प्राग्जितादण् ॥१॥
प्राग् जितसशब्दनाद् [ ३०४१ २] येऽर्थास्तेष्वर्थेष्वण् भवति ।
औपगवः । वेत्यनुवृत्तेः । उपग्वपत्यम् ।
दित्यदित्यादित्ययमाणयः ॥२॥
दित्यादिभ्यः प्राग् जिताण् ण्यो भवति । दैत्यः, आदित्यः, आदित्यः, याम्यः । कथं दैतेयः ? ण्यन्ताड् ढग् भविष्यति ।
पत्युरश्वाद्यादेः ||३||
अश्वादिभ्यो योऽन्यः शब्दस्तदादेः पतिशब्दात् प्राग् जिताण्, ण्यो भवति । बार्हस्पत्यः । अनश्वाद्यादेरिति किम् ? आश्वपतम्, शातपतम्, आधिपतम् । अश्व । शत। धन। गण । राष्ट्र । कुल । गृह । पशु | धान्य । धन्वन् । सभा । प्राण । अधि । सेना । क्षेत्र
अः स्थाम्नः ||४||
स्थाम्न्शब्दान्तात् प्राग् जिताद् अः परो भवति । अश्वत्थामः |
लोम्नोऽपत्येषु ||५||
लोमान्ताद् बहुष्वपत्येष्व परो भवति । उडुलोम्नः पुत्रा, उडुलोमा | बहुवचनं किम ? औडुलोमिः । बाह्वादित्वादिञ् ।
पृथिव्या ञः|| ६ ||
प्राग् जितात् पृथिव्याः ञो भवति । पार्थिवः [७] उत्सादिपाठाद् । पार्थिवी, पार्थिवा ।
उत्सादिभ्योऽञ् ॥७॥
प्राग् जितादुत्सादिभ्योऽञ् भवति । औत्स, ओदपान । उत्स । उदपान । विकर । विनद । महानद । महानस | महाप्राण | तरुण । तलुन । बष्कयादसमासे । धेनु । पृथिवी । पडक्ति । जगती । त्रिष्टुभ् । अनुष्टुभ् । जनपद । भरत । उशीनर । ग्रीष्म । पीलुकुण । उदस्थानाद् देशे । बृहती पृषदशे । भल्लकीय । रथन्तर । मध्यन्दिन । बृहत् । महत् । महित् । सत्वत् । कुरु । पञ्चाल । इन्द्रावसान | उष्णिह । ककुभ् । सुवर्ण ।
देवात् ॥८॥
देवशब्दात् प्राग् जितादञ् परो भवति । दैवः ।
यञ् ॥९॥
देवात् प्राग् जितादञ् भवति । दैवः ।
बहिषष्टीकक् च ॥ १०॥
प्राग् जिताद् बहिषष्टीकग् भवति, यञ् च । बाहीकः, बाह्यः ।
संख्यादेः संख्येयादनपत्येऽजादेर्लुगद्विः ॥ ११ ॥
सख्यादेः सख्येयान्ताच्छब्दादनपत्ये विहितस्याजादेः प्राग्जितीयस्य लुग् भवति, न तु द्विः । पञ्चसु कपालेषु संस्कृतः, पञ्चकपालः । सख्यादेरिति किम् ? पौर्वशालः । संख्येयादिति किम् ? त्र्यवयवा विद्या त्रिविद्या, तामधीते त्रैविद्यः । षण्णां कुलं षट्कुलम्, तत्र भवः षाट्कुलः । पञ्चनदं नगरम्, तत्र भवः पाञ्चनदः । पञ्चकपाल्या तु संस्कृतः पञ्चकपालः एक संख्येयार्थत्वात् । अनपत्य इति किम् ? द्वैमातुरः | अजादेरिति किम् ? पञ्चगर्गरूप्यः । अद्विरिति किम् ? पञ्चकपालस्य पुरोडाशस्य खण्डं पाञ्चकपालः । प्राग् जितादित्येव । द्विनाविकः |
प्राग्वतेरग्निकलिभ्यां ढक् ॥१२॥
प्राग्वतिसशब्दनाद् [४।१।१३५] येऽर्थास्तेष्वर्थेष्वग्निकलिभ्यां ढग् भवति । अग्नेरपत्यम्, आग्नेयः । कालेयः । अग्निना दृष्टं साम, आग्नेयम् । कालेयम् । अग्निर्देवतास्य आग्नेयः । कालेयः । अग्नेः स्वम्, आग्नेयम् । कालेयम् । अग्नेर्निमित्त सयोग उत्पातो वा, आग्नेयः । कालेयः । प्राग्वतेरिति किम् ? अग्निवत्, कलिवत् । अग्नित्वम्, कलित्वम् । वेत्येव । अग्निस्वम् | कलिस्वम् ।
स्त्रीपुंसाभ्यां नञ्स्नञौ ॥ १३॥
स्त्रीपुंसाभ्यां प्राग् वतेर्नञ् स्नञौ भवतः । स्त्रैणम्, पौस्नम् । प्राग् वतेरित्येव । स्त्रीवत्, पुंवत् ।
भावे वा || १४ ||
स्त्रीपुंसाभ्यां भावे नञ् स्नञौ भवतः । स्त्रैणम्, स्त्रीत्वम् । पौंस्नम्, पुंस्त्वम् ।
गोरचि यत् ॥ १५ ॥
गोशब्दादजादिप्रसङ्गे यद् भवति । गवि भवम्, गव्यम् । गोः स्वम्, गव्यम्, गोर्देवतास्य, गव्यम् । अचीति किम् ? गोरागतो, गोरूप्यः ।
तस्यापत्यम् ||१६||
षष्ठान्तादपत्ये यथाविहितमणादयो भवन्ति । औपगवः, दैत्यः, बार्हस्पत्यः |
आद्यात् ॥ १७॥
अपत्येऽणादयो भवन्ति, ते परमप्रकृतेरेव भवन्ति । सर्वपूर्वजाना हि तदपत्यम्, उपचाराद्वा तच्छब्देनाभिधानम् । उपगोरपत्यमौपगव, तस्यापत्यमौपगव । देवदत्तस्यापत्यं दैवदत्तिः, तस्यापत्यं दैवदत्तिः । गर्गस्यापत्यं गार्ग्यः, तस्यापत्यं गार्ग्यः ।
पौत्रादेरस्त्रियां गुर्वायत्ते || १८ ||
पौत्रादेरपत्याद् गुर्वायत्ते स्त्रीवर्जितेऽपत्येऽणादयो भवन्ति ।
गार्ग्यायणः | अस्त्रियामिति किम् ?
