शेषे ।। १ ।।
उक्तादन्यस्मिन्नर्थे यथाविहितमणादयो भवन्ति । चक्षुषा गृह्यते रूपं चाक्षुपम् । श्रावणः शब्दः । रासनो रस । स्पार्शनः स्पर्शः । दृषदि पिष्टाः सक्तवः दार्षदाः । चतुर्दश्यां दृश्यते रक्ष चातुर्दशम् । उदूखलेषु क्षुण्णा यवाः औदूखलाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् ।
राष्ट्राद घः ॥ २ ॥
राष्ट्राच्छेषे घो भवति । राष्ट्रियः ।
पारावारावारपारात् खः ॥ ३ ॥
पारादवारात् पारावारादवारपाराच्च शेषे खो भवति । पारीणः, अवारीणः, पारावारीणः, अवारपारीणः |
ग्रामाद् यखञौ ॥ ४ ॥
ग्रामाच्छेषे यखनौ भवतः । ग्राम्यः ग्रामीणः |
तादिभ्यो ढक् || ५ ||
कत्त्रादिभ्यो ग्रामाच्च शेषे ढका भवति । कात्त्रेयकः, औम्भेयकः, ग्रामेयकः || कत्त्रि । उम्भि । पुष्कर । पुष्कल । मोदन । कुण्डिना । नगरी । माहिष्मती | वर्मती । कुडप्राया यलोपश्च । कौडेयक । कौलेयक इति कुलादपत्ये ढकञ् । कौक्षेयको ग्रैवेयक इति भवेढा, स्वार्थे कन् । शुनि खड्गे भूषणे च रूढिरेषाम् ।
नद्यादिभ्यो ढक् ||६||
नद्यादिभ्य शेपे ढग् भवति । नादेयम्, माहेयम् ॥ नदी । मही । वाराणसी | श्रावस्ती | कौशाम्बी । वनकौशाम्बी। काशफरी । पूर्वनगरी । केचित् पुर् वन गिरीति पठन्ति तेषां पौरेयम् वानेयम् गैरेयम् । पावा । वामा । शाल्वा । सेतकी । वडवाया वृषे ।
दक्षिणापश्चात्पुरसस्त्यक् ॥७॥
दक्षिणादिभ्यः शेषे त्यग् भवति । दाक्षिणात्यः पाश्चात्त्यः पौरस्त्यः ।
बह्ल्युर्दिपर्दिकापिशीभ्यष्फक् ॥८॥
एतेभ्य शेपे ष्फग भवति । बाह्लायनः, और्दायनः, पार्दायनः, कापि शायनी द्राक्षा ।
रङ्कोः प्राणिनि वा ॥२॥
रङ्को प्राणिन्यभिधेये ष्फः वा भवति । राङ्कवायनो गौः,
राङ्कवः । प्राणिनीति किम् ? राङ्कवः कम्बलः | मनुष्ये तु [४८] कच्छादिपाठाद् वुञ्। । राङ्कवो मनुष्यः ।
द्यु–प्रागपागुदक्– प्रतीचो यत् ॥ १०॥
एभ्यः शेषे यद्भवति । दिव्यः प्राच्यः अपाच्यः उदीच्यः प्रतीच्यः । कालवाचिनोऽसंख्यात् परत्वाट् दुर्भवति । प्राक्तनम् ।
कन्यायाष्ठक् ॥ ११ ॥
कन्यायाः शेषे ठग् भवति । कान्थिकः ।
वर्णौ वुक् ॥ १२ ॥
वर्णुर्नाम नदस्तस्यादूरभवो जनपदोऽपि वर्णुः, तत्र या कन्था ततः शेषे बुग्भवति । कान्थकः ।
क्व–अमा– इह– त्र–तसः त्यप्।। १३ ।।
