स्त्रियाम् ॥ १ ॥
अयमधिकारः |
ऋनो ङीप् ॥ २ ॥
ऋकारान्तान् नकारान्ताच्च स्त्रियां ङीब् भवति । कर्त्री । दण्डिनी । ङकारो ड्यो ह्रस्व [५१२१४२ ] इति चिह्नार्थः । पकारः स्वरार्थः । स्त्रियामित्येव । कर्ता, दण्डी । पञ्च सप्तेति स्त्रीत्वाभावान न भवति । स्वसेति विनापि ङीपा स्त्रीत्वाभिधानान् न भविष्यति । एवं दुहिता, ननान्दा, याता, माता, तिस्रः, चतस्रः ।
उगितः ॥ ३ ॥
उगितः स्त्रियां ङीब् भवति । भवती । वदन्ती ।
अञ्चः || ४ ||
अञ्चतेरेव क्रियार्थादुगितो ङीब् भवति । प्राची, प्रतीची । इह न भवति । पर्णध्वद् ब्राह्मणी ।
अहशो बनो र च ॥ ५ ॥
अशो विहितो यो वन् तदन्तस्य स्त्रियां ङीब् भवति, तत्सन्नियोगेन च रेफान्तादेशो भवति । धीवरी । अहश इति किम् ? सहयुध्वा ब्राह्मणी ।
अन्यार्थे वा ॥ ६ ॥
अन्यपदार्थे वर्तमानाद् वनन्ताद् वा ङीब् भवति, रेफश्चान्तादेशः । बहुधीवरी, बहुधीवा ।
पादः ॥ ७ ॥
पादन्तादन्यपदार्थे वर्तमानाद् वा ङीब् भवति । द्विपदी द्विपात् । त्रिपदी, त्रिपात् । कथं त्रिपदा गायत्री, पञ्चपदा पङ्क्तिरिति ? पादशब्दसमानार्थेन पदशब्देन सिद्धम् । द्विपात्, त्रिपादित्यपि तह्यचि प्राप्नोति ? इष्यत एव चतुष्पाद् ऋगिति दर्शनात् । ऋच्यपि तर्हि ङीप् प्राप्नोति ? व्यवस्थितविभाषया न भविष्यति ।
अनः ॥ ८ ॥
अनन्तादन्यपदार्थे वर्तमानाद्वा स्त्रियां ङीब् भवति । बहुराज्ञी पृथिवी, बहुराजा, बहुराजानौ, बहुराजानः । अधिराज्ञी नाम ग्राम इति ङीबन्तमेव नामधेयमिति न तेन विना प्रयोगः | अन्यार्थ इत्येव । अतिक्रान्ता राजानम्, अतिराज्ञी ।
ऊधसो नश्च ॥ ९ ॥
ऊधसोऽन्यपदार्थे स्त्रियां ङीब् भवति, नश्चान्तादेशः । कुण्डोध्नीः, द्व्यूध्नी, त्र्यूध्नी, अत्यूध्नी, द्विविधोध्नी । अन्यार्थ इत्येव । प्राप्तोधा । स्त्रियामित्येव । महोधो धैनुकम् ।
दानं संख्यादेः ॥ १० ॥
दामन्-शब्दात् सख्यादेरन्यपदार्थे वर्तमानात् स्त्रियां ङीब् भवति । द्विदाम्नी, त्रिदाम्नी । सख्यादेरिति किम् ? उद्दामा वडवा ।
हायनाद् वयसि ॥ ११ ॥
हायनशब्दात् सख्यादेरन्यपदार्थे वर्तमानात् स्त्रियां ङीब् भवति। वयसि गम्यमाने । द्विहायनी, त्रिहायणी, चतुर्हायणी । त्रिचतुर्भ्यां हायनो वयसि [ ६ | ४|१०७] इति णत्वम् । वयसीति किम् ? त्रिहायना शाला । सख्यादेरित्येव । अतीतहायना गौः ।
नोपान्तवतः || १२ ||
उपान्तवतोऽनन्तादन्यपदार्थे वर्तमानात् स्त्रियां ङीब् न भवति । सुपर्वा, सुपर्वाणी । सुशर्मा, सुशर्माणौ । अन्यपदार्थ इत्येव । अतिपर्वणी यष्टिः |
मनः ||१३||
मनन्तात् स्त्रिया ङीब् न भवति । दामा, दामानौ । सीमा, सीमानौ । अनिनस्मन् ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिः प्रयो- जयन्ति, रूपमात्रस्य ग्रहणात् । अन्यार्थ इति निवृत्तम्, योग- विभागात् । अन्यथा हि न मनुपान्तवनामित्येव ब्रूयात् ।