गार्गी । गुरुग्रहणं किम् ? अन्यापत्यो गार्ग्यः | यो गुरौ सत्यपि स्वतन्त्रो व्यवहरति, स कुत्सायां गार्ग्य इत्युच्यते । आयत्तग्रहणं किम् ? यद्यपि गार्ग्यायणो जाल्म इत्युच्यते, तथापि जाल्मशब्दात् कुत्सा गम्यते, न गार्ग्यायणशब्दात् । अनेन तु विषयः प्रदर्श्यते — गुर्वायत्तत्वेऽपि युक्ते न युक्तकारीति । यस्तु गुरावसत्यपि न स्वैरी भवति, स मृतस्यापि गुरोस्तदादिष्टाचरणादायत्त एवेति प्रशंसार्थं गार्ग्यायण इत्युच्यते । असगोत्रो गुर्वायत्तोऽपि च प्रशंसास्पदत्वाद् गार्ग्ययण एवेष्यते । मृतस्तु न कस्यचिदायत्त इति गार्ग्य इत्युच्यते । अथ पूर्वं गुर्वायत्तो भूत इति गार्ग्यायण इत्युच्यते, तथापि न दोषः । सर्वत्र च गार्ग्यशब्दो विशेषस्याविवक्षायामस्त्येव ।
अत इञ् ॥१९॥
षष्ठान्ताददन्तादपत्य इन् भवति । दक्षस्यापत्यम्, दाक्षिः ।
तपरः किम् ? कैलालपः ।
बाह्वादिभ्यो गोत्रादिभ्यः ||२०||
बाहुप्रभृतिभ्यो गोत्रस्यादिभूतेभ्य इञ् भवति। औपबाहविः । गोत्रादिभ्य इति किम् ? यो ह्यद्यत्वे बाहुर्नाम, तस्य बाहवो भवति ॥ बाहु । उपबाहु | निबाहु । उपबिन्दु । वृकला | कृकला। चूडा । बलाका । मूषिका । भगला । लगहा । ध्रुवका । ध्रुवका । सुमित्रा । दुमित्रा । पुष्करसद् | अनुरहत् । अनडुह, । अग्निशर्मन् । देवशर्मन् । कुनामन् । सुनामन् । पञ्चन् । सप्तन् । अष्टन् । सुधावत्” । उदञ्च । शिरस् । माषशराविन । क्षेमधृत्विन् । शृङ्खलनोदिन् । खरनादिन । नगरमर्दिन् । प्राकारमर्दिन् । लोमन् । अजीगर्त । कृष्ण । युधिष्ठिर । अर्जुन । माम्ब । गद | प्रद्युम्न | भूयोऽम्भोऽमितौजसा सलोपश्च । आकृतिगणोऽयम् । जातिः, ऐन्द्रशर्मिः आजधेनविः |
व्यासादीनामकङ् च ॥२१॥
व्यासादीनामपत्ये इञ् भवति, अकङ् चादेशः । वैयासकिः, सौधातकिः, वारुटकिः ।। व्यास । सुधातृ । वरुट । निषाद | चण्डाल । बिम्ब |
बिदादिभ्योऽञ् ||२२||
बिद इत्येवमादिभ्योऽपत्येऽञ् भवति । बैदः, और्वः। गोत्रादिभ्य इत्येव । बिदो नाम कश्चित् । तस्यापत्यं बैदिः ॥ बिद । उर्व । कश्यप । कुशिक । भरद्वाज | उपमन्यु । किलात । किन्दर्भ | विश्वानर । ऋष्टिषेण । ऋतभाग । हर्यश्व । प्रियक । अपस्तम्ब’ | कुचवार । शरद्वत् । शुनक । धेनु । गोपवन । शिग्रु । बिन्दु । भाजन । अश्वावतान । श्यामाक । शम्बक‘ । श्यापर्ण । हरित | किदास | वह्यस्क । अर्कलुष + | वध्योग । विष्णुवृद्ध । प्रतिबोध । स्थीतर ‘ । रथन्तर । गविष्ठिल | गविष्ठिर । निषाद । मठर । मृदाकु । पुनर्भू । पुत्र । दुहितृ । ननान्दृ । परस्त्री परशु च । ।
ऋषेः पौत्रादौ ||२३||
बिदादिभ्य ऋषेरपत्ये पौत्रादावेवाञ् भवति । बैदः, कौशिकः । ऋषेरिति किम् ? दौहित्रः । पौत्रादाविति किम् ? बैदिः ।
गर्गादिभ्यो यत्र ||२४||
गर्ग इत्येवमादिभ्यः पौत्रादावपत्ये या भवति गार्ग्यः, वात्स्यः । पौत्रादावित्येव । गार्गिः । गोत्रादिभ्य इत्येव । गर्गो नाम कश्चित्, तस्यापत्यं पौत्रादिः गार्गिः ॥ गर्ग । वत्स । वाजादसमासे । सकृति । असकृति | अज । व्याघ्रपाद् । विदभृत् । प्राचीनयोग | पुलस्ति । । एक । रेभ । अग्निवेश । शङ्ख । शठ | धूम । अवट | मनस । धनञ्जय । वृक्ष । विश्वावसु । जरमाण । कुरुकत’ । अनडुह । लोहित । सशित । बभ्रु । बभ्लु । मण्डु | मड क्षु । शङ्ख । लिगु । गुहलु” । विजिगीषु । मन्तु । मनु । ततु । मनायी । स्रुव । कत्थक । ऋक्ष’ । तरुक्ष । तरक्ष | तण्ड । वतण्ड । कपि । कत | शकल । कण्व । गोकक्ष | अगस्त्य । कुण्डिनी । यज्ञवल्क | अभयजात | तिरोहित’ । वृषगण । रहोगण । शण्डिल | मुद्गल । मुसल । पराशर । जतुकर्ण । मन्त्रित । अश्मरथ । शर्कराक्ष | पूतिमाष । स्थूणा । रराका । पिङ्गल । कृष्ण | गोलन्द | उलूक । तितिक्ष’ । भिषज् । भण्डित | दल्भ । चिकित | देवहू । इन्द्रह | एकलू । पिप्पलू । बृहदग्नि । जमदग्नि । अलाभित् । उक्थ | ऋक्थ । कुटीगु । कथ रामो जामदग्न्य व्यास पाराशर्य इति ? पुत्रोऽपि हि पौत्रादिकार्यकरत्वात् तथा व्यपदिश्यते । अनन्तरविवक्षाया तु ऋष्यण् [४४] एव भवति । जामदग्न, पाराशर ।
मोधोर्ब्राह्मणे ||२५||
मधुशब्दाद् ब्राह्मणेऽपत्ये यञ् भवति । माघव्यो ब्राह्मणः | माधवोऽन्यः ।
बभ्रो कौशिके ॥ २६॥
