवति । साधुकारी साधुदायी । कथं ब्रह्मवादी ? ब्रह्मणो वादो ब्रह्मवादः, सोऽस्यास्तीति ब्रह्मवादी । 

कर्तुरुपमानात् ५८ 

कर्तृवाचिन उपमानार्थात् परात् क्रियार्थाण् णिनिर्भवति । उष्ट्र इव क्रोशति, उष्ट्रक्रोशी । उपमानादिति किम् ? शालीनिव कोद्रवान् भुङ्क्ते

कर्तुरिति किम् ? । उष्ट्रः क्रोशति । 

व्रते ||५९||

सुपः परात् क्रियाद् व्रते गम्यमाने णिनिर्भवति । अश्राद्धभोजी । अर्थित्वात् प्रवृत्तौ नियमः । सति भोजनेऽश्राद्धमेव भुङक्ते न श्राद्धमिति । 

मनः || ६०||

मन्यते सुपः पराण् णिनिर्भवति । पटुमानी । 

आत्मनि खश्च६१ ॥ 

आत्मविषयान्मन्यते सुपः परात् खश् भवति णिनिश्च । पण्डितमात्मानं मन्यते, पण्डितम्मन्यः पण्डितमानी । 

भूते ॥ ६२॥

अयमधिकारः | 

यजः ||६३|| 

यजतेः सुप पराद् भूतेऽर्थे वर्तमानाम् णिनिर्भवति । अग्निष्टो- मेनेष्टवान् अग्निष्टोमयाजी । भूत इत्येव । अग्निष्टोमेन यजते । 

हनः कुत्सायाम् || ६४ 

हन्तेः सुप परात् कुत्सायां गम्यमानायां णिनिर्भवति । पितृव्यघाती, मातुलघाती । कुतः सायामिति किम् ? चौरं हतवान् । ब्रह्महा भ्रूणहा वृत्रहेति पूर्वक एव क्विप् । अन्यपूर्वादपि दृश्यते । मधुहा । अन्योऽपि च दृश्यते । ब्रह्मघ्नः । वृत्रस्य हन्तुः [ कुमारसम्भव २।२० ] | अन्यतो- ऽपि च दृश्यते । ब्रह्मवित् । भूत एव भविष्यति, तत्र प्रसिद्धत्वाद् बहुलाधिकाराद्वा । एवं सुकृत्, कर्मकृत्, पापकृत्, मन्त्रकृत्, पुण्यकृदिति पूर्वेणैव सिद्धम् । अन्यपूर्वादपि च दृश्यते । सूत्रकृत्, शास्त्रकृत्, भाष्यकृत् । अन्यपूर्वोऽपि च दृश्यते । मन्त्रवित् । अन्योऽपि च दृश्यते । कर्मकारः, मन्त्रकारः । सोमसुदिति पूर्वेणैव सिद्धम् । अन्यपूर्वादपि च दृश्यते । सुरासुत् । अन्योऽपि च दृश्यते । सोमं सुतवान् । अग्निचित् श्यनचित्, कङ्कचिदिति पूर्वेणैव सिद्धम् । सोमविक्रयी घृतविक्रयी, तेलविक्रयी, क्षीरविक्रयी । विरुयशब्दादिनि भविष्यति । देवदृश्वा राजयुध्वा, राजकृत्वा, सहयुध्वा, सहकृत्वेति पूर्वेणैव क्वनिपा सिद्धम्, अनिष्टनिवृत्तिस्तु बहुलाविकारात् । 

ङः ६५ 

सुपः परात् क्रियार्थाद्भूते वर्तमानाद्बहुलं डो भवति । उपसरे जातः, उपसरजः । ब्राह्मणेभ्यो जातः, ब्राह्मणजो धर्मः, क्षत्रियजं युद्धम् बुद्धिजः सस्कारः । न जातोऽजः । द्विर्जातो द्विजः । प्रजाता प्रजा । अभिजा, परिजा । पुमनुजा । अनुजा । प्रह्नः । ब्रह्मज्यः | परिखाता परिखा । वरमाहतवान् वराहः । 

क्तवतुः ॥ ६६॥

क्रियार्थात् परो भूते काले कर्तरि क्तवतुर्भवति । गतवान् शयितवान् । 

भावाप्ययोः क्तः ॥ ६७ 

भावे प्राये चार्थे भूते वर्तमानात् क्रियार्थात् क्तो भवति । आसितो भवता । कृतः कटो भवता । 

कतरि चारम्भः |||| 

क्रियारम्भे कर्तरि क्तो भवति, यथाप्राप्तं च । प्रकृतो भवान् कटम् प्रकृतः कटो भवता । प्रसुप्तो भवान् प्रसुप्तः भवता । 

श्लिषशीङ्स्थासवसजनरुहजॄभ्यः ॥ ६९  

श्लिषादिभ्यः कर्तरि क्तो भवति, यथाप्राप्तं च । आश्लिष्टो गुरुः भवान्, आश्लिष्टो गुरुर्भवता । अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता । उपस्थितो गुरुः भवान् उपस्थितो गुरुर्भवता । उपासितो गुरुः भवान् उपासितो गुरुर्भवता, अनूषितो गुरु भवान्, अनूषितो गुरुर्भवता । अनुजातो माणवको माणविकाम्, अनुजाता माणविका माणवकेन । आरूढो वृक्षो भवान्, आरूढो वृक्षो भवता । अनुजीर्णो वृषली देवदत्त, अनुजीर्णा वृषली देवदत्तन । 

गत्यर्थानाप्यादाधारे च ७० 

गत्यर्थादिव्याप्याच्च क्रियार्थादाधारे क्तो भवति, कर्तरि च यथाप्राप्तं च । इदमेषां यातम्, इह ते याताः, इह तैर्यातम्, अयं तैर्यातः पन्था । इदमेपामासितम् इह त आसिता इह तैरासितम् । देवश्चेदृष्टः सम्पन्नाः शालय इति कारणसामग्रीसम्मत्तिरत्राभिमता । 

आहारार्थात् ॥७१ 

अभ्यवहारार्थदाधारे क्तो भवति यथाप्राप्तं च । इदमेषां भुक्तम्, इदमेषां पीतम् । इह तैर्भुक्तम्, इह त स्तैर्भुक्तं पीतमुदकम् । अकर्त्रर्थो योगविभागः । कथं पीता गाव इति ? पीतमासा विद्यत इति पीता, बाहुलकाद्वा । 

सुत्वा सुत्वानौ सुत्वान इति क्वनिपा सिद्धम् । यज्वा यज्वानौ यज्वान इति वनिपा सिद्धम् । 

जॄषोऽतृन् ७२ 

जीर्यतेरतृन् भवति । जरन् ( (Greek geron ), जरती । 

श्रुसद्वसो लिड् वा ॥ ७३ ॥ 

शणात्यादिभ्यो भूते लिड् वा भवति । उपशुभावः, उपाश्रोषीत्, उपाशृणोत् । उपससाद, उपासदत्, उपासीदत् । अनूवास, अन्ववात्सीत्, अन्ववसत् । 

लिटः क्वसुः ||७४ ||

लिटः क्वसुरादेशो वा भवति । उपशुश्रुवान्, उपशुश्राव । जग्मिवान्, जगाम । 

इयिवाननाश्वाननूचानः ७५ ||

लिङन्ता एते शब्दा वा निपात्यन्ते । ईयिवान् इयाय, उपेयिवान्, उपेयाय, समीयिवान्, समियाय । अनाश्वान्, नाश । अनूचान्, अनुवाचः । 

लुङ् ॥७६॥

भूते वर्तमानात् क्रियार्थाल्लुङ् भवति । अकार्षीत् । कथं रात्रि शेषेऽमुत्रावात्ममिति ? सकला रात्रिः जागरितो रात्रेर प्रभातत्वादद्यतनमिव कालो मन्यते । यस्तु मुहूर्तमपि सुप्तः सोऽनद्यतनमेव जानन्नाह । अमुत्रावसमिति । सर्वत्र च भूतकालसामान्यविवक्षायां लुङ् भवत्येव । यथा । अगमाम घोषान्, अपाम पयः, अशयिष्महि पूतितृणष्विति । 

अनद्यतने लङ् ७७

अविद्यमानाद्यतने भूतेऽर्थे वर्तमानात् क्रियार्थाल्लङ्, भवति । अपचत् । अनद्यतन इति किम् ? अपाक्षीत् । अन्यार्थं किम् ? अद्य ह्यो वाभुक्ष्महि । 

स्मृत्युक्तौ लृट् ॥७८ 

स्मृतिवचने सति भूतानद्यतनेऽर्थे लृड् भवति । स्मरसि देवदत्त कश्मीरेषु वत्स्यामः? अभिजानासि देवदत्त कलिङ्गेषु वत्स्यामः ?

यदि ॥ ७९

यच्छब्दे प्रयुज्यमाने स्मृतिवचने सति भूतानद्यतनर्थे वर्तमानात् क्रियार्थालुड् भवति न । । स्मरसि देवदत्त यत् कश्मीरेष्ववसाम ? 

वाकाङ्क्षायाम् ||८०||

क्रियान्तराकाङ्क्षायां सत्यां स्मृतिवचने प्रयुज्यमाने भूतानद्यतनेऽर्थे वर्तमानात् क्रियार्थाल्लड् वा भवति, यदि चायदि वा । स्मरसि देवदत्त यत् कश्मीरेषु वत्स्यामो यत् तत्रौदनं भोक्ष्यामहे । स्मरसि देवदत्त यत् कश्मीरेष्ववसाम यत् तत्रोदनमभुज्ज्महि ? स्मरसि देवदत्त कश्मीरेषु वत्स्यामस्तत्रोदनं भोक्ष्यामहे ? स्मरसि देवदत्त कश्मीरेष्ववसाम तत्रौदनमभुमहि ? इह कस्मान् न भवति – स्मरसि देवदत्त, इति ह कश्मीरेष्ववसाम, कश्मीरेषु शश्वदवसामेति ? व्यवस्थितविभाषया बहुलाविकाराद्वा । 

परोक्षे लिट् ॥ ८१

परोक्षसाधनविषये भूतानद्यतनेऽर्थे वर्तमानात् क्रियार्थाल्लिड् भवति । जगाम । सुप्तोऽह किल विललाप । मत्तोऽह किल विललाप । अत्यन्तापह्नवे प्रत्यक्षस्याप्यपह्न तत्वात् । । क कलिङ्गं जगाम? कामरूपं विवेश ? परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात् परोक्षत्वस्याविवक्षायां लड् भवत्येव । अजयज्जर्तो हूणानिति । सतोऽपि चाविवक्षा भवति, यथानुदरा कन्येति । एवम् इति हाकरोत् इति ह चकार । शश्वदकरोत्, शश्वच्चकार । किमगच्छत् पाटलिपुत्रम् ? किं जगाम ? कथं भूतानद्यतने परोक्षे चापरोक्षे च करोति स्म, वसन्तीह पुरा छात्रा इति ? स्मपुराशब्दाभ्यां भूते काले ज्ञापिते तस्मिन् काले वर्तमानत्वात् । यथा 

भाषते राघवस्तदेति । ऊषुरिह पुरा छात्रा इति परोक्षे लिडस्त्येव । परोक्षत्वस्याविवक्षायाम् अवसन्निह पुरा छात्रा इति लड् । अनद्यतनस्याप्यविवक्षायाम् अवात्मुरिह पुरा छात्रा इति लुड् । पृष्टप्रतिवचने ननु करोमीति वर्तमाने क्रियाफलस्यानुवृत्तेः । एवम्, अह नु करोमोति । न करोमीति वर्तमानेऽपि प्रतिषेधः | 

वर्तमाने लट् ॥ ८२

वर्तमानर्थे वर्तमानात् क्रियार्थालड् भवति । पचति, पठति । विदेः श्वसुः ||८३ || 

विदेः परस्य लटः श्वसुर्बहुलं भवति । विहान्, वेत्ति, विदन् ।

शतृ ॥ ८४  

लटः शत्रादेशो भवति बहुलम् । सन् ब्राह्मणः, अस्ति ब्राह्मणः । जुह्वत्, जुहोति । हे पचन् । पचन्तं पश्य । पचता कृतम् । जल्पन्तो ज्ञायन्ते पण्डिताः । पठन्नास्ते । मा पचन् । धारयन्नुपनिषदम् । चौरस्य द्विषन् । चौर द्विषन् । सुन्वन्तः । अर्हन् । 

इङः शक्तौ ८५ 

इङः शक्तौ गम्यमानायां लटः शत्रादेशो भवति । अधीयन् पारायणम् शक्ताविति किम् ? शक्नोति । अधीते पारायणम्, न च शक्नोति।

शानच् ॥८६ 

लटः शानजादेशो भवति बहुलम् । पचमानः, पचते । हे पचमान । पचमानं पश्य । पवमानेन कृतम् । शयाना भुञ्जते यवना । अधीयान आस्ते । मा पचमानः । पूङ्यजोश्च शानच्याद्युदात्तत्वं वक्ष्यामः | 

शक्तिवयःशीलेषु ॥ ८७ 

शक्त्यादिषु गम्यमानेषु लटः शानज् भवति ।पुनर्विधानादतडानभ्योऽपि । कतीह कण्वे निघ्नानाः ? कतीह जल्पमानाः ? कतीह कवचं पर्यस्यमानाः ? कतीह नृत्यमानाः ? 

तौ लृटः ॥८८ 

तौ शतृशानची लूटोऽपि बहुलं भवतः । करिष्यन् करिष्यमाणः । करिष्यति, करिष्यते ।  

शीलसाधुधर्मेषु तृन् ॥ ८९  

शीलादिष्वर्थेषु क्रियार्थाद्बहुलं तृन् भवति । उपादाता कुमारकान् । गन्ता खेटम् । मुण्डयितारः श्राविष्ठायना भवन्ति वधूमूढाम् । शीलादिष्वित्यधिकारः पादपरिसमाप्तं यावत् । कथं होता पोता नेष्टा त्वष्टा क्षत्तेति ? औणादिका एवैते

निराअलम्भां कुरिष्णुच् ९० 

निरा अलमित्येताभ्यां परात् कृञः शीलादिषु गम्यमानेष्विष्णुज् भवति । निराकरिष्णुः, अलङ्करिष्णुः । 

उद्ः पचपतमदः ॥९१ 

उदः परेभ्यः पचादिभ्यः शीलादिषु गम्यमानेप्विष्णुज् भवति । उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः । 

प्रजनरुच्यपत्रपट्टतुट्टधुसहचरभ्राजः ॥ ९२  

एभ्यः शीलादिष्विष्णुज् भवति । प्रजनिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्णुः, सहिष्णुः, चरिष्णुः, भ्राजिष्णुः । 

भुवः ॥ ९३॥

भवतेरिष्णुज् भवति । भविष्णुः । 

जिग्लश्च क्त्नुः ॥ ९४  

जयतेग्लयितेर्भवतेश्च शीलादिषु कुत्नुर्भवति । जिष्णुः, ग्लास्नुः, 

स्थास्तुः ९५ 

स्थास्नुरितीत्वाभावो निपात्यते । 

त्रसिगृधिषिक्षिपेः क्रुः ९६॥

त्रसादिभ्यः शीलादिषु क्नुर्भवति । त्रस्नुः, गृध्नुः, धृष्णुः, क्षिप्तुः । शमादिभ्यो घिनुण् न वक्तव्यः । शमोऽस्यास्तीति शमी । एव दमी, तमी, श्रमी, भ्रमी, क्षमी, क्लमी, उन्मादी | तथा सम्पर्की, अनुरोधी, आयामी, आयासी, परिसारी, ससर्गी, परिदेवी, सज्वरी, सज्वारी, परिक्षेपी, परिराटी, परिवादी, परिवाही, परिमाही, दोपी, द्वेषी, द्रोही, दोही, योगी, आक्रीडी, विवेकी, त्यागी, रागी, भागी, अतिचारी, अपचारी, आमोषी, अभ्याघाती, विकाषी, विलासी, विकत्थी, विस्रम्भी अपलाषी, विलाषी, प्रलापी, प्रसारी, प्रद्रावी, प्रमाथी, प्रवादी, प्रवासी । अन्यपूर्वेभ्योऽपि दृश्यते । विरोधी प्रयामी प्रयासी, विसारी, विसर्गी, सवादी, विवादी, अनुवादी, विदाही, सञ्चारी, व्यभिचारी, विघाती, विद्रावी, सवासी । अन्येभ्योऽपि च दृश्यते । रोगी, भोगीत्यादि । तृनपि शमादिभ्यो यथादर्शन बहुलाधिकाराद् भविष्यति । प्रवदिता, प्रवसिता । निन्दा- दिभ्यो वुञ् च न वक्तव्य । निन्दक इति ण्वुला सिद्धम् एव हिंसकः, क्लेशकः, खादकः, विनाशकः, परिक्षेपकः परिराटकः, परिवादकः, व्याभाषकः, असूयकः, परिदेवकः, आक्रोशकः । अन्येभ्योऽपि च दृश्यते । घातकः, मारकः । 

चालशब्दार्थादनाप्यादुश्च ९७ 

चालार्थाच्छब्दार्थाच्च व्याप्यरहिताच्छीलादिषु युज् भवति । चालनं, चोपनं । रवणं, शब्दनं । अनाप्यादिति किम् ? पठिता विद्याम् । 