क्व अमा इह इत्यतेभ्यस्त्रतसन्ताच्च शेषे त्यब् भवति । क्वत्यः अमात्यः इहत्यः तत्रत्यः ततस्त्यः । नित्यमिति निपातनात् [२२३८] सिद्धम् ।
निसो गते ॥ १४ ॥
निसो गते त्यब् भवति 1 निर्गतो वर्णाश्रमेभ्यो निष्ट्याश्चण्डालादिः ।
ऐषमस्–ह्यस्–श्वसो वा ।। १५ ।।
एभ्यः शेषे त्यब् वा भवति । ऐषमस्त्यः ऐषमस्तनः । ह्यस्त्यः
ह्यस्तनः । स्वस्त्यः श्वस्तनः ।
दूरेत्यौत्तराहौ ॥ १६ ॥
शेषे दूरादेत्य उत्तरादाहञ् निपात्यते । दूरेत्यः औत्तराहः ।
णोऽरण्यात् ।। १७ ।।
अरण्याच्छेषे णो भवति । आरण्याः सुमनसः ।
रूप्यान्ताञ् ञः ॥ १८ ॥
रूप्यान्ताच्छेषे जो भवति । कार्करूप्यः | शैवरूप्यः । काश्यतीरमित्यणा सिद्धम् ।
दिगादेरनान्यमद्रात् ॥ १९ ॥
दिक्पूर्वादमद्रादसंज्ञायां शेषे ञो भवति । पौर्वशालः दाक्षिण- शालः । अनाम्नीति किम् ? पूर्वैषुकामशमः | प्राचां ग्रामाणाम [६।१।२५] इत्युत्तरपदस्यादैच् । अमद्रादिति किम् ? पोर्वमद्रः पौर्वमद्री ।
वाहीकादिभ्योऽण् ॥ २० ॥
वाहीकादिभ्यः शेषेणेव भवति । वाहीकः, वाहीकी । छापवादः। पाटच्चरः, गौमतः । वुञ्ञोऽपवादः । गोष्ठी, नैकती । वाहीकग्रामौ । ताभ्यां ठञ्ञिकयोरपवादः | उदीच्यग्रामाद् बह्वचोऽन्तोदात्तात् प्रस्थोत्तरपदात् ककारापान्तादन्यतश्च पलद्यादिभ्यो वाहीकादिवर्जितेभ्यः पूर्वकं एवाण् ।
शकलादिभ्यो गोत्रात् ॥ २१ ॥
शकलादिभ्यो गोत्रे यो विहितस्तदन्ताच्छेषेऽण् भवति । छापवादः । शाकल्यस्यच्छात्रा शार्कलाः । काण्वाः गौकक्षाः । गोत्रादिति किम् ? कण्वादागतः काण्वः । तस्यच्छात्रा काण्वीयाः ।
इञः ।। २२ ।।
इञ्जन्ताद् गोत्राच्छेषेऽण् भवति । दाक्षेश्छात्रा दाक्षाः । गोत्रा- दित्येव । सौतङ्गमेन निर्वृत्तः सौतङ्गमिः, तत्र भवः सौतङ्गमीयः ।
न द्वयचः प्राचात् || २३ ||
द्वयच इञन्तात् प्राच्याद् गोत्राच्छेषेऽण् न भवति । चैङ्कीयाः पौष्पीयाः । द्व्यच इति किम् ? पान्नागाराः । प्राच्यादिति किम् ? दाक्षाः |
आदैजाद्यच्छ ॥ २४ ॥
आदैच आदयो येषामचां त आदैजाद्यचः, ततः शेषे छो भवति । शैलीयः, ऐतिकायनीयः, औपगवीयः | आदिग्रहणं किम् ? सभासन्नयने भवः साभासन्नयनः | अजूग्रहणं किम् ? हलादेरपि यथा स्यात् ।
एङाद्यचः प्राग्देशात् ॥ २५ ॥
एङ आदयो येषामचां त एङाद्यचः, ततः प्राग्देशाच्छेषे छो भवति । एणीपचनीयः, गोनर्दीयः । प्रागिति किम् ?