बोर्गर्गादिपाठाद् यो यत्र स कौशिक एव भवति । बाभ्रव्यः । अन्यत्र बाभ्रवः । गर्गादिषु तु पाठः स्त्रियां ष्फार्थः । बाभ्रव्यायणी |
कपेराङ्गिरसे ||२७||
गर्गादिपाठात् कपेर्यो यन् स आङ्गिरस एव भवति । काप्यः । अन्यत्र कापेयः । गर्गादिपाठात् काप्यायनी ।
बोधात् ||२८||
बोधादाङ्गिरसेऽपत्ये यञ् भवति । बोध्यः । बौधिरन्यः ।
वतण्डात ॥२९॥
वतण्डादाङ्गिरसेऽपत्ये यञेव भवति । वातण्ड्यः । अनाङ्गिरसे तु [ २४, ४१] गर्गादिशिवादिपाठाद् वातण्ड्यः, वातण्डः ।
स्त्रियां लुक् ||३०||
वतण्डशब्दादपत्ये स्त्रियामाङ्गिरस्या यञो लुग् भवति । वतण्डी । अनाङ्गिरस्या तु वातण्डी, वातण्डप्रायनी ।
अश्वादिभ्यः फञ् ॥३१॥
अश्व इत्येवमादिभ्यः पौत्रादावपत्ये फञ् भवति । आश्वायन | आश्मायनः ॥ अश्व । अश्मन् । शङ्ख । बिद | पुट । रोहिण । खर्जूर | पिञ्जल | भडिल | भण्डिल | भडित । भण्डित । प्रहृतः । रामोद । क्षात्र’ । ग्रीवा । आकाश‘ । काण ‘ । गोलाङ्क । अर्कस्वन । वन । पाद । चत्र । कुल । तुल । श्रविष्ठा । पवित्रा । पविन्दा । गोमिन । श्याम । धूमः । वाग्मिन् । विश्वानर । कुटावेश” । आत्रेय । जड | वट । ग्रीष्म । अर्ह । वीक्ष । विशम्प । विशाल । गिरि । चपल । दासक | बैल्य | धर्म्य । आनडुह्य | जातात् पुसि । शपादात्रये । अर्जुन। शूद्रक | सुमनस् । दुर्मनस । आत्रेयाद् भारद्वाजे । भरद्वाजादात्रेये । उत्स । अनाय । अतवम् । कितव । शिव । खदिर ।
भर्गात् त्रैगर्ते ||३२||
भर्गात् पौत्रादावपत्ये त्रैगर्ते फञ् भवति । भार्गायणः । त्रैगर्त
इति किम् ? भार्गः।
कुञ्जादिभ्यः फ्यञ् ॥३३॥
कुञ्जादिभ्यः पौत्रादावपत्ये फ्यञ् भवति । कौञ्जायन्यः,
कौञ्जायन्यौ । ब्राध्नायन्य, बाध्नायन्यौ । पौत्रादावित्येव । कौञ्जिः ॥ कुञ्ज । ब्रध्न । शङ्ख । भस्मन् । गण | लोमन् । शठ । शाक । शुण्डा | शुभ्रा । विपाश । स्कन्द | स्कम्भ |
स्त्रीबहुषु फफ् ||३४||
स्त्रियां बहुषु चापत्येषु कुञ्जादिभ्यः फग् भवति । कुञ्जायना स्त्रीः । बहुषु | कोन्जायना । पौत्रादावित्येव । कोञ्जी, कौञ्जयः ।
नडादिभ्यः ||३५||
नड इत्येवमादिभ्य पौत्रादावपत्ये फग् भवति । नाडायनः । चारायणः । पौत्रादावित्येव । नाडिः । गोत्रादिभ्य इत्येव । नडो नाम कश्चित् तस्यापत्यं नाडिः || नड । चर । बक। मुञ्ज । इतिक | इतिश । उपक। लमक । शलङ्क शलङ्क च, पैलादिषु [ १२१] शालङ्कि- शब्दपाठाद् इञपि भवति । सप्तल । वाजव्य । तिक | अग्निशर्मन् । वृषगण । प्राण | नर । नर । सायक | दासमित्र । द्वीप । पिङ्गर । पिङ्गल । किङ्कर । किङ्कल । कातर । काथल । काश्य । काश्यप । नाव्य । अज । अमुष्य । कृष्णरणो ब्राह्मणवासिष्ठे । अमित्र । लिगु चित्र | कुमार । क्रोष्टु क्रोष्ट च । लोह । दुग । स्तम्ब ।अग्र । तृण । शकट । सुमनस । दुर्मनस । [सुमत ]। जालन्धर । युगन्धर | हसकर । दण्डिन । हस्तिन् । चमसिन | सुकृत्य । स्थिरक । अध्वर । खरप | कामुक । ब्राह्मण । अस्वल । चटक ब्रह्मदत्त । उदुम्बर । शोण ।शिशपा । मिमत । पञ्चाल | बदर । अलोह । दण्डप । लोहित ।
हरितादिभ्योऽनः || ३६ ||
हरितादिभ्यो बिदादिपाठादान्तेभ्योऽपत्ये फग् भवति । हारितायनः, कैन्दासायनः |
यत्रिवः ||३७||
पौत्रादावपत्ये यौ यञिञौ तदन्तादपत्ये फग् भवति । गार्ग्यायणः, दाक्षायणः ।
शरद्वच्छुनकदर्भाद्भार्गववातस्याग्रायणेषु ॥३८॥
शरद्वदादिभ्यो भार्गवादिषु पौत्रादावपत्ये फग् भवति । शार- द्वतायनो भवति, भार्गवश्चेत्, शारद्वतोऽन्यः । शौनकायनो भवति,वात्स्यश्चेत्, शौनकोऽन्यः । [२२] बिदादित्वादन् । दार्भायणो भवति आग्रायणश्चेत्, दार्भिरन्यः । पौत्रादावित्येव । शारद्वतः ।
पर्वतजीवन्ताद्वा ॥ ३९॥
पर्वतजीवन्ताभ्यां पौत्रादावपत्ये फग् वा भवति । पार्वतायनः, पार्वतिः । जैवन्तायनः, जैवन्तिः । पौत्रादावित्येव । पार्वतिः
द्रोणात् ||४०||
द्रोणादपत्यमात्रे फग् वा भवति । द्रौणायनः, द्रोणिः । योग-
विभागात् पौत्रादाविति निवृत्तम् ।
शिवादिभ्योऽण् ॥४१॥