तङ्वतो हलादेरङः |||| 

तवान् यो हलादिरङकारकस्तस्माच्छीलादिष्वथषु युज् भवति । वर्तनं, वर्धनं, देवनं । परिदेवक इति  न भवति बहुलाधिकारात् । तड्वत इति किम् ? भविता । हलादेरिति किम् ? एधिता । आदिग्रहणं किम् ? जुगुप्सनं, तितिक्षणं इत्यत्रापि यथा स्यात् । अङ इति किम् ? शयिता । अनाप्यादित्येव । वसिता वस्त्रम् । 

जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ ९९ ॥

एभ्यः शीलादिषु युज् भवति । जवनः चक्रमणः, दन्द्रमणः, सरणः, गर्धनः, ज्वलनं, शोचनं, अभिलषणः, प्रपतनः, प्रपदनः । चलनार्थानां पदेश्च ग्रहणं व्याप्यवदर्थम् । पदिग्रहणमुकञा बाधितस्य युचः पुनविधानार्थमित्येके । तदनर्थकं बहुलाधिकारात् । ताच्छीलिकेषूत्सर्गस्यापवादसमावेशा भावज्ञापनार्थमित्यपरे । तथाप्यनर्थकं समावेशस्यापि दर्शनात् । तथा हि । गामुको गन्तेति समावेशोऽपि दृश्यते । एवं विकत्थी विकत्थन इति भासुरः भास्वरः भासनमिति, जागरिता जागरूक इति, वर्धिष्णुर्वर्धन इति, अपलाषुकोऽपलषण इति । तस्माद् बहुलाधिकारादेवात्र सिद्धम् । 

क्रुधभूषार्थात् १००  

कोधार्थेभ्यो मण्डनार्थेभ्यश्च शीलादिषु युज् भवति । क्रोधनः, कोपनः | भूषणः, मण्डनः । 

न यदीक्षः ॥ १०१  

यकारान्ताद्दीक्षश्च युज् न भवति । क्नुयिता । दीक्षिता । सूदि- दीपिभ्यां प्रतिषेधो वक्तव्यः सूदिता, दीपिता ? न वक्तव्यः | अरिसूदन इतीह दृश्यते । दीपेरपि रो बाधको भविष्यति । कथं तर्हि दीपिता ? तुनो रेणः समावेशो भविष्यति, युचो न भविष्यति, बहुलाधिकारात् ।

लषपतपदस्थाभूशवृषहनकमगम उकञ् ॥ १०२  

लषादिभ्यः शीलादिषूकञ् भवति । अपलाषुकः, प्रपातुकः उपपादुकः, उपस्थायुकः, प्रभावुकः, प्रशारुकः, प्रवर्षुकः, आघातुकः, कामुकः, आगामुकः । 

जल्पभिक्षकुलुण्टङः षाकन् ॥ १०३

जल्पादिभ्यः शीलादिषु षाकन् भवति । जल्पाकः, भिक्षाकः, कुट्टाकः, लुण्टाकः, वराकः । षकारो ङीषर्थः, जल्पाकी । कथं प्रजवी ? प्रजवोऽस्यास्तीति प्रजवी । एवं विजयी, दरी, क्षयी, विश्रयी, अत्ययी, वसा, अव्यथी, अभ्यमी, परिभवी, प्रसवीति । 

स्पृहिगृहिपतिशीङ आलुच् ॥ १०४  

एभ्यः शीलादिष्वालुज् भवति । स्पृहयालुः, गृहयालुः, पतयालुः, शयालुः । कथं दयालुः, निद्रालुः, तन्द्रालुः, श्रद्धालुरिति ? मत्वर्थीयं वक्ष्याम [४/२/१५७] । 

धेसिशदसदो रुः ॥ १०५  

धादिभ्यः शीलादिषु रुर्भवति । धारुः, सेरुः, शत्रुः, सद्रुः । कथं दारु ? अङ्गुलेर्दारुणि [ ४/४/९७ ] इति निपातनात् । 

सृघसदः क्मरच ॥१०६ 

एभ्यः क्मरज् भवति । सृमरः, घस्मरः,अद्मरः । 

भञ्जिभासिमिदो घुरच् १०७ 

भञ्जादिभ्यो घुरज् भवति । भज्यते स्वयमेव भनक्ति वात्मानम्, भङ्गुरं काष्ठम् । यस्तु परं भनक्ति तत्र न भवति बहुलाधिकारात् । भासत इति भासुरः । मेदुरः । 

विदिभिदिच्छिदेः कुरच् ॥ १०८

विदादिभ्यः कुरज् भवति । वेत्तीति विदुरः । भिद्यते स्वयमेव भिनत्ति वात्मानम् भिदुरः । छिद्यते स्वयमेव छिनत्ति वात्मानम्, छिदुरः । यस्तु परं  भिनत्ति छिनत्ति वा तत्र न भवति, बहुलाधिकारात् । तत्रापि केचिदिच्छन्ति – दोषान्धकारभिदुरो दृप्तारिपक्षच्छिदुर इति । 

इण् जिसृनशः करप् १०९ 

इणादिभ्यः क्वरब् भवति । इत्वरः, जित्वरः, सृत्वरः, विनश्वरः । 

गत्वरः ।। ११० ।। 

गत्वर इति निपात्यते । 

यजजपदहदशो यङः ॥। ११२ । 

यजादिभ्यो यडन्तेभ्य ऊकः परो भवति । यायजूकः, जञ्जपूकः, दन्दहूकः, दन्दशूकः । 

सहिचलिवहः किकिनौ ||११३ ||

सहादिभ्यो यडन्तेभ्यः किकिनौ परौ भवतः । सासहिः, चाचलिः, वावहिः । 

पापतिः ||११४

पापतिरिति नीगभावो निपात्यते । 

चक्रिसस्रिजज्ञय ||११५  

चादयो निपात्यन्ते । कथं दधि ? अस्थिदधि[ ५|४ | ३१] इति निपातनात् सिद्धम् । नेमिरित्यौणादिकः [१/६४] | 

स्म्यजसहिंसदीपनमकमकम्पो रः ॥ ११६  

स्म्यादिभ्यो रो भवति । स्मेःर, अजस्रम्, हिस्रः, दीघ्रः, नम्रः, 

। कम्रः, कम्प्रः । युजपि भवत्येव । कमनः, कम्पन इति । 

सनाशंस उः ११७ 

सनन्तेभ्य आशसश्च उः परो भवति । चिकीर्षुः । आशसुः । 

विन्दुरिच्छुः ॥ ११८

एतौ शब्दौ निपात्येते।

स्वप्नक् तृष्णक् ११९ 

स्वपितृषो नजिङ् निपात्यते । 

शॄवन्देरारुः ॥१२०

शृणातेर्वन्दतेश्च आरुः परो भवति । शरारुः, वन्दारुः | 

भियः क्रुः १२१  

बिभेतेः क्रुः परो भवति । भीरुः । कना भीरुकः । लत्वेन | भीलुकः । 

स्थाभासपिसकसो वरच १२२ 

स्थादिभ्यो वरज् भवति । स्थावरः । ईश्वरार्थात् [२२/६९ ] इति ईश्वरः । भास्वरः, पेस्वरः, कस्वरः । 

यो यङः ॥१२३|| 

यातेर्यङन्ताद् वरज् भवति । यायावरः । कथं भ्राट्, भा, धूः विद्युत्, ऊर्क्, पूः, ग्रावस्तुत्, स्वयम्भूः प्रतिभूरिति ? क्विपा पूर्वण सिद्धम् वाक् प्राट्, श्रीः, शतद्रुः, कटप्रूः, स्रूः, जूरित्यौणादिका [३/९] | एवमायतस्तू, जुहूः, दिद्युत्, जगत् ददूदिति । धीरिति सुप्यसुधिय [५/३/८९] इति निपातनात् सिद्धम् । विभुः, प्रभुः, सम्भुः, शम्भुः, मितद्रु- रित्योणादिका [ १ २१] । धात्री, दात्रम्, नेत्रम्, शस्त्रम्, योत्रम्, योक्त्रम्, स्तोत्रम् तोत्तम्, सेत्रम्, सेक्त्रम्, मेड्ढम्, पत्तम्, दष्ट्रा, नीति करणे ष्ट्रनौणादिका [ ३।४२ ] | तथा हलस्य पोत्रम्, सूकरस्य पोत्रम्, अरित्रम्, लवित्रम्, धवित्रम्, सवित्रम्, खनित्रम्, सहित्रम्, चरित्रम्, पवित्रम् । यज्ञे पवित्रम्, पवित्रा नाम नदी पवित्रो नाम ऋषि, पवित्रोऽग्निरिति । प्रक्ष्विण्ण इति यत्राभूतकालता तत्र क्तः । एव राज्ञा मत, राज्ञामिष्टः, राज्ञा बुद्धः, राज्ञा पूजितः । एव शीलितः, रक्षितः, क्षान्तः, आक्रुष्टः, जुष्टः, रुष्टः, रुषितः, अभिव्याहृतः, दयितः, हृष्टः, कान्तः, संयतः, उद्यतः, अमृत इति । कष्टमिति भूततायामेव हेतोः, फल त्वत्र भावि । 

इति चान्द्र व्याकरणे प्रथमाध्यायस्य द्वितीयः पादः समाप्तः

उणादयः ॥ १ ॥ 

क्रियार्थात् परे बहुलमुणादयो भवन्ति । केचिद्वर्तमाने । कारुः, वायुः । केचिद् भूते वृत्तं तदिति वर्त्म । भसितं तदिति भस्म । केचिद्भविष्यति । ग्रामगमी, ग्रामागामी । 

भविष्यति लट्  

भविष्यदर्थे वर्तमानात् क्रियार्थालुट् परो भवति । करिष्यति ।

अनद्यतने लुट ||||

अविद्यमानाद्यतने भविष्यदर्थे वर्तमानात् क्रियार्थालुट् परो भवति । श्वः कर्ता । अन्यपदार्थ किम् ? अद्य श्वो वा गमिष्यति । कथं यावद् भुङ्क्ते ततो व्रजतीति ? वर्तमानममीपस्य तद्ग्रहणेन ग्रहणात् । पदाद्वा । वर्तमानता गम्यते, पदान्तराद्भविष्यत्ता । लृट् तर्हि कस्मान्न भवति ? ततः प्रभृति वर्तमानस्य विवक्षितत्वात् । भविष्यद्विवक्षायां तु यावच्छब्दप्रयोगो न स्यात् । अधीष्व माणवक, पुरा विद्योतते विद्युदिति वर्तमानस्यैव विवक्षितत्वात्, तत्समीपस्य तद्ग्रहणेन ग्रहणात् । पुराशब्दाद्वा भविष्यत्तावगमे तदा तस्य वर्तमानत्वात् । कदाकर्हिशब्द- प्रयोगे तु स्वे स्वे विषये विवक्ष्यमाणे लकारत्रयं भवति । कदा भुङ्क्ते ? कदा भोक्ष्यते ? कदा भोक्ता ? कर्हि भुङ्क्ते ? कर्हि भोक्ष्यते ? कर्हि भोक्ता ? लिडादयोऽपि भवन्ति । कदा बुभुजे ? कदा भुक्तवान्?  तथा किंवृत्तप्रयोगे लिप्सायां गम्यमानायाम् । को भवते भिक्षां ददाति ? को भवतं भिक्षां दास्यति ? को भवते भिक्षाया दाता ? तथा लिप्स्यमानसिद्धावपि विवक्षितायाम् । यो भवते भिक्षां ददाति स स्वर्गलोकं याति । यो भवते भिक्षां दास्यति स स्वर्गलोक यास्यति । यो भवते भिक्षाया दाता स स्वगलोकस्य याता । यो भवते भिक्षामदात् स स्वर्गलोकमगमत् । तथा । उपाध्यायश्वेदागच्छत्यथ त्वं छन्दोऽधीष्व । उपाध्यायश्चेदागमिष्यत्यथ त्व व्याकरणमधीष्व । उपाध्यायश्वेदागन्ता अथ त्वं मीमासामधीष्वेति । तथा, ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छति, उपाध्यायश्वेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्वेति । ऊर्ध्वं मुहूर्तादुपाव्यायश्वेदागच्छेदथ त्वं छन्दोऽधीष्वेत्याशसायां लिङ् अस्त्येव । तरमादूर्ध्वमौहूर्तिकादन्यत्रापि भवितत्यमेव लिङ् । उपाध्यायश्रचेदागच्छेदथ त्वं छन्दोऽधीष्वेति । 

माङि लुङ् ४॥

माङि प्रयुज्यमाने भविष्यदर्थे वर्तमानात् क्रियार्थाल्लुङ् भवति । मा कार्षीत् । ङकारः किम् ? मा करोतु । मा करिष्यति । 

स्मपरे लङ्

स्मोत्तरे माङि प्रयुज्यमाने लङ् भवति, लुङ् च । मा स्म करोत् । मा स्म कार्षीत् । 

तुमुन् भावे क्रियायां तदर्थायाम् || || 

भविष्यदर्थे वर्तमानात् क्रियार्थाद् भावे तुमुन् भवति क्रियायां तदर्थायां प्रतीयमानायाम् । पक्तुं व्रजति । भाव इति किम् ? पक्ष्यामीति व्रजति । क्रियायामिति किम् ? भिक्षिष्य इत्यस्य जटा । तदर्थायामिति किम् ? गमिष्यतस्ते भविष्यत्यन्न भोजनाय । तुमुनो नकारः स्वरार्थः, उकार उच्चारणार्थः । कथं कारको व्रजति ? पूर्वेण ण्वुला सिद्धम् । तृजादयोऽपि तर्हि प्राप्नुवन्ति ? न, तैस्तादर्थ्यानवगमात् । न हि कर्ता व्रजति, विक्षिपो व्रजतीति तादर्थ्य गम्यते । ण्वुलपि तर्हि न प्राप्नोति न हि कारको व्रजतीति तादर्थ्यं गम्यते । अथ प्रकरणात् तादर्थ्यं गम्येत ? तृजादिष्वपि समानम् । तस्मान्नैव तादर्थ्ये ण्वुलादयः सम्भवन्ति, प्रकरणात्तु तादर्थ्यं गम्यते । तथापि बहुलाधिकाराण् ण्वुल् भविष्यति, तृजादयो न भविष्यन्ति । पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजतीत्येवमादि घञ्ञाद्यन्तात् तादर्थ्यं चतुर्थ्या सिद्धम् । गोदायो व्रजतीति कविषयेऽपि बहुलवचनादण् भविष्यति । अन्यत्रापि तर्हि प्राप्नोति बहुलाधिकारादन्यत्र न भविष्यति । 

घञ् कारके  

भावे कारके च क्रियार्थाद्बहुलं घञ् भवति । भावे । पाकः, त्यागः । कारकेऽपि सज्ञायां तावत् । पद्यतेऽनेनेति पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शो व्याधिविशेषः | सरति कालान्तरमिति सारः स्थिरोऽर्थः । सरन्त्यनेनति सारो बलम् । अतीसारो व्याधिः । विसारो मत्स्यः । प्रास्यत इति प्राप्तः । दीर्यन्त एभिरिति दाराः । जीर्यतेऽनेनेति जारः । असज्ञायामपि दायो दत्तः । लाभो लब्धः । 

संख्यातात् |||| 

सख्यायां परिमितार्थाद् घञ् भवति । एकस्तण्डुलनिश्चाय | बहुलाधिकारादेको निश्चयः । एका तिलोच्छ्रिति । 

इङः षिद्वा ॥ ९ ॥ 

इङो घञ् भवति, षिद्वा । उपेत्याधीयतेऽस्मादुपाध्यायः । उपाध्यायी, उपाध्याया । 

शॄ वायुवर्णनिवृतेषु ॥ १०॥

शॄ इत्येतस्माद् घञ् भवति वाय्वादिष्वर्थेषु । शारो वायुः । शारो वर्णः । नीशार आवरणम् । एतेष्विति किम् ? शरः । 

प्रादिभ्यो रुवः ॥ ११ 

प्रादिभ्यः पराद् रौतेर्घञ् भवति । सरावः । प्रादिभ्य इति किम् ? रवः । कथ रावः ? बहुलाधिकारात् । 

समो युद्रुदवः ॥१२ 

समः परेभ्यो यौत्यादिभ्यो घञ् भवति । सयावः, सन्द्रावः, 

सन्दावः | सम इति किम् ? यवः, द्रवः, दवः । कथं यावो द्रावो दाव इति ? सपूर्वेभ्यो घञ् एवेति नियमादपोऽपि वानित्यत्वात् ।

वेः क्षुश्रुवः ॥१३ 

विपूर्वात् क्षोतेः शृणोतेश्च घञ् भवति । विक्षावः, विश्रावः । वेरिति किम् ? क्षवः श्रवः । 

श्रिवादेः || १४ || 

श्रयतेर्भवतेश्च प्रादिरहिताद् घञ् भवति । श्रावः, भावः । अप्रादेरिति किम् ? प्रश्रयः प्रभवः । कथं प्रभावः, विभावः, अनुभाव इति ? बहुलाधिकारात् । प्रकृष्टो वा भावः प्रभावः, विगतो वा भावो विभावः, अनुगतो वा भावोऽनुभावः । 

नियः ॥ १५  

नयतेः प्रादिरहिताद् घञ् भवति । नायः । अप्रादिरित्येव । प्रणयः । कथं नयः ? न्यायो नये [१।३।२८] इति निपातनात् । 