देवदत्तो नाम वाहीकग्रामस्तत्र भवो दैवदत्तः । देशादिति किम् ? गोमयाः क्रिमयः ।
नृनाम्नो वा ॥ २६ ॥
मनुष्यनाम्न एङाद्यच शेषे छो भवति वा देवदत्तीया दैवदत्ताः |
गोत्रान्तात्तद्वदजिल्ह्वाकात्यहरितकात्यात् ॥ २७॥
गोत्रं यत्तदन्ताज्जिह्वाकात्यहरितकात्यवर्जिताद् गोत्रादिव छो भवति न भवति वा । कम्बलचारायणीयाः । पिङ्गलकाण्वस्यच्छात्रा पैङ्गलकाण्वाः पैङ्गलदाक्षाः | अजिह्वाकात्यहरितकात्यादिति किम् ? जैह्वकाताः, हरितकाताः ।
त्यदादिभ्यः ॥ २८ ॥
त्यदादिभ्यः शेषे छो भवति । त्यदीयः तदीयः यदीयः |
भवतो दश्च ।। २९ ।।
भवतस्तदादित्वादेव छः सिद्ध । अन्तादेशस्तु दकारो विधीयते । भवदीय । शत्रन्तस्य तु भवत इदं भावतम् ।
ठञ् ॥ ३० ॥
भवतः शेषे ठञ् भवति । भावत्कम् ।
ओदेर्शात् ।। ३१ ।।
उवर्णान्ताद्देशवाचिनः शेषे ठञ् भवति । शाबरजम्बुकः, नैषादकर्षुकः | देशादिति किम् । पटोश्छात्राः पाटवाः ।
प्राच्याच्छे ।। ३२ ।।
उवर्णान्तात् प्राच्यदेशाच्छविषय एव ठञ् भवति । नापितवास्तुकः । छ इति किम् ? माल्लवास्तवः ।
काश्यादिभ्यो विकश्च ॥ ३३ ॥
काश्यादिभ्यः शेषे ञिको भवति ठञ् च । काशिका काशिकी । काचिका काचिकी । वैदिका वैदिकी | देशादित्येव । काशीयारछात्रा । प्राच्यादित्येव । दैवदत्तः। छ इत्यनुवर्तमानमपि पठितेष्वकिञ्चित्करम् ॥ काशि | काचि । बेदि । सायाति । सवाह | अच्युत । मोदमान । शकुलाद । हस्तिकर्षू । कुलनामन् । हिरण्य । करण । गोवासन । गोपवन । भारङ्गि । सारङ्गि । अरिन्दम । सघमित्र । साधुमित्र । सर्वमित्र । देवदत्त । दासमित्र । दासग्राम। शौवावतान | युवराज । उपराज | सिन्धुमित्र । देवराज । आपदादिपूर्वात् कालान्तात् । आपत्कालिका आपत्कालिकी । और्ध्वकालिका और्ध्वकालिकी । तात्कालिका तात्कालिकी ।
वाहीकग्रामात् ॥ ३४ ॥
वाहीकग्रामवाचिनश्छविषयो ञिको भवति, ठञ् च । शाकलिका । शाकलिकी । मान्यविका । मान्यविकी । छ इत्येव । मडनगरे भव माडनगरः । देवदत्तात्तु पूर्वसूत्रे प्राच्यानुवृत्तिसामर्थ्यादनेनापि न भवति ।
वोशीनरेषु ॥ ३५ ॥
उशीनरेषु यो ग्रामस्ततशछविषये जिको वा भवति, ठञ् च । आङ्कजालिका आङ्कजालिकी आङ्कजालीया ।
प्रस्थवहपुरान्तयोपान्तधन्वार्थाद् वुञ् ॥ ३६ ॥