शिव इत्येवमादिभ्योऽपत्यमात्रेऽण् भवति । बाधकबाधनार्थं पुनरारम्भः । आर्ष्टिषेणः । ण्यो न भवति । गङ्गाशब्दादिह पाठादण् गाङ्गः [५३] शुभ्रादिपाठाड् ढक् – गाङ्गेयः, [८६]तिकादिपाठात् फिञ् – गाङ्गायनिः । विपाशशब्दादिह पाठादण् – वैपाशः [३३] कुञ्जादिपाठात् -वैपाशायन्यः || शिव । प्रोष्ठ । प्रौष्ठिकः । चण्ड | जम्भ । भूरि । कुठार | अनभिग्लान’ । सन्धि | मुनि | ककुत्स्थ‘ । कोहड ‘ | ककुभ । रोध । पिरल० । वतण्ड । तृण । कर्ण । क्षीरह्रद । जलहद’ | परिषिक । गोपिका । कपिलिका । जटिलिका । बधिरिका । मञ्जरीक । वृष्णिक । खञ्जार । खञ्जाल । रेख | लेख | सुलेख । विश्रवण । रवण । वर्तनाक्षः । पिटक । पिटाक । वृक्षाक । नभाक । ऊर्णनाभ। जरत्कारु । उत्कारु । पुरोहितिका । आर्यश्वेता । सुपिष्ट तक्षन् । ॠष्टिषेण । गङ्गा । विपाश ।पिष्ट । मयूरकर्ण । उत्काय । खदूरक । यस्क । द्रुह्य | ला । अयस्थूण | तृणकर्ण । कलन्दन । विरूपाक्ष | भूमि | इला । सपत्नी । प्रचो नद्याम | त्रिवेणी त्रिवणं च ।
नदीमानुषीनाम्नोऽनादैजाद्यचः ॥ ४२ ॥
नदीनाम्नो मानुषीनाम्नश्च शब्दादपत्येऽण् भवति न चेदस्या- देवोऽचामादिभूता भवन्ति । यामुनः चैन्तितः । नदीमानुषीग्रहणं किम् ? सौपर्णेयः । नामग्रहणं किम् ? शोभनिकाया: , शौभनिकेयः । अनादैजाद्यच इति किम् ? वासवदत्ताया: , वासवदत्तेयः ।
क्रुञ्चाकोकिलाभ्याम् ||४३||
एताभ्यामपत्येऽण् भवति । क्रौञ्चः, कोकिलः ।
ऋषिकुरुवृष्ण्यन्धकात् ॥ ४४ ॥
ऋष्यादिवृत्तिभ्योऽपत्येऽण् भवति । वासिष्ठः, नाकुलः, वासुदेवः, श्वाफल्कः |
मातुरुत् संख्यासंभद्रादेः ॥४५ ॥
मातृशब्दस्य संख्यादिपूर्वस्यापत्येऽण् भवति, उकारश्चान्तादेशः | द्विमातुरः, सामातुरः, भाद्रमातुरः । संख्यासभद्रादेरिति किम्? विमातुरपत्यं वैमात्रेयः ।
कन्यायाः कनीन च ॥४६॥
कन्याया अपत्येऽण् भवति, कनीनादेशश्च । कानीनः, कर्णः । शुङ्गच्छ्गलविकर्णाद् भारद्वाजवात्स्यात्रेयेषु ॥४७॥
शुङ्गादिभ्यो भीरद्वाजादिष्वपत्येष्वण् भवति । शौङ्गो भवति भारद्वाजश्चेत् । शौङ्गिरस्य । नामग्रहणे लिङ्ग विशिष्टस्यापि ग्रहणाच्छङ्गाया अपत्यं शौङ्गः । छागलो भवति वात्स्यश्चेत्, छागलिरन्य । वैकर्णो भवत्यात्रेयश्चेत् वैकर्णिरन्यः ।
पीलामण्डूका ॥४८ ॥
पीलामण्डूकाभ्यामपत्येऽण् वा भवति । पैलः, पैलेयः । माण्डूकः, माण्डूकिः।
ढक् ॥४९॥
मण्डूकादपत्ये ढग् वा भवति । माण्डूकेयः, माण्डूकः, माण्डूकिः
ङ्याप्त्यूङः॥५०॥
ङ्यन्तादाबन्तात् त्यन्तादूडन्ताच्चापत्ये ढग् भवति । सौपर्णेयः, वैनतेयः, पार्वतेयः, कामण्डलेयः । एतेभ्य इति किम् ? दरदोऽपत्यं दारदः ।
द्व्यचः || ५१||
ड्यद्यन्ताद् द्वाचोऽपत्ये ढग् भवति । दात्तेयः ।
इतोऽनिञः ॥ ५२ ॥
इदन्तादनिञोऽपत्ये ढग् भवति । आत्रेयः, वार्ष्णेयः | अनिय इति किम् ? दाक्षायण । द्व्यच इत्येव । मारीचः ।
शुभ्रादिभ्यः ||५३||
शुभ्र इत्येवमादिभ्योऽपत्ये ढग् भवति । शौभ्रेयः, वैष्टपुरेयः ॥ शुभ्र । विष्टपुर । ब्रह्मकृत’ । शरद्वार” । शलाथल । शलाकाभ्रू | लेखाभ्रू | विधवा । [कृकसा ।] रोहिणी । रुक्मिणी । दिश । धर्मिणी । शालूक । अजबस्ति ।शकन्धि। लक्ष्मणश्यामयोर्वासिष्ठे । गोधा । कृकलास । अतिथि | प्रवाहण | भारत । भारम । कमष्टु’ । यमष्टु’ । मृकण्डु । कर्पूर | [ मृदु ।] इतर । अन्यतर । देवतर । आलीढ । सुदन्त । सुदक्ष । सुदामन् । कद्रु । गुद । अकशाय । कुमारिका । किशोरिका । जिह्मा- शिन् । परिधि । वीरदत्त । वायुदत्त । शबल’ । खदूरक । अम्बिका । अशोका । गन्धपिङ्गला । खडोन्मत्ता । कुदन्ता । कुशम्ब । अनुसृष्टिम् । जरतिन् । शुक शुक्र । उग्र । बीज । श्वन् । अश्व | अजिर । अहि । आकृतिगणोऽयम् । गाङ्गेय, वैमात्रेय ।
विकर्णकुषीतकात् काश्यपे || ५४ ॥
विकर्णात् कुषीतकाच्च काश्यपेऽपत्ये ढग् भवति । वैकर्णेयः, कौषितकेयः । काश्यप इति किम् ? वैकर्णिः, कौषीतकिः ।
भ्रौवेयः ॥५५॥
शब्दादपत्ये ढकि वकारो निपात्यते ।
कल्याण्यादीनामिमड् ॥ ५६॥
कल्याण्यादीनामपत्ये ढग् भवति इनडादेशश्च । काल्याणिनेयः, सौभागिनेयः ॥ कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुसृष्टि । जरती । बलीवर्दी । ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री ।
कुलटाया वा ॥५७॥
कुलटाया इनडादेशो वा भवति, ढक् तु पूर्वेणैव सिद्धम् । कौलटिनेयः, कौलटेयः |
चटकादैरेक् ॥५८॥
