प्राग यतष्ठक् ॥१॥
प्राग् यत्सशब्दनाद् [ ७६ ] येऽर्थास्तत्र ठग् वेदितव्यम् ।
तेन जितं जयति दीव्यति खनति ॥२॥
तृतीयान्ताज्जितादिष्वर्येषु ठग् भवति । अक्षैर्जितम् आक्षिकम् । शालाकिकम्। अक्षैर्जयति दीव्यति वा आक्षिकः | शालाकिकः । खनित्रेण खनति खानित्रिकः | कौद्दालिकः |
देवदत्तेन जितम्, अङ्गुल्या खनतीति न भवति तदर्थाप्रतीते ।
संस्कृते ॥ ३ ॥
ततीयान्तात् संस्कृतेऽर्थे ठग् भवति। दध्ना संस्कृतं दाधिकम्। । मारीचिकम् |
कुलत्थकोपान्तादण् ॥४॥
कुलत्थात् ककारोपान्ताच्च तेन संस्कृते अण् भवति । कौलत्थम् । तैन्तिलीकम्, दार्दकम् ।
तरति ||५||
तृतीयान्तात्तरतीत्येतस्मिन्नर्थे ठग् भवति । ओडुपिकः | गौपुच्छिकः ।
द्व्यच्–नौभ्यां ठन् ॥६॥
द्व्यचो नौशब्दाच्च तेन तरतीत्यतस्मिन्नर्थे ठन् भवति । घटिकः । प्लविकः । नाविकः, नाविका ।
चरति ||७||
तृतीयान्ताच्चरतीत्येतस्मिन्नर्थे ठग् भवति । घाण्टिकः । शाकटिकः । शार्ङ्गवेरिकः । भक्षणार्थमपि केचिद्वर्णयन्ति ।
पर्पादिभ्यः ष्ठन् ॥ ८॥
पर्पादिभ्यस्तेन चरतीत्यत्रार्थे ष्ठन् भवति । पर्पिकः, पर्पिकी । अविकः, अविकी || पर्प । अश्वत्थ । रथ । जाल । व्यास । व्याल | पाद | आकर्ष ।
श्वगणाद्वा ||९||
श्वगणात्तेन चरतीत्येतस्मिन्नर्थे ष्ठन् वा भवति । श्वगणिकः श्वगणिकी, श्वागणिकः, वागणिकी ।
वेतनादिभ्यो जीवति ||१०||
वेतनादिभ्यस्तेन जीवतीत्येतस्मिन्नर्थे ठग् भवति ।वैतनिकः,
वाहिकः || वेतन | वाह । अर्धवाह । वेश । उपवेश । प्रेषण । सुख । शय्या | शक्ति । हय । उपहस्त । पद । उपस्थान । धनुस् । दण्ड | धानुष्क, दाण्डिक, धानुर्दण्डिक ।
वस्नक्रयविक्रयाट ठन् ||११||
वस्त्रादिभ्यस्तेन जीवतीत्येतस्मिन्नर्थे ठन् भवति । वस्निकः
क्रयिकः, विक्रयिकः, क्रयविक्रयिकः |
छश्चायुधात् ||१२||
आयुधात् तेन जीवतीत्येतस्मिन्नर्थे छो भवति ठश्च । आयुधीयः, आयुधिकः, आयुधिका ।
व्रातात् खञ् ॥१३॥ ।
नानाजातीया अनियतवृत्तय उत्सेधजीविनः सङ्घा व्राताः,
तेषां कर्मापि व्रातम् । ततस्तेन जीवतीत्येतस्मिन्नर्थे खञ् भवति । व्रातीनः |
हरत्युत्सङ्गादिभ्यः ॥ १४॥
उत्सङ्गादिभ्यस्तेन हरतीत्येतस्मिन्नर्थे ठग् भवति । ओत्सङ्गिकः। औद्वाहिकः ॥ उत्सङ्ग । उद्वाह । उत्तु (डु ? )पः । उत्पुटः । पिटकः । पिटाक ।
भस्त्रादिभ्यः ष्ठन् || १५ ||