अवोदः ||१६|| 

अव उदित्यवपूर्वान् नियो घञ् भवति । अवनायः उन्नायः । कथमुन्नयः ? बहुलाधिकारात् । उद्गतो वा नय उन्नयः । 

परेर्द्युते १७ 

परिपूर्वान् नयतेद्यूतविषये घञ् भवति । 

हन्ति । द्यूत इति किम् ? परिणयः । परिणायेन शारीन् हन्ति। द्युत इति किम्? हन्ति। 

प्रात् स्रुद्रुस्तुवः ॥१८ 

प्रपूर्वेभ्यः स्रवत्यादिभ्यो घञ् भवति । प्रस्रावः, प्रद्रावः 

प्रस्तावः । प्रादिति किम् ? स्रवः द्रवः । कथं स्रावः ? बहुलाधिकारात् । 

निरभेःपूल्वः ||१९|| 

निरभिपूर्वाभ्यां पूलूभ्यां घञ् भवति । निष्पावः, अभिलावः । न्युदो ग्रः ||२०|| 

नेरुदश्च पराद् गिरतेर्घञ् भवति । निगारः, उद्गारः । न्युद इति 

 किम् ? गरः । 

कृ धान्ये ॥ २१

किरतेर्धान्यविषये न भवति । उत्कारो धान्यस्य । धान्य इति 

घञ् किम् ? पुष्पोत्करः | 

नीवाराः ||२२|| 

नीवारा इति निपात्यते वान्येऽभिवेये । 

यज्ञे संस्तावः २३  

संस्ताव इति निपात्यते यतविषये । संस्तवोऽन्यः | 

प्रस्त्रोऽन्यत्र ||२४|| 

यज्ञादन्यत्र प्रपूर्वात् स्तृणातेर्घञ् भवति । प्रस्तारः । यज्ञे तु बर्हिष्प्रस्तरः । 

प्रथने वेरशब्दे ||२५|| 

प्रथनेऽभिये विपूर्वात् स्तृणातेर्घञ् भवति शब्दादन्यत्र । पटस्य विस्तारः | अशब्द इति किम् ? वाक्यविस्तरः | 

छन्दोनाम्नि ||२६|| 

छन्दोनामविषये स्तृणातेघञ् भवति । प्रस्तारपङ्क्तिः, विष्टारपङक्तिः, आस्तारपङक्तिश्छन्दः । 

अवात् त्रश्च ||२७|| 

अवपूर्वात् तरतेः स्तृणातेश्च घञ् भवति । अवतारः, अवस्तारः । बहुलाधिकारादवतरः । 

न्यायो नये ||२८|| 

न्याय इति निपात्यते नयेऽर्थे । न्ययोऽन्यः । 

पर्यायः क्रमे ||२९|| 

पर्याय इति निपात्यते क्रमेऽर्थे । पर्ययोऽन्यः | 

व्युपाच्छीङः ॥३० 

विपूर्वादुपपूर्वाच्च शीङ् क्रमे घञ् भवति । तव राजविशायः, मम राजोपशायः । क्रम इत्येव । विशयः । उपशयः । 

हस्तप्राप्ये चेरस्तेये || ३१ 

हस्तप्राप्यविषयाच्चिनोतेरस्तेये घञ् भवति । पुष्पप्रचायः | हस्तप्राप्य इति किम् ? वृक्षाग्रे पुष्पप्रचयः | अस्तेय इति किम् ? पुष्पप्रचयं हस्तेन करोति चौरः । 

चितिराशिवासदेहेषु चः कुः ||३२|| 

चित्यादिष्वर्थेषु चिनोतेर्घञ् भवति, चकारस्य च ककारः | आकायमग्नि चिन्वीतः । गोमयनिकायः । ब्राह्मणनिकायः । कायः शरीरम् 1 

सङ्घेऽनुत्तराधरे ||३३|| 

प्राणिसमूहे चोत्तराधरवर्जिते चिनोतेर्घञ् भवति, चकारस्य च ककारः । वैयाकरणनिकायः | अनुत्तराधर इति किम् ? सूकरनिचयः । 

उदः श्रियुपूद्रवः ||३४|| 

उत्पूर्वेभ्यः श्रयत्यादिभ्यो घञ् भवति । उच्छ्रायउद्यावः 

उत्पावः उद्दवः । उद इति किम् ? प्रश्रयः । कथं समुच्छ्रयः ? बहुलाविकारात् । 

आक्रोशे न्यवाद् गुहः ॥ ३५  

आक्रोशे गम्यमाने निपूर्वादवपूर्वाच्च ग्रहो घञ् भवति । निग्राहस्ते वृषलो भूयात् । अवग्राहस्ते वृषलो भूयात् । आक्रोश इति किम् ? निग्रहः, अवग्रहः । 

समो मुष्टौ ॥ ३६  

सम्पूर्वाद् ग्रहो मुष्टावर्थे घञ् भवति । सग्राहो मल्लस्य । मुष्टाविति ? संग्रहः | 

परेर्यज्ञः ||३७|| 

परिपूर्वाद् ग्रहो यज्ञविषये घञ् भवति । उत्तरपरिग्राहः । यज्ञ 

इति किम् ? परिग्रहः | 

प्राल्लिप्सायाम् ||३८|| 

प्रपूर्वाद, ग्रहो लिप्सायां गम्यमानायां घञ् भवति । पात्रप्रग्राहेण चरति भिक्षुः पिण्डपातार्थी । लिप्सायामिति किम् ? प्रग्रहः । 

वा वणिजाम् ||३९||

वणिक्सम्बन्धिन्यभिधेये प्रपूर्वाद् ग्रहो घञ् वा भवति । तुलाप्रग्राहेण चरति वणिक्, तुलाप्रग्रहेण चरति वणिक् । 

रश्मौ ||४०|| 

पूर्वाद् ग्रहो रश्मावभिधेये घञ् वा भवति । प्रग्राहः, प्रग्रहः । 

अवाद् वर्षविबन्धे ॥ ४१ 

अवात् पराद् ग्रहो वर्षप्रतिबन्धे वा घञ् भवति । अवग्राहो वृष्टे, अवग्रहो वा । 

आङो रुप्लो ||४२ 

आङ्-पूर्वाद् रौते प्लवतेश्च वा घञ् भवति । आरावः, आप्लावः । आरवः, आप्लबः | 

वृञ आच्छादेः ||४३|| 

वृणोतेराच्छादेऽर्थे वा घञ् भवति । प्रावारः, प्रावरः ।  

परेर्भुवोऽवज्ञाने ॥४४ 

परिपूर्वाद् भवतेरवज्ञानेऽर्थे वर्तमानाद्वा घञ् भवति । परिभावः, परिभवः । अवज्ञान इति किम् । सर्वतो भवनं परिभवः । 

एरच् ४५॥

इवर्णान्तात् क्रियार्थादज् भवति । चयः, जयः । भयम् । चकारस्थाथघाञ्क्ताजबित्रस्यान्त इति चिह्नार्थः । 

स्थास्नापाव्यधिहनियुधः कः ४६ 

स्थादिभ्यो भावे कारके च को भवति । आखूत्थो वर्तते । प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः । प्रस्नान्त्यस्मिन्निति प्रस्नः । प्रपिबन्त्यस्यामिति प्रपा । आविध्यतेऽननत्याविधः । विहन्यतेऽस्मिन्निति विघ्नः । निघ्नः, उपघ्नः स्तम्बघ्नः । आयुध्यन्तेऽननत्यायुधम् । 

ऋदोरप् ॥४७

ऋकारान्तेभ्य उवर्णान्तेभ्यश्चाब् भवति । करः धरः । भवः पवः ।

गृहनिश्चिगमवशरणः ४८ 

ग्रहादिभ्योऽब् भवति | ग्रहः, कपिरिकादीनाम् [ ४६

इति रेफस्य लत्वम्, ग्लहः । वरः, दरः, निश्चयः, गमः, वशः, रणः । 

प्रादिभ्योऽद् ||४९|| 

प्रादिपूर्वाददोऽब् भवति । प्रघसः । प्रादिभ्य इति किम् ? घासः । 

नेर्ण च ॥ ५०  

निपूर्वाददो णो भवति, अप् च । न्यादः, निघसः । 

व्यधजपादेः ॥५१॥ 

व्यधो जपश्च प्रादिरहितादब् भवति । व्यधः जपः अप्रादेरिति 

आव्याधः, उपजापः । 

स्वनहसो वा ५२ 

स्वनो हसरचाब् भवति वा । स्वनः, स्वानः | हंस हास | 

अप्रादेरित्येव । प्रस्वानः प्रहासः । 

यमः संव्युपाच्च ॥ ५३  

यमः समादिपूर्वादप्रादेश्चात् भवति वा । संयमः, संयामः | वियमः वियामः | उपयम उपयामः । यमः, यामः | 

गदनदपठस्वनः ५५ 

गदादिभ्यो निपूर्वेभ्योऽब् वा भवति । निगदः, निगादः । निनदः, निनादः निपठः, निपाठः । निस्वनः, निस्वानः | 

क्वणो वीणायाश्च५६ ॥ 

क्वणतेर्निपूर्वदप्रादेर्वीणासम्बन्धिनश्चाब् वा भवति । निक्वणः, निक्वाणः | प्रक्वणो वीणाया, प्रक्वाणः । क्वणः, क्वाणः | 

पणः परिमाणे ५७ 

पणतेः परिमाणेऽब् भवति । पणः । परिमाण इति किम् ? पाणः ।

मदोऽप्रादेः ५८ 

मदोऽप्रादेरन् भवति । मदः । अप्रादेरिति किम् ? प्रमादः । प्रसंभ्यां हर्षे ॥ ५९  

प्रपूर्वात् संपूर्वाच्च मदो हर्षोऽब् भवति । प्रमदः कन्यानाम् । सम्मदः कोकिलानाम् । 

समुद्भामजः पशुषु ॥ ६०  

सपूर्वादुत्पूर्वाच्चाजः पशुविषयेऽब् भवति । समजः पशूनाम् । समूह इत्यर्थः । उदजः पशूनाम् । प्ररणमित्यर्थः । पशुष्विति किम् ? समाजो ब्राह्मणानाम् । उदाजः शकुनीनाम् । 

प्रजने सर्तेः ॥ ६१

प्रथमगर्भग्रहणे सतरब् भवति । गवामुपसरः । उपसारोऽन्यः । हवः ||६२|| 

ह्वयतेरपि हव इति निपात्यते । हवः, निहवः, अभिहवः, उपहवः, विहवः, आहवः । 

निपानमाहावः || ६३॥

आहाव इति निपात्यते निपानं चेत् । आह्वायोऽन्यः | 

वधो घातः ||६४|| 

वध इति निपात्यते हनो भावे, घात इति च । 

मूर्तौ घनः ॥ ६५

घन इति निपात्यते मूर्तिश्चेत् । घातोऽन्यः । अन्तर्घणो नाम वाहीकेषु देशविशेषस्तत्र पूर्वपदाद् [ ६।४।१०२ ] इति णत्वमस्त्येव । तथा प्रघण इति गृहैकदेशस्य संज्ञायामस्त्येव । 

गृहांशे प्रघाणः ॥ ६६  

अगारैकदेशे प्रघाण इति निपात्यते । यस्योपरि काष्ठानि हन्यन्ते उद्गतो घन इत्युद्घनः | अपघन इति पाणिपादस्याभिधानम्, अपपूर्वेण घनेन सिद्धम् । एवमयोधनः विघनः । द्रुघण इति संज्ञायां णत्वम् स्तम्बघन इति स्तम्बपूर्वेण घनेन सिद्धम् । 

परिघोद्घनिघाः ||६७ 

परिघः, उद्घः, निघ इति हनो निपात्यन्ते । सनुत्तराधरे [ १ | ३|३३ ] इति सङ्घः । 

ड्वितः क्तिः ॥ ६८

डितः क्रियार्थात् क्त्रिः परो भवति । कृत्रिमम् पवित्रमम् ।

 ट्वितोऽथुच् ॥६९

द्वितोऽथुज् भवति । वेपथुः, क्षवथुः, श्वयथुः ।

विछरक्षो नङ् ॥७० 

आभ्यां न भवति । विश्नः, रक्ष्णः । कथं याच्ञादयः ? टु याचृ  याच्ञायाम् [ धातुपा० १५९१ ], शीङ् स्वप्ने [ धातुपा० २।५१ ], प्रश्नाख्यानयोरिञ् च [ १|३|९२], यज्ञे संस्ताव:  यत्नकथोपयोगषु [ १।४।७८] इति निपातनात् । 

प्रादिभ्यो दाधः किः ॥ ७१  

प्रादिपूर्वाभ्यां दाधाभ्यां किर्भवति । आदिः, निधिः । कथमन्तर्धिः ? तिरोऽन्तधौ [ २२३३ ] इति निपातनात् । 

व्याप्यादाधारे ||७२ || 

व्याप्यपूर्वाभ्यां दाधाभ्यामाधारे किर्भवति । वालधिः, इषुधिः । 

अभिविधाविनुण् ७३

अभिव्याप्तौ भाव इनुण् भवति । साकटिनः वर्तते । साराविणम् । 

स्त्रियां क्तिन् ७४

स्त्रीलिङ्गे भावे कारके च क्तिन् भवति । कृतिः, इष्टिः । ऊतियूतिजूतिसातिहेतिकीर्तयः ॥ ७५

एते शब्दा अन्तोदात्ता साधवो भवन्ति । अवतेरूति । यतेर्यति । जवतेर्जूति । सिनोते सुनोतेर्वा साति । हिनोतेर्हेति । कीर्तयते कीर्ति । 

व्यतिहारे णच ॥७६ 

क्रियाव्यतिहारे स्त्रियां णज् भवति । व्यवहासी व्यवचर्ची । 

। । 

नाम्नि क्तिच् ७७ 

सज्ञायां क्तिज् भवति । तन्तिः, रन्तिः वन्तिः, भूतिः । 

समजमनविदसुशीभृविणो भावे क्यप् ७८ 

समजादिभ्यं सज्ञायां भावे क्यब् भवति । समज्या, मन्या, विद्या, सुत्या, शय्या, भृत्या, इत्या । आसुतिः, भृतिः समितिरित्यपि भवति, बहुलाधिकारात् । भाव इति किम् ? भार्या । नाम्नीत्येव । सवित्ति । 

ने सत्पतः ॥ ७९  

निपूर्वाभ्यां सदिपतिभ्यां क्यब् भवति । निषद्या, निपत्या | [

कुव्रजयजः ॥ ८०  

कृञ्ञादिभ्यः क्यब् भवति | कृत्या, व्रज्या, इज्या । 

मृगयाटाट्ये ॥ ८१  

एतो शब्दौ भावे निपात्येते । मृगयतेर्मृगया, अटाट्यतेरटाट्या । कथमिच्छा, क्रियेति १० इच्छायाम् [१।१।२२] ०क्रियायाम् ० [ १।३।६] इति निपातनात् । 

परेः सृचरो यः॥ ८२

परिपूर्वाभ्यां सूचरिभ्यां स्त्रियां यो भवति । परिसर्या, परिचर्या । 

जागुः ||८३॥

जागर्तेर्यो भवति । जागर्या । 

अः सनाद्यन्ताच्च ८४ 

जागर्तेः सनाद्यन्ताच्च परोऽकारो भवति । जागरा । चिकीर्षा, जिहीषी, पुत्रीया । अटाटातेरटाटा । कण्डूतिरिति बहुलाधिकारात् । 

गुरोर्हलः ॥ ८५  

गुरुमतो हलन्ताद् परो भवति । ईहा, ईक्षा । कथमाप्तिः, राद्धिरिति । बहुलाधिकारात् । 

भिदादिषितोऽङ् ८६ 

भिदादिभ्यः पितरच स्त्रियामङ् भवति । भिदा । छिदा । विदा | क्षिपा । गुहा । मेधा । सेधा । गोधा । तारा | हारा । कारा । आरा । धारा। रेखा । लेखा । ऊहा । चूडा । पीडा । वपा । वसा । रुजा । मृजा । भित्तिरित्यादिपु क्तिनपि भवति बहुलाधिकारात् । षितः खल्वपि । जुष्, जरा । डुपचष् पचा । क्षिषु हिंसायाम् । [ धातुपा० ९।२७], क्षिया । घटादयः षितः [ धातुपा ११५२२] | घटा । ऋपः कृपायामिति वचनात् [ धातुपा १ ५१९] कृपा । पक्तिरिति बहुलाधिकारात् । 

आतोऽन्तःप्रादिभ्यः ८७ 

आकारान्तादन्तःप्रादिपूर्वात् स्त्रियामङ् भवति । अन्तर्धा । सन्धा, संस्था, उपदा, उपधा । कथं श्रद्धा प्रज्ञाश्रद्धा [ ४|२| १०५] इति निपातनात् । अन्तःप्रादिभ्य इति किम् ? स्थितिः । कथमवस्थितिः, सुस्थितिः, सुगीतिः, प्रपीतिरिति । बहुलाविकारात् । 

कुम्बिचचिभ्याम् ||८८

एताभ्यां चुरादिण्यन्ताभ्यामङ् भवति । कुम्बा, चर्चा । पूजाया स्वते [ ४|४|५४ ] इति निपातनात् पूजा, ० कथोपयोगेषु [ ११४१७८ ] इति कथा, स्मृ चिन्तायाम् [ धातुपा ० १ २६५ ] इति चिन्ता | 