प्रस्थाद्यन्ताद् यकारोपान्ताद् धन्वार्थवाचिनश्च छविषये वुञ् भवति । मालाप्रस्थकः, पैलुवहकः नान्दीपुरकः । रोपान्ताद् [ ३|२|३७ ] इति सिद्धेऽप्राच्यार्थे पुरान्तग्रहणम् । योपान्तात् ।
साङ्काश्यकः। काम्पिल्यकः | धन्वार्थात् । पारेधन्वकः । ऐरावतकः । छ इत्येव । शैवपुरः ।
रोपान्तेतः प्राच्यात् ॥ ३७॥
रेफोपान्तादिकारान्ताच्च प्राच्याद्देशाच्छविषये वुञ् भवति । पाटलिपुत्रकः, ऐकचक्रकः | काकन्दकः, माकन्दकः । प्राच्यादिति किम् ? दात्तामित्रीयः । छ इत्येव । दाशपुरः ।
जनपदेभ्यः ||३८||
जनपदवाचिभ्यश्छविषये वुञ् भवति । अभिसारकः । आदर्शकः । व्यक्तिभेदेषु बहुवचनादपवादविषयेऽपि भवति । अभिसारगर्तकः ।
बहुत्वविषयेभ्यः ||३९||
बहुत्वविषयेभ्यो जनपदेभ्य शेषे वुञ् भवति । अङ्गेषु भव आङ्गकः । वाङ्गकः । व्यक्तिभेदेषु बहुवचनादपवादविषयेऽपि भवति । गर्तकः । विषयग्रहणं किम् वर्तनिषु भवो वार्तनः |
कच्छाग्निवक्त्रवर्तान्तात् ॥ ४० ॥
कच्छाद्यन्ताद्देशवाचिनः शेषे वुञ् भवति । भारुकच्छकः। कालग्नकः | सैन्धुवक्त्रकः । चाक्रवर्तकः |
धूमादिभ्यः ॥४१॥
धूमादिभ्यो देशवाचिभ्यः शेषे वुञ् भवति । धौमक । षाडाण्डक || धूम । षडाण्ड । शशादन। अर्जुनाव’ । दाण्डायनस्थली । माहकस्थली । राजगृह | राजस्थली | सत्रासाह । यवासाह । भक्षाली । मित्रकुल । अञ्जीकुल । मद्रकुल | ग्राहाव’ । ग्राहाव’ । सस्तीय” । सस्फीय । बर्बर । गर्त | विदेह | आनर्त । पाथेय । विदेहानर्तपाथेयानां पूर्वेण सिद्धत्वाददेशार्थं वचनम् । माठर । घोष । शष्प । वल्ली । आराज्ञी | धार्तराज्ञी | अवयात्तीर्थे । कुलात ” सौवीरेषु । समुद्रान्नाविमनुष्ये च । कुक्षि | द्वीप । अन्तरीप । अरुण । उज्जयनी । दक्षिणापथ | साकेत |
नगरात् कुत्साप्रावीण्ययो ॥ ४२ ॥ ॥
नगराच्छेषे कुत्सने प्रावीण्ये च गम्यमाने बुञ् भवति । चौरा हि नागरकाः भवन्ति । प्रवीणा हि नागरका भवन्ति । कुत्साप्रावीण्ययोरिति किम् ? नागरा ब्राह्मणाः ।
अरण्यात् पथिन्यायाध्यायहस्तिनरविहारेषु ॥४३॥
अरण्यात् पथ्यादिषु वुञ् भवति । आरण्यकः पन्थाः न्यायोऽध्यायो हस्ती मनुष्यो विहारश्च । एतेष्विति किम् ? आरण्याः पशवः |
वा गोमये ॥ ४४ ॥
अरण्याद् गोमये वा बुञ् भवति । आरण्यको गोमयः, आरण्यः ।
कुरुयुगन्धरात् ||४५ ||
कुरुयुगन्धराभ्यां वृञ् भवति वा । कुरुषु भवः कौरवकः कौरवः |
वृजिमद्रात् कन् ॥४६॥