भस्त्रादिभ्यस्तेन हरतीत्यतस्मिन्नर्थे ष्ठन् भवति । भस्त्रिकः भस्त्रिकः | भरटिकः भरटिका || भस्त्रा । भरटः। भरणं । शीर्षभारः । असभारः ।
विविधवीवधाद्वा ।।१६॥
विवधवीवधाभ्यां तेन हरतीत्येतस्मिन्नर्थे ष्ठन् भवति वा । विवधिकः, विवधिकी। वीवधिकः वीवधिकी । वैवधिकः वैवधिकी ।
अण् कुटिलिकायाः ||१७||
कुटिलिकायास्तेन हरतीत्येतस्मिन्नर्थेऽण् भवति । कौटिलिकः ।
निवृत्तेऽक्षद्यूतादिभ्यः || १८ ||
अक्षद्यूतादिभ्यस्तृतीयान्तेभ्यो निर्वृत्त इत्येतस्मिन्नर्थे ठगे भवति । अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकम् । जाड्घाप्रहृतिकम् ॥ अक्षद्यूतः | जङ्घाप्रहृतः । पादस्वेदनं | कण्टकमर्दनं । गतागतः । यातप्रयातः।गतानुगतः ।
भावादिमप् ।। १९ ।।
भाववचनात्तेन निर्वृत्त इत्येतस्मिन्नर्थे इमब् भवति । पाकिमम्, सेकिमम्, कुट्टिमम् ।
त्रेः ||२०||
वान्तात् तेन निर्वृत्त इमब् भवति नित्य पुनर्विधानात् । कृत्रिमम् । पक्त्रिमम् ।
अपमित्ये कक् ||२१||
अपमित्यशब्दान्निर्वृत्ते ठग् भवति | आपमित्यकम् । कथ याचितकम् ? कुत्सायां कन् भवति ।
संसृष्टे || २ ||
तृतीयान्तात् ससृष्टे ठग् भवति । दध्ना ससृष्टं दाधिकम् । पैप्पलिकम् ।
चूर्णादिनि ||२३||
चूर्णात् तेन संसृष्ट इनिर्भवति । चूर्णेन संसृष्टा चूर्णिनोऽपूपाः । लवणाल्लुक् ||२४||
लवणात् संसृष्टे विहितस्य लुग् भवति । लवणः सूपः, लवणा यवागूः ।
मुद्गादण् ॥२५॥
मुद्गात् संसृष्टेऽण् भवति । मौद्ग ओदनः । कथं दध्ना उपसिक्त ओदन दाधिक सार्पिष्क इति । संसृष्टे [२२] इत्येव सिद्धम् ।
ओजस्–सहस्–अम्भसा वर्तते ॥ २६॥
एभ्यस्तृतीयान्तेभ्यो वर्तत इत्येतस्मिन्नर्थे ठग् भवति । ओजसा वर्तते औजसिकः । साहसिकः । आम्भसिकः |
तं प्रत्यनोरीपलोमकूलात् ॥ २७॥
द्वितीयान्तेभ्यः प्रत्यनुपूर्वेभ्य ईपलोमकूलेभ्यो वर्तत इत्येतस्मिन्नर्थे ठग् भवति । प्रतीपं वर्तते प्रातीपिकः | क्रियाविशेषणत्वाद् द्वितीया । आन्वीपिकः । प्रातिलोमिकः। आनुलोमिकः । प्रातिकूलिकः। आनुकूलिकः ।
परेर्मुखपार्श्वत् ||२८||
परे पराभ्यां मुखपार्श्वभ्यां द्वितीयान्ताभ्यां वर्तत इत्येतस्मिन्नर्थे ठग् भवति । परिमखं वर्तते पारिमुखिकः । पारिपार्श्विकः ।
उञ्छति ||२९||
द्वितीयान्तादुञ्छतीत्येतस्मिन्नर्थे ठग् भवति । बदराण्युञ्छति
बादरिकः | श्यामाकिकः ।
रक्षति ||३०||