णिश्रन्थग्रन्थविदासघट्टवन्दो युच् ८९ 

ण्यन्ताच्छ्रन्थादिभ्यश्च युज् भवति । कारणा, हारणा । श्रन्थना, ग्रन्थना, वेदना, उपासना, घट्टना, बन्दना । 

इषोऽनिच्छायाम् ९० 

इषेरनिच्छायां युज् भवति । अन्वेषणा, पर्येषणा । अनिच्छायामिति किम् ? इष्टिः । परीष्टिरिति बहुलाधिकारात्

ण्वुच् ९१ 

स्त्रीलिङ्गे भावे कारके च क्रियार्थाद्बहुलं ण्वुज् भवति । आसिका । शायिका । प्रवाहिका । उद्दालपुष्पभञ्जिका । भवत शायिका । अर्हति भवान् इक्षुभक्षिकाम् । इक्षुभक्षिका मे धारयसि । इक्षुभक्षिका म उपादिः । 

प्रश्नाख्यानयोरित्र ९२ 

प्रश्ने आख्याने च इङ् भवति, यथाप्राप्तं च । कां त्वं कारि- मकार्षी ? कां कारिकाम् ? कां कृतिम् ? कां क्रियाम् ? का कृत्याम् ? सर्वां कारिमहमकार्षम् । सर्वां कारिकाम् । सर्वां कृतिम् । सर्वां क्रियाम् । सर्वां कृत्याम् । कथं वापिर्वासिरिति ? औणादिक इञ् [१।५६ ] | कथमाजिराति ? औणादिक इण् [११५७ ] | पादस्याज्यातिगोपहते पद [५।२।५८] इति लिङ्गाद्वा । 

सम्पदादिभ्यः क्विप् ॥ ९३॥

भावे कारके च सम्पदित्येवमादिभ्यः क्विप् भवति । सम्पत् । विपत् प्रतिपत् । परिषत् । बहुलाधिकारात् सम्पत्तिरित्यादौ क्तिनपि भवति ।

आक्रोशे नवोऽनि ॥ ९४ 

आक्रोशे गम्यमाने नञ्-पूर्वात् क्रियार्थादनिर्भवति । अकरणिस्ते भूयात् । आक्रोश इति किम् ? अकृतिस्तव पटस्य । नञ इति किम् ? मृतिस्ते वृषल भूयात् । 

ग्लाहाज्यः ||१५|| 

ग्ला हा ज्या इत्येतेभ्योऽनिर्भवति । ग्लानिः, हानिः, ज्यानिः । कथं कृषिः किरिगिरिरिति ? औणादिका एते । 

इकिश्तिपः स्वरूपे || ९६ ।।

क्रियार्थस्य स्वरूपेऽभिधेये क्रियार्थात् पर इ-कि- श्तिपो भवन्ति । इन्धिः, युधिः पचतिः । कथमकारः ककारः इत्यादि ? कारशब्देन समासः, यथा एवङ्कारः, ओङ्कारः, चीत्कारः, शीत्कारः, हुङ्कारः, वषट्कारः, स्वाहाकारः इत्यादिः । औणादिको रेफः [ २८८ ] | कथं मत्वर्थीयो मतुबर्थीय इति ? गहादेराकृतिगणत्वाच्छः । 

ल्युट् ॥९७ 

क्रियार्थात् परो बहुलं ल्युड् भवति । गमनम्, भोजनम्, पानम्, दानम् । इध्मव्रश्चन, पलाशशातन । प्ररकन्दन । प्रपतन | गोदोहनी, सक्तुधानी । करणम्, सम्प्रदानम्, अपादानम्, अधिकरणम् । 

ष्ठिवुसिवो दीर्घश्च ९८॥

ष्ठीव्यते  सीव्यतेश्च ल्युड् भवति दीर्घश्च बहुलम् । निष्ठीवनम्, निष्ठेवनम् । सीवनम्, सेवनम् । 

कृञः कर्तरि ९९

करोतेः कर्तरि ल्युड् भवति दीर्घश्च । करोतीति कारणम् । कर्तरीति किम् ? करणम् । 

घः १०० 

क्रियार्थाद्बहुलं घो भवति । बकः । कषः, निकषः । गोचरः, सञ्चरः। वहः | आपणः | 

व्रजव्यजौ १०१  

एतौ शब्दौ निपात्येते । व्रजः, व्यजः । कथं निगम इति ? अपा सिद्धम्, स्वंर तु वक्ष्यामः । हलन्ताद् घञ् उक्त एव [ १।३|७] । लेखः, वेदः, वीमार्गः, अध्यायः, न्यायः, उद्यावः, महारः, आवारः, आवायः इति बहुलाधिकारात् । तथा तैलोदको घृतोदक इति घञैव । इह तु न भवति – उदकोदञ्चन इति । आनाय इति जालेऽभिधेये । आनयोऽन्यः | 

खनो डरेकौ च १०२ 

खनतेर्घो भवति, डर इकश्च । आखनः, आखरः आखनिकः | आखनिकबक इति बकशब्देन समासः । आख इति डेन सिद्धम् । आखान इति घञा सिद्धम् । 

ईषद्दुसुभ्यः खल ॥ १०३  

ईषदादिभ्यः परात् क्रियार्थात् खल् भवति । ईषत्करः कटो भवता । दुष्करः । सुकरः । ईषल्लभ्य इति बहुलाधिकारात् । 

कर्त्राप्याभ्यां च भूकृञ् ॥१०४ 

ईषदुसुभ्यः पराभ्यां कर्त्राप्याभ्यां परौ यौ भूकृञौ ताभ्यां खल् भवति । ईषदाढ्येन भवनम, ईषदाढ्यम्भवम् । दुराढ्येन भवनम, दुराढ्यभवम् । स्वाढ्येन भवनम, स्वाढ्यम्भवम् । ईषदाढ्यं क्रियते, ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । यदा त्वीषदाढ्य एव किञ्चित् क्रियते तदा कस्मान्न भवति ? करोतेरभूतप्रादुर्भावार्थत्वात् । 

आतो युच् ॥ १०५

आकारान्तात् क्रियार्थादीषदादिभ्यः पराद् युज् भवति । ईषत्पानः, दुष्पानः, सुपानः | 

शासियुधिदृशिधृषिमृषः ॥ १०६

शास्यादिभ्य ईषदादिपूर्वेभ्यो युज् भवति । दुशासनः, दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः | बहुलाधिकाराद् भावाप्ययोरेव खल्युचौ भवतः । 

*कदा त्वमागतोऽसि देवदत्त ? एष आगच्छामि । आगच्छन्तमेव मां विद्धि । कदा गमिष्यसि ? एष गच्छामि । गच्छन्तमेव मा विद्धीति वर्तमानतैवात्र लटो गम्यते । भूतभविष्यत्ता त्वर्थप्रकरणशब्दान्तरादिभिः, वर्तमानसमीपोऽपि वा वर्तमान एव भूतस्तावत् तत् फल- स्यानुवृत्तेः, भविष्यन्नपि तदर्थसावनानुष्ठानात् । क्रियाकालविवक्षायां तु यथाप्राप्तमेव । अद्यागमम् । अद्य गमिष्यामि । आशंसायां तु भविष्यत्कालोऽपि व्यापारः सिद्धेरभिप्रेतत्वाद् वर्तमानवद् भूतवद् वा प्रतिभाति । 

उपाध्यायश्चेदागच्छति । युक्ता व्याकरणमधीमहे । उपाध्यायश्वेदागत । एतदधीतं व्याकरणम् । उपाध्यायश्चेदागमत् । एते व्याकरणमध्यगीष्महि । भूतविशेषस्याविवक्षितत्वाल्लङ्-लिटौ न भवतः । यथास्व कालविवक्षायां तु यथाप्राप्तमेव । उपाध्यायश्चेदागमिष्यति । युक्ता व्याकरणमध्येष्यामहे । उपाध्यायश्वेदागन्ता युक्ता व्याकरणमव्येतास्महे | क्षिप्रवचने पुनरप्राप्तस्यैव क्षिप्रत्वमाशास्यत इति भूतवद्वर्तमानवद्वा विधिर्न भवति । उपाध्यायश्चेत् क्षिप्रमार्गामष्यति । क्षिप्रं व्याकरणमध्येष्यामहे । क्षिप्रतायाश्च विवक्षितत्वादनद्यतनविवक्षा नास्तीति लुङपि न भवति । आशंसावचने प्राथन [१२१] इति लिङ् अस्त्येव । उपाध्यायश्चेदागच्छेत् । आशसे युक्तो व्याकरणमधीयीय । क्रियाप्रबन्धसामीप्ययोर्विप्रकर्षविवक्षायां अभावादनद्यतनवद्विधिर्न भवति । यावज्जीवं  भृशमन्नमदात् । यावज्जीवं भृशमन्नं दास्यति । येय पोर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽनीनाधित । येय पौर्णमास्यागामिनी, एतस्यामुपाध्यायोऽग्नीनाधास्यते । । तथा भविष्यति मर्यादावचनेऽवरस्मिन् प्रविभागे सन्निकर्षख्यापनपरत्वाद् विवक्षायां लुङ् न भवति । योऽयमध्वा गन्तव्यः आ पाटलिपुत्रात् तस्य यदवरः कौशाम्ब्यास्तत्रौदनं भोक्ष्यामहे । आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । भूतस्य तु भेदेनानुभूतत्वादनद्यतनविवक्षाप्यस्ति । योऽयमध्वा गत आ पाटलिपुत्रात् तस्य यदवरः कौशाम्ब्यास्तत्रोदनमभुञ्जमहि । योऽयं संवत्सरोऽतीतस्तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्यैमहि । मर्यादावचनाभावेऽपि विप्रकर्षपरत्वाद्विवक्षायां अनद्यतनविधिभवत्येव । योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरः कौशाम्ब्यास्तत्रौदनं भोक्तास्महे | योऽयं काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । परस्मिन् पुनः प्रविभागे विप्रकृष्टपरत्वादनद्यतनविवक्षाप्यस्त्येव । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात् तस्य यत् पर कौशाम्ब्यास्तत्रौदनं भोक्तास्महे । भविष्यत्सामान्यविवक्षायां तु लृटापि भवितव्यम् । एव कालकृतेऽपि परस्मिन् प्रविभागे यथाविवक्षं लुङ्लुटौ सिद्धौ । योऽयं सवत्सर आगामी तस्य यत् परमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे, अध्येष्यामहे इति वा । अहोरात्राणामहोरात्रैर्वा प्रविभागे भेदस्य विवक्षितत्वादवरस्मिन्नपि प्रविभागेऽनद्यतनविवक्षास्त्येव । योऽयं त्रिंशद्रात्र आगामी तस्य योऽवर पञ्चदशरात्रस्तत्र युक्ता अध्यतास्महे | योऽयं त्रिशद्रात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र युक्ता अध्येतास्महे | योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे । 

लिङ्यतिपत्तौ लृङ् ॥१०७ 

लिङ्विषये क्रियातिपत्तौ लृङ् भवतीत्यतदधिकृतं वेदितव्यम् ।

आ शेषाद्भूते वा ॥ १०८  

आ शेषस्शब्दनाद् [११६] भूते काले लिङ् विषये क्रियातिपत्तौ लङ् वा भवतीत्येतदधिकृतं वेदितव्यम् । यावच्च भूते वेत्यनुवर्तते तावत, पूर्वयोगो भविष्यति नित्यो द्रष्टव्यः, न तु वर्तमाने, तत्र क्रियातिपत्तेरभावात् । अपि तत्रभवान् वृषलं याजयति । जातु तत्रभवान् वृषलं याजयति । गर्हामहे, अन्याय्यमिति । भूतभविष्यतोरपि पूर्ववल्लट् । गर्हायाश्च चिकीर्षितत्वात् क्रियाप्रबन्धाविराम एवात्र विवक्षितः । अगर्हायां तु यथाकालं लुङादयः । 

गर्हायां कथमि लिङ् १०९ 

गर्हायां गम्यमानायां कथशब्दे सति लिङ् भवति वा । कथं नाम तत्रभवान् वृषलं याजयेत् । अयीयजत् । अयाजयत् । याजयाञ्चकार । याजयिष्यति । याजयिता । याजयति । भूतभविष्यतोरपि पूर्ववत्लट् । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । कथं नाम तत्रभवान् वृषलमयाजयिष्यत् । गर्हायामिति किम् ? कथं नाम तत्रभवान् ब्राह्मण- मयाजयत् ? एवं यथाकालं लुङादयः । 

किमि लृट् च ॥ ११०  

किंशब्दे सति गर्हायां लृङ् भवति, लिङ् च । को नाम तत्र वृषलः, कतरो नाम वृषलः, कतमो नाम वृषलः, यः तत्रभवान् याजयिष्यति याजयेत् ? वाग्रहणानभिसम्बन्धाल्लुडादयो न भवन्ति । गर्हायामित्येव । को नाम ब्राह्मणो य तत्रभवान् याजयेत् ? इत्यादि । क्रियातिपत्तौ भूते वा लृङ्, भविष्यति नित्यम् । को नाम वृषलो य तत्रभवानयाजयिष्यत् ? 

क्रोधाश्रद्धयोः ॥ १११  

अमर्षेऽनवक्लृप्तौ च लृङ् भवति लिङ् च । न मर्षयामि, न श्रद्दधे, नावकल्पयामि यत् तत्रभवान् वृषलं याजयिष्यति । याजयत् । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । न मर्षयामि न श्रद्धे, नावकल्पयामि यत् तत्रभवान् वृषलमयाजयिष्यत् । 

किंकिलास्त्यर्थयोः लृट् ११२ 

किंकिलशब्देऽस्त्यर्थेषु च सत्सु क्रोधाश्रद्धयोरर्थयोर्लृङ् एव भवति, न लिङ् । किंकिल तत्रभवान् वृषलं याजयिष्यति ? न मर्षयामि, न श्रद्धे नावकल्पयामि । अस्ति नाम, भवति नाम विद्यते नाम यत् तत्रभवान् वृषलं याजयिष्यति ? 

यद्यदियदाजातुषु लिङ् ॥११३

यदादिषु सत्सु कोधाश्रद्वयोर्लिङ् वा भवति, न लृट् । यत्, तत्र – भवान् वृषलं याजयेत्, यदि तत्रभवान् वृषलं याजयेत्, यदा तत्रभवान् वृषलं याजयेत् जातु तत्रभवान् वृषलं याजयेत् । न मर्षयामि, न श्रद्धे, नावकल्पयामि । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । यत् तत्रभवान् वृषलमयाजयिष्यत् । 

यच्चयत्रयोर्गर्हायां च ॥ ११४॥

यच्चशब्दे यत्रशब्दे च सति गर्हायां गम्यमानायां क्रोधाश्रद्धयोश्च लिङ् भवति । यच्च तत्रभवान् वृषलं याजयेत । यत्र तत्रभवान् वृषलं याजयत् । विग्रहे, न मर्षयामि न श्रद्दधे नावकल्पयामि । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । यच्च तत्रभवान् वृषलमयाजयिष्यत् । 

आश्चर्ये ।। ११५ ।। 

यच्चशब्दे यत्रशब्दे च सत्याश्चर्ये गम्यमाने लिङ् भवति । आश्चर्यम्, अद्भूतम, चित्रं यच्च तत्रभवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेत् । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । यत्र तत्रभवान्, वृषलमयाजयिष्यत् । 

शेषे लुट ॥ ११६  

यच्चयत्राभ्यामन्यस्मिन्नाश्चर्ये लृङ् भवति । आश्चर्यम्, 

अद्भूतम, चित्रम् अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम शब्दं श्रोष्यति । आश्चर्यं यदि स भुञ्जीतेति लिङा बाधितत्वान्न लुङ् भविष्यति । क्रियातिपत्तौ भूते वा लुङ्, भविष्यति नित्यम् । 

उताप्योर्बाढार्थ लिङ् ॥ ११७

उत अपि इत्येतयोर्बाढार्थे प्रयुज्यमानयोः क्रियार्थाल्लिङ् भवति । उत कुर्यात् । अपि कुर्यात् । बाढं कुर्यादित्यर्थः । बाढार्थ इति किम् ? उत दण्डः पतिष्यति ? अपिधास्यते द्वारम् । प्रश्न आवरणं च गम्यते । भूते वा [ १।३।१०८ ] इति निवृत्तम् । अतो भूते भविष्यति च क्रियातेपत्तौ लिङ् विषये लुङ्, नित्यं द्रष्टव्यः । उताकरिष्यत् । अप्यकरिष्यत् । कामप्रवेदने प्रार्थन [ १३ | १२१] इति लिङ् भविष्यति । कामो मे भुञ्जीत भवान् । कच्चिज्जीवति ते मातेति प्रश्नमात्रे प्रार्थनाभावान्न भविष्यति । 

सम्भावनेऽलमर्थे तदर्थाप्रयोगे ।। ११८ ।।

अलमर्थविषये सम्भावने गम्यमाने लिङ् भवति, तदर्थश्चेच्छब्दो न प्रयुज्यते । अपि पर्वतं शिरसा भिन्द्यात् । अपि द्रोणपाकं भुञ्जीत । अलमर्थं इति किम् ? विदेशस्थायी देवदत्तो ग्रामं गमिष्यति । तदर्थाप्रयोग इति किम् ? वसति चेत् सुराष्ट्रेषु भोक्ष्यतेऽलं लवणेन | क्रियाति- पत्तौ लुङ् भवत्येव । अपि वज्राहतो नापतिष्यत् । 