चटकादपत्य ऐरग् भवति । चाटकैरः । लिङ्गविशिष्टस्यापि ग्रहणाच्चटकाया अपत्यं चाटकैरः ।
लुक् स्त्रियाम् ॥५९॥
चटकादैरक् स्त्रिया लुग् भवति । चटका | ऐरकः श्रवणं मा भूदिति । जातिवचनस्तु चटकाशब्दोऽस्त्येव ।
जाण्डपाण्डादारक् ॥६०॥
एताभ्यामपत्ये आरग् भवति । जाण्डारः, पाण्डारः ।
गोधायाः ॥ ६१ ॥
गोधाया अपत्ये आरग् भवति । गौधारः ।
एरक् ||६२||
गोधाया अपत्ये ऐरग् भवति । गोधेरः ।
क्षुद्राभ्यो वा ॥ ६३॥
क्षुद्राभ्योऽपत्ये एरग् भवति वा । काणेरः, काणेयः । दासेरः दासेयः । क्षुद्रा अङ्गहीना अनियतपुंस्का च ।
भ्रातुर्व्यत् ॥ ६४ ॥
भ्रातुरपत्ये व्यद् भवति । भ्रातृव्यः । सपत्ने तु भ्रातृव्यशब्दस्याद्युदात्तत्वं वक्ष्यति।
छः ॥ ६५ ॥
भ्रातुरपत्ये छो भवति । भ्रात्रीयः |
स्वसुः ॥ ६६॥
स्वसुरपत्ये छो भवति । स्वस्रीयः ।
पितृमात्रादेश्छण् ॥६७॥
पितृशब्दादेर्मातृशब्दादेश्च स्वसुश्छण् भवति । पैतृष्वस्त्रीयः,
मातृष्वस्त्रीयः |
ढकि लोपः ॥६८॥
पितृमात्रादेः स्वसुर्ढकि लोपोऽन्त्यस्य भवति । ढक् पुनरस्मादेव लिङ्गात् । पैतृष्वसेयः, मातृष्वसेयः ।
क्षत्राज्जातौ घ ॥ ६९ ॥
क्षत्रशब्दादपत्ये जातौ गम्यमानायां घो भवति ।
जाताविति किम् ? क्षत्रियः | क्षात्रिः |
राज्ञो यत् ॥ ७० ॥
राज्ञोऽपत्ये जातावभिधेयायां यद् भवति । राजन्यः । जाता-
वित्येव । राजनः |
श्वशुरात् ॥ ७१ ॥
श्वशुरादपत्ये यद् भवति । श्वशुर्यः । गोत्रादिभ्य इत्येव । श्वाशुरिः ।
कुलाड् ढकञ् च ॥७२॥
कुलादपत्ये ढकञ् भवति, यञ् । कौलेयकः, कुल्यः ।
खः पदान्ताच्च ॥७३॥
पदान्तात् केवलाच्च कुलशब्दादपत्ये खो भवति । आढप्रकुलीनः, कुलीनः ।
दुरो ढग् वा ॥ ७४ ॥
दुर परात् कुलादपत्ये ढग् वा भवति । दौष्कुलेयः, दुष्कुलीनः ।
महाकुलादञ्खञौ || ७५ ॥
महाकुलादपत्ये वाञ्खञौ भवतः | माहाकुलः, माहाकुलीन: महाकुलीनः ।
चतुष्पाद्भ्यो ढञ् ॥७६॥
चतुष्पाद्भोऽपत्ये ढञ् भवति । शाबलेयः, बाहुलेयः । गृष्ट्यादिभ्यः ॥७७॥
गृष्टि-इत्येवमादिभ्योऽपत्ये ढञ् भवति । अचतुष्पादर्थं वचनम् । गार्ष्टेयः॥ गृष्टि । हृष्टि । हलि’ । वालि । विश्रि । कुद्रि । अजबस्ति । मित्रयु ।
रेवत्यादिभ्यष्ठक् ॥ ७८ ॥
रेवती इत्येवमादिभ्योऽपत्ये ठग् भवति । रैवतिकः आश्वपालिकः || रेवती । अश्वपाली । द्वारपाली । मणियाली । वृकवञ्चिन् । वृकग्राहः । कर्णग्राहः । दण्डग्राहः । कुक्कुटाक्षः |
पौत्रादेः स्त्रियाः कुत्सिते ण च ।। ७९ ॥
पौत्रादेः स्त्रिया अपत्ये कुतसिते ठग् भवति णश्च । गार्गिको जाल्मः, गार्गो जाल्मः । पौत्रादेरिति किम् ? कारिकेयो जाल्मः । स्त्रिया इति किम् ? औपगविर्जाल्मः । कुत्सित इति किम् ? गार्गेयः ।
सौवीरेषु वा ॥ ८० ॥
सौवीरेषु प्रसिद्धानां गोत्रादिभूतानां यदपत्यं पौत्रादि तस्यापत्ये कुत्सिते ठग् भवति वा । भागवित्तेरपत्य भागवित्तिको जाल्मः, भागवित्तायनो वा । तार्णबिन्दवस्यापत्य तार्णबिन्दविकः, तार्णबिन्दविर्वा । आकशायेयस्यापत्यम् आकशायेयिकः, आकशायेयिर्वा । सौवीरेष्विति किम् ? औपगविर्जाल्मः । कुत्सित इत्येव । भागवित्तायनः ।
फेश्छ च ॥८१॥
सौवीरेषु प्रसिद्धात् पौत्रादेः फिञन्तादपत्ये कुत्सिते हो भवति, ठक् च । यामुन्दायनेरपत्यं यामुन्दायनीयः, यासुन्दायनिकः | सौयामायनेरपत्यं सौयामायनीयः, सौयामायनिकः । वार्ष्यायणेरपत्यं वार्ष्यायणीयः वार्ष्यायणिकः । मौवीरेष्वित्येव । तैकायनिर्जाल्मः । त्रिदार्ष- ण्यादणि [१२३] इति लुक् । कुत्सित इत्येव । यामुन्दायनिः ।
फाण्टाहृतेर्णफिञौ ॥५२॥
फाण्टाहृते सौवीरविषयात् पौत्रादेरपत्ये णफिञौ भवतः । फाण्टाहृतः, फाण्टाहृतानिः । सौवीरेष्वित्येव । फाण्टाहृतायनः ।
मिमतात् ||८३ ||
मिमतादपत्ये णफिञौ भवतः । मैमतः, मैमतायनिः । सौवीरे- ष्वित्येव । मैमतायनः । नडादित्वात् [३५] फक् ।
कुर्वादिभ्यो ण्यः ॥८४॥