द्वितीयान्ताद्रक्षतीत्येतस्मिन्नर्थे ठग् भवति । समाजं रक्षति।
सामाजिकः | सान्निवेशिकः ।
शब्ददर्दरं करोति ॥ ३१॥
शब्ददर्दराभ्यां करोतीत्येतस्मिन्नर्थे ठग् भवति । शाब्दिकः। दार्दरिकः ।
पक्षिमत्स्यमृगान् हन्ति ||३२||
पक्ष्यादिभ्यो द्वितीयान्तेभ्यो हन्तीत्यतस्मिन्नर्थे ठग् भवति । पाक्षिकः मात्स्यिकः मार्गिकः । अर्थप्रधानत्वान्निर्देशस्य तत्पर्यायविशेषेभ्योऽपि । शाकुनिकः, श्यैनिकः,मैनिकः शाफरिकः, हारिणिकः, सौकरिकः ।
परिपन्थं तिष्ठति च ||३३||
परिपन्थाद् द्वितीयान्तात्तिष्ठति हन्तीत्यनयोरर्थयोष्ठग् भवति । पारिपन्थिकः | अस्मादेव वचनात् परिपन्थशब्दोऽपि साधु |
माथान्तपदव्यनुपदाक्रन्दं धावति ||३४||
माथान्तात् पदव्यादिभ्यश्च धावतीत्येतस्मिन्नर्थे ठग् भवति । दाण्डमायिकः, शौल्कमाथिकः, पादविकः, आनुपादिकः, आक्रन्दिकः ।
पदान्तप्रतिकण्ठार्थललामं गृह्णाति ||३५||
पदोत्तरपदात् प्रतिकण्ठादिभ्यश्च गृह्णातीत्येतस्मिन्नर्थे ठग् भवति । पूर्वपदं गृह्णाति पौर्वपदिकः । प्रातिकण्ठिकः, आर्थिकः, लालामिकः |
गर्ह्ये ॥३६॥
द्वितीयान्ताद् गृह्णातीत्येतस्मिन्नर्थे गर्ह्येऽभिधेये ठग् भवति । द्विगुणं गृह्णाति द्वैगुणिकः । त्रैगुणिकः ।
वृद्धेर्वृधुष् ॥ ३७ ॥
वृद्धेष्ठक्सन्नियोगेन वृधुष् आदेशो भवति । वृद्धिं गृह्णाति
वार्धुषिकः ।
दशैकादशकुसीदात् ष्टन् ||३८||
दशैकादश-शब्दात् कुसीदाच्च गृह्णातीत्येतस्मिन्नर्थे ष्ठन् भवति । दशानामेकादशं गृह्णाति दशैकादशिकः, दशैकादशिकी । कुसीदिकः, कुसीदिकी ।
धमाधर्मं चरति ||३९||
आभ्यां चरतीत्येतस्मिन्नर्थे ठग् भवति । धार्मिकः, आधर्मिकः ।
प्रतिपथमेति ठंश्च ॥ ४० ॥
प्रतिपथाद् द्वितीयान्तादेतीत्येतस्मिन्नर्थे ठग् भवति, ठंश्च । प्रतिपथिकः, प्रातिपथिकः ।
समाजर्थात् समैवति ॥ ४१॥
समाजार्थाद् द्वितीयान्तात् समवैतीत्येतस्मिन्नर्थे ठग् भवति । सामाजिकः, सामवायिकः, सामूहिकः ।
परिषदो ण्यः ॥ ४२ ॥
परिषच्छब्दात् समवैतीत्येतस्मिन्नर्थे ण्यो भवति । पारिषद्यः | सेनायां वा ॥ ४३ ॥
सेनायां समवैतीत्येतस्मिन्नर्थे ण्यो वा भवति । सैन्यः सैनिकः | कथं सैन्यमिति ? चातुर्वर्ण्यादित्वात् ।
लालाटिककौक्कुटिकौ ||४४ ॥