धातूक्तावयदि वा ।। ११९  

धातुनोच्यमाने सम्भावने वा लिङ् भवति यच्छब्दस्याप्रयोगे । सम्भावयामि श्रद्धे, अवकल्पयामि, भुञ्जीत भवान्, भोक्ष्यते भवान्, अभुङ्क्त भवान् । अयदीति किम् ? सम्भावयामि यत् स भुञ्जीत । क्रियानिपत्तौ लङ् भवत्येव । सम्भावयामि नाभोक्ष्यत भवान् । 

हेतुफलयोः ॥ १२०

हेतुभूतायां फलभूतायां च क्रियायां वर्तमानात् क्रियार्थाल्लिङ् वा भवति । दक्षिणेन चेद् यायान्न शकटः पर्याभवत् । दक्षिणेन चेद् यास्यति न शकटः पर्याभविष्यति । इह कस्मान्न भवति हन्तीति पलायते, वर्षतीति धावति ? इतिशब्देनैव हेतुहेतुमद्भावस्य द्योतितत्वात् । यस्त्वाह । भविष्यत्कालत्वादस्य योगस्य वर्तमाने न भविष्यति तस्येह स्यात् । हनिष्यतीति पलायिष्यते । क्रियातिपत्तौ लङ् भवत्येव । दक्षिणेन चेदयास्यन्न शकःट पर्याभविष्यत् । केनचिल्लिङ्गेन भविष्यन्ती क्रियातिपत्तिमवगम्य प्रयुङ्क्ते । भूतेऽपि च प्रयोगो दृश्यते । 

अमङ्क्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना ।

नारायण इव श्रीमन् यदि त्वं नाधरिष्यथा ॥

इच्छार्थेषु प्रार्थन[ १२२] इत्येव लिङ्-लोटौ भविष्यतः । इच्छामि भुञ्जीत भवान् इच्छामि भुङ्क्ता भवान् । अन्यथा हीच्छन् करोमीत्यपि स्याताम् । इच्छति भोक्तुं कामयते भोवतुम्, गवेषयति भोक्तुमिति तुमुन् भावे क्रियायां तदर्थायाम् [ १|३|६ ] इति सिद्धम् । पुनर्विधानादिहापि स्यात्- इच्छन् करोतीति । भुञ्जीयेतीच्छतीति लिङ् ०प्रार्थन० [१२१ ] इति भविष्यति । इच्छत् कामयेतेति विधिरेव गम्यते । 

विधिसंप्रश्नप्रार्थनेषु ॥ १२१  

विधिरप्राप्तनियोगो दृष्टार्थो वादृष्टार्थो वा प्रत्याख्याने सप्रत्य- वायो वा निष्प्रत्यवायो वा, सत्कारपूर्वको वा न्यक्कारपूर्वको वा । संप्रश्न संप्रधारणा । प्रार्थनं याचनमिष्टार्थशंसनम् | च । तेषु विध्यादिषु क्रियार्थाल्लिङ्, भवति । कटं कुर्याद् भवान् । यजेत् । दद्यात् । यत्राङ्गीकृतस्य प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् । इह भवान् भुञ्जीत । यत्र प्रत्याख्याने कामचारस्तदामन्त्रणम् । इह भवान् आसीत् । सत्कारपूर्वको नियोगोऽध्येषणम् । माणवको भवान्, अध्या- पयेत् । न्यक्कारपूर्वको नियोगः प्रैषः, तत्र लोटं वक्ष्यति [ १२३] | संप्रश्ने । कि नु खलु भो व्याकरणमधीयीय ? प्रार्थने। । लभेयाहं भिक्षाम् । जीवेद्भवान् । 

लोट् ॥। १२२  

विध्यादिषु क्रियार्थाल्लोड् भवति । कटं करोतु भवान् । तृष्णां छिन्धि, भज क्षमामं, जहि मदम्, कुरु दयाम । इह भवानं भुङ्क्ताम् । इह भवानास्ताम् । माणवकं भवान् अध्यापयतु । किं नु खलु भो व्याकरणमध्ययै ? देहि मे भिक्षाम् । जीवतु भवान् । 

प्रैषानुज्ञाप्राप्तकालेषु || १२३॥

प्रेषादिषु लोड् भवति | ग्रामं गच्छ । कर्तुमिच्छतोऽनुज्ञानमनुज्ञा । एवं कुरु । कटं कुरु, प्राप्तस्ते कालः कटकरणे । 

लिङ् चोर्ध्वमौहूर्तिके ।। १२४

ऊर्ध्वमौर्हूतिके वर्तमानात् क्रियार्थात् प्रैषादिषु लिङ् भवति, लोट् च । ऊर्ध्वं मुहर्तात् कटं कुर्याः कट कुरु । उर्ध्वं मुहूर्तादेव कुर्याः, एवं कुरु । ऊर्ध्वं मुहूर्तात् कटं 

कुर्याद् भवान्, कटं करोतु भवान्, भवतो हि प्राप्तः काल कटकरणे । 

स्मे लोट् ॥ १२५

स्मशब्दप्रयोगे ऊर्ध्वमौहूर्तिके वर्तमानात् क्रियार्थात् प्रैषादिषु लोडेव भवति । ऊर्ध्वं मुहर्ताद् ग्रामं गच्छतु स्म भवान् । एवं करोतु स्म भवान् । कट करोतु स्म भवान्। भवतो हि प्राप्तः कालः कटकरणे । 

अधीष्टौ १२६  

अध्येषणायां स्मशब्दप्रयोगे लोडेव भवति । अङ्ग स्म विद्वन् माणवकमध्यापय । प्रैषादिषु चान्यत्र च तव्यादयः सिद्धा एव । भवता खलु कटः कर्तव्यः करणीयः कार्यं कृत्यः । तथोर्ध्वमौहूर्तिके चादिषु च । कालो भोक्तुम्, समयो भोक्तुम्, वेला भोक्तुमिति पूर्वक एव तुमुन् । वृत्तेभवतेर्वा तदर्थस्य प्रतीयमानत्वात् । 

अर्हशक्त्योः ॥ १२८  

अर्हार्थे शक्तौ च लिङ् भनति । भवान् खलु कन्यां वहेत् । भवानहं भवान् शक्तः । अग्निष्टोमयाजीति भूत एव कालः । अस्य पुत्रो जनितेति पदान्तरसम्बन्धे भविष्यत्कालता गम्यते । एवं कृतः कटः श्वो भविता । भावि कृत्यमासीत् । गोमानासीत् । गोमान् भवितेति । लुनीहि लुनीहीत्येवाय लुनाति । अधीष्वाधीष्वेत्येवायमधीत इति लोड एवैतन्मध्यमपुरुषैकवचनयोः । आभीक्ष्ण्ये द्विर्वचनम् । एतदुक्तं भवति । एवमसौ त्वरावान् यदन्यानपि प्रेरयन्निव ता क्रियां करोतीति । एव लुनीतः लुनीतेत्यवायं लुनाति । अधीध्वमधीध्वमित्येवायमधीते । तथा कालान्तरेष्वपि । लुनीहि लुनीहीत्यवायमलावीत्, लुलाव, लविष्यति, लविता । एव स्वशब्देऽपि योज्यम् । तथा समुच्चयेऽपि । मठमट विहारमटेत्येवायमटति । छन्दोऽधीष्व व्याकरणमवीष्वेत्येवायमधीते । व्यापारभेदे तु सामान्यवचनस्यैव व्यापकत्वादनुप्रयोगो भवति । ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाखादेत्येवायमभ्यवहरति । 

अलंखल्वोः प्रतिषेधे क्त्वा वा १२९  

 अलंखलुशब्दयोः प्रतिषेधार्थयोः प्रयोगे क्त्वा वा भवति । कृत्वा, खलु कृत्वा । अल कृतेन खलु कृतेन । अलखल्वोरिति किम् मा कार्षो । प्रतिषेध इति किम् ? अलङ्कारः । 

मेङ: १३० ॥

मयतेः क्त्वा वा भवति । अपूर्वकालार्थ आरम्भः | जपमित्य याचते । अपमातुं याचते । याचित्वापमयते । 

एककर्तृकयोः पूर्वात् ॥ १३१ ॥ 

एककर्तृकयोर्व्यापारयोर्मध्ये य पूर्वव्यापारस्तदर्थात् क्त्वा भवति । भुक्त्वा व्रजति । द्विवचनस्यातन्नत्वात् भुक्त्वा पीत्वा व्रजति । परापेक्षया वा । एककतृकयोरिति किम् ? भुक्तवति देवदत्ते यज्ञदत्तो व्रजति । पूर्वादिति किम्? भुङ्क्ते च पचति च। अप्राप्य नदीं पर्वतः, अतिक्रम्य पर्वतं नदीति भवते सर्वत्र सम्भवादेककर्तृकता पूर्वकालता च गम्यते । 

आभीक्ष्ण्ये ण्मुल् च ॥१३२

एककर्तृकयोः पूर्वस्मिन् व्यापारे पौनःपुन्यविशिष्टे वर्तमानात् क्रियार्थाण्ण्मुल् भवति, क्त्वा च । भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा व्रजति । आभीक्ष्ण्ये [ ६|३|१] इति द्विर्वचनम् यदयं भुक्ते ततो व्रजतीति यच्छब्दप्रयागे ततः शब्देन क्रमस्याभिधानात् क्त्वा न भवति । अभीक्ष्ण्याभावाच्च ण्मुल् न भवति । यदयं पुनःपुनर्भुङ्क्ते ततो व्रजतीति पुनःपुनःशब्देनैवाभीक्ष्ण्याभिधानान् न भवति । यदयं भुक्त्वा गच्छति ततोऽधीत इति भोजनगमनयो क्रमे क्त्वा, गमनाध्ययनयोस्तु क्रमस्य ततः-शब्देनाभिधानात् न भविष्यति । 

पूर्वाग्रे प्रथमेषु ॥। १३३ ।। 

पूर्वादिषु प्रयुज्यमानेषु णमुल् भवति, क्त्वा च । पूर्वेभोजं  व्रजति, पूर्वं भुक्त्वा व्रजति । अग्रेभोजं व्रजति, अग्रे भुक्त्वा व्रजति । प्रथमभोजं व्रजति, प्रथमं भुक्त्वा व्रजति । पूर्वं भुक्ते ततो व्रजतीति ततःशब्देन क्रमस्याभिधानान् न भविष्यति । 

व्याप्यादाक्रोशे कृञः खमुञ् ॥ १३४  

व्याप्यात् परात् करोतेः खमुञ् भवत्याक्रोशे गम्यमाने । दस्यु कारमाक्रोशति । आक्रोश इति किम् ? साधु कृत्वा स्तौति । 

स्वाद्वर्थाददीर्घात् ॥१३५॥ 

स्वादुवचनाददीर्घान्तात् परात् करोतेः खमुञ् भवति । स्वादुंकारं भुक्ते । सपन्नंकारं भुङ्क्ते । लवणंकारं भुङ्क्ते । अदीर्घादिति किम् ? स्वादूकृत्य भुक्ते । स्वाद्वीं कृत्वा । अन्यथाकारं भुङ्क्ते एवकार, कथंकारम्, इत्थंकारमिति णमुल् न वाच्यो घञ्ञन्तेन क्रियाविशेषणेन सिद्धत्वात् । यथा ओदनपाकं शेत इति । एवं यथाकारं तथाकारमहं भोक्ष्ये, किं तवानेन ? कन्यादर्शं वरयति । ब्राह्मणवेदं भोजयति । यावद्वेदं भुक्ते । यावज्जीवमधीते । चर्मपूरं ददाति । उदरपूरं भुङ्क्ते । गोष्पदपूरं वृष्टो देव | गोष्पदं प्रातीति गोष्पदप्रमुदकम् | गोष्पदप्रं वृष्टो देव । तथा च सर्वा विभक्तयः, समासे च विभक्तिलोपः । एव चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपं वृष्टो देव | वसनक्तोपम् । निमूलकाषं कषति । समूलकाषं कषति । शुष्कपेषं पिनष्टि, चूर्णपेषम्, रूक्षपेषम् । समूलघातं हन्ति । अकृतकारं करोति । पाणिघातं वेदी हन्ति । उदपेषं पिनष्टि । तैलपेषं पिनष्टि । हस्तवर्तं वर्तयति । स्वपोषं पुष्णाति, गोपोषम्, रैपोषम् । चारकबन्धं बद्धः। क्रौञ्चवन्धम् । जीवनाशं नष्टः | पुरुषवाहं वहति । ऊर्ध्वशोषं शुष्कः, ऊर्ध्वपूरं पूर्णः । 

जीवाद् ग्रहो ण्मुल् स चानु ॥ १६६  

जीवाद् व्याप्यात् परस्माद् ग्रहेर्ण्मुल् भवति स च ग्रहिरनु प्रयुज्यते । जीवग्राहं गृह्णाति । 

हस्तेन ॥ १३७  

हस्तकरणकाद् ग्रहेर्णमुल् भवति स चानुप्रयुज्यते । हस्तग्राहं गृह्णाति । करग्राहं गृह्णाति । 

उपमानात् कर्तुश्च १३८ 

उपमानात् कर्तुर्व्याप्याच्च परात् क्रियार्थाण्ण्मुल् भवति, स च क्रियार्थोऽनुप्रयुज्यते । चूडकनाशं नष्टः । सुवर्णनिधाय निहितः । ओदनपाचं पक्वः । घञि हि कुत्वं स्यात् । उपमानादिति किम् ? चूडको नष्टः | 

उपदंशशस्तृतीयायाम् १३९

उपपूर्वाद् दशतेस्तृतीयान्ते उपपदे ण्मुल् भवति । मूलकेनोपदशं भुङ्क्ते । मूलकोपदशं भुङ्क्त इति घञापि सिद्धम् । तृतीयायामिति किम् ? मूलकमुपदश्य भुङ्क्ते । 

हि सार्थादेकाप्यात् || १४० ॥ 

हिंसार्थादनुप्रयोगेण सह समानव्याप्यात् तृतीयान्ते उपपदे ण्मुल् भवति । दण्डेनोपघातं गाः कालयति । दण्डोपघातम् । एकाप्यादिति किम् ? दण्डेनोपहत्य भूमिं गां शादयति गोपालको यष्ट्या । 

सप्तम्यां चोपात् पीडरुधकर्षः ॥ १४१  

उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते उपपदे तृतीयान्ते च ण्मुल् भवति । पार्श्वयोरुपपीडं होते, पार्श्वेनोपपीडम्, पार्श्वोपपीडम् । व्रज उपरोधं गं शादयति, व्रजेनोपरोधम्, व्रजोपरोधम् । वपकर्षम्, पाणिनोपकर्षम्, पाण्युपकर्षम् । 

आसत्तौ ॥ १४२

पाणाप्रत्यासत्तौ गम्यमानायां सप्तम्यन्त उपपदे क्रियार्याण्ण्मुल् भवति । केशेषु ग्राहं युध्यन्ते । केशग्राहम् । 

प्रमाणे ।। १४३ ।।

प्रमाणे गम्यमाने सप्तम्यन्त उपपदे क्रियार्थाण्ण्मुल् भवति । द्यङ्गुलोर्कर्षं गण्डिकां छिनत्ति । द्वाङ्गे उत्कर्षम्  

पञ्चम्यां त्वरायाम् || १४४ ॥

पञ्चम्यन्त उपपदे त्वरायां गम्यमानायां क्रियार्थाण्ण्मुल् भवति । शय्योत्थाय व्रजति । शय्यायां उत्थाय व्रजति । त्वरायामिति किम् ? आसनादुत्थाय धावति । 

द्वितीयायाम् ।। १४५ ।।

द्वितीयान्त उपपदे त्वरायां गम्यमानायां क्रियार्थाण्ण्मुल् भवति । यष्टिग्राहं युध्यन्ते । यष्टीर्ग्राहम् । 

अध्रुवे स्वाङ्गे ।। १४६ ।।

अध्रुवे स्वाङ्गे द्वितीयान्त उपपदे क्रियार्थाण्ण्मल् भवति । भ्रूविक्षेपं जल्पति । भ्रुवं विक्षेपम् । अभ्रुव इति किम् ? उत्क्षिप्य शिरः कथयति । 

अद्रवं मूर्त्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । 

अतत्स्थं तत्र दृष्टं च तेन चेत् तत्तथा युतम् ॥ [महाभाष्यम् ]

पीडायाम् ॥ १४७  

पीडायां गम्यमानायां स्वाङ्गे द्वितीयान्त उपपदे क्रियार्थाण्ण्मुल् भवति । उरः प्रतिपेषं युध्यन्ते । उरांसि प्रतिपेषम् । 

विशिपतिपदिकन्दां वीप्साभीक्ष्ण्ययोः १४८  

विश्यादिभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने द्वितीयान्त उपपदे ण्मुल् भवति । गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रवेशम् । गेहमनुप्रवेशमनप्रवेशम् । गेहानुप्रपातमास्ते । गह गहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातम् । गेहानुप्रपादमास्ते । गेहं गेहमनुप्रपादम् । गेहमनुप्रपादमनुप्रपादम् । गेहावस्कन्दमास्ते । गेहं गेहमवस्कन्दम् । गेहमव- स्कन्दमवस्कन्दम् । वीप्साभीक्ष्ण्ययोरिति किम् ? गहमनुप्रविश्यास्ते । 