कुरु इत्येवमादिभ्योऽपत्ये ण्यो भवति । कौरव्यः, गार्गर्यः । अक्षत्रियार्थं कुरुशब्दपाठः । बहुषु कौरव्याः । [ ८६ ] तिकादिपाठात् फञ् 1 कौरव्याणि । रथकारो जात्यन्तरम् । कारुवचनात्तु [८५] तेनैव ण्यः | केशिनीशब्दस्य ङीबन्तनिदशान्न पुंवद्भावः । कैशिन्यः । तक्षन् शब्दस्यात्र, पाठाण् ण्यः । ताक्षण्यः । पाठसामर्थ्याच्च [ ८५] कारुलक्षण इञ् न भवति । [४१] शिवादिपाठादण् । ताक्ष्णः । वामरथस्य शकलादिवदिति बहुषु लुक् । वामरथा । शकलादिभ्यो गोत्रादिभ्य [ ३।२।२१] इत्यण् । वामरथ्यस्य च्छात्रा वामरथा । सङ्घाङ्क घोषलक्षणेष्वञ्यञिञ [ ३।३।९८ ] इत्यण् । वामरथ्यस्याङ्को वामरथः || कुरु । गर्गर । मङ्ग ष । अजमार। रथकार | चफट्टकर | सम्राज क्षत्रिये । कवि ! मति । वाक् । पितृमत् । ऐन्द्रजालि । धातकि । दामोष्णीषि । कार्ण- कारि । कैशोरि । कापिञ्जलादि । कूट । शलाका । मुर। एडका । शुभ्र । दभ। केशिनी । वेन । शूर्पणाय । श्यावनाय । श्यावपुत्र | वैराजकि । नितान्तवृक्ष । इन्द्रवृक्ष । आम्रवृक्ष । सत्यङ्कार | वडभीकार । पथिकारिन् । मूढ । शाकम्भू । हनु । शङ्क । इन । पिण्डी । तक्षन् । वामरथस्य शकलादिवत् ।
सेनान्तकारुलक्ष्मणादिञ् च ॥ ८५ ॥
सेनान्तात् कारुभ्यो लक्षम्णाच्चापत्य इञ् भवति ण्यश्च। हारिषणिः, हारिषेण्यः । तान्त्रवायिः, तान्त्रवाय्यः । लाक्ष्मणिः, लाक्ष्यण्यः । ऋषिकुरुवृष्ण्यन्धकेभ्योऽपि सेनान्तेभ्य एतौ भवतः । जातसेनिः, जातसेन्यः । भैमसेनिः भैमसेन्यः । वैष्वक्सेनिः, वैष्वक्सेन्यः । औग्रसेनिः औग्रसेन्यः ।
तिकादिभ्य फिञ् ॥८६॥
तिक इत्येवमादिभ्योऽपत्ये फिञ् भवति । तैकायनिः, कैतवायनिः । कौरव्यशब्द औरसशब्दसाहचर्यात् क्षत्रियवचनः, कुर्वादिण्यान्तात् त्विञा भवितव्यम् ॥ तिक। कितव । सज्ञा । बाल । उखा । उरस । शाद | सैन्धव । यमुन्द । रूप्य । तैल’ | नील | अमित्र । कुरु । देव- रथ । तैतिल । औरस । कौरव्य । भौरिकि । भौलिकि । चौपयत । चैटयत । शैकयत । क्षैजयत । चन्द्रमस । शुभ । गङ्गा । वरेण्य | वसु । आरथ्य | वका । खल्यका । लोमका । सुयामन् । उदन्य ।
यज्ञ ।
दगुकोशलकर्मारिच्छागवृषाद् युट् च ॥८७॥
दगुप्रभृतिभ्योऽपत्ये फिञ् भवति, यट् चागमः । दागव्यायनिः, कौशल्यायनिः, कार्मार्यार्याणिः छाग्यायनिः वार्ष्यायणिः ।
द्व्यचोऽणः ॥ ८८॥
अणन्ताद् द्वाचोऽपत्ये फिञ् भवति । हौत्रायणिः यास्कायनिः । द्व्यच इति किम् ? औपगविः । अण इति किम् ? दाक्षायणः ।
त्यदादिभ्यो वा ॥ ८९ ॥
त्यद् इत्येवमादिभ्योऽपत्ये फिञ् वा भवति । त्यादायनिः । यादायनिः। त्यादः यादः ।
अगोत्रादादैजाद्यचः ॥९०॥
आदैच आदयो यस्याचस्तस्मादगोत्रादपत्ये फिञ् वा भवति । शालगुप्तायनिः, शालगुप्तिः । कारुवचनादपि परत्वादनेन फिञ् । नापितायनिः । अगोत्रादिति किम् ? ओपगविः । आदैजाद्यच इति किम् ? दैवदत्तिः ।
वाकिनादीनां कुक् च ॥ ९१ ॥
वाकिन इत्येवमादीनामपत्ये फिञ् वा भवति, कुक, चागमः । वा कनकायनिः, वाकिनिः । गारेटकायनिः, गारेटिः ॥ वाकिनः । गारेटः । कार्केट्यः । काकः। लङ्का । चर्मि । वर्मि ।
पुत्रान्ताद्व वा ॥ ९२॥
पुत्रान्तादगोत्रादादैजाद्यचोऽपत्ये फिञ् वा भवति, फिञि च
कुगागमो वा । गार्गीपुत्रकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः ।
फिन् बहुलम् ॥९३॥
अगोत्रादपत्ये फिन् बहुल भवति । ग्लुचुकायनिः, ग्लौचिकिः। बहुलमिति किम् ? दाक्षिः, दैवदत्तिः, राजदत्तिः। अगोत्रादित्येव। औपगविः ।
मनोर्जातौ यत् षुक् च ॥९४॥
मनुशब्दाज्जातावभिधेयायामपत्ये यद् भवति, षुक् चागमः | मनुष्यः । जाताविति किम् ? मानवः |
अञ् ॥ ९५ ॥
मनुशब्दादपत्ये अञ् भवति, षुक् च । मानुषः ।
जनपदनाम्नः क्षत्रियाद् राज्ञि च ॥ ९६ ॥
जनपदस्य यन्नाम तन्नाम्नः क्षत्रियादपत्ये राजनि चाञ् भवति । पाञ्चालः, ऐक्ष्वाकः | जनपदनाम्न इति किम् ? दाशरथि । क्षत्रियादिति किम् ? पञ्चालस्य ब्राह्मणस्यापत्य पाञ्चालिः ।
गान्धारिशाल्वेयात् ॥ ९७॥
क्षत्रियजनपदेभ्यो राजनि च । आभ्यामपत्ये राजनि चाञ् भवति । गान्धारः शाल्वेयः। प्रत्येकाभिसम्बन्धादर्थस्य न याथासख्यम् ।
आदैजाद्यचो ञ्यङ् ॥९८॥
जनपदनाम्नः क्षत्रियादादैजाद्यचोऽपत्ये राजनि च ञ्यङ् भवति। आम्बष्ठ्यः ।
इत्कोशलाजादात् ।।९९।।
इदन्तात् कोशलादजादाच्चापत्ये राजनि च ञ्यङ्
भवति । आवन्त्यः, कौशल्यः, आजाद्यः । तपर- किम् ? कुमारी नाम जनपदः, तन्नाम्नः क्षत्रियस्यापत्यं राजा वा कौमारः ।
द्व्यञ् मगधकलिङ्गसशूरमसादण ||१००||
एतेभ्योऽपत्ये राज्ञि चाण् भवति । आङ्गः, वाङ्गः । मागधः, कालिङ्गः, सोरमसः |
कुरुनादिभ्यो ण्यः ॥ १०१ ॥