एतौ शब्दौ निपात्येते । ललाटं पश्यति लालाटिकः सेवकः । ललाटदर्शनेन दूरावस्थानं लक्ष्यते। तेनानुपश्लेषः कार्येषु चानुपस्थानम् । यः सेवकः स्वामिन कार्येषु न प्रयुज्यते स लालाटिकः । ललाटमेव वा कोपप्रसादचिह्नसलक्षणाय पश्यतीति लालाटिकः | कुक्कुटीम् पश्यति कौक्कुटिकः । कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन देशस्याल्पता । योऽपि भिक्षुरविक्षिप्तदृष्टिः पादविक्षपदेशे चक्षुः संयम्य गच्छति स कोक्कुटिकः । योऽपि वातथाविधमात्मानं तथाविधं सन्दर्शयति [स] कौक्कुटिकः, कुक्कुटीति दाम्भिकाना चेष्टोच्यते । तामाचरति कोक्कुटिकः । सोऽयमतिमहानर्थभारो निपातनाल्लभ्यते ।
परदारादीन् गच्छति ॥ ४५ ॥
परदारादिभ्यो द्वितीयान्तेभ्यो गच्छतीत्येस्मिन्नर्थे ठग् भवति । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः ।
सुस्नातादीन् पृच्छति ॥४६॥
सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छतीत्येतस्मिन्नर्थे ठग् भवति । सुस्नातं पृच्छति सोस्नातिकः । सौखरात्रिकः, सौखशायिकः, सौखशय्यिकः |
प्रभूतादीनाह ॥४७॥
प्रभूतादिभ्यो द्वितीयान्तेभ्य आहेत्यस्मिन्नर्थे ठग् भवति । प्रभूतम् आह प्राभूतिकः । प्राप्तिकः ।
माशब्द इत्यादिभ्यः || ४८ ||
माशब्द इत्येवमादिभ्य आहेत्यस्मिन्नर्थे ठग् भवति । माशब्द इत्याह माशब्दिकः । नित्यः शब्द इत्याह नैत्यशब्दिकः | कार्यः शब्द इत्याह कार्यशब्दिकः | वाक्यादिदं ठको विधानम् ।
तस्य धर्म्यम् ॥४९॥
षष्ठान्ताद्धर्म्यमित्यस्मिन्नर्थे ठग् भवति । शुल्कशालायां धर्म्यम् शौल्कशालिकम् | आपणिकम् ।
ऋमहिष्यादिभ्योऽण् ॥५०॥
ऋवर्णान्तान्महिष्यादिभ्यश्च तस्य होतुर्धर्म्यम् हौत्रम्, औद्गात्रम्, नारम् । प्रजापति । विलेपिका | प्रलेपिका ।
मणिपाली । अनुवाक । यजमान ।
वैशस्त्रवैभाजित्रे ॥ ५१ ॥
विशसितुर्विभाजयितुश्च धर्म्येऽर्थेऽणि इटो णिचश्च लोपो निपात्यते । वैशस्त्रम् वैभाजित्रम् ।
अवक्रयः ॥५२॥
अवक्रीयतेऽनेनेत्यवक्रयः । क्लृप्तकः पिण्डः उच्यत । तत्र षष्ठ्यन्ताट् ठग् भवति । शुल्कशालाया अवक्रयः शौल्कशालिकः । गौल्मिकः ।
तदस्य पण्यम् ||५३॥
प्रथमान्तात् पण्यवाचिनोऽस्येत्यस्मिन्नर्थे ठग् भवति । अपूपा पण्यमस्य आपूपिकः |
लवणाट् ठञ् ||५४ ||
लवणात्तदस्य पण्यमित्यस्मिन्नर्थे ठञ् भवति । लवणं पण्यमस्य लावणिकः । स्वरे विशेषः ।
किसरादिभ्यः ष्ठन् ॥ ५५ ॥
किसरादिभ्यस्तदस्य पूण्यमित्यत्रार्थे ष्ठन् भवति । किसरा पण्यमस्य किसरिकः किसरिकी । नलदिकः, नलदिकी ॥ किसर । नलद । स्थगल । तगर । गुग्गुलु । उशीर । हरिद्री | हरिनु । पर्णी ।