असुतृषः कालेषु विच्छेदे ॥ १४९  

अस्यतेस्तृषेश्च कालेषु द्वितीयान्तेषूपपदेषु विच्छेदे गम्यमाने ण्मुल् भवति । ग्रहात्यासं गां पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहं तर्षम् । असुतृष इति किम् ? द्व्यहमुपोष्य भुङ्क्ते । कालेष्विति किम् ? पञ्च पिण्डानत्यस्य जलं पिबति । विच्छेद इति किम् अहरत्य-स्येषून् गतः। 

नाम्नि ग्रहादिशः ॥ १५०  

नामशब्दे द्वितीयान्त उपपदे ग्रहेरादिशश्च ण्मुल् भवति । नामग्राहं ददाति । नामानि ग्राहं ददाति । नामादेशं ददाति । नामान्यादेशं ददाति । नीचैः कारमाचष्टे, उच्चैः कारमाचष्ट इति घञा सिद्धम् । नीचैः कृत्वा, नीचैःकृत्येति क्त्वापि भवति । एव तिर्यक्कारम्, तिर्यक् कृत्वा, तिर्यक्कृत्य । मुखतः कारम्, मुखतः कृत्वा, मुखतःकृत्य । मुखतोभावम्, मुखतो भूत्वा मुखतोभूय । नानाकारम्, नाना कृत्वा, नानाकृत्य । द्विधाकारम्, द्विधा कृत्वा द्विधाकृत्य । तूष्णीम्भावम्, तूष्णीं भूत्वातूष्णीम्भूय । अन्वग्भावम्, अन्वग् भूत्वा, अन्वग्भूय तिष्ठति । शक्नोति भोक्तुम्, धूष्णोति भोक्तुम् जानाति भोक्तुम्, ग्लायति भोक्तुम्, घटते भोक्तुम्, आरभते भोक्तुम्, प्रक्रमते भोक्तुम्, लभते भोक्तुम्, उत्सहते भोक्तुम्, अर्हति भोक्तुम्, अस्ति भोक्तुम्, विद्यते भोक्तुमिति तुमुन् भावे क्रियाया तदर्थायाम् [ ११३१६ ] इति सिद्ध एव । तथा पारयति भोक्तुम्, प्रभवति भोक्तुम्, प्रभुर्भोक्तुम् समर्थो भोक्तुम्, पर्याप्तो भोक्तुम्, अल भोक्तुमिति भवते सर्वत्र सम्भवात् सिद्धम् । यथा भोक्तुं मनः, श्रोतुं श्रोत्रम्, द्रष्टुं चक्षुः, योद्धुं धनुः, वक्तुं जडः, गन्तुं मन्दः, कर्तुमलस इति । उच्चारणं तु वक्तुरायत्तम् । 

इति चान्द्रव्याकरणे प्रथमाध्यायस्य तृतीयः पादः समाप्तः । 

लस्तिप्तस्झिसिप्थस्थ मिप्वस्मस्तातांझथासाथांध्वमिद वहिमहिङ् ॥ १ ॥

लडादीनां लकारस्य स्थाने तिबादय आदेशा भवन्ति । पकारः पित्कार्यार्थः । । टकार इटोत् [ ११४१३८] ति चिह्नार्थः । डकारस्तिडिति प्रत्याहारार्थः। पचति, पचतः, पचन्ति, पचसि, पचथ,पचथ, पचामि, पचावः, पचामः । पचते, पचेते, पचन्ते, पचसे, पचेथे, पचध्वे, पचे, पचावहे, पचामहे । 

अत आत इत् || ||

अत परस्य तिडामाकारस्य इदादेशो भवति । पचेते, पचेथे । पचेताम्, पचेथाम् अत इति किम् ददाते, दधाते । प्रकृतिग्रह्णादिह न भवति, पचानि । 

झोऽन्तः ॥ ३ ॥

तिङा झकारस्यान्तादेशो भवति । पचन्ति, पचन्ते । यजन्ति, यजन्ते । यजन्तु, यजन्ताम् । 

द्विरुक्तात् ॥ ४  

द्विरुक्तादुत्तरस्य तिङा झकारस्य अदादेशो भवति । जुह्वति, 

बिभ्यति । जुह्वतु | 

जक्षादिभ्यः पञ्चभ्यः ॥ ५  

जक्षादिभ्यः पञ्चभ्यः परस्य झकारस्य अदादेशो भवति । जक्षति, जाग्रति, दरिद्रति, चकासति, शासति । पञ्चभ्य इति किम् ? द्विषन्ति ।

तङ्यानतः ॥  

तङ् विषयस्य झकारस्यानतः परस्यादादेशो भवति । लुनते, लुनताम् । पुनते, पुनताम् । अनत इति किम् ? पचन्ते । 

शीङो रत् ॥ ७ ॥

शीङ् परस्य झकारस्य रदादेशो भवति । शेरते, शेरताम्, 

अशेरत । 

वेत्तेर्वा ॥ ८ ॥

वेत्तेः परस्य भकारस्य रदादेशो वा भवति । सविद्रते, सविदते । लुग्विकरणं किम् ? विन्दतेर्मा भूत् । तडीत्येव । विदन्ति । 

लिट इरच् ॥ ९ ॥

लिडादेशस्य भकारस्य इरजादेशो भवति । पचिरे, शेकिरे । तडीत्येव | पेचुः | 

तस्यैश् १० ॥

लिडादेशस्य तकारस्य शादेशो भवति । पेचे, शेके । 

अतङां णलतुसुस्थलथु सणत्वमाः ११  

तङ्वर्जितानां लिडादेशानां गलादय आदेशा भवन्ति । पपाच, पेचतुः, पेचुः, पपक्थ, पेचिश, पेचथु, पेच पपाच, पेचिव, पेचिम । 

विदो लटो वा ।। १२ ।।

विदः परेषां लडादेशानामतङा गलादय आदेशा वा भवन्ति । वेद, विदतुः, विदुः, वेत्थ, विदथुः, विद, वेद, विद्वः, विद्मः । न च भवन्ति । वेत्ति, वित्तः, विदन्ति, वेत्सि, वित्थः, वित्थ, वेद्मि विद्वः, विद्मः | 

ब्रुवः पञ्चानामादित आह च ॥ १३  

ब्रुवः परेषां लडादेशानामतङा पञ्चानामादितो णलादय आदेशा वा भवन्ति आहादेशश्च ब्रुवो भवति । आह, आहतुः आहुः, आत्थ, आहथुः । न च भवन्ति । ब्रवीति ब्रूतः, ब्रुवन्ति ब्रवीषि ब्रूथः | पञ्चानामिति किम् ? ब्रूथः | आदित इति किम् ? परेषां मा भूत् । 

आतो णल औः ॥ १४ 

आकारान्तादुत्तरस्य णल औकारादेशो भवति । पपौ, तस्थौ । टिचडामेत् ॥१५ 

टितो लकारस्यादेशानां तडामन्तस्यैकारादेशो भवति । पचते, पचन्ते, पचध्वे । टित इति किम् ? अपचत । 

आमः ||१६|| 

टिल्लकारस्य सम्बन्धिन आम एद्भवति । पचेते, पचेथे । [

थासः से ||१७||

टिल्लकारसम्बन्धिनस्थासः से आदेशो भवति पचसे । लुट आद्यानां डारौरसः ||१८|| 

लुडादेशानामाद्यानां त्रयाणां डारौरस आदेशा भवन्ति । पक्ता, पक्तारौ, पक्तारः | 

तङाम् ॥ १९ 

तङामपि लुडादेशानामाद्यानां त्रयाणां डारोरस आदेशा भवन्ति । अध्येता, अध्येतारी, अध्यतारः । एशादिलिङ्गादेत्त्वाभावः । 

लोट एरुः ||२०||

लोडादेशस्य इकारस्य उकारादेशो भवति । पचतु, पचन्तु । 

सेर्हिङ् ॥२१॥

लोडादेशस्य सिपो हिङादेशो भवति । जुहुधि, लुनीहि । णकारोपित्त्वज्ञापनार्थः। 

आशिषि तुह्योस्तातङ् वा २२॥

आशीर्विषये लोटः सम्बन्धिनोस्तुहीत्येतयोस्तातङ् वा भवति । जीवताद्भवान्, जीवतु भवान् । कुरुतात् त्वम्, कुरु त्वम् । 

मेरानि ||२३||

लोडादेशस्य मिप आनिरादेशो भवति । पचानि, करवाणि । 

आमेतः ||२४||

लोडादेशस्यैकारस्याम्भवति । पचताम्, पचेताम् पचन्ताम् । 

स्वो वामौ ॥२५ 

लोडादेशाभ्यां सकारवकाराभ्यां परस्यैकारस्य व अमित्येतावादेशौ भवतः । पचस्व, पचध्वम् । 

इडादीनामैप् ||२६||

लोटः सम्बन्धिनामिडादीनामेत ऐब् भवति । करवे, करवावहै, करवामहै । पकारोऽदेडर्थः । 

व्मोष्टाप् २७ 

लोटः सम्बन्धिनोर्व्मो परतष्टाब् भवति । करवाव, करवाम । करवावहै, करवामहै । टकार आदेशविध्यर्थं पकारोऽदेङ् भावार्थः | 

तस्थस्थानां तान्तन्ता ङितश्च ॥ २८  

ङितां लकाराणां लोटश्च तस् थस् थ इत्येतेषां ता त त इत्येते आदेशा भवन्ति । अपचताम्, अपचतम्, अपचत, पचताम्, पचतम्, पचत  

मसोर्लोपः ||२९|| 

ङितां लकाराणां लोटश्च वस्मसोरन्त्यस्य लोपो भवति । अपचाब, अपचाम । पचाव, पचाम । 

इतोऽतङि ३० 

ङितां लकाराणामतङ्विषयस्येकारस्य लोपो भवति । अपचत्, अपचन् । अकरिष्यत् अकरिष्यन् । 

मिपोऽम् ३१॥

ङितां लकाराणां मिपोऽम् भवति । अकरवम्, अकार्षम्, अकरिष्यम् । 

लिङः सीयुट् ||३२||

लिङादेशानां सीयुडागमो भवति । पक्षीष्ट, यक्षीष्ट । 

यासुडतडः कित् ॥ ३३  

तङ्-वर्जितस्य लिङादेशस्य यासुडागमो भवति, स च किद्वत् । भूयात् भूयास्ताम् भूयासु । अतङ् इति किम् ? लविषीष्ट । 

ङिदनाशिषि ||३४|| 

अनाशीर्विषये लिङो ङिद् यासुड् भवति । यजेत्, यजेताम्, यजेयुः । अनाशिषीति किम् ? इज्यात् । अतङ् इत्येव । यजेत । 

अत इय् ॥३५ 

अतः परस्य यासुट इयादेशो भवति । पचेत्, पचेताम, पचेयुः । अत इति किम् ? कुर्यात् । अनाशिषीत्येव । चिकीर्ष्यात् । 

सो लोपोऽनन्त्यस्य || ३६ ||

लिङोऽनन्त्यस्य सकारस्य लोपो भवति । कुर्यात् कुर्याताम् । अनन्त्यस्येति किम् ? कुर्युः । अनाशिषीत्यव । भूयास्ताम् भूयासुः । 

झस्य रन् ३७

लिङादेशस्य झकारस्य रनादेशो भवति । पचेरन्, पक्षीरन् ।

इटोऽत् ||३८||

लिडादेशस्येटोऽदादेशो भवति । पचेय, पक्षीय ।

 सुट् तथो ॥ ३९॥

लिडस्तकारथकारयो सुड् भवति । पक्षीष्ट, पक्षीयास्ताम्, 

 पक्षीष्ठाः । 

झेर्जुस् ॥४०

लिङो फेर्जुसादेशो भवति । पचेयुः कुर्युः | 

सिचः ॥ ४१ ॥  

सिचः परस्य झेर्जुसादेशो भवति । अकार्षुः । 

आतः ||४२||

आकारान्तादेव सिलुगन्तात् परस्य झेर्जुसादेशो भवति । अदुः अधुः । अनाकारान्तान्न भवति । अभूवन् । 

लङो द्विषश्च वा ||४३|| 

द्विष आकारान्ताच्च परस्य लङो झेर्जुसादेशो वा भवति । अद्विषुः, अद्विषन् । अयुः, अयान् । 

विदः ॥ ४४  

विदः परस्य लङो फेर्जुसादेशो भवति, नित्यं योगविभागात् । अविदुः । 

अति ।। ४५ ।। 

अद्विषये लङो द्विरुक्ताज् जक्षादिभ्यश्च परस्य फेर्जुस् भवति । अभिरुः, अबिभयुः | अजागरुः । 

तङानां यथापाठम् ४६  

तङश्च आनश्च यथापाठं क्रियार्थात् परे भवन्ति । वर्धते, वर्धमानः | वर्तते, वर्तमानः | 

भावाप्ययोः ॥ ४७  

भावे तयाप्ये चार्थे तङानां भवन्ति । भूयते भूयमानम् । क्रियते कटः, क्रियमाणः कटः । पूर्वमुत्तरं च कर्तरि विधानम् । 

ङितः ॥ ४८ ॥

ङितः क्रियार्थात् तङाना भवन्ति । पापच्यते, पापच्यमानः | विनिमये ।। ४९ ।। 

क्रियापरिवर्त वर्तमानात् क्रियार्थात् तङानां भवन्ति । व्यतिलुनते, व्यतिपुनते । 

न गतिहिंसाशब्दार्थ इसः ॥ ५० ॥ 

क्रियाविनिमये वर्तमानेभ्यो गत्याद्यर्थेभ्यो हसरच तङानां न भवन्ति । व्यतिगच्छन्ति, व्यतिघ्नन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । कथम् व्यतिहरन्ते भारम्, व्यतिवहन्ते भारमिति ? नैतौ गत्यर्थौ । किं तर्हि ? देशान्तरप्रापणार्थी । एवं सप्रहरन्ते राजान इति हरतिर्न हिसार्थः । इतरेतरान्योन्यपरस्परयोगे तु शब्दान्तरेणाभिहितत्वात् क्रिया- विनिमयस्य तङानां न भवन्ति । इतरेतरस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । परस्परस्य व्यतिलुनन्ति । 

गुपादिभ्यः शिति परभूते आयादयो नित्यं भवन्ति, पुनर्विधानात् । गोपायति, धूपायति, विच्छायति पणायति, पनायति, ऋतीयते, कामयते । 

अनेकाचो लिट आम् कृभ्वस्तिलिट् चानु  ५१  

अनेकाचः क्रियार्थात् परस्य लिट आमादेशो भवति, कृभ्वस्तिभ्यो विहितश्च लिडनुप्रयुज्यते । चुलुम्पाञ्चकार । 

चिकीर्षाञ्चिकार | कारयाम्बभूव । पाचयामास । पृथग्वचनमामर्थ्यादस्तेनं भूभाव | अनेकाच इति किम् ? पपाच । 

इजादेगुरूमतोऽनृछूर्णोः ॥ ५२ 

इजादिर्यः क्रियार्थो गुरुमानृच्छत्यूर्णोतिवर्जितस्ततः परस्य लिट आम् भवति, कृभ्वस्तिलिट् चानप्रयुज्यते । ईहाञ्चक्रे । व्युच्छाञ्चकार | इजादेरिति किम् ? ततक्ष । गुरुमत इति किम् ? इयेष | नैष लविधानकाले गुरुमान् । उछेस्तु लविधानकाल एव गुरुमत्त्वादाम् भवत्येव, ऋछिप्रतिषेधाच्च लिङ्गात् । अत एवास्य सयोगपरस्यापि गुरुत्वम् । अनृछूर्णोरिति किम् ? आनछे । प्रोर्णुनाव | 

कासयदयासः || ५३ ॥ 

कास अय दय आसश्च परस्य लिट आम् भवति, कुभ्वस्तिलिट् चानुप्रयुज्यते ।  पलायाञ्चक्रे । उद्याञ्चके | 

आसाञ्चक्रे । कासाञ्चक्रे । 

जाग्रुषो वा  ५४ 

जागर्तेरुषश्च परस्य लिट आम् भवति वा, कृभ्वस्तिलिट् चानुप्रयुज्यते । जागराञ्चकार, जजागार । ओषाञ्चकार, उवोष । 

भीह्रीहूनां द्वे  ॥ ५५  

भी ही हू इत्येतेषां लिट आम् भवति वा तत्सन्नियोगेन च द्वित्वम्, कृभ्वस्तिलिट् चानुप्रयुज्यते । बिभयाञ्चकार, बिभाय । जिह्रयाञ्च- कार, जिह्राय । जुहवाञ्चकार, जुहाव | लिटि* [ ५/१/२, पा० ६ |१|८ ]इति सिद्ध द्विर्वचने द्वे चेति नियमार्थं वचनम्  एतेषामेवामि द्वित्वं भवति नान्येषामिति । तथा चैवोदाहृतम् । 

बिभराम् ।। ५६ ।। 

बिभर्तेर्लिट आम् वा निपात्यते द्वित्वमित्वञ्च कृभ्वस्तिलिट् चानुप्रयुज्यते । बिभराञ्चकार, बभार । 

विदाम् ॥ ५७ ॥ 

विदेर्लिट आम् वा निपात्यते, एङ्भावश्च कृभ्वस्तिलिट् चानुप्रयुज्यते । विदाञ्चकार, विवेद । 