ताभ्यां डाप् ।।१४।।
ताभ्यामनन्त-मनन्ताभ्या स्त्रियां डाब् भवति । बहुराजा, बहुराजे । सुपर्वा, सुपर्वे । दामा, दामे । सीमा, सीमे ।
अजद्यतः ॥ १५ ॥
अजादिभ्योऽदन्ताच्च स्त्रियां डाब् भवति । अजा । देवदत्ता | अत इति सिद्धे अजादिभ्यो विधानं बाधकबाधनार्थम् । अजा । एडका । कोकिला । अश्वा । चटका । मूषिकेति जातिलक्षणे ङीषि प्राप्ते डाब् भवति । बाला । होडा । पाका । वत्सा । मन्दा । विला- तेति वयस्यचरमे [ २/३/२२] इति ङीपि प्राप्ते । पूर्वापहाणा । अपरापहाणा । सप्रहाणेति टिल्लक्षणे ङीपि प्राप्ते । निपातनाच्च गत्वम् । सभस्त्रा जिनशणपिण्डेभ्यः फलात्, फलान्तलक्षणे ङीषि प्राप्ते । सफला । भस्त्रफला | अजिनफला । शणफला । पिण्डफला । एतेभ्य इति किम् ? वासीफली । कथं त्रिफला ? त्रीणि फलान्यस्यामिति त्रिफला | सहतिरित्यजातित्वाद् ङीष् नास्ति, असमाहारत्वाच्च ङीब् नास्ति । सत्प्राक्काण्डप्रान्नशतैकेभ्यः पुष्पात्, पुष्पान्तलक्षणे [ ७२] ङीषि प्राप्ते । सत्पुष्पा । प्राक्नुआ । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । एभ्य इति किम् ? शङ्खपुष्पी । शूद्रा चामहत्पूर्वा जातिः । शूद्रा च डाबन्ता भवति अमहत्पूर्वा, जातिश्चेत् । शूद्रैव भार्या शूद्रा, न तु शूद्रस्य । अमहत्पूर्वेति किम् ? महाशूद्री, आभीरजाति । अस्मादेव ज्ञापकात् तदन्तविधिरत्र प्रकरण भवतीति गम्यते । अतिभवती, अतिधीवरी । जातिरिति किम् ? शूद्रस्य भार्या, शूद्री । पुयोगलक्षणो ङीप् भवत्यव । क्रुञ्चा । उष्णिहा । देवविशेति निपातनादेव लोपाभाव । अकारान्तेभ्यो वा डाब् निपातनात् । तथा चोष्णिगित्यपि सिद्ध भवति । ज्येष्ठा । कनिष्ठा । मध्यमेत्यत इत्येव डाब् भवत्येव, व्यवस्थावाचित्वाच्च वयोलक्षणो ङीब् नास्ति, अनाख्याशब्दत्वाच्च पुयोगलक्षणो ङीष् नास्ति । मूलान् नञ् इत्यपि न वाच्यम्, अमूलाया मूलान्तलक्षणो ङीष् नास्त्यजातित्वात् । डाबिह कस्मान्न भवति — पञ्चाजी, दशाजीति ? नात्राजशब्दः स्त्रियां वर्तते, यश्चात्र स्त्रियां वर्तते नासावजशब्दः | तदन्तविधिना प्राप्नोति । विप्रतिषेधात् सख्यादेः [[ २।३।२३ ] इति ङीब् भविष्यति । तपरकरणं किम् ? कीलालपा, शुभया । अत इत्ययमधिकारः |
स्वार्थे ॥१६॥
अतः परं स्त्रियां यदुच्यते तत् स्वार्थे वर्तमानाद् वेदितव्यम् ।
टिड्–ढाणञ्–ठक्–ठञ्–नञ्–स्नञ– कञ्–करप्–ख्युनः ॥ १७ ॥
टिदाद्यन्तात् स्वार्थे स्त्रियां ङीबं भवति । कुरुचरी । पठिता विद्येति न भवति, तुटा सिद्धे योष्टित्करणात् । पचमानेति न भवति धनुवन्धकत्वात् । ल्युडादीनां तु भवत्येव टित्करणसामर्थ्यात् । ढस्य निरनुबन्धकस्याभावाड् ढक्ढक्योर्ग्रहणम् । योऽपि शिलायां ढश्च [ ४|३|८० ] इति ढो न तस्य स्त्रियां प्रयोगः । सौपर्णेयी, वैनतेयी शाबलेयी । अण् । कुम्भकारी, औपगवी । अ । औत्सी, बैदी । ठक् । आक्षिका । ठञ् । लावणिकी । नञ्ञ, स्तनी । स्त्रैणी, पौंस्नी । कञ् । तादृशी । क्वरप् । इत्वरी । ख्युन् । आढाङ्करणी । स्वार्थ इत्येव । प्रियकुरुचरा नगरी ।