शिल्पम् ॥ ५७ ॥
प्रथमान्तादस्येत्यस्मिन् विषये ठग् भवति यत्तत् प्रथमान्तं शिल्पं चेत्तद्भवति । मृदङ्गः शिल्पमस्य मार्दङ्गिकः पाणविकः | मृदङ्गवादने मृदङ्गशब्दस्तद्विषयत्वात् ।
मड्डुकझर्झराण् वा ॥५८॥
आभ्यां तदस्य शिल्पमित्यस्मिन् विषयेऽण् वा भवति । माड्डकः माड्डुकिकः । कार्भरः झार्झरिकः ।
प्रहरणम् ||५९||
प्रथमान्तादस्येत्यस्मिन्नर्थे ठग् भवति यत्तत् प्रथमान्तं प्रहरणं चेद्भवति । तोमरः प्रहरणमस्य तौमरिकः । धानुष्कः । पारश्वधिकः ।
शक्तियष्ट्योष्टीकक् ॥६०॥
शक्तियष्टिभ्यां तदस्य प्रहरणमित्यस्मिन् विषये टीकग् भवति । शाक्तीकः,याष्टीकः । शाक्तीकी, याष्टीकी ।
अस्तिनास्तिदिष्टमिति मतिः ॥ ६१ ॥
अस्त्यादिभ्य इति मतिरस्येत्यस्मिन् विषये ठग् भवति । अस्तीति मतिरस्य आस्तिकः | नास्तिकः | देष्टिकः । दिष्टं दैवम् ।
छत्रादिभ्यो णः॥६३॥
छत्त्रादिभ्यस्तदस्य शीलमित्यस्मिन् विषये णो भवति । छत्त्रं शीलमस्य छात्रः | छत्त्रमिव गुरो सुखहेतुरित्यर्थः । छत्त्र | शिक्षा । बुभुक्षा | भिक्षा | पुरोद । स्था । स्थाशब्दोऽन्तः प्रादिपूर्वो गृह्यते । अन्तःस्था संस्था अवस्था उपस्था । चुरा । उदस्थान | कृषि | कर्मन् । विश्वधा । तपस् । सत्य । अनृत । विशिखा ।
कर्माध्ययने वृत्तम् ॥ ६४॥
प्रथमान्तादस्येत्यस्मिन्नर्थे ठग् भवति, यत्तत् प्रथमान्तं कर्म चेदध्ययनविषये वृत्तं भवति । एकमन्यत् कर्म स्खलितरूपम् अध्ययने वृत्तम् अस्य ऐकान्यिकः द्वैयन्यिकः । अध्ययन इति किम् ? एकमन्यत् कर्म स्खलितं गमने वृत्तमस्य ।
बह्वच्पूर्वपदाट् ठच् ॥६५॥
बह्वच्पूर्वपदात् तदस्य कर्माध्ययने वृत्तमित्यस्मिन् विषये ठञ् भवति । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः ।
हिता भक्षाः ॥ ६६॥
प्रथमान्तेभ्यो भक्षेभ्योऽस्येत्यस्मिन् विषये ठग् भवति हिताश्चेरो भवन्ति । अपूपा हिता अस्य आपूपिकः शाष्कुलिकः । ओदनात् तदस्य दीयते नियुक्तमित्यस्मिन् विषये ठड् भवति । औदनिक औदनिकी । कथम् श्राणिकः श्राणिकी मासौदनिकः मासोदनिकी मासिकः मासिकीति ? पूर्वेण मिद्धम् । स्वरं तु वक्ष्याम |
भक्तादण् वा ॥ ६९॥
भक्तात् तदस्य दीयते नियुक्तमित्येतस्मिन् विषयेऽण् भवति वा । भाक्तः, भाक्तिकः ।
तत्र नियुक्तम् ॥७०॥