लोटः कुलोट् ॥ ५८  

लोडन्तस्य विदेर्विदामिति निपात्यते वा, कृञश्च परो लोडनुप्रयुज्यते । विदाङ्करोतु, विदाङ्कुरुताम्, विदाङ्कुर्वन्तु । वेत्तु, वित्ताम, विदन्तु | 

स्यतासी लृलुटोः ॥ ५९  

लुटि लुङि च परभूते क्रियार्थात् स्यः परो भवति, लुटि तास् । करिष्यति । अकरिष्यत् । श्वः कर्ता । 

लुङि सिच्  ६० 

लुङि परभूते क्रियार्थात् सिच् परो भवति । अकार्षीत् । इकारः सिच्यतङ्यादैच् [ ६ |१| ३] इति चिह्नार्थः । चकार आगमानुदात्तस्वरबाधनार्थः । 

स्पृशमृशकृषतृपदृपो वा  ६१  

स्पृशादिभ्यो लुङि सिज् वा भवति । अस्प्राक्षीत्, अस्पार्क्षीत्अस्पृक्षत् । अस्राक्षीत् असार्क्षीत्, असृक्षत् । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत । अत्राप्सीत् अतार्प्सीत् अतृपत् । अद्राप्सीत्, अदार्प्सीत्, अदृपत् । 

दाधागातिस्थाभूपोऽतङि लुक् ॥६२ 

एतेभ्य उत्तरस्य सिचोऽतङि लुग् भवति । अदात्, अधात्अगात्, अस्थात्, अभूत्, अपात् । अतङिति किम् ? अदिषाता ग्रामौ देवदत्तेन । गातिपिबत्योर्निदशसाहचर्याभ्यां ग्रहणादिह न भवति । अगासीद् गायःन | अपासीन् नृपः । 

घ्राधेशाछासो वा ॥ ६३ 

प्रादिभ्यः परस्य सिचो लुग् वा भवति । अघ्रात्, अघ्रासीत् । अधात्, अधासीत् । अशात्, अशासीत् । अच्छात्, अच्छासीत् । असात्, असासीत् । अतङीत्येव । अघ्रासाता सुमनसौ देवदत्तेन ।  

तनादिभ्यस्तथासोः ॥ ६४ ॥

तनादिभ्यः परस्य सिचस्तथासो परतो लुग् वा भवति । अतत,अतथा । अतनिष्ट, अतनिष्ठा । असात, असाथा । असनिष्टअसनिष्ठा । तथासोरिति किम् ? अतनिषाताम् । थासा सहचरितस्यैव तशब्दस्य ग्रहणादिह न भवति । अतनिष्ट यूयम् । करोतेरलुक्पक्षेऽपि ह्रस्वात् ६।३।५६ इति सलोपः | अकृत, अकृथा । 

शल इगुपान्तादशोऽनिटक्सः || ६५ ||

शलन्तादिगुपान्ताद् दृशिवजितात् क्रियार्थादनिटो लुडि क्सो भवति । अलिक्षत् अधुक्षत् । शल इति किम् ? अभैत्सीत् । इगुपान्तादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अदर्शत्अद्राक्षीत् । अनिट् इति किम् ? अकोषीत् । 

श्लिषः || ६६ ||

श्लिष्यतेर्लुङि क्सो भवति । पुनर्विधानात्  पुष्यत्यादिविहितोऽङ् बाध्यते । उपाश्लिक्षत् कन्यां देवदत्तः | चिणपि तर्हि बाध्येत, उपाश्लेषि कन्या देवदत्तेनेति ? पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते न परान् । अनिट् इत्येव । अश्लेषीत् । अधाक्षीदित्यर्थः । 

सत्त्वाश्लेषे ६७ 

प्राणिविषय एवाश्लेषे वर्तमानाच्छिष्यतेलुङि क्सो भवति, नान्यत्र । उपाश्लिषज्जतु च काष्ठ च । व्यत्यश्लिष्ट जतु च काष्ठं च । 

णिश्रिद्रुस्रुकमः कर्तरि चङ् ॥६८ 

ण्यन्ताच्छ्रयत्यादिभ्यश्च लुङि कर्तरि चङ् भवति । अचीकरत् । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । अचकमत । कर्तरीति किम् ? अकारयिषाता कटौ देवदत्तेन । चकारश्चङि [ ५।१।२४] इति चिह्नार्थः । डकारोऽदेङ् प्रतिषेधार्थः । 

धेश्वेर्वा ६९ 

धेट् श्वयतेश्च लुङि वा चङ् भवति । अदधत्, अधासीत्, अधात् । अशिश्वियत् अश्वयीत्, अश्वत् । कर्तरीत्येव । अविषाता गावौ वत्सेन । 

ऋसृशाससुख्यावचोऽङ् ७० 

एतेभ्यो लुङ्यङ् भवति । आरत्, समारत् । असरत् । अशिषत् । आस्थत्, पर्यास्थत् । आख्यत् । अवोचत् । शास्साहचर्यादाद्ययोर्लुप्तशपोर्ग्रहणम् । तेनह न भवति । आर्षीत् । असार्षीत् । 

ह्वलिप्सिचः ||७१ || 

ह्वयतेर्लिपः सिचश्च लुङ्यङ् भवति । अह्नत् । अलिपत् । असिचत् । 

तङि वा ॥ ७२  

ह्वादिभ्यस्तङ्यङ् वा भवति । अह्वत, अह्वास्त । अलिपत, अलिप्त । असिचत, असिक्त | 

लृदिद्द्युतादिपुष्यत्यादिभ्योऽतङि ||७३ || 

लृदितो द्युतादिभ्यः पुष्यत्यादिभ्यश्च लुङ्यतङ्यङ् भवति । अगमत्, असृपत् । व्यद्युतत्, अश्वितत् । अपुषत् । अशुषत् । अतडीति किम् ? व्यद्योतिष्ट व्यलोटिष्ट | श्यना निर्देशात् पुष्णातेर्न भवति । अपोषीत् । 

इरितो वा ॥ ७४ ॥

इरितः क्रियार्थालुङ्यतङ्यङ् वा भवति । अरुधत्, अरौत्सीत् । अतङीत्येव । अरुद्ध | 

जृश्विस्तम्भुस्रुचुम्लुचुग्लुचः ७५ 

एतेभ्यो लुङ्यतङ्यङ् वा भवति । अजरत्, अजारीत् । अश्वत्, अश्वयीत्, अशिश्वियत् । अस्तभत्, अस्तभ्भीत् । अम्रुचत्, अम्रोचीत् । अम्लुचत्, अम्लोचीत् । न्यग्लुचत न्यग्लोचीत् ।  न्यग्लुञ्चीदिति ग्लुञ्चेरेतद्रूपम् । ननु च न्यग्लुचदिति ग्लुञ्चेरपि रूपमिष्यत एव तथा च गत्यर्थता गम्यते । अनेकार्या हि धातव इति ग्लुचिरपि गत्यर्थो भविष्यति । 

चिण् ते पदः ७६ ||

लङि तभूते पदश्चिण् भवति । उदपादि । त इति किम् ? उदपत्साताम् । चकारश्चिण [१।१।८५ ] इति चिह्नार्थः । णकार आदैजर्थः । 

दीपजनबुधपूरितायिप्यायो वा  ७७  

दीपादिभ्यस्तभूते लुङि परतश्चिण् वा भवति । अदीपि, अदी- पिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपूरिष्ट । अतायि अतायिष्ट | अप्यायि, अप्यायिष्ट । 

भावाप्ययोः  ७८  

क्रियायाः क्रियाव्याप्ये चार्थे लुङि ते परतः क्रियार्थाच्चिण् भवति । आसि भवता । अकारि कटो भवता । अकारि कटः स्वयमेवेति स्वयशब्दादत्र कर्ता प्रतीयते, चिण् पुनर्व्याप्य एव । यदा तु कर्तरि लकारस्तदा, अकृत कट स्वयमेव । तथा, अदोहि गौः स्वयमेव, अदुग्ध गौः स्वयमेवेति । रुधेरपि व्याप्यविवक्षायामिष्यत एव चिण् । अरोधि गौर्देवदत्तेनेति । यदा तु गोरात्मन एव कर्तृत्वं तदा, अरोधि गौरात्मनेति भवत्येव । य एव चार्थ आत्मनेति स एव चार्थः स्वयमेवेति । अरोवीति चोक्ते नाश्रुते कर्तृवाचिनि पदान्तरे कर्तृत्वं गम्यते । तस्मादिहापि व्याप्यविवक्षाया चिणा भवितव्यम् । यदा तु कर्तरि लकारस्तदा, अरुद्ध गौः स्वयमेवेति । तदाप्यात्मानमिति पदान्तराद् व्याप्यता गम्यते स्वयमेवेति वा वचनात् । अतप्त तपस्तापस इति कर्तर्येव लकारःतपआप्याद् [ ११४/७५ ] इति तङ् । तपिश्चात्र करोत्यर्थे वर्तते । अकृत तपस्तापस इत्यर्थः । 

नानोस्तपः ।। ७९ ।।

अनोर्विशेष्यात् तपश्चिण् न भवति । अन्ववातप्त पापेन कर्मणा । अनोरिति किम् ? अतापि पृथिवी राज्ञा । 

तिङ्शिति यगलिडाशीर्लिङि  ८०  

तिङि शिति च भावाप्ययोर्यग् भवति, लिटमाशीर्लिङं च वर्जयित्वा । आस्यते देवदत्तेन । आस्यमानम् । गम्यते ग्रामः । गम्यमानः । अलिडाशीर्लिङीति किम् ? बभूवे देवदत्तेन । बिभिदे कुसूलः । भविषीष्ट । पक्षीष्ट ओदनः । भिद्यते कुसूलः स्वयमेवेति भिद्यत इति श्रवणाद् व्याप्यता गम्यते स्वयमेवेति श्रवणात् कर्तृत्वम्, कर्तृत्वविवक्षाया तु भिनत्ति कुसूल आत्मानमिति । दुग्धे गौः । पयो मुञ्चतीति गम्यते । तथाअदुग्ध गौः स्वयमेवेति । प्रस्नुते गौः स्वयमेव। नमते दण्डः स्वयमेवेति स्नु-नमः स्वयम् [ १|४|१०२ ] इति तङ् अवकिरते हस्ती स्वयमेव ,श्रथ्नीते माला स्वयमेव, ग्रथ्नीते माला स्वयमेव, चिकीर्षते कटः स्वयमेवेति किरादिश्रन्थग्रन्थसनामाप्ये [ १४ १०० ] इति तङ् । तस्मादुदुम्बरः सलोहितफलं पच्यत इति व्याप्यतैवात्र सक्रियाविशेषणा विवक्षिता । कर्तृत्वविवक्षायां तु पचत्यात्मानमिति । परिवारयन्ते कण्टका वृक्षमिति पदसंस्कारकाले फलवति [ १|४|१२४ ] इति तङ् । पदान्तरसम्बन्धे तु कर्तु फलासम्भवो गम्यते । तथा कारयते कटः स्वयमेव, चोरयते गौः स्वयमेव, भूषयते कन्या स्वयमेव, मण्डयते कन्या स्वयमेव, श्रयते दण्डः स्वयमेव, ब्रते कथा स्वयमेव, आहते गौः स्वयमेवेति कर्तृतैव गम्यते । आङो यमहन ० [ ११४/७३ ] इति तङ् । 

तपस्तपआप्यात् ॥ ८१  

तप आप्य यस्य तस्मात्तपतेर्यग् भवति । तप्यते तपस्तापसः । तपआप्यात् [ १।४।७५ इति तङ् । तपआप्यादिति किम् ? उत्तपति सुवर्णं सुवर्णकारः । कर्त्रर्थ आरम्भः | 

कर्तरि शप् ।। ८२ ।।

क्रियार्थात्तिङि शिति च परभूते कर्तरि शब् भवति । तरति । नयति । धारय । पारय । अलिडाशीर्लिङीत्येव । बभूव । भूयात् । शकार एचोऽशित्यात् [ ५।१।४९ ] इति चिह्नार्थः । पकारः शपुश्यन [५/४/३५ ] इति चिह्नार्थः | 

अदादिभ्यो लुक ॥ ८३ 

अदादिभ्यः परस्य शपो लुग् भवति । अत्ति । हन्ति । 

हूनां द्वे च ॥ ८४  

जुहोत्यादिनां शपो लुग् भवति द्वित्वं च । जुहोति बिभेति । 

चिण ॥ ८५  

चिणः परस्य तशब्दस्य लुग् भवति । उदपादि । तिङ् शितीत्येव । अकारितराम् । 

यङो बहुलम् ।। ८६ ।। 

यङो बहुलं लुग् भवति । रोरवीति, रोरूयते । क्वचित्तु नित्यमेव भवति । लोलुव, पोपुव । क्वचिन्न भवति । लोलूया । 

दिवादिभ्यः श्यन् ॥ ८७ ॥

दिवादिभ्यः परस्य शपो विषये श्यन् भवति । दीव्यति, सीव्यति ।

भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषो वा ॥ ८८  

भ्राशादिभ्यः श्यन् वा भवति । भ्राश्यते, भ्राशते । भ्लाश्यते 

भ्लाशते । भ्रम्यति भ्रमति । भूवादित्वान्न दीर्घत्वम् । क्राम्यति। क्रामति । क्लाम्यति, क्लामति । त्रस्यति त्रसति । त्रुटति त्रुटति । लष्यति, लषति । 

यस || ८५|| 

यस श्यन् वा भवति । यस्यति, यसति । 

समः ||१०|| 

सम एव पराद् यसः श्यन् वा भवति । सयस्यति, सयसति । सम इति किम् ? आयस्यति । 

कुषिरज आप्ये ॥ ९१  

कुषेः रजश्च यदाप्य तस्मिन्नेव कर्तरि श्यन् भवति । कुष्यति पाद स्वयमेव । रज्यति वस्त्रं स्वयमेव । आप्य इति किम् ? कुष्णाति, रजति । 

तुदादिभ्य शः || ९२||

तुदादिभ्यः शः परो भवति । तुदति । नुदति । 

रुधादीनां श्नम् ॥ ९३ 

रुधादीनामन्त्यादचः परं श्नम् (इन ? ) भवति । रुणद्धि । भिनत्ति | 

तनादिभ्य उः || १४ ||

तनादिभ्य उः परो भवति । तनोति । सनोति । करोति । 

स्वादिभ्यः श्नुः||९५ 

स्वादिभ्यः श्नुः परो भवति । सुनोति । सिनोति । 

श्रुकृव्धिवां शृकृधि च ॥ ९६

श्रु कृवि धिवीत्येतेषां श्नुर्भवति शृणोति । कृणोति । धिनोति । 

अक्षो वा ९७॥

अक्षःश्नुः परो भवति वा । निरक्ष्णोति, निरक्षति । [

तनूकृतौ तक्षः ||९८|| 

तनूकरणे तक्ष श्नुर्वा भवति । निस्तक्ष्णोति, निस्तक्षति | तनूकृताविति किम् ? सन्तक्षति वाग्भिः । 

स्तम्भुस्तुन्भुस्कम्भुस्कुम्भुस्कुभ्यः ॥ ९९  

एतेभ्यः श्नुः परो भवति । स्तभ्नोति । स्तुभ्नोति । स्कम्भ्नोति । स्कुभ्नोति । स्कुनोति । 

श्ना ॥ १०० ॥

एतेभ्य एव श्ना परो भवति । स्तभ्नाति । स्तुभ्नाति । स्कस्नाति । स्कुनाति । स्कुनाति । 

क्र्यादिभ्यः १०१ 

कादिभ्य इना परो भवति । क्रीणाति । प्रीणाति । 

हलो हौ शानच् १०२

हलन्ताद्धौ परतः श्नाविषये शानच् परो भवति । पुषाण, गृहाण | हल इति किम् ? क्रीणीहि । हाविति किम् ? अश्नाति । 

बहुलम् || १०३ ||

बहुलमित्येतदधिकृतं वेदितव्यम् । 

भावाप्ययोः१०४ 

क्रियायाः क्रियाव्याप्ये …र्थे इत्येतदधिकृतं वेदितव्यम् । 

तव्यानीयर् केलिमरः || १०५ ।। 

तव्यादय क्रियार्थात् परे भावाप्ययोर्बहुलं भवन्ति । कर्तव्यम् | करणीयम् | कर्तव्यः कटः । करणीयः कटः । भिदेलिमा भाषा । बहुलाधिकारात् करणादिष्वपि भवन्ति । स्नानीय चूर्णम् । दानीयो ब्राह्मण । समावर्तनीयो गुरु । प्रवचनीयः उपाध्यायः । उपस्थानीयः शिष्यः । तव्यस्य वा स्वरितत्वं वक्ष्यामः । 

वास्तव्यः ॥ १०६  

वसेस्तव्यं कर्तरि दीघत्वं च निपात्यते । वसतीति वास्तव्यः | 

यत् ॥ १०७ 

क्रियार्थाद् बहुल् भावाप्ययोर्यत् परो भवति । चेयम्, जेयम्, भव्यम् | भव्यः पुरुषः । गेयानि ब्राह्मणेन सामानि । गेयो ब्राह्मणः साम्नाम् । ऋहलो ण्यत् वक्ष्यति [१|१|१३०] । 