यञोऽषावटात् ||१८||
यञन्तात् स्त्रियां ङीब् भवति, स चेत् षकारान्तादवटशब्दाच्च विहितो न भवति । गार्गी, वात्सी । अषावाटादिति किम् ? शार्कराक्ष्या, पौतिमाष्या, गौकक्ष्या । आवट्या । अत [ १५ ] इति डाब् भवति ।
ष्फो वा ॥ १९॥
अषावादिति न वर्तते । यञन्तात् स्त्रियां ष्फो वा भवति ।
गार्गी, गार्ग्यायणी । वात्सी, वात्स्यायनी । माष्यायगी, गौकक्ष्यायणी | आवटप्रायनी । वावचंन पावटार्थम् ।
लोहितादिभ्यः शकलान्तेभ्यः ॥ २० ॥
लोहितप्रभृतिभ्यः शकलपर्यन्तेभ्यो यञन्तेभ्य ष्फ एव भवति, नित्यं पुनर्विधानात् । लौहित्यायनी, साशित्यायनी । मनायीशब्दान् मानाय्यायनी । यच्यणादौ [५/२/३२] इति पुंवद्भावो न भवति, पाठसामर्थ्यात् । मानव्यायनीति मनुशब्दपाठादेव सिद्धम् । वतण्डशब्दादनाङ्गिरसे । वातण्ड्यायनी । शिवादिपाठाद् वातण्डी । आङ्गिरसे तु यमेव, तस्य च स्त्रियां लुक्, जाते [ २|३|७१] इति ङीष् । वतण्डी । कपिशब्दादाङ्गिरस एव यत्र । काप्यायनी, अनाङ्गिरसे तु कापेयी । कात्यायनी, शाकल्यायनी । शकलान्तेभ्य इति किम् ? काण्वी, काव्यायनी । कुरुकतानडुहौ तु लोहितात् प्राक् पठितव्यौ । न ह्यनयोर्लोहितादिकार्यमिष्यते नापि शकलादिकार्यम् ।
कौरव्यासुरिमाण्डूकात् ॥२१॥
कौरव्यशब्दाण् ण्यान्तादासुरिशब्दादिजन्तान् माण्डूकशब्दादणन्तात् स्त्रियां ष्फो भवति । ङीबुडापोरपवादः । कौरव्यायणी, आसुरायणी, माण्ड क्यायनी । कथं कौरवी सेना ? तस्येदम् [पा० ४ | ३ | १२० ] इति सिद्धम् ।
वयस्यचरमे ||२२||
अपश्चिमे वयसि वर्तमानात् स्त्रिया ङीब् भवति । कुमारी, किशारी, वर्करी, करभी, कलभी, तरुणी, तलुनी, वधूटी, चिरिण्टी | अचरम इति किम् ? स्थविरा, वृद्धा । कथं द्विवर्षा, त्रिवर्षा उत्तानशया, लोहितपादिका, मध्या, मध्यमा ज्येष्ठा, कनिष्ठेति ? अर्थादत्र प्रथमं वयो गम्यते, न शब्दात् । कथं कन्या ? कन्यायाः कनीन च [ २४/४६ ] इति निपातनात् । कथं वृद्धकुमारी ? वृद्धशब्दादत्र पश्चिमं वयो गम्यते, न कुमारशब्दात् । अत इत्येव । शिशुः ।
संख्यादेः ||२३||
संख्यापूर्वाच्छब्दादकारान्तात् स्त्रियां वर्तमानाद् ङीब् भवति । पञ्चानां पूलानां समाहारः, पञ्चपूली । दशपूली । स्वार्थ इत्येव । द्विखारीका ।
परिमाणाल्लुक्यसंख्याकालविस्ताचितकम्बल्यात् ॥ २४॥
परिमाणान्तादेव संख्यादेरकारान्तात् संख्यादिवर्जिताल्लुकि ङीब् भवति । द्विकुडवी । परिमाणादिति किम् ? पञ्चाश्वा । लुकीति किम् ? द्विपण्या । सर्वत्र सम्भवात् सुपो लुग् न गृह्यते । असख्याकालविस्ताचितकम्बल्यादिति किम् ? द्विशता । द्विवर्षा । द्विविस्ता, द्यचिता, द्विकम्बल्या ।