एताभ्यां शेषे कन् भवति । वृजिषु भवो वृजिकः । मद्रकः ।
कोपान्तादण् ॥४७॥
ककारोपान्ताद् देशाच्छेषेऽण् भवति । ऋषिकेषु भव आर्षिकः । इक्ष्वाकुषु भव ऐक्ष्वाकः ।
कच्छादिभ्यः ॥ ४८ ॥
कच्छादिभ्यो देशेभ्यः शेषेऽण् भवति । काच्छः । सैन्धवः || कच्छ । सिन्धु । वर्णु | गन्धार । मधुमत् । कम्बोज । कश्मीर । शाल्व । कुरु । अनुषण्ड | द्वीप । अनूप । अजपाद । विरूपक । कुल्ल । रङ्क। आङ्गार | चन्द्रमतेन । आन्तरीप
नृतत्स्थयोवुञ् || ४९||
कच्छादिभ्यां मनुष्ये मनुष्यस्थे च वुञ् भवति । काच्छको मनुष्यः । काच्छकमस्य हसितम् । सैन्धवको मनुष्यः। सैन्धवकमस्य हसितम् ।
न पदातौ ॥ ५१ ॥
शाल्वात् पदातौ वुञ् न भवति । शाल्वः पदातिर्व्रजति ।
गर्तान्ताच्छ ॥५२॥
गर्तान्ताच्छेषे छो भवति । वृकगर्तीयः श्वाविद्गर्तीयः | देशाधि – काराद् बहुच्पूर्वान्न भवति । बाहुगर्तः । न च सम्भवन्त्या गतौ यथा कथञ्चिद् देशे वतमानस्य ग्रहणं युक्तम् ।
कटादे प्रायात् ।। ५३ ।।
कटादेः प्राग्देशाच्छेषे छो भवति । कटनगरीयम्, कटघोषीयम् । प्राच्यादिति किम् ? काटनगरम् ।
कखोपान्तकन्थापलदनगरग्रामह्रदान्ताच्छे ॥ ५४ ॥
ककारखकारोपान्तात् कन्थाद्यन्ताच्च छविषये छ एव भवति । बाधकबाधनार्थम् आरम्भः । आरोहणकीयम्, आश्वस्थिकीयम् । एणीकीयम्, सौसुकीयः । कौटिशिखीयम् | कोपान्तादणि प्राप्ते । खोपान्तात् । आयोमुखीयम्। कौटिशिखीयम् । रोपान्तेत प्राच्यात् [ ३।२।३७ ] इति वुञि प्राप्ते | दाक्षिकन्थीयम् | दाक्षिपलदीयम् | दाक्षिनगरीयम् । माहिकिग्रामीयम् | महिकिह्लादीयम्। वाहीकग्रामात् [ ३।२।३४ ] इति ठञिकया प्राप्तयोरपवादः | छ इति किम् ? आर्षिकं माडनगरम् ।
पर्वतात् ॥ ५५ ॥
पर्वताच्छेषे छो भवति । पर्वतीयः ।
अनरे वा ।। ५६ ।।
अमनुष्ये पर्वताच्छो वा भवति । पर्वतीयानि फलानि । पार्वतानि । अनर इति किम् ? पर्वतीयो मनुष्यः ।
कृकणपर्णाद्भारद्वाजात् ॥ ५७ ॥
कृकणपर्णाभ्यां भारद्वाजदेशाभ्यां शेषे छो भवति । कृकणीयम् पर्णीयम् । भारद्वाजाद् इति किम् ? कार्कणम्, पार्णम् ।
गहादिभ्यः ॥ ५८ ॥