सप्तम्यन्तान्नियुक्तमित्यस्मिन् विषये ठग् भवति । शौल्कशालिकः, दौवारिकः ।
अगारान्ताट् ठन् ॥ ७१ ॥
तत्र नियुक्तमित्यस्मिन् विषयेऽगारान्ताट् ठन् भवति । देवागरिकः।
अदेशकालादधीते ॥७२॥
प्रतिषिद्धदेशकालवाचिनः सप्तम्यन्तादधीत इत्येतस्मिन्नर्थे ठग् भवति । श्मशानेऽधीते इमाशानिकः । चातुर्दशिकः | अदेशकालादिति किम् ? स्रुध्नेऽधीते पूर्वाधीते ।
कठिनान्तप्रस्तारसंस्थानाइ व्यवहरति ||७३ ||
निकटादेस्तत्र वसतीत्यस्मिन्नर्थे ठग् भवति । नैकटिको भिक्षुः । श्माशानिकः [आभ्यवकाशिकः ] वार्क्षमूलिकः, आवसथिकः ।
सतीर्थ्यः ॥७५॥
समानतीर्थे वसतीति सतीर्थ्य इति निपात्यते ।
प्राग्घिताद्यत् ॥ ७६॥
प्राग्घिताद्येऽर्थास्तेष्वर्थेषु यद् वेदितव्यः ।
तद् वहति युगप्रासङ्गात् ॥७७॥
युगप्रासङ्गाभ्यां तदिति द्वितीयान्ताभ्यां वहतीत्यस्मिन्नर्थे यद् भवति । युगं वहति युग्यः, प्रासङ्ग्यः ।
धुरो ढक् च ॥७८॥
धुरं वहतीत्यस्मिन् विषये ढग् भवति यच्च । धौरेयः धुर्यः ।
सर्वोत्तरदक्षिणादेः खः ॥७९॥
सर्वादिपूर्वाया धुरस्तद्वहतीत्यस्मिन् विषये खो भवति । सर्वधुरां
वहति सर्वधुरीणः, उत्तरधरीणः, दक्षिणधुरीणः |
नाम्नि जन्याः ॥ ८१ ॥
संज्ञायां जनीशब्दाद्वधूवाचिनस्तद्वहतीत्यस्मिन् विषये यन्निपात्यते बहुवचनञ्च । जनीं वहन्ति जन्या नवोढाया ज्ञातिभृत्याः |
विध्यत्यकरणेन ॥८२॥
द्वितीयान्ताद्विध्यतीत्यस्मिन्नर्थे यद् भवति न चेत् करणेन व्यधनं भवति । पादौ विध्यन्ति शर्कराः पद्याः । उरस्याः कण्टकाः । अकरणनेति किम् ? चौरं विध्यति धनुषा । रिपून् विध्यति शक्त्या ।
धनगणं लब्धा ॥८३॥
धनगणाभ्यां लब्धरि यद्भवति । धनं लब्धा धन्यः, गण्यः । अन्नाण्णः ॥ ८४ ॥
अन्नाद् द्वितीयान्ताल्लब्धरि णो भवति । आन्नः ।
वशं गत ॥ ८५ ॥
वशं गतेऽर्थे यद्भवति । वश्यः ।
पदमस्मिन् दृश्यम् ||८६॥
पदात् प्रथमान्ताद् दृश्यमस्मिन्नित्यस्मिन्नर्थे यद्भवति । पद्यः कर्दमः ।
मूलमस्यादृढम् ||८७||
मूलशब्दात् प्रथमान्तादस्येत्यस्मिन्नर्थे यद् भवति, न तच्चेन् मूलं दृढं भवति । मूल्या भाषा | मूल्या मदगा । श्लथमूला न सुष्ठु निष्पन्ना इत्यर्थः ।
धेनुष्यागार्हपत्यौ नाम्नि ॥८
एती शब्दौ सज्ञायां निपात्येते । षुक् च निपात्यते ।
मूलेनानाम् ॥ ८९ ॥
मूलात्तृतीयान्तादनमनीयेऽर्थे यद् भवति । मूलेनानाम्यं मूल्यम्
अनाम्य इत्यत एव वचनाण्ण्यत् । नाम्नीत्येव । मूलेनानाम्यं काष्ठम् ।