काण्डादक्षेत्र ॥ २५ ॥
काण्डान्तात् संख्यादेरक्षेत्र एव लुकि ङीब् भवति । द्विकाण्डी । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः । परिमाणादित्येव । द्वाभ्यां काण्डाभ्यां क्रीता, द्विकाण्डा ।
पुरुषाद्वा ॥२६॥
संख्यादेः पुरुषान्तात् स्त्रियां वा ङीब् भवति । द्विपुरुषी यष्टिः,
। द्विपुरुषा वा । परिमाणादित्येव । पञ्चभिः पुरुषैः क्रीता, पञ्चपुरुषा ।
केवलमामकभागधेयपापावरसमानार्यकृतसुमङ्गलभेषजान् नाम्नि ॥२७॥
केवलादिभ्यः सज्ञायां ङीब् भवति । केवली, मामकी, भागधेयी, पापी, अवरी, समानी, आर्यकृती, सुमङ्गली, भेषजी । नाम्नीति किम् ? केवला, मामिका |
अन्तर्वत्नी गर्भिण्याम् ॥२८॥
अन्तर्वत्नीति मतुब् निपात्यते नुक् च गर्भिण्याम् । अन्यत्र | अन्तरस्यां शालायामस्ति ।
पतिवत्नी भार्यायाम् ॥२९॥
पतिवत्नीति मतोर्वत्वं नुक् च निपात्यते भार्यायाम् | अन्यत्र पतिमती ।
पत्युर्न ऊढायाम् ||३०||
पतिशब्दस्य भार्यायामूढायां नकारो भवति, ङीब् च । पत्नी । ऊढायामिति किम् ? संगृहीतायां मा भूत् । भार्यायामित्येव, अर्थेऽनोढायां मा भूत् ।
सपूर्वस्य वा ॥ ३१ ॥
सपूर्वस्य पतिशब्दस्य स्त्रियां नकारादेशो ङीप् च वा भवति । आशापत्नी, आशापतिः ।
अन्यार्थे ||३२||
पतिशब्दस्य स्त्रियामन्यपदार्थे वर्तमानस्य नकारादेशो ङीप् च वा भवति । दृढपत्नी, दृढपतिः ।
समानादिभ्यः ||३३||
समानादिभ्यः परस्य पतिशब्दस्य स्त्रियां नकारादेशो भवति, ङीप् च नित्यः, पुनर्विधानात् । सपत्नी, एकपत्नी । सपत्न्या अपत्यं सापत्न इति ङीबभावेऽपि न निवर्तते नकार असंयुक्तविधानात् । समान । एक। वीर । पिण्ड । पुत्र । भ्रातृ ।
श्येतैतहरितरोहितात् तो न ||३४||
श्येतादिभ्य स्त्रियां वा ङीब् भवति, तकारस्य च नकारः | श्येनी, श्यता । एनी एता । हरिणी, हरिता । रोहिणी, रोहिता । कपिरिकादीनाम् [६|३|४६ ] इति लत्वम् । लोहिनी लोहिता ।
क्नोऽसितपलितात् ||३५||
असितपलिताभ्यां स्त्रियां वा ङीब् भवति, तकारस्य च क्नादेश । असिनी, असिता । पलिक्नी, पलिता ।
षितो ङीष् ॥३६॥
षितः स्त्रियां ङीष् भवति । नर्तकी खनकी, पात्री । दंष्ट्रादिषु योगविभागादनित्यत्वम् ।
गौरादिभ्यः ||३७||
गौर इत्येवमादिभ्यः स्त्रियां ङीष् भवति । गौरी, शबली, कल्माषी, सारङ्गी पिशङ्गी, मतसी। गौर । शबल । कल्माष । सारङ्ग। पिशङ्ग । मत्स्य । मनुष्य । शृङ्ग । गवय । हय । मुकय । ऋश्य । पुट । द्रुण 1 द्रोण | अरीहण | अरोष । वठर । ओकण । आमलक । कुषल । बदर । बिम्ब । तर्कार । शर्कार । षष्कण्ड । सुषव । आलिन्द | अलज । पाण्डा । आढक | आसन्द | सुपाट । शष्कुल । सूर्य । सूच । शूर्प । दूष । यूष । धातक । वल्लक । मालत | वेतस । बृस | अतस । भृङ्ग । मह । मठ | श्वन् । अनडुह् । एषण करणे । देहल | काकादन | गवादन । तेजन । लवण | पाण। मेध । गौतम । अयस्थूण | भौरिकि । भौलिकि । भौलिङ्गि । औद्गाहमानि । आलम्बि । आलजि । आलक्कि । आलन्धि | कालम्बि | आरट । दोट । नाट । मूलाट । शातन । पातन । आस्तरण अधिकरणे । आग्रहायण । प्रत्यवरोहण । सेवन । सुमङ्गलात् सज्ञायाम् । मण्डल | मण्डर । पट । पिण्ड । ऊर्द | गूर्द | सूर्द । पाण्डार । आतण्ड । कदर । कदल । कर्दम । कदल्प । बृहत् । महत् । सौधर्म । रोहिणी रेवती नक्षत्रे । विकल । निष्कल । पुष्कल । कट श्रोण्याम् । पिप्पल्यादयश्च पिप्पली हरीतकी कोशातकी शमी करीर । पृथिवी । मातामह । पितामह । क्रोष्टु । आकृतिगण त्वाद्–नद । भष । प्लव । चर । चोर । गाह । सूद | देव । पुत्र ।
भाजगोणनागस्थलकुण्डकालकुशकामुककबरात् पक्कावपनस्थलाकृत्रिमामत्रकृष्णायसीरिरंसुकेशवेशेषु ||३८||
भाजादिभ्यः पक्वादिष्वर्थेषु स्त्रियां ङीष् भवति । भाजी भवति धक्वा चेत्, भाजान्या । गोणी भवति आवपन चेत्, गोणान्या । नागी भवति, स्थूला चेत्, नागान्या । जाती तु नागैव, तस्या स्थौल्या- भावात् । स्थली भवति, अकृत्रिमा चेत्, स्थलान्या । कुण्डी भवति, अमत्र चेत्, कुण्डान्या । काली भवति, कृष्णा चेत्, कालान्या । कुशी भवति, आयसी चत् कुशान्या । कामुकी भवति, रिरसुश्चेत्, कामुकान्या । कबरी भवति केशवेशश्चेत्, कबरान्या ।
नीलात् प्राण्योषधोः ||३९||
नीलात् प्राणिन्योषधौ च स्त्रिया ङीष् भवति । नीली वडवा, नीली ओषधिः | प्राण्योषध्योरिति किम् ? नीला शाटी ।
वा नाम्नि ॥४०॥
नीलात् संज्ञायां ङीष् वा भवति । नीली, नीला ।
शोणादिभ्यः ||४१ ||
शोण इत्येवमादिभ्य स्त्रियां ङीष् वा भवति । शोणी, शोणा । चण्डी, चण्डा । शोण । चण्ड । अराल । कमल । कृपण । विकट । विशाल । विशङ्कट | भरुज | चन्द्रभागा नद्याम् । कल्याण । उदार । पुराण । अहन् ।
एरक्तिनः || ४२ ||
इवर्णान्तात् क्तिन्वर्जितात् स्त्रियां ङीष् वा भवति । धूली, धूलिः । आली, आलिः । आवली, आवलिः । पद्धती, पद्धतिः । अङ्गुली, अङ्गुलिः । अक्तिन इति किम् ? पक्तिः ।
ओर्गुणादखरुसंयोगोपान्तात् ॥४३॥
उकारान्ताद् गुणवचनात् स्त्रियां वा ङीष् भवति, खरुशब्दं सयोगोपान्तं च वर्जयित्वा । पट्वी, पटुः, बह्वी, बहुः । ओरिति किम्? सिता । गुणादिति किम् ? आखुः । अखरुसयोगोपान्तादिति किम्? खरुर्ब्राह्मणी । पाण्डुर्ब्राह्मणी ।
पुंनाम्नोः योगादपालकान्तात् ||४४||
पुंस आख्याभूताच्छब्दात् पुंयोगात् स्त्रियां वर्तमानात् पालकान्तवर्जिताद् ङीष् भवति । प्रष्ठस्य भार्या, प्रष्ठी । नामग्रहणं किम् ? प्रसूता । अपालकान्तादिति किम् ? गोपालिका, पशुपालिका ।
पूतक्रतुवृषाकप्यग्निकुसितकुसीदानामै च ॥ ४५ ॥ पूतक्रत्वादीनां पुंयोगात् स्त्रियां वर्तमानानां ङीष् भवति, एकार- श्चान्तादेशः । पूतकतायी, वृषाकपायी, अग्नायी, कुसितायी, कुसीदायी । युयोगादित्येव । यया हि पूता नव पूतकनु सा भवति ।