गहादिभ्यो यथासम्भवं देशवाचिभ्योऽन्यवाचिभ्यश्च शेषे छो भवति । गहीयः, अन्तःस्थीयः || गह । अन्तस्थ । सम । विषम । उत्तम | अङ्ग । मगध । पूर्वपक्ष | अपरपक्ष । अधमशाख । समानग्राम | एकग्राम । एकवृक्ष । एकपलाश । इष्वग्र । इष्वनीक । दन्ताय । अवस्यन्दन । कामप्रस्थ । खाडायनि । काठेरणि । शौङ्गि । आसुरि । आहिसि। आमित्रि । व्याडि । भौजि । आध्यवि । आग्निशर्मि । श्रौति । वाराटकि । वाल्मीकि । क्षैमवृत्वि । उत्तर । अनन्तर । मुखपाकात्तसो लोपश्च । मुखतीय । पार्श्वतीय । एकतीय | स्वपरजनदेवराज्ञा कुक्च । स्वकीय | परकीय | जनकीय | देवकी । राजकीय |
पृथिवीमध्यस्य मध्यमश्च ।। ५९ ।।
पृथिवीमध्यस्य शेषे छो भवति मध्यमशब्दश्चादेशः । मध्यमीयम् ।
निवासस्य चरणेऽण् च ॥६०॥
निवासस्य पृथिवीमध्यस्य चरणेऽभिधेयेऽण् भवति मध्यमश्चादेशः । पृथिवीमध्यो निवास एषां त्रयाणां चरणानां माध्यमा । निवासस्येति किम् ? पृथिवीमध्यादागतो मध्यमीयो कठः । चरण इति किम् ? मध्यमीयः शूद्रः |
वेणुकादिभ्यश्छण् ॥ ६१ ।।
वेणुकादिभ्य शेषे छण् भवति । वैणुकीयम् । वैत्रकीयम् | औत्तरपदकीयम् | माध्यमकीयम् |
युष्मदस्मदोः खञ् युष्माकास्माकौ च ॥ ६२ ॥
युष्मदस्मदो शेषे खञ् भवति, युष्माकास्माकौ चादेशौ भवतः । यौष्माकीणम्, आस्माकीनम् |
अण् ।। ६३ ।।
युष्मदस्मदो शेषे अण्, भवति युष्माकास्माकौ चादेशौ भवतः । यौष्माकम्, आस्माकम् ।
तवकममकवेकत्वे ॥ ६४ ॥
युष्मदस्मदोरेकत्वे वर्तमानयोस्तयोरेव खञणोस्तवकममकावादेशौ भवतः । तावकीनम्, मामकीनम्, तावकम्, मामकम् । छस्तु तदादिपाठाद् भवत्येव । युष्मदीयम्, अस्मदीयम्, त्वदीयम्, मदीयम् |
द्वीपादनुसमुद्रान् ञ्यः ॥ ६५ ॥
समुद्रसमीपे यो द्वीपस्ततः शेषे ञ्यो भवति । द्वैप्यम् | अनु- समुद्रादिति किम् ? द्वैपम्, द्वैपकम् । [४८] कच्छादिपाठाद्वुञ्
अर्धाद् यत् ॥ ६६ ॥
अर्धाच्छेषे यद् भवति | अर्ध्यम् ।
परावराधमोत्तमादेः ।। ६७ ।।
पराद्यादेरधच्छेषे यद्भषति । परार्ध्यम् अवरार्ध्यम् अधमार्घ्यम् त्तमार्ध्यम् ।
दिगादेष्ठञ् च ॥ ६८ ॥
दिक्छब्दादेरर्धाच्छेषे ठञ् भवति यच्च । पूर्वार्ध्यम् पौर्वार्धिकम् । दक्षिणार्ध्यम्, दाक्षिणार्धिकम् । परावरादेस्तु यदेव भवति पूर्वविप्रतिषेधादनुवृत्तेर्वा ।
ग्रामजनपदांशादण् च ॥ ६९ ॥
ग्रामैकदेशादर्धाज्जनपदैकदेशाच्च दिक्छब्दादेः शेष ठञ् भवति अण् च । ग्रामस्य जनपदस्य वा पौर्वार्धः पौर्वार्धिकः, दाक्षिणार्धः दाक्षिणार्धिकः | दिगादेरित्येव । बालेयार्धिकः।
सपूर्वात् ॥ ७० ॥