पुशकितकिचतियतिशसिसहियजः ॥ १०८  

पवर्गान्ताच्छकादिभ्यश्च भावाप्ययोबहुलं यद् भवति । जप्यम, लभ्यम् । शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् ॥ यज्यम् । जनिवघोरिगुपान्तानां च स्वरं वक्ष्याम | 

गदमदयमोऽपादेः || १०९  

गदादिभ्यः प्रादिरहितेभ्यो यद् भवति । गद्यम् । मद्यम् । यम्यम् । अप्रादेरिति किम् ? प्रगाद्यम् । प्रमाद्यम् । आयाग्यम् । प्र । परा । अप । सम् | अनु । अव । निर् । दुर् । वि । आट । अधि । अपि । नि । अति । सु । उद् । अभि । प्रति । परि । उप । यमो नियमार्थं वचनम् । 

चरः ॥११० 

चरतेर्भावाप्ययोर्यद् भवति । चयम् । अप्रादेरित्यव | अभिचार्यम् । 

अगुरावाङः ॥ १११  

चरतेराङः परादगुरौ यद् भवति । आचर्यो देशः । अगुराविति किम् ? आचार्यः | 

अवद्यपण्यवर्या गर्ह्यविक्रेयानिरोधेषु ॥ ११२  अवद्यमिति निपात्यते गर्ह्येऽर्थे । अनुद्यमन्यत् । पण्यमिति निपात्यते विक्रेयेऽर्थे | पाण्यमन्यत् । वर्येत्यनिरोधे गम्यमाने । वृत्यान्या । स्त्रीलिङ्गनिर्देशादिह न भवति । वार्या ऋत्विजः । 

वह्यं करणम्  ११३ 

वह्यमिति निपात्यते करणं चेत् । वहन्त्यनेनेति वा शकटम् । 

वह्यं वाह्यमन्यत् । 

अर्यः स्वामिवैश्ययोः ॥ ११४

अर्य इति निपात्यते स्वामिनि वैश्ये च । आर्योऽन्यः | 

ऋतुमत्युपसर्या ॥११५ 

उपसर्येति निपात्यते ऋतुमती चेत् । उपसार्यान्या । 

अजर्यं सङ्गतम् ॥ ११६ 

अजर्यमिति कर्तरि निपात्यते सङ्गतं चेत् । अजर्यमार्यसङ्गतम् [जातकमाला ] | सङ्गतमिति किम् ? अजरिता कम्बलः । 

वदः सुपः क्यप्  ११७ 

वदतेः सुपः परात् क्यब् भवति, यत् च । ब्रह्मोद्यम् ब्रह्मवद्यम् । सुप इति किम् ? वाद्यम् । अप्रादेरित्येव  अभिवाद्यम् । 

भुवः ॥११८॥

भवतेः सुप परात् क्यब् भवति । ब्रह्मभूयं गतः । सुप इत्येव । भव्यम् । अप्रादेरित्येव । प्रभव्यम् । 

भावे हनस्त च ॥ ११९  

हन्ते सुप पराद् भावे क्यब् भवति, तकारश्चान्तादेश । ब्रह्म- 

हत्या | भाव इति किम् ? श्वघात्यः । सुप इत्येव । घातो वर्तते । अप्रादेरित्येव । उपघातः । ण्यदपि न भवति बहुलाधिकारात् । 

इण् स्तुशासुवृञ्दृजुषः १२० 

इणादिभ्यः क्यब् भवति । इत्यः । स्तुत्यः । शिष्यः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः | जुष्यः । कथम् उपेयः, अवश्यस्तुत्यः, आशास्यमन्यत् पुनरुक्तभूतम् [ रघु० ५।३४] अनिवार्यो गजरन्यै स्वभाव इव देहिनामिति [महाभारते ] ? बहुलाधिकारात् । 

ऋदुपान्तादक्ऌपिचृतः ॥१२१ 

ऋकारोपान्तात् क्रियार्थात् क्लुपिचृतिवर्जितात् क्यब् भवति । वृत्यम् । अक्लूपिचत इति किम् ? सङ्कल्प्यम् । विचर्त्यम् । 

खेयम्  १२२  

खनतेः क्यपि खेयमिति निपात्यते । 

भृञोऽसंज्ञायाम्  १२३॥

भृञोऽसंज्ञायां क्यब् भवति । भृत्यः । असज्ञायामिति 

। किम् भार्या । ननु च सज्ञायामपि स्त्रियां क्यबस्ति ? न तस्य भावे विधानात् । 

समो वा ।। १२४  

सपूर्वाद् भृञः क्यब् भवति वा । सभृत्यः, सभार्यः । 

कृषिमृजिशंसिदुहिगुहः १२५ 

कृञ्जादिभ्यः क्यब् भवति वा । कृत्यम्, कार्यम् । वृप्यम्, वर्ष्यम् । मृज्यम्, मार्गतम् । शस्यम्, शस्यम् । दुह्यम्, दोह्यम् । गुह्यम्, गोह्यम् । 

राजसूयरुच्चकृष्टपच्याव्यथ्या ॥ १२६  

एते शब्दा निपात्यन्ते । राज्ञा सोतव्यो राजसूयः । कथं सूर्यः ? सुरशब्दात् स्वार्थिको यत्, अथवा सूर्यागस्त्ययो [५|३|१५३] इति निपातनात् । मृषापूर्वाद् वदतेः क्यप् सिद्ध एव । मृषोद्यम् । पक्षे न भविष्यति बहुलाधिकारात् । रोचत इति रुच्यः । कृष्ठे पच्यन्त इति कृष्टपच्याः शालयः | न व्यथते, अव्यथ्यः | 

कुप्याज्यभिद्योद्ध्यसिध्ययुग्यानि नाम्नि ॥१२७

एनानि शब्दरूपाणि सज्ञायां निपात्यन्ते । कुप्यम्, धनम् । आज्यम्, घृतम् । भिद्यो नाम नदः । एवमुद्ध्यः | सिव्यः । कथं पुष्यः? निष्यपुष्ययोः [ ५|३|१५४] इति निपातनात् । युग्यम्, यानम् । अन्यत्र | गोप्यम्, अङ्ग्यम्, भेद्यम्, उज्झ्यम्, सेधनं सेध्यम्, योग्यम् । 

जित्याविपूयविनोया हलिमुखकल्केषु ॥ १२८  

जित्यादयो हल्यादिष्वर्थेषु निपात्यन्ते । जित्या हलिः, जेयमन्यत् । विपूयो मुञ्जः, विपाव्यमन्यत् । विनीयः कल्कः, विनेयमन्यत्। 

पदास्वैरिपक्ष्यबाह्यासु ग्रहः ॥ १२९ ॥

दादिष्वर्थेषु ग्रहः क्यब् भवति । प्रगृह्यं पदम्, यदचि न सन्धीयते । अवगृह्यं पदम्, यस्यावग्रहः क्रियते । अस्वैरिषु । गृह्यका इमे । अवरुद्धका इत्यर्थः। पक्षेषु । अर्जुनगृह्या । बाह्यायाम् । ग्रामगृह्या स्त्रीः | ग्राह्यमन्यत् । 

ऋहलो ण्यत् ॥ १३०  

ऋवर्णान्ताद्धलन्ताच्च क्रियार्थाण् ण्यद् भवति । कार्यम्, हार्यम् । पाक्यम्वाक्यम् । 

पाणिसमवाभ्यां सृजः ॥ १३१  

पाणिपूर्वात् समवपूर्वाच्च सृजतेर्ण्यद् भवति । पाणिसर्ग्य रज्जुः । समवसर्ग्या । पाणिसमवाभ्यामिति किम् ? सृज्यम् । 

ओरावश्यके ।। १३२ ।।

उवर्णान्तादवश्यम्भावे गम्यमाने ण्यद् भवति । लाव्यम् । अवश्यलाव्यम्  । लव्यमन्यत् । 

आसुयुवपिरपिलपित्रपिचमिदम ॥ १३३  

आङ्पूर्वात् सुनोतेर्यौत्यादिभ्यश्च ण्यद् भवति । आसाव्यम्याव्यम्, वाप्यम्, राप्यम्, अभिलाप्यम्, अपत्राप्यम्, आचाम्यम्, अवदाभ्यम् । 

अमावसो वा ।। १३४  

अमापूर्वाद् वसतेयद् भवति वा । सह वसतोऽस्याः चन्द्रार्कावित्यमावास्या, अमावस्या । ण्यता मुक्तेः यद् भवति । अनौवस इति प्रतिषेधान् नाद्युदात्तत्वं भवति । 

प्रणाय्योऽसम्मते ।। १३५ ।। 

प्रणाय्य इति निपात्यतेऽसम्मतश्चेत् । प्रणाय्यश्चौरः | असम्मत इति किम् प्रणेयः साधुः । कथं तदेतज्ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने इति ? बहुलाधिकारात् । 

धाय्यपाय्यानाय्यसान्नाय्यनिकाय्या नाम्नि  १३६  

धाय्यादयः शब्दाः सज्ञायां निपात्यन्ते । 

धाय्या सामिधेनी । ततोऽन्यत्रापि रूढा वर्तते । धाय्या शासति । धेयमन्यत् । पाय्यमानम् । पेयमन्यत् । आनाय्यो दक्षिणाग्निः । यो हि गार्हपत्यादानीयः प्रणीयते । आनेयोऽन्यः । सान्नाय्यम् हविर्विशिष्टमेव । सन्नेयमन्यत् । निकाय्यो निवासः | निचेयोऽन्यः | 

क्रतौ कुण्डपाय्यसञ्चाय्यौ ॥ १३७ 

क्रुतावभिधेय एतौ शब्दौ निपात्येते । कुण्डै पीयते सोमोऽस्मिन् कुण्डपाय्यः क्रतुः। निपातनादाद्युदात्तत्वम् । सञ्चीयते सोमोऽस्मिन्निति सञ्चाय्यः क्रतुः । 

अग्नौ चित्योपचाय्यपरिचाय्या ॥ १३८  

चित्यादयोऽग्निविषये निपात्यन्ते । चित्योऽग्निः । चयनं चित्या । चिनोतेः क्यप्, अन्तोदात्तत्वं च । अग्नेश्चित्या, अग्निचित्या । उपचीयते, उपचाय्योऽग्नि । परिचीयते, परिचाय्य । समूह्य इत्यूहिना सिद्धम्, तस्यापि वह्यर्थे क्वचित् प्रयोगात् [पा ३।१।१३१।१-३] । सवाह्य इति चाग्नौ भवत्येव । 

कर्तरि ण्वुल्तृजचः  १३९ ॥

कर्तरि कारके क्रियार्थात् परे ण्वुल्तृचो भवन्ति । पाचकः, पक्ता, पचः । बहुलमित्येव । पादाभ्यां ह्रियते, पादहारकः । गले चुप्यते, गलेचोपकः । श्वपचो जारभर इत्यण्विषयेऽप्यज् भवति बहुलाधिकारात् । कथं नदी चरी भपी प्लवी चोरी गाही सूदी देवीति ? गौरादिषु पठितव्या । कर्तरीत्यधिकारः प्राक् सुब्विधेः [ २|१|१] । 

नन्दिग्रहादिभ्यो ल्युणिनी ॥ १४०  

नन्द्यादिभ्यो ग्रहादिभ्यश्च कर्तरि ल्युणिनी परौ भवतः । नन्दि- वासिमदिदूषिसाधिशोभिवर्धिरोचिभ्यो ण्यन्तेभ्यः सज्ञायाम् । नन्दयतीति नन्दनः । एव वासन । मदन । दूषण | साधन | शोभन । वर्धन | रोचन | सहितपिदमः सज्ञायामण्यन्तात् । सहन । तपन | दमन । दुर्धर्षण ( ? )* | जल्पन | दर्पण | रमण | सक्रन्दन । सहर्षण | सकर्षण । जनार्दन । मधुसूदन । पवन । लवण । निपातनाण् णत्वम् । विभीषण | चित्तविनाशन | कुलदमन | व्याप्यपूर्वाणामण्विषयेऽपि भवति । गृह्णातीति ग्राही । स्थायी । निरक्षी । निश्रावी । याचिव्रजवदवसा नञ् पूर्वाणाम् । अयाची । अव्राजी । अवादी । अवासी । अचाम- चित्तकर्तृ काणाम् । अकारी धर्मस्य बालातप । विषायी, विषयीति देशे । अभिभवी, अभिभावीति भूते । परिभवी, परिभावीति पक्षे ह्रस्वत्व निपातनात् । कथम् उत्साही, उद्दासी, उद्भासी, समर्दी निवेशीति ? अत इनिना [ ४|२| ११९ ] सिद्धम् । एवमव्याहारी, अपराधी, उपरोधी ।

ज्ञाकॄप्रीइगुपधान्तात् कः१४२ 

जानातेः किरतेः प्रीणातेरिगुपान्ताच्च कर्तरि कः परो भवति  जानातीति ज्ञः । उत्किरः । प्रियः । विक्षिपः । बहुलमित्येव । विक्षेप्ता, विक्षेपकः | देवः | प्रसेव : मेषः । 

आतः प्रादिभ्यः ।। १४२  

आकारान्तात् क्रियार्थात् प्रादिभ्यः परात् को भवति । प्रस्थः | त्रैड् पालने [ धातुपा ११४८४ ] इत्यस्य सुत्रम् । सुग्लः 

पाघ्राध्माधेट्दृशः शः  १४३  [

पादिभ्यः पर शो भवति । उत्पिबः । घ्रादिसाहचर्यात् पिबते- ग्रहणम् । उज्जिघ्रः । बहुलाधिकाराद् व्याघ्र इति को भवति ।  विधमः । उद्धयः । पश्य, विपश्य, उत्पश्य । 

धारिपारिवेद्युदेजिचेतिसातिसाहिविन्दोऽप्रादेः ॥ १४४ 

धार्यादिभ्यो विन्दतेश्च प्रादिरहितेभ्यः शो भवति । धारयःपारयः, वेदयः, उदेजयः, चेतयः, सातयः, साहयः, विन्दःगोविन्दः, अरविन्दः | अप्रादेरिति किम् ? प्रवदकः । 

लिपो नेश्व ॥ १४५  

लिम्पते प्रादिरहितान् नेश्च परात् शो भवति । लिम्पः | निलिम्पा नाम देवाः । कथं ददो दध इति ? दददधोरचा सिद्धम् । स्वरविशेषमष्टमे वक्ष्यामः । 

ज्वलादिभ्यो णो वा  १४६  

ज्वल दीप्तो [ धातुपा १५६१] इत्येवमादिभ्यो णः परो वा भवति । ज्वालः ज्वलः । चालः । चलः | [ धातुपा ११५८७ ] कसपर्यन्ता ज्वलादयो वृत्करणात् । 

श्यादिण् व्यधश्वसतनः  १४७  

श्यायतेराकारान्तेभ्य इणादिभ्यश्च णो भवति । अवश्याय । कबाधनार्थ श्याग्रहणम् । दायः धायः । प्रत्यायः व्याधः, श्वासः अवतानः । लेहः, श्लेष इत्यचा सिद्धम् । 

आसमः स्त्रोः ॥ १४८  

आङः समश्च परात् स्रवतेर्णो भवति । आस्रावः, सत्रावः । कथं मास्रवः ? बहुलाधिकारात् । आसम इति किम् ? परिस्रवः । 

हृसोऽबात् ॥ १४९  

हृ सा इत्येताभ्यामवात् पराभ्यां णो भवति । अवहारः, अवसायः | अवादिति किम् ? हरः । 

दुन्योऽप्रादेः ।। १५० ।।

दुनोतेनयतेश्च प्रादिरहिताण णो भवति । दावः नायः । अप्रादेरिति किम् ? प्रदवः, प्रणयः । बहुलाधिकारात् वनदवः | 

भुवो वा ।। १५१ ।। 

भवतेर्णो वा भवति । भावः, भवः । 

ग्रहः || १५२ ।।

अस्माण्णो वा भवति । ग्राहो जलचरः । ग्रहः सूर्यादिः । 

गेहे कः ॥। १५३ ।। 

गेहे ऽभिधेये ग्रह को भवति । गृहम् गृहा । 

गस्थकन् ॥ १५४ 

गायतेस्थकन् भवति । गाथकः | 

ण्युट् ॥ १५५  

गायतेः परो ण्युड् भवति । गायनः, गायनी । 

हो व्रीहिकालयोः ।। १५६  

जहातेव्रीहौ काले च ण्युड् भवति । हायना नाम व्रीह्य | हायन सवत्सर । व्रीहिकालयोरिति किम् ? हाता । 

नृतिखनिरजः शिल्पिनि ष्वुन् ॥ १५७  

नत्यादिभ्यः शिल्पिनि कर्तरि ष्वुन् भवति । नर्तकःखनकः, रजकः । उच्चारणादनुनासिकलोपः । षकारो ङीषर्थः । नर्तकी, खनकी, रजकी । 

प्रुसृल्वो वुन् ॥ १५८  

प्रु सृ लू इत्येतेभ्यः शिल्पिनि वुन् भवति । प्रवकः, सरकःलवकः । यस्य तु न तच्छिल्पम्, प्रोता स भवति । 

आशिषि ।। १५९ ।। 

आशंसायां गम्यमानायां क्रियार्थाद् वुन् भवति । जीवतात, जीवकः । नन्दतात्, नन्दकः | 

इति चान्द्रे व्याकरणे प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः । 

 

Next Post

© 2025 All rights reserved.