मनोरौ वा ||४६ ||
मनुशब्दात् पुयोगात् स्त्रियां वर्तमानाद्वा ङीष् भवति, औकार- श्चान्तादेश, ऐ च । मनायी, मनावी, मनुः ।
सूर्या देवी ॥४७॥
सूर्यस्य भार्या सूर्या, देवी चेत् । सूरी अन्या ।
इन्द्रवरुणभवशर्वरुद्रमृडानामानुक् च ॥४८॥
इन्द्रादीनां पुंयोगात् स्त्रियां वर्तमानानां ङीषु भवति, आनुक् चागमः । इन्द्राणी, वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी ।
आचार्यानी ॥४९॥
आचार्यस्यानुक् अणत्व् च निपात्यते । आचार्यस्य भार्या,
आचार्यानी ।
आर्यक्षत्रियाच्च ॥५१॥
आर्यात् क्षत्रियाच्च ङीष् भवति वा, आनुक् च । चकारो वेत्यनुसम्बन्धार्थः । अपुयोगार्थं वचनम्, पृथक्करणात् । आर्याणी, क्षत्रियाणी । आर्या, क्षत्रिया । पुयोगे तु । आर्थी, क्षत्रियी ।
हिमारण्यान् महत्त्वे ||५२ ||
हिमाद् अरण्याच्च महत्त्वे गम्यमाने स्त्रियां ङीष् भवति, आनुकं
च । महद्धिमम्, हिमानी । महदरण्यम्, अरण्यानी ।
यवाद्दोषे ||५३॥
यवात् स्त्रियां वर्तमानाद् ङीष् भवत्यानुक् च, दोषे गम्यमाने । दुष्टो यवः, यवानी |
यवनाल्लिप्याम् ॥ ५४ ॥
यवनात् स्त्रियां ङीष् भवत्यानुक् च, लिप्यामभिधेयायाम् । यव- नानी लिपिः ।
क्रीतात् करणादेः ॥५५ ॥
क्रीतशब्दात् स्त्रियां ङीष् भवति, करणं चेदस्यादिभवति । वस्त्र – क्रीती । करणग्रहणं किम् ? सुक्रीता । आदिग्रहणं किम् ? अश्वेन क्रीता । न ह्यत्र करणमादि, ऐकपद्याभावात् । कथं धनक्रीता आवन्तेनाय समासः । अत इति वर्तते ।
तादल्पोक्तौ ॥५६॥
क्तान्तात् करणादेरल्पाख्यायां ङीष् भवति । अभ्रविलिप्ती द्यौः । अल्पोक्ताविति किम् ? चन्दनानुलिप्ता योषित् ।
स्वाङ्गादकृतमितजातप्रतिपन्नादन्यार्थे ॥ ५७ ॥
स्वाङ्गादेः क्तान्तादन्यपदार्थे वर्तमानात् स्त्रियां ङीष् भवति, कृतादीन् वर्जयित्वा । शङ्खभिन्नी । स्वाङ्गादिति किम् ? वस्त्रच्छन्ना । अकृतादिभ्य इति किम् ? दन्तकृता, दन्तमिता, दन्तजाता, दन्तप्रतिपन्ना | अन्यार्थ इति किम् ? हस्ताभ्यां पतिता, हस्तपतिता ।
पाणिगृहीत्यूढा ॥५८॥
पाणिगृहीती भवत्यूढा चेत् । पाणिगृहीतान्या । जातेरनाच्छादाद्वा ॥ ५९॥
जानिशब्दादाच्छादवर्जिताद् यः परः क्तान्तस्तस्मादन्यपदार्थे वर्तमानात् स्त्रियां ङीष् भवति वा । पलाण्डुभक्षिती पलाण्डुभक्षिता । जातेरिति किम् ? मासजाता । अनाच्छादादिति किम् ? वस्त्रच्छन्ना । अकृतादिभ्य इत्येव । कुण्डकृता, कुण्डमिता, वृक्षप्रतिपन्ना । पलाण्डुजाता,
संज्ञायाम् ||६०||
सज्ञायां क्तान्ताद् ङीष् वा भवति । प्रवृद्धविलूनी, प्रवृद्धविना ।
स्वाङ्गादप्रधानात् ॥ ६१ ॥