कुरोर्नकारादिभ्यश्च शब्देभ्योऽपत्ये राजनि च ण्यो भवति । कौरव्यः । नैषध्यः |
पाण्डोर्ड्यण् ॥१०२॥
पाण्डोरपत्ये राजनि च ड्यण् भवति । पाण्ड्यः। जानपदनाम्न इत्येव । पाण्डवः ।
शाल्वांङ्गप्रत्यग्रथकलकूटाश्मकाद् इञ् ॥१०३॥
उदुम्बरास्तिलखला मद्रकारा युगन्धरा ।
भुलिङ्गा शरदण्डाश्च शाल्वावयवसज्ञिता ॥
शाल्वावयवनाम्नः क्षत्रियात् प्रत्यग्रथादिभ्यश्चापत्ये राजनि च इञ् भवति । औदुम्बरिः, तैलखलिः । प्रात्यग्रथिः, कालकूटिः आश्मकिः ।
कम्बोजादिभ्यो लुक् ॥१०४॥
कम्बोजादिभ्योऽपत्ये राजनि च विहितस्य लुग् भवति । कम्बोजः । चोलः | केरलः | शकः |
स्त्रियां कुरुकुन्त्यवन्तिभ्यः ॥ १०५ ॥
एभ्यः स्त्रियामपत्ये विहितस्य लुग् भवति । कुरूः, कुन्ती, अवन्ती । स्त्रियामिति किम् ? आवन्त्यः | जनपदनाम्न इत्येव । कौरव्या ।
अतोऽप्राच्यभर्गादिभ्यः ॥१०६॥
अकारस्य स्त्रियामपत्ये विहितस्य लुग् भवति, न चेत् प्राच्येभ्यो भर्गादिभ्यश्च विहितो भवति । शूरसेनी, मद्री । अप्राच्यभर्गादिभ्य इति किम् ? आङ्गी, वाङ्गी, भार्गी, कारूषी । स्त्रियामित्येव । माद्रः । भर्गः । करूषः । केकयः । कश्मीरः | शात्वः। सुस्थालः । उरसः । कौरव्यः ।
यञञोर्वहुष्वस्त्रियाम् ॥१०७॥
योर्बहुष्वपत्येष्वस्त्रियां विहितयोर्लुग् भवति । गर्गाः, बिदाः, पञ्चालाः | बहुष्विति किम् ? गार्ग्यः, बंदः | अस्त्रियामिति किम् ? गार्ग्यः स्त्रियः, वैद्यः । अपत्य इत्येव । बाह्या औत्साः । प्रियगार्ग्या इति नवाय बहुषु यञ् । प्रियगर्ग इति बहुष्वेव यञ् । गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलमिति वा भवति । गार्ग्यस्य हि यत् कुलं गर्गाणामपि तत् कुलमित्यभेदेनोच्यते ।
कुण्डिना ||१०८ ||
कुण्डिनीशब्दाद् बहुत्वे यत्रो लुग् भवति, आकारान्तता च निपात्यते । बहुष्वित्येव । कौण्डिन्यः | अस्त्रियामित्येव । कौण्डिन्यः स्त्रियः ।
ञ्यादीनाम् ॥ १०९ ॥
ञ्यादीनां बहुषु विहिताना लुग् भवति । आम्बष्ठाः, आड्गाः, कुरवः । बहुष्वित्येव । आम्बष्ठ्यः । अस्त्रियामित्येव । आम्बष्ठ्याः स्त्रियः । अपत्य इत्येव । अङ्गस्य इमे, आङ्गाः ।
यस्कादिभ्यः ॥ ११० ॥
यस्क इत्येवमादिभ्यो बहुषु विहितस्य लुग् भवति । यस्काः । बहुष्वित्येव । यास्कः | अस्त्रियामित्येव । यास्क्यः स्त्रियः । अपत्य इत्येव । यास्काश्छात्राः | यस्क | लह्य । द्रुह्य । अयस्थूण । तृणकर्ण । कलन्दन । एतेभ्यः [४१] शिवादिपाठादणो लुक् । सक्षमत्त । कम्बलहार । बहिर्योग । कर्णाटक | पिण्डीज | बकसक्थ । रक्षोमुख । जङ्घारथ । उत्कास | कटुक । मन्थक । विषपुट । उपरिमेखल । क्रोष्टुपाद | शीर्षमाय । पदक | वर्षक। एतेभ्योऽत इञ् [१९]। पुष्करसद्, [२०] बाह्वादित्वादिञ् । विश्रि । कुद्रि । अजबस्ति । एतेभ्यो गृष्टप्रादिपाठाड् ढञ् [७७ ] | मित्रयु अस्मादण् । खरप, अस्मान् नडादित्वात् [३५] फक् । भडिल | भण्डिल | भडित । भण्डित । एतेभ्योऽश्वा- दिपाठात् [३१] फञ् ।
अत्रिभृगुकुत्सवसिष्ठाङ्गिरोगोतमात् ॥ १११ ॥
एतेभ्यो बहुप्वपत्येषूत्पन्नस्य लुग् भवति । अत्रयः, भृगव, कुत्साः, वसिष्ठाः, अङ्गिरसः, गोतमाः । बहुष्वित्येव । आत्रेयः, भार्गवः । अस्त्रियामित्येव । आत्रेय्यः |
अगस्तयः ।। ११२ ।।
अगस्त्यस्य बहुष्वपत्येपु लुक् अगस्तिशब्दादेशश्च निपात्यते । अगस्तयः । बहुष्वित्येव । आगस्त्यः । अस्त्रियामित्येव । आगस्त्यः स्त्रियः |
बह्वचः प्राच्यादिञः ॥ ११३॥
बह्वचः प्राच्याद् गोत्रादिभूताद् विहितस्य इञ् लुग् भवति । पन्नागाराः, मन्थरेषणाः, युधिष्ठिराः, उद्दालकाः । बह्वच इति किम् ? चैङ्कयः । प्राच्यादिति किम् ? हास्तिदासयः । बहुष्वित्येव । पान्नागारिः ।
उपकादिभ्यो वा ॥ ११४॥
उपक इत्येवमादिभ्यो बहुष्वपत्येषु विहितस्य लुग् वा भवति । उपका, औपकायना । लमका लामकायना || उपक | लमक । भ्रष्टक | कपिष्ठल । वडारक । गडुक । सुपिष्ट । पिष्ट । मयूरकर्ण । खरीजड्ड । शलाथल । पतञ्जलि | कठेरणि । कुषीतकि । काशकृत्स्न । कदामत्त | कलशीकण्ठ । दामकण्ठ । कृष्णाजिन । कृष्णसुन्दर । कणक । पर्णक । जटिलक। बधिरक । जन्तुक’ । अनुलोम | अनुपद । पिञ्जलक | प्रतिलोम । प्रतान | अनभिहित ।
तिककितवादिभ्यश्चार्थैकार्थ्ये ॥ ११५ ॥