वयसा च तुल्ये ॥ ९०॥
वयसो मूलाच्च तृतीयान्तात् समेऽर्थे यद्भवति । वयसा तुल्यः वयस्यः । मूलेन तुल्यो मूल्यः पटः । नाम्नीत्येव । वयसा तुल्यो रिपुः ।
नौतुलाविषैस्तार्यसम्मितवध्येषु ॥९१॥
नावादिभ्यस्तृतीयान्तेभ्यस्तार्यादिष्वर्थेषु यद्भवति । नावा तार्यं नाव्यमुदकम् । तुलया सम्मितं तुल्यम् । असम्मितमपि नाम्नीत्यधिकारात् [ ८८], दृष्टितुलया वा परिच्छेदात् । विषेण वध्यो विष्यः |
सीतया समिते ॥ ९२ ॥
सीताशब्दात् तृतीयान्तात् समितेऽर्थे यद्भवति । सीतया समितं सीत्यम् । द्विसीत्यम्, त्रिसीत्यम् ।
धर्मेण प्राप्ये ॥ ९३ ॥
धर्मात् तृतीयान्तात् प्राप्येऽद्भवति । धर्म्यः | छन्दसस्तृतीयान्तान्निमितेऽर्थे यद्भवति । छन्दस्यः ।
उरसाण् च ॥९६॥
उरसस्तृतीयान्तान्निर्मितेऽर्थे अण् भवति यच्च । औरसः पुत्रः
उरस्यः ।
हृदयस्य प्रिये ॥ ९७ ॥
हृदयात् षष्ठान्तात् प्रियेऽर्थे यद्भवति । हृद्यः । वशीकरणमन्त्रेऽपि प्रियत्वकरणे वैदिकेऽन्यत्र च प्रियत्वमस्त्येवेत्यनेनैव सिद्धम् ।
मतजनयोः करणजल्पयोः ||१८||
मतजनाभ्यां करणजल्पयोरर्थयोर्यद् भवति । मतस्य करणं भावसाधन वा मत्यम् । जनस्य जल्पो जन्यः |
हलस्य कर्षे ॥ ९९ ॥
हलात् षष्ठ्यन्तात् कर्षे भावे साधने वा यद् भवति । हल्यः। द्विहल्यः । विशेषणत्वात् तदन्तस्य विधिः ।
तत्र साधुः ॥१००॥
सप्तम्यन्तात् साधुरित्यस्मिन्नर्थे यद् भवति । कर्मणि साधुः कर्मण्यः,शरण्यः, सभ्यः । साधुः कुशलो योग्यो हितो वा । भक्तात् तत्र साधुरित्यिस्मन् विषये णो भवति । भाक्तः ।
परिषदो ण्यश्च ॥ १०३॥
परिषदस्तत्र साधुरित्यस्मिन् विषये ण्यो भवति णश्च । पारिषद्यः पारिषदः |
कथादिभ्यष्ठक् ॥ १०४ ॥
कथादिभ्यस्तत्र साधुरित्यस्मिन् विषये ठग् भवति । काथिकः चकथिकः | कथा | विकथा । विश्वकथा । वितण्डा । जनवाद । वृति । संग्रह | गुण | गण | आयुर्वेद | गुड । कुल्माष । इक्षु । सक्तु । अपूप । मासोदन । वेणु । सग्राम । सधात | प्रवास | निवास |
उपवास ।
पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ १०५ ॥
पथ्यादिभ्यस्तत्र साधुरित्यस्मिन् विषये ढञ् भवति । पाथेयः आतिथेयः, वासतेयः, स्वापतेयः ।
समानोदरे शयितः ॥ १०६ ॥
समानोदरात् सप्तम्यन्ताच्छयिते यद् भवति । समानोदर्यः । सोदर्यः ।
इति चान्द्रे व्याकरणे तृतीयोऽध्यायः समाप्तः |