अप्रधानं यत् स्वाङ्गं तदन्तात् स्त्रियां ङीष् वा भवति । दीर्घकेशी, दीर्घकेशा । अद्रवं मूर्तिमत् स्वाङ्गम्, प्राणिस्थम्, अविकारजम् । अतत्स्थं तत्र दृष्टं चेत्, तेन चेत् तत् तथा युतम् ॥ [महाभाष्यम् ] अद्रवमिति किम् ? बहुकफा | मूर्तिमदिति किम् ? बहुज्ञाना । प्राणिस्थमिति किम् ? दीर्घमुखा शाला । अविकारजमिति किम् ? बहुशोथा । अतत्स्थ तत्र दृष्ट चेत् तदपि स्वाङ्गम् । दीर्घकेशी रथ्या, दीर्घकेशा । तेन चेत् तत् तथा युतम् । पृथुस्तनी प्रतिमा, पृथुस्तना ।अप्रधानमात्राश्रयणाद् अतिक्रान्ता केशान मालेत्यतिकेशी, अतिकेशा | स्वाङ्गादिति किम ? बहुयवा । अप्रधानादिति किम् ? शिखा ।
नासिकोदरौष्ठजड्वादन्तकर्णशृङ्गाङ्गगात्रकण्डात् ॥ ६२ ॥
सिद्धे सत्यारम्भो नियमार्थः । नासिकोदराभ्यामेव बह्वज्भ्याम्, ओष्ठादिभ्य एव संयोगोपान्तेभ्य स्त्रियां ङीष् भवति वा । शङ्कवासिकी, शङ्कुनासिका । तलोदरी, तलोदरा । बिम्बोष्ठी, बिम्बोष्ठा । दीर्घजी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्गा । तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा । मृद्वङ्गी, मृदङ्गा । चारुगात्री, चारुगात्रा । रक्तकण्ठी, रक्तकण्ठा । एतेभ्य एवेति किम, ? पृथुजघना, पृथुगुल्फा ।
पुच्छात् ॥ ६३ ॥
अप्रधानात् पुच्छशब्दाद् ङीष् भवति वा । दीर्घपुच्छी, दीर्घपुच्छा ।
कबरमणिविषशरात् ॥ ६४ ॥
एभ्यः परात् पुच्छादप्रधानात् स्त्रियां ङीष् भवति, नित्यं पुनर्विधानात् । कबरपुच्छी, मणिपुच्छी, विपपुच्छी, शरपुच्छी ।
उपमानादेः ।। ६५ ।।
उपमानादेः पुच्छात् स्त्रियां ङीष् भवति । उलूकपुच्छी ।
पक्षात् ॥ ६६ ॥
उपमानादेः पक्षात् स्त्रियां ङीष् भवति । उलूकपक्षी ।
न क्रोडादिभ्यः ॥ ६७ ॥
कोडादिभ्यः स्त्रियां ङीष् न भवति । कल्याणक्रोडा, कल्याणखुरा । क्रोड | खर । गोखा । उखा । वाल । शफ । गुद | आकृतिगणोऽयम् । सुभगा सुगला ।
सहनञ्विद्यमानादेः ||६८||
सहनञ् विद्यमानादेः स्वाङ्गाद् ङीप् न भवति । सकेशा अकेशा, विद्यमानकेशा | सनासिका अनासिका, विद्यमाननासिका ।
नखमुखान् नाम्नि ॥६९॥
नखमुखाभ्यां संज्ञायां ङीष् न भवति । शूर्पणखा, गौरमुखा । नाम्नीति किम् ? तुङ्गनखी ।
सख्यशिश्वी ||७० ||
सखी अशिश्वीति च सज्ञायां साधू भवतः ।
जातेरस्त्रीविषयादयोपान्तात् ॥७१॥
सामान्यवचनाद् योपान्तवर्जितात् स्त्रियामन्यत्र च दृष्टाद् ङीष् भवति । कुक्कुटी, मयूरी, सूकरी । जातेरिति किम् ? मुण्डा । अस्त्री- विषयादिति किम् ? मक्षिका । अयोपान्तादिति किम् ? क्षत्रिया । स्वार्थ इत्येव । प्रियकुक्कुटा मथुरा । अत इत्येव । तित्तिरिः ।
पाककर्णपर्णपुष्पफलमूलवालान्तात् ॥७२॥
जातिवाचिनः पाकाद्यन्तात् स्त्रियां ङीष् भवति। ओदनपाकी, आखुकर्णी, मुद्गपर्णी, शङ्खपुष्पी, दाडिमफली, दर्भमूली, गोवाली।
इतो नृजातेः ||७३ ||
इकारान्तान् मनुष्यजातिवाचिनः स्त्रियां ङीष् भवति । अवन्ती । पुनर्जातिग्रहणाद् योपान्तादपि भवति । औदपेयी । नृग्रहणं किम् ? तित्तिरिः ।