चार्थे यदैकार्थ्यं तत्र तिककितवादिभ्यो विहितस्य बहुषु लुग् भवति । तैकायनयश्च कैतवायनयश्च तिककितवाः | तिकादिभ्य फिञो लुक् । वाङ्खरयश्च भाण्डीरथयश्च ववरभाण्डीरथाः, अत इञ् । एवम् प्रहृतकनरकाः | बकनखगुदपरिणद्धा । लङ्कटशान्तमुखाः । उब्जकककुभाः । उब्जादत इञ्, ककुभाच्छिवाद्यण् । उरसलङ्कटा, उरसात् तिकादिभ्य फिञ् । अग्निवेशदशेरका अग्निवेशाद् गर्गादियञ् । दशेरकादत इञ् । उपकलमका, नडादिफक् । भ्रष्टककपिष्ठला । कृष्णाजिनकृष्णसुन्दरा अत इञ् । उपकलमकादीनां त्रयाणां पूर्वेण सिद्धे नित्यार्थं पाठः |
न गोपवनादिभ्योऽष्टभ्यः ॥ ११६॥
अष्टभ्यो गोपवनादिभ्यो [२२] बिदादिपाठादञो विहितस्य न लुग् भवति । गोपवनाः, शैग्रवाः, बैन्दवाः । अष्टभ्य इति किम् ? हरिताः ।
प्राग्जितीयेऽचि ॥११७॥
बहुषु यस्य लुगुक्तस्तस्य [३।४।२] प्राजितीयेऽजादौ कर्तव्ये लुग् न भवति । अत्रीणां छात्रा आत्रयीयाः । आगस्तीयाः । प्राग्जितीय इति किम् ? गर्गेभ्यो हितः, गर्गीयः । अचीति किम् ? गर्गेभ्य आगतः, गगरूप्यः । बहुष्वित्येव । कम्बोजस्यापत्यं कम्बोजः, तस्य च्छात्राः काम्बेजा।
गोत्राल्लुक ॥११८॥
गोत्रादपत्ये विहितस्य प्राग् जितीयेऽजादौ कर्तव्ये लुग् भवति । फाण्टाहृतेरपत्यं माणवकः फाण्टाहृतः, तस्य च्छात्ता फाण्टाहृता । णस्य लुकि सति इञ् [३।२।२२] इत्यण् भवति । प्राग्जितीय इत्येव । भागवित्तिकाय हितः, भागवित्तिकीयः | अचीत्येव । फाण्टाहृतरूप्य- ।
फक् फिञोर्वा ॥ ११९ ॥
फक्फिञोर्गोत्रादपत्ये विहितयोः प्राग्जितीयेऽजादौ कर्तव्ये लग् वा भवति । गार्गीयः, गार्ग्यायणीयः । होत्रीयः होत्रायणीयः । द्वाचोऽण [ ८८ ] इति फिञ् । ककारः किम् ? फञो मा भूत् । आत्रेयायणस्य च्छात्रा, आत्रेयीयाः । [३१] अश्वादिपाठात् फञ्, तस्य नित्यं लुक् ।
अब्राह्मणात् ॥ १२०॥
अब्राह्मणादपत्ये विहितस्य लुग् भवति । औदुम्बरिः पिता, औदुम्बरि पुत्रः । शाल्वाशादिञ्, ततः फको लुक् । कार्णखरिः पिता, कार्णखरिः पुत्रः, भाण्डीजङ्घिः पिता, भाण्डीजङ्घिः पुत्रः । अत इञ्,, तत फको लुक् । पूर्वेण सिद्धे पुनर्वचनात् प्राग्जितीयेऽचि [११७] इति निवृत्तम् ।
पैलादिभ्यः ॥ १२१ ॥
पैलादिभ्यो गोत्रेभ्योऽपत्ये विहितस्य लुग् भवति । पैलः पिता, पैलः पुत्रः । शालङ्किः पिता, शालङ्किः पुत्रः । इञन्तानामप्राच्यार्थे पाठः || पैल | शालङ्कि । सात्यकि । सात्यङ्कामि । औदञ्चि । औदमज्जि । औदवजि । औदमेधि | औदशुद्धि | देवस्थानि । पैङ्गलोदायनि । राणि । राहक्षति । भौलिङ्गि । औद्गाहमानि । मौज्जिहानि । जनपदनाम्नः क्षत्रियादण् । आङ्गः पुत्रः ।
प्राच्यादिञोऽतौल्वलिभ्यः ॥ १२२ ॥
प्राच्यगोत्रादिञन्तात् तौल्वल्यादिवर्जितादपत्ये विहितस्य लुग् भवति । पान्नागारिः पिता, पान्नागारिः पुत्रः । मान्थरेषणिः पिता, मान्थरेषणिः पुत्र । प्राच्यादिति किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः । इञ इति किम् ? राघवः पिता, राघविः पुत्रः | अतोल्वलिभ्य इति किम् ? तोल्वलिः पिता, तौल्वलायनः पुत्रः || तौत्वलि | धारणि । रावणि । रातक्षत्रि । देवदत्त । दैवति । दैवमति । दैवयज्ञि । प्रादोहनि । आनुराहति । आसुरि । आहिसि । आसिबन्धकि । चैति । पौष्पि । पौष्करसादि । वैरकि । वैह्नि । वैकर्णि । कारेणुपालि । भरतगोत्राच्च । आर्जुनिः पिता, आर्जुनायनः पुत्रः । भरतगोत्रं वैश्यगोत्रमिति केचित् । तेषामौद्दालकिः पिता, ओद्दालकायनः पुत्रः |
ञिदार्षण्यादणिञोः॥ १२३॥
ञिदन्तादार्षाण् ण्यान्ताच्च गोत्रादपत्ये विहितयोरणिञोर्लुग् भवति । तैकायनिः पिता, तैकायनिः पुत्रः । अणो लुक् । बैदः पिता, बैदः पुत्रः । इञो लुक् | आर्षात् । वैश्वामित्रः पिता, वैश्वामित्रो ण्यान्तात् । कौरव्यः पिता, कौरव्यः पुत्रः । ब्राह्मणस्येदं ग्रहणं। द्विर्वा तिकादिषु तु कौरव्यस्य क्षत्रियस्य पाठात् कौरव्यायणि । एतेभ्य इति किम् ? औपगवः पिता, औपगविः पुत्रः | अणिञोरिति किम् ? दाक्षेरपत्यं दाक्षायणः । गोत्रादित्येव । द्वैप्यस्यापत्यम्, द्वैप्यिः । अपत्यमित्येव । वामरथ्यस्य च्छात्राः, वामरथाः, शकलादित्वादण् [ ३।२।२१] ।
इति चान्द्रे व्याकरणे द्वितीयोऽध्यायः समाप्तः |