विद्यमानपूर्वादर्धशब्दाच्छेषे ठञ् भवति । बालेयार्धिकः गौतमार्धिकः।
कालेभ्यः ॥ ७१ ॥
कालवाचिभ्यः शेषे ठञ् भवति ।मासिकम् सांवत्सरिकम् । बहुवचननिर्देशाद् यथाकथञ्चिदपि काले वर्तमानाद्भवति । • कादम्बपुष्पिकम् ब्रैहिपलालिकम् ।
शरदः श्राद्धे ॥ ७२ ॥
शरदः श्राद्ध एव ठञ् भवति । शारदिकं श्राद्धम्, शारदमन्यत् । रूढे पितृकार्यस्य ग्रहणं न श्रद्धावत् ।
रोगातपयोर्वा ॥ ७३ ॥
रोगे आतपे चार्थे शरदो वा ठञ् भवति । शारदिकः शारदो रोग आतपो वा ।
निशाप्रदोषात ॥ ७४ ॥
एताभ्यां शेषे वा ठञ् भवति । नैशिकम् नैशम् । प्रादोषिकम्
प्रादोषम् ।
श्वसस्तुट् च ॥ ७५ ॥
श्वसः शेषे ठञ् भवति वा तुडागमश्च । शौवस्तिकम्, श्वस्त्यम्,
श्वस्तनम् ।
प्राह्णेप्रगेसायंचिरमसंख्यात् ट्युः॥७६॥
प्राह्ण-आदिभ्योऽसंख्याच्च शेषे ट्युर्भवति तुट् च । प्राह्णेतनम् प्रगेतनम् । निपातनादेकारः | सायन्तनम्, चिरन्तनम् । निपातनान्मकार | असंख्येभ्यः । दोषातनम् दिवातनम् । कालेभ्य इत्येव । स्वर्भवमं, सौवम् ।
पूर्वाह्नापराह्णाद् वा ॥७७॥
एताभ्यां शेषे ट्युर्वा भवति तुट् च । पूर्वाह्णेतनम्, पौर्वाह्निकम् । अपराह्णेतनम् आपराह्निकम् । सप्तम्या बहुलम् [५।२१११] इत्यलुक् । यदा तु पूर्वाह्णः सोढोऽस्येति तदा पूर्वाहृतनः |
सन्ध्याद्यृतुनक्षत्रादण् ॥७९॥
सन्ध्यादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च शेषे अण् भवति । सान्ध्यम्, सान्धिवेलम्, ग्रैष्मम्, शैशिरम् । पौषम्, तैषम्, ॥ सन्ध्या । सन्धिवेला | अमावस्यार्थात् । त्रयोदशी । चतुर्दशी । पञ्चदशी । पौर्णमासी । प्रतिपद् । सवत्सरात् फलपर्वणोः ।
हेमन्ताद् वा तलोपश्च ||८०||
हेमन्ताच्छेषे अण् वा भवति, तत्र तलोपश्च वा । हैमनम् हैमन्तम्, हैमन्तिकम् ।
वर्षाप्रावृड्भ्यां ठगेण्यौ ॥८१॥
वर्षाभ्यः शेषे ठग् भवति प्रावृष एण्यः । वार्षिकम् प्रावृषेण्यम् ।
मध्यादिभ्यां मः ॥ ८२ ॥
मध्यादिभ्यां शेषे मो भवति । मध्यमः, आदिमः । मध्यशब्द
एव साम्प्रतिकेऽर्थे वर्तते । मध्या स्त्रीः नातिदीर्घा नातिह्रस्वा युक्तप्रमाणेत्यर्थः । कथमधमः ? परावराधमोत्तमादेः [ ३।२।६७ ] इति ज्ञापकात् । अवम इत्यौणादिकः ।
अग्रान्तपश्चादिमच् ॥८३॥
अग्रादिभ्य शेष इमज् भवति । अग्रिमः, अन्तिमः, पश्चिमः ।
तृतीयस्य द्वितीयः पादः समाप्तः |