इञः ||७४ ||
इञ्न्तादन्यतोऽपि च ङीष् भवति । सुतङ्गगमेन निर्वृत्ता, मौतङ्गमी ।
ऊङ् उतः ॥७५॥
उदन्तात् स्त्रियामूङ् भवति । ब्रह्मबन्धू । नृजातेरित्येव । धेनुः । अयोपान्तादित्येव । अध्वर्युर्ब्राह्मणी । तपरः किम् ? खलप्वे ।
अप्राणिनामरज्ज्वादिभ्यः । । ७६ ॥
अप्राणिजातिभ्योऽरज्ज्वादिभ्यः स्त्रियाम् ऊड् भवति । अलाबूः। अप्राणिनामिति किम ? कृकवाकुः । अरज्ज्वादिभ्य इति किम् ? रज्जुः । हनुः ।
बान्तकद्रुकमण्डलुभ्यो नाम्नि ॥७७॥
बाह्वन्तात् कद्रुकमण्डलुभ्यां च सज्ञायामूङ् भवति । मद्रबाहू,
कद्रू, कमण्डलू । नाम्नीति किम् ? वृत्तौ बाहू यस्यां सा, वृत्तबाहुः | कद्रुः, कमण्डलुः ।
पङ्गूः श्वश्रूः ॥७८॥
एतौ शब्दौ स्त्रियां निपात्येते ।
ऊरोरुपमानसंहितसहितसहशफवामलक्षणादेः ॥७९॥
ऊरुशब्दादुपमानादिपूर्वात् स्त्रियामूङ् भवति । करभोरू,
सहितोरू, सहितोरू, सहोरू, शफोरू, वामोरू, लक्षणोरू । शार्ङ्गरवाद्यङो ङीन् [पा० ४।१।७३ ] न वक्तव्यः | अजन्ताद्धि डबस्त्येव [१७] । शार्ङ्गरवादिभ्यश्चाणन्तेभ्यो ढगन्तेभ्यो यञ्जन्ताच्च जातिवाचिभ्योऽपि ङीष्, इकारान्ताच्च । शैब्येति यश्चापा [ ८० ] भवितव्यम् | शिबीनां तु जातौ तस्येदमित्यणो ङीप् । भोगवद्गौरिमतोरप्युगिति [ ३ ] ङीप् । ह्रस्वस्तु तरबादिषु व्यवस्थितविभाषया नित्यं भवति । नृनरयोरपि स्त्रियां वृत्तिरेव नास्ति । तस्येदमित्यणो डाप् । नारी ।
यङश्चापः॥८०॥
यङन्तात् स्त्रियां चाब् भवति । कारीषगन्ध्या, आम्बष्ठ्या, वाराह्या । [७१] जातिलक्षणस्य ङीषो डापश्च [१५] बाधनार्थं
वचनम् ।
यूनस्तिः ॥ ८१ ॥
यूनः स्त्रियां तिर्भवति । युवतिः ।
अनृषेगुरूपोत्तमाद् गोत्रे ऽणिञोः ष्यङ् ॥८२॥
अनृषिवाचिनो गुरूपोत्तमाद् यावणिञौ गोत्रे विहितौ तयोः स्त्रियां ष्यडादेशो भवति । कारीषगन्ध्या, वाराह्या । स्वभावत उत्तमशब्दस्त्रिप्रभृतिषु वर्तते । अनृषेरिति किम् ? वासिष्ठी । गुरूपोत्तमादिति किम ? औपगवी । गोत्र इति किम् ? अहिच्छत्री | अणिनोरिति किम् ? आर्तभागी । [ २३२२] बिदादित्वादन् ।
कुलनाम्नः ||८३॥
कुलाख्याभूताच्छब्दात् स्त्रियां गोत्रे विहितयोरणिञौ ष्ययड् भवति । पौणिक्या, मौखर्या।
क्रौड्यादीनाम् ॥ ८४ ॥
कौडा ॥ कौडि । लाडि । आपिशलि । आपिक्षिति । चोपयत ।
सैकयत । भौरिकि । बैल्ववत | सौधातकि । सूत युवत्याम् । भोज क्षत्रिये । भौलिक | शालास्थल | कापिष्ठलि ।
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धीनां वा ॥ ८५ ॥
देवयज्ञप्रादीनामिञ् स्त्रियां ष्यङ् वा भवति । देवयज्ञी, देवयज्ञ्या। शौचिवृक्षी, शौचिवृक्ष्या सात्यमुग्री, सात्यमुग्र्या ।
। काण्ठेविद्धी, काण्ठेविद्ध्या । वेत्यधिकारः ।
इति चान्द्रे व्याकरणे द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः |